१५

अथ पञ्चदशः पटलः ।

अथाग्निशरणं प्रविश्य प्रदक्षिणं परिक्रामन् मूलं जपन् होमद्रव्याणि निरीक्ष्य कुण्डयोन्यभिमुख उपविश्य उदङ्मुखोऽथ (क्व ? स्व)दृष्ट्या मूलं जपन् कुण्डं निरीक्ष्यास्त्रेण सन्ताड्य वर्मणाभ्युक्ष्यास्त्रेण खात्वास्त्रेणोद्धृत्य तेनावतीर्य हृदयेनाभिपूर्य तेन समीकृत्य सेचननिकुट्टनसम्मार्जनालेपनान्यस्त्रेण कृत्वा शान्त्यतीतां शान्तिं विद्यां प्रतिष्ठां निवृत्तिं च मध्यप्राग्दक्षि(णो ? णपश्चिमो)-त्तराशासु कुण्डान्ताः कलाः संस्मृत्याभ्यर्च्य तारादिस्वाख्याभिर्नमोन्तकमथ त्रिसूत्र्या कवचेन कुण्डं परिधाप्य ॐ कलामयाय कुण्डायं नमः इति कलामयं परिकल्प्येष्ट्वाथ तत्त्वत्रयेण प्रागायता वा उदगायता वा समिदग्रेण तिस्रो रेखाः पुनरेका तिर्यगायतास्त्रमन्त्रेण कार्याः ।

तासां ब्रह्मविष्णुरुद्रशिवा देवताः । तथास्त्रेण त्रिभिः कुशैर्वज्रीकृत्य चतुष्पथं च कुण्डमध्ये ॐ वागीश्वरीवागीश्वरासनाय नमः इति दर्भासनं विन्यस्य तत्र श्यामामृतुस्नातां नवयौवनालङ्कृतदिव्यरूपां दिव्याकल्पां रागिणीं वागीश्वरीं ध्यात्वा तारहृद्बीजनामभिर्नमोन्तमावाह्याभ्यर्च्य तदनुरूपरूपादिकं वागीश्वरं च तथाभ्यर्च्यानन्तरं सर्वात्मना जपितेन जनितमरणेर्मणिजं वा श्रोत्रियगृहाद् वाग्निमानीय ताम्रादिपात्रस्थितनिर्धूमेन्धनज्वालं ज्वलदङ्गारमात्रं क्रव्यादांशं परित्यज्य मूलेन निरीक्ष्यास्त्रेण सम्प्रोक्ष्य वर्मणावगुण्ठ्यास्त्रेण संरक्ष्य तमेवं भौतिकमग्निमुतपतज्ज्योतिराकारं ध्यात्वा स्वयं शिवात्मा स्वललाटनेत्राद् ॐ रौमित्यग्निबीजेन हृदयसम्पुटेन बैन्दवमग्निमादाय पूरकेण भौतिकेऽग्नौ संयोज्याथ स्वनामभिः कुण्डाग्निं रेचकेन पिङ्गलानाड्या समाकृष्य दक्षिणनासिकया निःसार्य पात्रस्थेऽग्नौ योजयेत् ।

इत्यग्नित्रयमेकीकृत्य अग्निचैतन्याय नमः इति स्वबीजेनाग्नौ चैतन्यं विन्यस्य तदेव बीजं दीर्घैः स्वरैः संयुत हृदयादीनि षडङ्गानि भवन्ति । तैरग्निमभिमन्त्र्य वौषडन्तेन मूलेन धेन्वामृतीकृत्य हृदाभिपूज्य वर्मणा संरक्ष्य कराभ्यां गृहीत्वा वागीश्वरीवागीश्वरयोरस्त्रा(ग्नि ? न्नि)रम्बरयोरीशानकोणे दिव्यशयने सङ्गतयोः क्षोभं विचिन्त्याग्निं पात्रस्थमाकण्ठादुद्धृत्य कुण्डस्योपरि त्रिःपरिक्रम्य जानुभ्यां भूमौ स्थितः स्वाभिमुखमग्निं शिवबीजं ध्यात्वा शक्तेर्नाड्या मूलेन प्रक्षिप्य विकीर्णमस्त्रेणैकीकृत्य वस्त्रं परिधाप्य शौचमाचमनादि मनसा सङ्कल्प्येन्धनैः कवचेनाच्छाद्य धवित्रेण प्रज्वाल्य गर्भरक्षार्थं दर्भकङ्कणमस्त्रजपितं वागीश्वर्या दक्षिणहस्ते बद्ध्वाथ गर्भाधानाय सद्योजातेनाभ्यर्च्य तिलैराहुतिपञ्चकं हृदयेन हुत्वा तथा वामेन शिरसा च पुंसवनमथाघोरेण शिखया च सीमन्तोन्नयनं कृत्वा ॐ हां पुर्यष्टकदेहाय नमः इति देहं सङ्कल्प्य जलबिन्दुं कुशाग्रेण जीवभूतं शिखया प्रक्षिप्य तिलाहुतिपञ्चकेन सद्यादिपञ्चवक्त्राणि वह्नेः सङ्कल्प्याङ्गकल्पनां च तथा विधाय वक्त्रनिष्कृतिं च तद्वत् सम्पाद्यानन्तरमेव वागीश्वरीं प्रसूतां जातकुमारमग्निं च ध्यात्वा तत्पुरुषेणाभ्यर्च्य वर्मणा हुत्वा जातकर्म भवति ।
अथार्घ्यजलैरस्त्रेण कुण्डं परिषिच्य परिस्तरणदर्भांश्च दर्भकङ्कणं च त्यक्त्वा सूतकनिवृत्तये वागीशवरीं देवं कुमारं चास्त्रजलैः सम्प्रोक्ष्य स्नानवसनविभूषणादिकं मनसैव सङ्कल्प्य दर्भैः कुण्डकण्ठे परिस्तीर्य लालापनोदनार्थं पञ्चपलाशसमिधः साग्राः प्रादेशसम्मिता घृताक्ताः शस्त्रेण जुहोति ।
ततस्त्रिंशद्दर्भैः कृतया प्रागुत्तराग्रया वेण्या कुण्डं संवेष्ट्य यथोक्तपरिधीन् विन्यस्य तेषु परिधिविष्टरेषु प्राच्यां ब्रह्माणं दक्षिणे शङ्करं पश्चिमे विष्णुमुत्तरेऽनन्तमीश्वरं चावाह्य हृद्बीजपूर्वं स्वनामभिरभ्यर्च्य लोकपालांश्च स्वाशास्वस्त्राणि चेष्ट्वा शिवाज्ञां श्रावयेत् । भो भो ब्रह्मेन्द्रविष्ण्वाद्या देवाः सास्त्राः शिवाज्ञया शिवाग्निमेनं रक्षध्वं स्वावकाशेष्वास्थिता इति रक्षां विधाय (स्रुक्स्रुवावस्त्रे) प्रक्षाल्यादाय दर्भचतुष्टयसहितौ हृदा (न ? निरी) क्ष्यास्त्रेण प्रताप्य शिरसा प्रक्षाल्य पुनः प्रताप्य सङ्क्षाल्य स्रुवं विन्यस्य स्रुचमादाय दर्भाग्रैः स्रुचोऽग्रं ॐ हां शिवतत्त्वायेति सम्मृज्य मध्यं दर्भमध्येन विद्यातत्त्वायेत्यथ मूलं दर्भमूलेनात्मतत्त्वायेति सम्मृज्य पुनर्मूलमध्याग्रेषु

ब्रह्मविष्णुरुद्रात्मतत्त्वाद्यधिपतीन् संस्मृत्योल्लिख्य प्रक्षाल्य दक्षिणतः प्रस्तरदर्भेष्वधोमुखं विन्यस्य तद्वत् स्रुवमपि संस्कृत्य स्रुचः समीपेऽधोमुखं दर्भेषु विन्यस्य स्रुचि शक्तिं स्रुवे शिवं च स्वनाम्नाभ्यर्च्य च त्रिसूत्र्यावेष्टितग्रीवौ कर्मयोग्यौ भवतः ।
पुनः कुण्डाद् दक्षिणतो ब्रह्माणं कूर्चेष्विष्ट्वा कौबेर्यां दर्भासनं दत्त्वा ग्रन्थं प्रणीतापात्र सपवित्रमद्भिरापूर्य सकुशाभ्यां पाणिभ्यामानासमुद्धृत्य ब्रह्मणानुज्ञातः प्रणीतासने ॐ हां वरुणोऽसीति विन्यस्य ॐ हां यज्ञारिसूदनाय विष्णवे नमः इति प्रणीतासु विष्णुमभ्यर्च्याथाज्यं यथोक्तमुक्तपात्रे गालितं हृदा निरीक्ष्यास्त्रेण प्रोक्ष्योत्तरेऽङ्गारेऽधिश्रित्य कुण्डोर्ध्ववह्निकोणे प्रताप्य स्वयं ब्रह्ममूर्तिः ॐ हां ब्रह्मणे स्वाहेति कुशाग्रेणाज्यबिन्दुं हुत्वाथैशान्यां कुण्डोपरि कुशैः प्रताप्य स्वयं विष्णुमूर्तिः ॐ हां वि(ष्णु ?ष्णवे)स्वाहेति कुशाग्रेणाज्यबिन्दुं हुत्वाज्यं योनौ कुशेषु विन्यस्य हृदयेनाभिमन्त्र्य दर्भद्वयं प्रज्वाल्य कवचेनाज्येऽभिद्योत्य त्रिष्कृत्वाथाग्नौ दर्भोत्मुकं प्रास्य हस्तौ प्रक्षाल्य तौ शुक्लकृष्णौ पक्षौ संस्मृत्य साङ्गुष्ठानामिकाभ्यां पवित्राग्रे मूले च गृहीत्वात्माभिमुखं कवचेन त्रिरुत्प्लाव्य पवित्रं प्रक्षाल्य पुनरग्नेरभिमुखमुत्प्लाव्य प्रक्षाल्य पुनर्हृदयेनोभयत उत्प्लाव्य पवित्रमुन्मुच्य प्रक्षाल्याग्नौ प्रास्येदिति पवित्रीकरणम् ।
अथ कुशानुद्योत्याज्ये नीराज्याग्नौ क्षिपेत् । अथ दक्षिणोत्तरयोराज्यभागयोः पूर्वापरपक्षाविडापिङ्गलानाडियुक्तौ मध्ये च पर्वणी सुषुम्नां च सङ्कल्प्य ॐ हाम् अग्नये स्वाहा ॐ हां सोमाय स्वाहा इति दक्षिणोत्तरयोराज्यभागयोराज्यं स्रुवेणादायाग्नेर्दक्षिणवामनेत्रयोर्हुत्वानन्तरं ॐ हाम् अग्नीषो माभ्यां स्वाहेति ललाटनेत्रे जुहोति । अथाज्यं गृहीत्वा ॐ हाम् अग्नये स्विष्टकृते स्वाहेति अग्नेर्मुखे जुहुयादित्यग्नेर्वक्त्रोद्घाटनं विधाय धेन्वामृतीकृत्यास्त्रेण संरक्ष्य कवचेनावगुण्ठयेदित्याज्यसंस्कारः ।
अयं विधिः पूर्वपक्षे । विशेषश्चापरपक्षे अग्नये सूर्यायाग्निसूर्याभ्यामिति नेत्रेषु जुहोति शेषं पूर्ववत् । अथ संस्कृत्याज्यबिन्दुं घृतक्षीरमध्वादिषु प्रक्षिप्य हृदयेनाभिमन्त्रयेत् । तानि च संस्कृतानि भवन्ति । अथ शिवाग्निं सदाशिववत् पञ्चवक्त्रं जटामकुटं सप्तजिह्वं (प्री ? प्र)तिमुखं त्रिनेत्रमभयवरदशक्तिस्वस्तिकचतुर्बाहुं सुगन्धमाल्याम्बरधरं दिव्याभरणं प्रसन्नाननं ध्यायेत् । चतुर्मुखेषु

चतस्रो जिह्वाः तिस्रो मध्यमे । ताश्च दीक्षाप्रतिष्ठादिषु सात्त्विकाः क्षुद्रेषु तामसाः काम्येषु राजसाः । तद् यथा –

हिरण्या गगना रक्ताः स्युर्जिह्वाः सप्त सात्त्विकाः ॥ १५-१ ॥

काली कराली च विलोहिता च मनोजवा चैव तु धूम्रवर्णा ।
स्फुलिङ्गिनी विश्वरुचिश्च जिह्वास्तमोगुणाः सप्त भवन्ति वह्नेः ॥ १५-२ ॥

कराली धूमिनी श्वेता लोहिता भद्रलोहिता ।
सुवर्णा पद्मरागा च जिह्वाः सप्तेति राजसाः ॥ १५-३ ॥

तमेवम्भूतं शिवाग्निं सञ्चिन्त्याथ वक्त्राभिधारणं कुर्यात् । ॐ हां सद्योजातमूर्तये स्वाहा । ॐ हां वामदेवगुह्याय स्वाहा । ॐ हाम् अघोरहृदयाय स्वाहा । ॐ हां तत्पुरुषवक्त्राय स्वाहा । ॐ हाम् ईशानमूर्धाय स्वाह इति यथावक्त्रमभिघार्यानन्तरमेव वक्त्रसन्धानं विदध्यात् । ॐ हां सद्योजातमूर्तये वामदेवगुह्याय स्वाहा । ॐ हां वामदेवगुह्याघोरहृदयाय स्वाहा । ॐ हाम् अघोरहृदयाय तत्पुरुषवक्त्राय स्वाहा । ॐ हां तत्पुरुषवक्त्रायेशानमूर्धाय स्वाहा इति द्वन्द्वशो हुत्वा वक्त्राणि सन्धायाथेशानादिबीजपञ्चकं प्रणवपूर्वकं सद्यान्तमुच्चार्याज्यं स्रुवेण गृहीत्वेशानतत्पुरुषाघोरवामदेवसद्योजातेभ्यं वाहेत्याग्निकोणाद् वायुकोणं तथा नैर्-ऋत्यन्तं तस्माच्चैशानान्तमविच्छिन्नया घृतैकधारया हुत्वा वक्त्रैकीकरणं कुर्यात् । किञ्चान्येषां वक्त्राणां प्रधानवक्त्रेऽनुप्रवेशो वक्त्रैकीकरणम् । तच्च नित्यकर्मणि सद्यस्य प्रधानत्वादन्येषां तदनुप्रवेशो द्रष्टव्यः । यथा संहितायां –

नित्यकर्मणि सद्यस्य मुख्यत्वमधिगम्यते ।
अन्यत्रोर्ध्वमुखं मुख्यं गुणत्वमितरस्य तुम् ॥
नैमित्तिके च काम्ये च यस्य वक्त्रस्य मुख्यता ।
तत्र तत्र समुद्दिष्टं तस्यैकीकरणं परैः ॥
तथा(मुमु)क्षोर्दीक्षायां मुख्यं हीशमुखं स्मृतम् ।
दृष्टसिद्ध्याप्तये पूर्वं दक्षिणं क्षुद्रकर्मसु ॥
उत्तरं वामदेवाख्यं शान्तिकं पौष्टिकं तथा ।

इति । प्रधानवक्त्रं नित्यकर्मणि सद्योजातं कुण्डप्रमाणं स्मृत्वा सद्योजाताय नम इत्यभ्यर्च्य ॐ हाम् ईशानाय स्वाहेति पञ्चाहुतीर्हुत्वा ॐ हां शिवाग्निर्हुताशनोऽसीति नाम कुर्यात् ।

ततो वागीश्वरीवागीश्वरौ स्वनाम्नाराध्य सकृत्सकृदाज्यं हुत्वा तौ द्वादशान्ते विसर्जयेत् । अथैवं पञ्चसंस्कारसंस्कृतादग्नेः किञ्चिदुद्धृत्य बल्यादौ रक्षयेच्चरुपुरोडाशधूपाद्यर्थम् । यथोक्तं संहितायां –

पाक्याश्चरुपुरोडाशाः पञ्चसंस्कारसंस्कृते ।
अनावाहितदेवेऽग्नौ होमस्त्वावाहिते भवेत् ॥

इति ।

अथ मूलेन वौषडन्तेन पृथगाज्याहुतित्रयेणैकादशसंस्कारान् कुर्यात् । तद्यथा – उपनिष्क्रामणान्नप्राशनचौलोपयनोपाकर्मव्रतसङ्ग्रहणव्रतोत्-सर्जनगोदानसमावर्तनविवाहाधानानि मूलेनैव कुर्यात् । अत्र मञ्जर्यामुक्तं – शिवाग्नेः संस्कारेषु प्रकारभेदो दृश्यते गर्भाधानपुरस्सराश्च सकलाः कुर्यात् क्रियाः षोडशः इत्यादिभिः श्लोकैः यदुक्तं दशाक्षरव्योमव्यापिना गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणं पृथगष्टाष्टाहुतीभिश्चैकैकशः क्रमाद्धुत्वा निष्पाद्य शिवगायत्र्योपनिष्क्रामणमीशानेनान्नप्राशनं तत्पुरुषेण चौलं पुनरीशानेनोपनयनमथ सद्यादिब्रह्मभिरुपाकर्मव्रतसङ्ग्रहण-व्रतोत्सर्गगोदानसमावर्तनादि क्रमेण कृत्वा दशाक्षरव्योमव्यापिना विवाहं प्रासादेनाग्न्याधानमित्युक्तयोर्मार्गयोरन्यतमेन संस्कृतेनैवाग्निना नित्यनैमित्तिकक्रियाकाण्डकाम्यानि शैवानां सिध्यन्ति नान्यथा । अथ पूर्णां जुहोति । ततः स्रुचमाज्येन स्रुवेणापूर्य स्रुगुपरि स्रुवमधोमुखं निधाय स्रुगग्रे पुष्पं च तद्दण्डौ संहतौ शङ्खमुद्रया पाणिभ्यां गृहीत्वोत्थाय श्लिष्टसमपादस्तिष्ठन् स्रुगग्रदत्तदृष्टिर्हृदययुक्तमूलं वौषडन्तमुच्चार्याज्यधारां शिवाग्नेर्लब्धानुज्ञः शिवासनादिक्रमेण साङ्गमूर्त्यावरणमग्नेर्हृदयकमले शिवमावाह्य प्ररोचनान्तं कृत्वार्घ्यादिभिर्दीपान्तैर्यथोपपत्त्यभ्यर्च्य शिवयोर्नाडीसन्धानं विदध्यात् । यथा पौष्करे –

वह्निस्थशिवनासाग्रनिर्गतज्योतिषा सह ।
सन्धानं पिङ्गलानाड्या कृत्वा कर्मसमापनात् ॥
हूयमानं हविर्यत् तत् सुधाविष्य(न्द ? न्दि) चिन्तयेत् ।
द्वयोः सुषुम्नामार्गेण शिवस्याह्लादकारणम् ॥

इति ।

अथाज्यतण्डुलव्रीहिसमिच्चरुभिर्यथोद्दिष्टैर्हविर्भिर्मूलेन जुहुयात् । तत्र शिवाद् दशांशं मूर्तीनामङ्गानां च नैमित्तिकेष्वपि तत्र तत्र विहितैर्हविर्भिर्यथोद्दिष्टं जुहोति । अत्र ब्रह्मशम्भुः –

अग्नेर्वर्णांश्च गन्धांश्च शिखाः शब्दांश्च लक्षयेत् ।
सिद्ध्यसिद्ध्योरभिव्यक्तौ भावितेनान्तरात्मना ॥
स्निग्धः प्रदक्षिणावर्तः श्रुतिप्रच्छादितध्वनिः ।
नित्यमूर्ध्वगमोच्छिष्टान् सम्पिण्डितशिखः शुभः ॥
अप्रदीप्ते न होतव्यं सधूमे नाप्यनिन्धने ।
प्रदीप्ते लेलिहानेऽग्नौ होतव्यं कर्मसिद्धये ॥

इति । तथाच ललिते –

शुक्लपीतारुणशिखो विद्युद्वर्णोऽथ पिङ्गलः ।
स्निग्धः प्रदक्षिणावर्तः कर्मसिद्धिकरोऽनलः ॥
कृष्णधूसरधूम्राभः कर्बूरो वाप्रदक्षिणः ।
रुक्षो वा विष्फुलिङ्गाढ्यः प्रोक्तोऽग्निरशुभावहः ।
तच्छान्त्यै संहितामन्त्रैः शिवव्याहृतिभिस्तथा ।
तिलाज्याभ्यां तथा हुत्वा शुभमेव फलं भवेत् ॥

इति । तत्तन्मुद्राभिस्तत्तज्जुहुयात् । नित्याद् द्विगुणं पर्वसु पूजाजपहोमान् कुर्यात् । चरोरवदानत्रयं क्रमेण पृथक्पृथगभिघार्य स्रुचा मूलेन जुहुयात् । सकृन्मूर्त्यङ्गा(ना ? नि) हस्तेनाथ प्रोक्षणीजलैरस्त्रेण परिषिच्य ताम्बूलं च निवेद्य प्रदक्षिणनमस्कारस्तुतिभिः प्रसाद्य भस्म चालभ्य क्षमस्वेत्युक्त्वा नाडीसन्धानं विसृज्य प्रणवहृदयबीजादिभिर्व्याहृतीभिर्हुत्वा मूर्त्यङ्गान्यस्त्रेणोद्धृत्याग्निस्थे शिवे यथास्थानं संयोज्य देवं चाग्नेर्हृदये सन्निरुध्य नैत्यिकमग्निं तस्मिन्नेव कुण्डे रक्षयेत् ।

अथवा प्रतिदिनमग्निं शिवं च सम्पूज्य संहारमुद्रया पूरकेण वह्नेर्मन्त्रान् संहृत्य शिवमग्निमपि क्रमेण द्वादशान्तमानीय स्वहृदि सन्नियोजयेत् ।
शिवमग्निं स्वबिन्दुस्थाने हृदये वोद्वास्य प्रत्यहमग्निं जनयित्वा जुहोति । मार्गगमनादौ कुण्डाभावे गोमयेन गोचर्ममात्रं चतुरश्रमण्डलमुपलिप्य तत्र विशुद्धाभिः सिकताभिः स्थण्डिलं कृत्वा निरीक्षणादिभिः सङ्कृत्याग्निमाधाय

होतव्यम् । अत्र सशिवाग्नेः प्रमादाद् निर्वाणे सति त्रिरात्रमुपोषितोऽघोरं जपेत् । आज्यतिलैर्यथाशक्ति जुहुयात् । यद्यपि उद्वासितशिवशिवाग्निनिर्वाणेऽहोरात्रमुपोष्याघोरसहस्रजपहोमौ कृत्वा पुनराधाय जुहुयात् । नित्यकर्मणि स्रुक्स्रुवकर्मणि परिधिवेणीनां प्रक्षालनेन शुद्धिः, नित्य(कर्महो)मोपयोगित्वं च निर्दिष्टम् । सशिवेऽग्नौ भस्मादिकं निर्माल्यं न भवति । तदेवोद्वासितशिवे निर्माल्यमस्पृश्यं स्यात् । एवं शिवमग्निं च निरुध्य परिधिविष्टरान् देवांश्चोद्वास्य कुण्डस्य पुरतो वोत्तरे गन्धादिभिरिष्ट्वा चरुशे(षे)ण बलिं दद्यात् ।

तत्र प्रागादिचतुर्दिक्षु रुद्रमातृगणयक्षेभ्योऽथैशानवायव्यान्तेषु ग्रहासुरराक्षसनागेभ्यस्तन्मध्ये नक्षत्रेभ्यः पुनर्नक्षत्रबाह्यतो रुद्रादीनामन्तरीशानादिकोणेषु राशिभ्यो विश्वदेवगणेभ्यः क्षेत्रपालाय दुर्गायै च तारादिस्वनामभिः स्वाहान्तैर्बलिं दत्त्वा द्वितीयमण्डलके पूर्वादिदशदिक्षु यथाक्रममिन्द्रादिभ्यस्तारादिस्वनामभिर्नमोन्तैर्बलिं दत्त्वा मण्डलबाह्ये सर्वतो विकिरन् ॐ वायसादिभ्यः स्वाहेति दद्यात् । अथ बलिमन्त्रान् संहृत्य प्राङ्गणे कृतमण्डले

ये रुद्रा रौद्रकर्माणो रौद्रस्थाननिवासिनः ।
सौम्याश्चैव तु ये केचित् सौम्यस्थाननिवासिनः ॥ १५-४ ॥

मातरो रौद्ररूपाश्च गणानामधिपाश्च ये ।
सर्वे सुप्रीतमनसः प्रतिगृह्णन्त्विमं बलिम् ॥ १५-५ ॥

सिद्धिं यच्छन्तु मे क्षिप्रं भयेभ्यः पान्तु मां सदा ।

ॐ छं छः हुं फट् । अनेन बलिं दत्त्वा हस्तपादौ प्रक्षाल्याचम्य प्रातिलोम्येन लिङ्गान्तिकेर्घ्यं दत्त्वा भोगाङ्गानि प्राग्वत् संहृत्य लिङ्गे नियोज्य भगवन्तमुक्तप्रकारेण विसर्जयेत् ।

अथ शिवाश्रमी गृहस्थश्चेद् भोक्तुमिच्छन् चुल्लिहोमगृहबलिवैश्वदेवदशबलीन् कृत्वा भुञ्जीत । तत्र पाकाग्रान्नं पात्रे प्रक्षिप्य चुल्ल्यामग्निं प्रज्वाल्य गोमयेनोपलिप्यार्घ्यजलैः परिषिच्य गन्धपुष्पाक्षतैरग्निं च वक्ष्यमाणदेवताश्चाराध्यान्नमाज्यमिश्रं जुहोति । अग्नये सोमाय सवित्रे बृहस्पतये प्रजापतये विश्वेभ्यो देवेभ्यः सर्वेभ्यो देवेभ्यः अग्नये स्विष्टकृते च प्रणवादिनमोन्तैः सम्पूज्य स्वाहान्तैर्हुत्वार्घ्यजलैः परिषिच्य गृहदेवताभ्यो बलिमुपाहरेत् । तत्र चुल्ल्यां दक्षिणवामयोः धर्मायाधर्माय सन्धाभाण्डे संसारपरिवर्तनाय उदकभाण्डे

जलामृताय वरुणाय गृहस्य प्रधानद्वारे विघ्नराजाय द्वारश्रियै च पेषण्यां सुभगे उलूखले ॐ रौद्रे कोट्टहरिके मुसले बलभद्रप्रियाय महाप्रहरणाय मार्जन्यां मृत्यवे देवोचिते शयनीयशिरसि कामाय कुसुमायुधाय मध्यस्तम्भस्याधः स्कन्दाय गृहाधिपतये तदनन्तरं वास्तुमध्ये वृत्तमण्डलके वैश्वदेवबलिमुपाहरेत् । तत्र मध्ये ब्रह्मणे वसुभ्यः रुद्रेभ्यः आदित्येभ्यः साध्येभ्यो नक्षत्रेभ्यः पृथिव्यै पृथिवीचरेभ्यो भूतेभ्यः अन्तरिक्षाय अन्तरिक्षचरेभ्यो भूतेभ्यः अधश्चरेभ्यः दिवे दिविचरेभ्यो भूतेभ्यः दिग्भ्यः दिक्चरेभ्यो भूतेभ्य इति प्रदक्षिणवृत्त्या बलिं दत्त्वा विष्णवे सर्वभूतपतये ध्यानगम्याय इति मण्डलमध्ये एतेषां प्रणवादिनमोन्तैः स्वनामभिर्बलिं विक्षिप्याथ प्राचीनावीती मण्डलाद् बहिर्दक्षिणतोऽपसव्येन सोमः पितृमान् यमोऽङ्गिरस्वानग्निकव्यवाहनादयो ये पितरः तान् पितॄन् स्वधा नमः अग्निपितृभ्यः स्वधा नमः सर्वपितृभ्यः स्वधा नमः इति यथाक्रमं प्रक्षिप्य बहिर्निर्गत्य दिग्देवताभ्यो बलिमुपाहरेत् ।

तत्र ॐ इन्द्राय प्रतिगृह्ण नमः ॐ ऐन्द्र्यै दिशे प्रतिगृह्ण नमः अथाग्नय इत्यादिभिश्चैवमीशानान्तमष्टलोकपालानादिशान्तं प्रक्षिप्य ॐ सुपर्णासौपर्ण्यै चेत्यूर्ध्वायां ब्रह्मदिशि नागाय नागमात्र इत्यनन्तदिश्यधः इति गन्धादिभिरभ्यर्च्य ॐ वायसाः क्रिमयः प्रेताः पतिताः श्वानः श्वपचाः समयभेदकाः ये चान्ये ते इमं बलिं प्रतिगृह्णन्तु नमः इति गन्धपुष्पान्वितं प्रक्षिप्य शेषं भूमौ विनिक्षिप्य हस्तौ पादौ पादौ प्रक्षाल्याचम्यातिथीनभ्यागतानाश्रितान् बालान् वृद्धानन्दान् दीनाननाथानन्यानप्यर्थिनोऽन्नेन पानेन च स्वशक्त्या तोषयित्वा भोजनोक्तविधानेन भुञ्जीत ।

इत्युक्तं यजनमिदं शिवा(यथाग्ने ? गमाग्नौ)
शैवानां प्रियमिति शैवतन्त्रसिद्धम् ।
येन स्यात् प्रतिदिवसं सदेशपूजा
सम्पूर्णा दिशति फलं जगद्धितं च ॥ १५-६– ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादेऽग्निकार्यपटलः पञ्चदशः ॥ १५ ॥