अथ षोडशः पटलः ।
अथ प्रक्षीणदोषाणां शिवानुध्यानयोगतः ।
शक्तिपातो भवेत् तेन धीप्रसादस्ततोऽपिच ॥ १६-१ ॥
गुरूपसदनं तस्माच्छिवदीक्षाभिलभ्यते ।
मलं कर्म च माया च पाशबन्धस्य हेतवः ॥ १६-२ ॥
तद्विशेषाच्छिवज्ञानमनुग्राह्यस्य जायते ।
सा दीक्षा दी क्षयेत्यस्माद्धातोः पाशक्षयो यतः ॥ १६-३ ॥
दीक्षेति कथ्यते जन्तोरनुग्राह्यस्य वै पशोः ।
तत्रानुग्राह्यस्त्रिविधो विज्ञानकलः प्रलयाकलः सकलश्चेति ।
मलैकबन्धः प्रथमो द्वितीयो मलकर्मवान् ॥ १६-४ ॥
कर्ममायामलैर्युक्तस्तृतीयः सकलः स्मृतः ।
विज्ञानं विपरीतात्मज्ञानमज्ञानमेव तत् ॥ १६-५ ॥
कलबन्धनधात्वर्थाद् विज्ञानकल उच्यते ।
अज्ञानात् (क)र्मबद्धोऽसौ प्रलयाकल इत्यतः ॥ १६-६ ॥
प्रकर्षात् तु लयं प्राप्तं ज्ञानमस्येति कथ्यते ।
त्रिविधैस्तु तथा बन्धैर्मायाकर्ममलाह्वयैः ॥ १६-७ ॥
वर्तमानः सहेत्यस्मात् सकलो यः स कथ्यते ।
एते शिवस्यानुग्राह्याः श्रेष्ठमध्याधमास्त्रयः ॥ १६-८ ॥
(अनुग्रहो)ऽपि द्विविधः शिवस्य करुणानिधेः ।
साधारश्च निराधारोऽनुग्राह्यानुगुणः पृथक् ॥ १६-९ ॥
अत्र निराधारसाधारानुग्रहानुगुणा दीक्षा । दीक्षा च निरधिकरणा साधिकरणा चेति द्विप्रकारा । यथाह भोजराजः – आचार्यनिरपेक्षेण भगवता स्वशक्त्यानुग्रहरूपया तीव्रतीव्रतरशक्तिपातेन विज्ञानकलप्रलयाकलानां या क्रियते सा दीक्षा निरधिकरणा । यत्राचार्यमूर्तिस्थेन भगवता मन्दमन्दतरतीव्रशक्तिपातेन क्रियमाणा सकलानां (सा) साधिकरणा (इति) । सा च सबीजा निर्बीजा चेत्यधिकारवशात् ।
सबीजा समयोपेता समयाचारसंयुता ।
पाशच्छेदादिसंयुक्ता विदुषामेव सा स्मृता ॥ १६-१० ॥
निर्बीजा तु पुनर्दीक्षा राज्ञां बालाबलास्वपि ।
अतिवृद्धातिरुग्णानां बालिशानां च शस्यते ॥ १६-११ ॥
साधकाचार्ययोर्नित्यक्रियानैमित्तिकादिषु ।
स्वपरार्थाधिकारित्वात् सबीजैव विधीयते ॥ १६-१२ ॥
सा च क्रियावती पूर्वा ज्ञानवत्यपरा स्मृता ।
या मण्डपरजःकुण्डपाशच्छेदाध्वशोधनैः ॥ १६-१३ ॥
द्रव्यहोमादिसंयुक्ता दीक्षा सोक्ता क्रियावती ।
विना मण्डपकुण्डाद्यैर्मनोव्यापारमात्रतः ॥ १६-१४ ॥
सम्यग्ज्ञानावबोधान्ता दीक्षा ज्ञानवती स्मृता ।
सा च चतुष्प्रभेदा चाक्षुषी स्पर्शदीक्षा वाचिकी मानसी चेति तद् यथा –
ध्याञ् शिवात्मा समवेक्ष्य शिष्यं तस्मिन्नियम्याध्वगणं दृशैव ।
छित्वा तु पाशांश्च शिवत्वमस्मिन् सम्पादयेद् या खलु चाक्षुषी स्यात् ॥ १६-१५ ॥
रुद्रः स्वयं मन्त्रतनुः स्वहस्ते पद्मे समूर्त्यङ्गयुते समूले ।
स्मृत्वा शिवं यत् स्पृशतीह तेन सा स्पर्शदीक्षा च्युतपाशबन्धा ॥ १६-१६ ॥
विश्वाध्वसंयुक्तसदाशिवात्मा मन्त्रान् स्ववक्त्रे विनिधाय सर्वान् ।
चित्त्वास्य पाशान् वचस क्रमेण सन्दीक्षयेद् यत्र तु वाचिकी स्यात् ॥ १६-१७ ॥
स्वयं शिवात्मा निखिलाधयुक्तः? स्वहृत्सरोजे सकलं समन्त्रम् ।
स्मरञ् शिवं मानसदीक्षयामुं नियोजयेज्ज्ञानवशाच्छिवत्वे ॥ १६-१८ ॥
क्रियावत्यपि समयदीक्षा निर्वाणदीक्षा साधकदीक्षा चेति बहुविधा । यत्र मलशोधनमात्रेण क्रियया संस्कृत्य शिष्यं समये प्रवेश्य रुद्रात्मतां चापादयेत् सा समयदीक्षा ।
षड् यत्र शुध्यन्त्यध्वानः क्रियावाप्तिश्च पुष्कला ॥ १६-१९ ॥
तत् तु पाशशिखाच्छेदो योगः शिवपदे तथा ।
निर्वाणदीक्षा सा प्रोक्ता विशेषेणाधिकारिणाम् ॥ १६-२० ॥
यस्यां तु पाशविश्लेषान्निवृत्त्यादिषु शोध्यते ।
अणिमादिगुणावाप्तिर्योगश्चैवैश्वरे पदे ॥ १६-२१ ॥
अधिकारश्च तत्रादौ दीक्षा सा साधकाह्वया ।
पूर्वोदितैरपि गुणैः सह दीक्षया स्यान्निर्वाणया भवसमुद्रतरीः स्वसंवित् ।
कार्यक्षयादितनुधर्मविपर्ययेण सर्वज्ञतादिगुणलब्धवरं शिवत्वम् ॥ १६-२२ ॥
शिष्यैर्गुरुः परिवृतो विधिनावगाह्य साध्यक्रियाः परिसमाप्य समाहितात्मा ।
दीक्षालयं तु नवसप्तकपञ्चहस्तं शक्त्या कृतं तु चतुरश्रमतीव रम्यम् ॥ १६-२३ ॥
अश्वत्थतोरणचतुष्टयमूलसंस्थैर्द्वारेषु पूर्णकलशैश्च चतुर्दिशासु ।
लाजाक्षतैरपि फलैः कुसुमैर्विचित्रैः संशोभितं च विविधाङ्कुरपालिकाभिः ॥ १६-२४ ॥
चन्द्रांशुपाण्डुरविशुद्धवितानमध्यं पर्यन्तलम्बितदुकूलविशेषशोभम् ।
मुक्ताबलीकुसुमदामकृतावलम्बं बाह्ये च शुक्लनवकाण्डपटं समेत्य ॥ १६-२५ ॥
सूक्ष्मावदातवसनः सितमाल्यगन्धो रत्नैर्विचित्रकनकाभरणोज्ज्वलाङ्गः ।
धौताङ्घ्रिपाणियुगलः सलिलैर्विशुद्धैराचम्य मौननिरतस्तु पवित्रपाणिः ॥ १६-२६ ॥
अथ सामान्यार्घ्यहस्तोऽस्त्रेण द्वाराणि सम्प्रोक्ष्य पश्चिमद्वारे नित्यवद् द्वारपालानिष्ट्वा पार्ष्णित्वा तच्छोटिकातर्जनीत्रयैः (?) विघ्नानुत्सार्य नाराचास्त्रं क्षिप्त्वान्तः प्रविश्य प्रतिनिवृत्त्य देहल्यां पुष्पेणास्त्रं निधाय मण्डपं तत्त्वदृष्ट्या वीक्षमाणः प्रदक्षिणं पारक्रम्य ब्रह्मस्थाने पुष्पं निक्षिप्य स्वासनमिष्ट्वोदङ्मुख उपविश्य भूतशुद्धिं च कृत्वा
प्राक् प्राकृतादिभवदेहमपास्य बुद्ध्या सोऽहं सदाशिव इति स्वतनुं विभाव्य ।
गन्धानुलिप्तशिवहस्तनिविष्टमन्त्रो नित्यक्रमेण विधिवत् सकलीकृतात्मा ॥ १६-२७ ॥
हृत्पद्मकोटरशिव मनसार्चयित्वा नाभिस्थमग्निमपि बिन्दुगतं च शम्भुम् ।
तालत्रयेण च बहिः प्रविधाय रक्षां खातास्त्रवप्रपरिनिष्ठितशक्तिभिश्च ॥ १६-२८ ॥
अथापाद्य विशेषार्घ्यं स्नानद्रव्याणि शोधयेत् ॥ १६-२९ ॥
कृत्वा तु पञ्चकोष्ठानि समसूत्रनिपाततः ।
तत्र मध्ये शिवतत्त्वे सुप्रतिष्ठिताख्ये कोष्ठे क्षीरमीशानमूलाभ्यां पात्रे समापूर्य प्राच्यां सदाशिवतत्त्वे स्वशान्ताख्ये कोष्ठे तत्पुरुषेण वर्मणा च दधि,
दक्षिणे विद्यातत्त्वे तेजोरूपाख्येऽघोरेण शिखया च घृतं, सौम्ये पुरुषतत्त्वे निवृत्तिकोष्ठे वामदेवेन शिरसा च रत्नतोययुक्तं गोमूत्रं, पश्चिमे कालतत्त्वेऽमृताख्ये कोष्ठे सद्योजातेन हृदयेन च गोमयमापूरयेत् । एकद्वित्रिचतुष्पञ्चवारं मध्यादिषु जपेत् । कुशोदकं शिवगायत्र्या षड्वारमभिमन्त्र्य यथाक्रमं क्षीरादिषु पञ्च पञ्चसु प्रक्षिपेत् । तदनु दध्यादीनि मध्यपात्रे सुप्रतिष्ठिताख्ये क्षीरेण संयोजयेत् । एकीकृत मथित्वा सदाशिववदभिपूज्य स्थापयेत् । अथ तत्त्वसङ्ख्यकुशकूर्चज्ञानखड्गं सम्पाद्य विकिरानायोजयेत् ।
लाजचन्दनसिद्धार्थभस्मपुष्पकुशाक्षताः ।
हेतयोऽस्त्रेण सप्तैते विधातव्या विमिश्रिताः ॥
इति ब्रह्मशम्भुः ।
तिललाजयवा दूर्वाः सिद्धार्थाः कुसुमानि च ।
ईषच्चन्दनकल्केन मिश्रिता विकिराः स्मृताः ॥
इति मतङ्गे ।
अस्त्रेणामन्त्र्य धान्यानि सङ्क्षिपेच्चास्त्रवत् परि ।
तत्पाताद् विघ्नबृन्दानि द्रवन्त्यत्र भयाद् भृशम् ॥
इति पराख्ये । इत्येषामेकप्रकारं विकिरान् सम्पादयेत् । उष्णीषं चार्चायस्य,
उष्णीषं धवलं सूक्ष्ममाचार्यो धारयेत् सदा ।
षडङ्गुलोच्चं सुषमं प्रादक्षिण्याभिवेष्टितम् ॥
इति पौष्करे ।
मन्त्रसंहितया लब्धमुष्णीषं धवलं गुरुः ।
षडङ्गुलोच्चं शिरसा धारयेन्नृपपट्टवत् ॥
इति बृहत्कालोत्तरे ।
तद्वदुत्तरीयं च धवलं यज्ञोपवीतवद् धारयेत् । द्विजकन्ययावर्तितं नवगुणं सूत्रं पाशसंयमनाय सम्पाद्य शिखयालभ्य पात्रे निदध्यात् ।
मण्डलाद् द्विगुणं सूत्रं नवतन्तुविनिर्मितम् ।
करणीत्युच्यते तद्वद् घटिका चातिपाण्डरा ॥ १६-३० ॥
तदुभयं मूर्तिमन्त्रैर्जपितं निदध्यात् । अयोमयीं कर्तरीं च तन्तुशिखाच्छेदनयास्त्रेण निदध्यात् ।
रजांसि पञ्चवर्णानि मण्डलार्थं प्रकल्पयेत् ।
रत्नानि हेम धान्यानि कुम्भं च करकं तथा ॥ १६-३१ ॥
कलशांश्चरुपात्राणि गन्धपुष्पादिकं च यत् ।
वासांसि च विकेशानि शुक्लान्यभिनवानि च ॥ १६-३२ ॥
समिदाज्यतिलान् लाजान् स्नानद्रव्यादिकं च यत् ।
कल्पयेच्छान्त्यतीतादिकलामन्त्रैः पृथक् पृथक् ॥ १६-३३ ॥
मूलेन सितमुष्णीषं सप्तवारं जपेत् ततः ।
वेष्टयित्वा शिरसि तत् सोत्तरीयः समाहितः ॥ १६-३४ ॥
अनुग्रहः समर्थोऽस्मि सर्वज्ञोऽहं सदाशिवः ।
स्वतन्त्रोऽहं पशूनेतान् मोचयामीति चिन्तयन् ॥ १६-३५ ॥
अथ पात्रस्थान् विकिरान् वामहस्ते निधाय मण्डपस्य नैर्-ऋत्यां दिशि स्थित्वेशानाभिमुखोऽघोरास्त्रे(ण) शिवास्त्रेण वा सप्त परिजप्य मण्डपमध्यादीशानकोणान्तं ज्वलदग्निनिभान् विकिरानुत्तानेन दक्षिणे (न) हस्तेन विकिरेत् । विकिरेच्छर्वशर्वेतिपदेन । कुशमुष्ट्या धूधूपदेन विकीर्णान् संहृत्येशानकोणे संस्थाप्य तत्रैव कृतपद्मपीठे शाल्याढकं दर्भासनं च निधाय सूत्रितं हैमाद्येकक्रमं शिवकुम्भं सुधौतं धूपितमधोमुखं निधाय तत् पृष्ठे कूर्चे च पृथिव्यादिप्रकृत्यन्ततत्त्वमयं कुम्भं ध्यात्वोत्तानयित्वा तत्कूर्चमुत्तानं तस्मिन् निधाय द्वादशान्तामृतं ध्यायंस्तीर्थसलिलैरापूर्य नवरत्नहिरण्यौषधिकुसुमगन्धाक्षतान् प्रक्षिप्याश्वत्थ (प्ल ? पल्ल) वान्युत्तानानि तस्मिन् निधायाक्षतफलाढ्यविधाविधानेनपिधाय,
आच्छाद्य शुक्लवसनद्वयशुक्लमाल्यैस्तस्मिंश्चलाचलवृषासनसन्निविष्टम् ।
योगेश्वरं तु सशिवासनमूर्तिदेहमावाह्य गन्धकुसुमादिभिरर्चयित्वा ॥ १६-३६ ॥
कुम्भान्तिके तदनु दक्षिणतस्तथैव प्राक् संहृतेषु विकिरेष्वपि वर्धनीं च ।
आपूर्य कुम्भमिव शस्त्रजपेन शक्तिं त्वावाह्य केसरिगतां विधिनाभिपूज्य ॥
अथात्र ब्रह्मशम्भुः –
दशस्वपि दिशास्वैन्द्रीप्रभृतिष्विन्द्रपूर्वकान् ।
सुरानुपेन्द्रपर्यन्तानिष्ट्वा तु विधिवत् क्रमात् ॥
इति ।
अथ तान् प्रार्थयेत् । चलाचलासनगतां वर्धनीमभिपूज्य, तदनु अत्र मञ्जर्यां –
जप्त्वा मन्त्रमघोरशस्त्रमभितः कुड्यं ततो वर्धनी-
माचार्यो भ्रमयेत् प्रदक्षिणवशादच्छिन्नया धारया ।
तन्मार्गेण तथा परः शिवघटं सङ्गृह्य नीत्वा पुनः
स्थाने पूर्ववदासने शिवघटं तां वर्धनीं च न्यसेत् ॥
मूलं न्यसेच्छिवघटे तु शिवश्च तस्मिन् पूज्यः स्थिरासनगतः सहिताङ्गमूर्तिः ।
तारं च पाशुपतशस्त्रमथात्र तोये तस्मिन्नुमां भगवतीमभिपूज्य सम्यक् ॥
लिङ्गमुद्रया शिवकुम्भं स्पृष्ट्वा सव्यया तन्मुष्ट्या वधर्न स्पृशेत् ।
सव्यमुष्टिरुमा पिण्डी लिङ्गमङ्गुष्ठको हरः ।
इति ब्रह्मशम्भुः ।
एवं भुक्तिकामो मुक्तिकामश्चेत् पूर्वं वर्धनीं पश्चात् घटं स्पृशेत् ।
उमायै भग(वद् ?)रूपिण्यै लिङ्गरूपधराय च ॥ १६-३८ ॥
शङ्कराय नमस्तुभ्यमिति स्तुत्यानुमोद्य तु ।
यज्ञस्यास्य पतिस्त्वं हि शक्तिरेषा तवाचला ॥ १६-३९ ॥
एष ते ज्ञानखड्गोऽयं तं गृहाण स्वमायुधम् ।
मया प्रवर्तितश्चायं यज्वनां भवता क्रतुः ॥ १६-४० ॥
रक्षणीयस्त्वया देव! समाप्तिर्यावदस्य हि ।
इत्थं शिवं समभिवन्द्य समर्प्य सम्यक् तं ज्ञानखड्गमथ तावभिपूज्य सम्यक् ।
कृत्यं च तद्भगवते विनिवेद्य रक्षां विघ्नाधिपं स्वदिशि तत्र यजेद् यथावत् ॥
यः सुरेशाध्वरोऽस्माभिः पश्वनुग्रहहेतवे ।
प्रवर्तितः प्रयात्वन्तमविघ्नस्तव सन्निधौ ॥ १६-४२ ॥
एवं गणेशमभिवन्द्य तु मण्डपे प्राङ् मध्ये सगन्धजलगोमयसम्प्रलिप्ते ।
लिङ्गोद्भवान्यतममप्यथ भद्रकं वा संलिख्य मण्डलमथात्र यजेन्महेशम् ॥ १६-४३ ॥
आनन्तमासनमथो परिभाव्य तस्मिन्नावाह्य चोक्तविधिना (च सदा)शिवं तम् ।
मुख्योपचारपरिबर्हसमेतमिष्ट्वा तुष्टे शिवे विधिवदावरणान्यपीष्ट्वा ॥ १६-४४ ॥
आवरणानीति पञ्चावरणान्युच्यन्ते ।
प्राच्यां तथाग्निशरणे चतुरश्रकुण्डे त्वाधाय वह्निमपि तत्र सदाशिवाख्यम् ।
तद्यथा – यथोदितमग्निमुक्तप्रकारेणाधाय शिवसन्धानं च कृत्वा पञ्चसंस्कारसंस्कृतादग्नेः पूर्वमेव किञ्चिदुद्धृत्य चुल्ल्यां प्रज्वलितं कपिलाक्षीरे पञ्चप्रसृतिशालितण्डुलैरेकशिष्यदीक्षायां प्रतिशिष्यं प्रतिकुडुम्बवृद्ध्या प्रोक्तक्रमेण चरुं श्रपयित्वा यथावदभिघार्य कुण्डान्तिके वारुण्यां दर्भेषु संस्थाप्य मन्त्रसंहितयाज्येन हुत्वा चरौ सम्पात्य धेन्वामृतीकृत्य चतुर्धा चरुं विभज्य (म ? मू)लस्थायैकमंशं भगवते कुम्भस्थायापरं निवेद्यान्यमग्नये शिष्टं सशिष्यायात्मने स्थापयेत् । अत्र ब्रह्मशम्भुः –
अभिनीय शिवायांशमग्नये कलशाय च ।
सशिष्यायात्मने शेषं रक्षेदविहतं चरोः ॥
इति ।
अथावदानत्रितयं जुहुयात् तु पृथक् पृथक् ।
स्रुचैव मूलमन्त्रेण क्रमेणाज्याभिघारितम् ॥ १६-४६ ॥
अथाज्यमिश्रितं हुत्वा मूलेनैकादशाहुतीः ।
ब्रह्माङ्गमूर्तिमन्त्रैस्तु हुत्वैकैकां पृथक् पृथक् ॥ १६-४७ ॥
अत्र
ब्रह्माख्यमन्त्रैश्च षडङ्गमन्त्रैराज्येन सर्वैः परिवारमन्त्रैः ।
विद्येश्वराद्यैर्जुहुयात् क्रमेण
इति मञ्जर्याम् ।
तद्वत् तिलैश्च हुत्वाथ हुत्वा पूर्णाहुतिं तथा ॥ १६-४८ ॥
रुद्रादिभ्यो बलिं क्षिप्त्वा लब्धानुज्ञः शिवाद् गुरुः ।
शिष्यं तु शिष्यौ शिष्यान् वा दीक्षयेदधिकारतः ॥ १६-४९ ॥
एतावत् कर्म सामान्यक्रियादीक्षासु देशिकैः ।
सामय्याद्यासु विज्ञेयं साधकान्तास्वनुक्रमात् ॥ १६-५० ॥
सामान्यक्रियाधिकारः ।
अथ समयदीक्षायां यथोदिताञ् शिष्यान् कृतदन्तधावनान् निर्वर्तितस्नानसान्ध्यनित्यानुष्थानान् धवलाम्बरोत्तरीयान् द्वाराद् बहिः संस्थाप्य स्वयमन्तः प्रविश्य प्रणम्य देवं विज्ञापयेत् ॥
यदर्थोऽयं मया देव ! शिवयज्ञः प्रवर्तितः ।
त इमे पशवः शान्ता द्वारि तिष्ठन्ति वारिताः ॥ १६-५१ ॥
तत् कुरुष्व प्रसादं मे तत्प्रवेशाय शङ्कर ! ।
करोम्यनुग्रहमिति देवेनानुग्रहे कृते ॥ १६-५२ ॥
सकलीकृत्य चात्मानं सदाशिवतनुर्गुरुः ।
दीक्षाधिकरणेष्वेकः पञ्चस्वपि शिवो ह्यहम् ॥ १६-५३ ॥
यज्ञसंरक्षकः कुम्भैः कर्मसाक्षी च मण्डले ।
होमाधिकरणेनाग्नौ शिष्ये तत्पाशबन्धहृत् ॥ १६-५४ ॥
आचार्योऽनुग्रहपरः सोऽहमेवेति भावयेत् ॥ १६-५५ ॥
द्वारस्य बाह्यभुवि मण्डलकेऽथ शिष्यं दर्भाक्षतप्रणवपङ्कजविष्टरस्थम् ।
बद्धाञ्जलिं भगवदुन्मुखमूर्ध्वकायं पश्येद् गुरुः स्वयमुदग्वदनोऽर्घ्यहस्तः ॥
अत्र ब्रह्मशम्भुः –
विलेखयेच्छिखातस्तं यावत्पादनखाग्रकम् ।
नखाग्राच्चूडिका यावत् तत्त्वज्ञानदृशा गुरुः ॥
इति ।
आत्मायमस्य शिथिलीकृतबन्धजाल-
स्त्व(ह?न्तः)शिवत्वमधुना शिवशक्तिपातम् ।
ध्यात्वेत्थमर्घ्यसलिलैस्त्रिरवोक्ष्य चास्त्रात्
तं भस्मना त्रिरभिताड्य शिरस्यथाद्भिः ॥ १६-५६ ॥
सम्प्रोक्ष्येति यावत् । शिष्यस्य शिरसि कुसुमं विन्यस्य कुशाग्रमूलाभ्यां हृदयादूर्ध्वं त्रिधातिर्यगुल्लिखेत् । नाभेरूर्ध्वमधश्चेति भोजराजः । अथाधारशक्तितत्रत्रयस्थं(?) ज्ञानक्रियाशक्तियुक्तं पशुमूर्तिमन्त्रेणोद्भाव्य विद्यादेहं च विन्यस्य मूलाङ्गमूर्तिभिः सकलीकृत्याभिपूज्य सितसूक्ष्मेण विशुद्धेनाहतेन वस्त्रेण प्रोक्षितकवचावगुण्ठितमूलाभिमन्त्रितेन नेत्रमन्त्रेण शिष्यस्य नेत्रबन्धं विधाय यागगृहं प्रवेश्य कुम्भाग्निमण्डलशिवानां प्रदक्षिणं कारयेत् ।
शिवस्य दक्षिणे भागे कल्पिते कमलासने ॥ १६-५७ ॥
धर्मादिभिश्चतुर्भिश्च सकुशे तं निवेशयेत् ।
हृद्बीजपुटहंसेन मूलेन प्लुतनादिना ॥ १६-५८ ॥
संहारमुद्रया तस्य सञ्ज्ञां संहृत्य देशिकः ।
स्थूलपाशकलाजालमपि शुद्धफलाप्तये ॥ १६-५९ ॥
शिष्यदेहगतं ध्यात्वा बैन्दवीभिर्विशोधयेत् ।
भूतशुद्धिविधानेन धारणाभिर्विशोध्य तम् ॥ १६-६० ॥
हृदये तस्य सूर्यादिबिम्बब्रह्मादिपङ्कजे ।
पञ्चमन्त्रकलाजालमूर्त्यङ्गाढ्यं सदाशिवम् ॥ १६-६१ ॥
सासनं मूर्तिसहितं विद्यादेहं यथाविधि ।
मनसाराध्य तन्नाभिकुण्डाग्नौ जुहुयाद्धिया ॥ १६-६२ ॥
भ्रूमध्याम्भोरुहे बिन्दौ शिवध्यानेन चास्य तु ।
आत्मशुद्धिं समापाद्य गन्धालिप्तकरः स्वयम् ॥ १६-६३ ॥
शिवहस्तं विधाय स्वे वामपाण्यम्बुजे स्मरन् ।
आसनादिक्रमात् साङ्गं शिवं सम्पूज्य वै धिया ॥ १६-६४ ॥
हृद्बीजमूलहंसाढ्यं तस्मिन् विन्यस्य चेतसा ।
तं हस्तं शिष्यहृदये विन्यसेत् प्रथमं ततः ॥ १६-६५ ॥
हृदादिग्रन्थिभेदार्थं क्रमात् तत्कण्ठतालुगम् ।
भ्रूमध्यगं च मूर्ध्निस्थं कुर्याद् रुद्रपदाप्तये ॥ १६-६६ ॥
तदनु शिष्यस्य पाण्योः पुष्पाञ्जलिं गन्धपुष्पाधिवासितं कृत्वोत्थाय देवाग्रे शिष्यमूर्ध्वकायं देवाभिमुखं संस्थाप्य स्वयमुदङ्मुखस्तिष्ठन् पशोस्तिरोधायकं नेत्रबन्धं ध्यात्वा ज्ञानासिना पाशुपतास्त्रेण नेत्रबन्धमपनीय पुष्पाञ्जलिं क्षिपेत्युक्त्वा तमञ्जलिं मण्डले पातयेत् । बद्धनेत्र एव पुष्पाञ्जलिं क्षिपेदिति केचित् । तत्र मूर्त्यङ्गादिषु यत्र पति पुष्पाञ्जलिस्तन्नामधेयान्तं (?) कुर्यात् ।
शिवान्तं ब्राह्मणस्य स्याद् देवगणान्तमन्ययोः ।
शूद्रस्य मुनिशब्दान्तं नाम कुर्याद् यथाक्रमम् ॥ १६-६७ ॥
तस्याष्टाङ्गनमस्कारमुपदिश्य प्रणामयेत् ।
अत्र भोजराजपक्षे तु प्रदक्षिणानन्तरं पुष्पाञ्जलिं (प्रक्षिप्यान)न्तरमुपवेश्य शिष्यं धारणाभिर्विशोध्य सकलीकृत्य शिवहस्तं विन्यसेदिति । नैतन्मूलागमसम्मतं, यतो धारणाभिर्विशुद्धस्यैव मण्डलस्थविशिष्टशिवे पुष्पाञ्जलिप्रक्षेपाधिकार इत्यतः प्रागुक्त एव पक्षो ब्रह्मशम्भुना च स्वीकृतः । तदनु शिवकुम्भायाग्नये च पुष्पाञ्जलिपूर्वं नमस्कारमुपदिश्य कुण्डाद् वायव्यभागे प्राग्वत् कल्पितासने शिष्यं निवेश्य मन्त्रसंहितयाज्येन हुत्वा सम्पात्य शिष्यस्यात्मनश्च नाडीसन्धानं विदध्यात् । तत्र दर्भमूलं स्वजङ्घासन्धौ गृहीत्वा दर्भाग्रं शिष्यहस्ते दद्यात् । विपरीतमिति भोजराजः ।
अथ शिष्यस्येडापिङ्गलासुषुम्नानाडीः स्वनाडीः प्रविष्टाः सम्भाव्य मूलेनाहुतित्रयं पञ्चकं वा हुत्वा तच्चैतन्यग्रहणाय प्रवेशनिर्गमौ विधायाष्टशतमूलेन दशांशेनाङ्गमूर्तीनां हुत्वा पूर्णां च विधाय प्रायश्चित्तार्थं पुनरष्टोत्तरशतं मूलेन हुत्वा तदीयां प्राक्तनजातिमुद्धरेत् ।
अत्र ब्रह्मशम्भुः –
नाद्विजो युज्यते सिद्ध्या न च निर्वाणमश्नुते ।
द्विजोऽपि हि यतस्तेन कुर्यात् तं द्विजसत्तमम् ॥
इति । एतस्माद् द्विजानां जात्युद्धारेण द्विजोत्तमत्वं च पशुजातिमोक्षाच्छिवत्वं (च) भवति ।
शूद्रस्यापि शूद्रत्वपशुभावव्यावर्तनाच्छिवत्वलक्षणद्वितीयजन्म जात्युद्धारेण भवतीत्यतो दीक्षितः शूद्रो न भवति, किन्तु शिवसंस्कारजातस्य शिवत्वसम्भवात् पूर्वजन्मव्यपगमाच्च वेदमन्त्रव्यतिरिक्तशैवमन्त्रतन्त्रश्रवणपूजासु योग्यता भवति ।
ननु शिवसंस्कारजात्युद्धाराच्छूद्रस्य द्विजत्वमस्ति चेत् किमिति वेदमन्त्रानधिकारित्वमिति चोद्ये ब्राह्मण्यां ब्राह्मणाज्जातस्यापि वैदिकमन्त्रैरुपनयनेन संस्कृतस्य वैदिकद्विजस्यैव वेदेऽधिकारः, करणानुगुणकार्यत्वात्, तद्वच्छैवमन्त्रसंस्कृतस्य तदनुगुणद्विजत्वसिद्धौ जन्मन्त्रपूजादावेवाधिकार इत्युपपन्नम् ।
तत्राचार्यः स्वहृत्पद्मे मायापर्यङ्कशोभिते ॥ १६-६८ ॥
रागतत्त्वास्तृते रम्ये पशुसञ्ज्ञोपधानके ।
विद्याप्रदीपे सुश्लिष्टौ स्मरेद् विद्यापती शिवौ ॥ १६-६९ ॥
तौ च सम्पूज्य मनसा पशुं पश्चात् समुद्धरेत् ।
तस्य हृत्पङ्कजे जीवं प्रोक्ष्य सन्ताड्य हेतिना ॥ १६-७० ॥
रेचकेन स्वयं मूर्ध्ना निर्गत्य तु सुषुम्नया ।
शिष्यदेहं प्रविश्यात्महृत्पद्मस्थं तु पुद्गलम् ॥ १६-७१ ॥
उद्धरेच्छेदविश्लेषौ विधायास्त्रेण चाङ्कुशात् ।
आकृष्य चोर्ध्वं नाड्या तु द्वादशान्ते निवेश्य तु ॥ १६-७२ ॥
अभिपूज्य ध्रुवेणाथ तारं हंसं च कारकम् ।
जपेदिति यावत् ।
संहारमुद्रया तस्मात् समाहृत्य तु पुद्गलम् ॥ १६-७३ ॥
अथ पूरकेण स्वहृदयाब्जे शिवयोर्गर्भे निवेश्य कुम्भकेन समरसीकृत्य मनसाभ्यर्च्य तत्र विद्यायां जातं विचिन्त्य रेचकेन सुषुम्नयोर्ध्वं नीत्वा ब्रह्म
विष्णुरुद्रेश्वरसदाशिवेषु क्रमादायोज्य तानतिक्रम्य द्वादशान्ते संयोज्य ध्रुवेणाभिपूज्य प्रणवहंसप्रणवैस्ततः संहारिण्या तं गृहीत्वा तथैव सुषुम्नया शिष्यस्य हृदम्भोजे निवेश्य हृदयसम्पुटहंसेन समरसीकृत्य द्वादशान्तामृतेनाप्लाव्य पुनर्जातं निर्मलं कुमारं चिन्तयेत् ।
ब्रह्मादिकारणोपाधिशिवसंसर्गपावितम् ।
तज्जातं शिष्यमुद्भाव्य द्विजत्वेनोपपादयेत् ॥ १६-७४ ॥
अत्र मकुटोत्तरे –
अन्यं कीटकमादाय कुड्यसंवेष्टितं मृदा ।
भ्रमरो घूर्णनादाद्यैः स्वजातिं कुरुते यथा ॥
तद्वद् दीक्षासु संस्कारैर्निर्मलः शिवतामियात् ।
जात्युद्धारायाहुतित्रयं मूलेन हुत्वा ततो द्विजत्वापादनाय च ॐ हौं शिवाय स्वाहा इति च हुत्वा, ॐ भगवन्नयमात्मयोनिबीजाहारभावदेशशुद्धो द्विजो भवतु स्वाहा । पुरराहुतित्रयेण हुत्वा रुद्रांशतामापादयेत् । ॐ भगवन्नयमात्मा रुद्रो भवतु स्वाहा । तत्संस्काराश्च पञ्चैव शिवाग्नेरिव इति ब्रह्मशम्भुमतदर्शनाद् अग्निकार्यपटलमार्गेण गर्भाधानादिसंस्कारनिष्पत्तये सद्यादिभिः पृथक् पृथगभ्यर्च्य हृदयादिभिः पृथक् पृथग् जुहुयात् । संसारितद्विजसंस्कारेभ्यो (?) दीक्षितद्विजसंस्कारव्यतिरेकं दर्शयति ।
गर्भाधानं स्मृते शक्तौ(?) मलापायसमाश्रयात् ।
बीजं * * * * * * ब्रह्मादिस्पर्शशोधिताम् ॥ १६-७५ ॥
व्यक्तिः स्वतन्त्रतायास्तु तस्य पुंसवनं भवेत् ।
मायात्मनोर्विवेकेन ज्ञानं सीमन्तकल्पना ॥ १६-७६ ॥
ज्ञातहेयपरित्यागादुपादे (या?य) परिग्रहः ।
जातकर्म भवेत् तस्य शिवत्वव्यञ्जकं हि तत् ॥ १६-७७ ॥
उक्तं हि नामकरणमित्थं संस्कारपञ्चकम् ।
ब्रह्मशम्भुरिह प्राह निष्क्रामान्नाशनादयः ॥ १६-७८ ॥
अशिवाः शिवमार्गेऽस्मिन् भवभूतिफला अपि ।
एतस्मादुपनिष्क्रामणादीनप्ये(तान्) संस्कारान् जीवाग्नेरुक्तमार्गेण कृत्वा ततोऽस्य यज्ञोपवीतं मूलेन दत्त्वा प्रायश्चित्तार्थ शतं सहस्रं वा प्रासादेनाज्येन
हुत्वा पूर्णाहुतिं चाथ कुम्भाग्निशिवानां प्रणामं कारयेत् । पुनः शिवं चाभिपूज्य त्रिः प्रदक्षिणीकृत्य सुवर्णकुसुमादिभिरशून्यहस्तः शिवं गुरुं च शिष्यो दण्डवत् प्रणमेत् ।
तमुत्थाप्य गुरुः शिष्यमाशीर्भिरभिनन्द्य च ॥ १६-७९ ॥
जातः समययोग्यस्त्वमिति ब्रूयात् प्रसन्नधीः ।
इहामुत्रार्थाप्त्यै खलु समयदीक्षेति कथिता
द्विजो जात्युद्धाराद् भवति पतिविद्याश्रयवशात् ।
ततः पूजाजप्यश्रवणविधियोग्यश्च स भवेत्
तथा रुद्रांशात्मा प्रतिदिनशिवार्चादिगुणवान् ॥ १६-८० ॥
अत्र ब्रह्मशम्भुः –
यथाव्यवस्थितान् वर्णान् सापेक्षान् स्वाश्रमानपि ।
स्थापयेन्नित्यमीशा(ना ?)ग्निगुरुपूजानतिक्रमात् ॥
पूर्वाश्रमानपेक्षं तु व्रतं यद् ब्रह्मचारिणः ।
भौतिको नैष्ठिको वापि सम्यगायातुमर्हति (?) ॥
इति । एतस्माद् भस्माधाराक्षसूत्रकौपीनदण्डांश्च जटाशिखयोरन्यतमां चेति पञ्च मुद्राः पञ्चब्रह्मभिरङ्गैश्चाभिमन्त्र्याथ धारयेत् ।
नाडीसन्धानहोमः प्रथममथ भवेन्मन्त्रसन्तर्पणार्चा-
जात्युद्धारद्विजत्वैः प्रतिपदगमनाच्छक्तिचैतन्ययोगः ।
संस्काराद् रुद्रताप्तिस्तदनु निगदितं चोपवीतप्रदानं
प्रायश्चित्तं प्रणामः समय इति भवेत् सामयी नाम दीक्षा ॥ १६-८१– ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे सामान्यक्रियासमयदीक्षापटलः षोडशः ॥ १६ ॥