१४

अथ चतुर्दशः पटलः ।

पूजां तु पञ्चावरणं प्रवक्ष्ये सपञ्चमन्त्रात्मतनोरभीष्टाम् ।
पञ्चाननस्येह सदाशिवस्याप्येकाननस्योदिततुल्यकल्पाम् ॥ १४-१ ॥

पूर्वोदितं सर्वमिहापि तुल्यं ससूर्यपूजादि शिवासनं च ।
स्याद् ब्रह्मणा मूर्तिगतोऽत्र कश्चित् प्रयोगमञ्जर्युदितो विशेषः ॥ १४-२ ॥

ईशानसञ्ज्ञस्त्विह पञ्चवक्त्रश्चतुर्मुखास्तत्पुरुषादयः स्युः ।
विद्येश्वराश्चात्र चतुर्मुखास्ते शरत्रिशूलाशनिचापहस्ताः ॥ १४-३ ॥

एषां च शेषं सकलं पुरोवद् वर्णाद्यमेकावरणोदितानाम् ।
ज्ञेयं च पञ्चावरणस्थितानां मूर्त्त्याह्वये यत्पटले तदुक्तम् ॥ १४-४ ॥

सपञ्चवक्त्रं कमले निषण्णं द्विपञ्चबाहुं स्फटिकावदातम् ।
कपर्दबद्धेन्दुकलं त्रिनेत्रं सदाशिवं षोडशवर्षकल्पम् ॥ १४-५ ॥

भुजङ्गघण्टाभयदाङ्कुशान् स्वैः पाशं भुजैर्दक्षिणतो दधानम् ।
तथा त्रिशूलं परशुं च खड्गं वज्रं च वह्निं क्रमशोऽपरैश्च ॥ १४-६ ॥

नागोपवीतं सुविभूषिताङ्गं तरक्षुचर्माप्रतिमं वसानम् ।
आनीलकण्ठं भसिताङ्गरागं निःशेषसौन्दर्यविशेषरम्यम् ॥ १४-७ ॥

सञ्चिन्त्य तत्पङ्कजकर्णिकायां प्राग्वद् यजेदप्यथवैकवक्त्रम् ।
दोर्भिश्चतुर्भिर्युतमिन्दुमौलिं ज्ञानक्रियेच्छात्रिदृशं प्रसन्नम् ॥ १४-८ ॥

धृताक्षमालात्रिशिखं क्रमात् तं यजेत् सखट्वाङ्गकपालखण्डम् ।
विभूषितं शारदनीरदाभं कपर्दिनं पङ्कजसन्निविष्टम् ॥ १४-९ ॥

सहाङ्गवक्त्रावरणं तदेकं विद्येश्वरैरावरणं द्वितीयम् ।
उमादिभिश्चावरणं तृतीयमिन्द्रादिभिर्मातृगणैश्चतुर्थम् ॥ १४-१० ॥

वज्रादिभिः प्रागुदितैर्दशास्त्रैः स्यात् पञ्चमं त्वावरणम् यथावत् ।
हृत्तारपूर्वैर्निजनामधेयैर्यजेच्चतुर्थ्या(च)नमोन्तमेतान् ॥ १४-११ ॥

तद्यथा –

पद्मबाह्ये तु विद्येशानुमादीन् द्वारबाह्यतः ।
तद्बाह्यवीथ्यां लोकेशानस्त्राण्येषां बहिर्यजेत् ॥ १४-१२ ॥

पूज्यो ह्यनन्तस्त्वथ सूक्ष्मनामा शिवोत्तमश्चापि तथैकनेत्रः ।
प्राग्दक्षिणाप्येन्दुदलान्तपीठव्यवस्थिताब्जेषु पृथङ्निविष्टाः ॥ १४-१३ ॥

ततः शिखण्डी श्रीकण्ठश्चैकनेत्रोऽनलादिषु ।

उमाचण्डौ च नन्दीशमहाकालौ गणेश्वरः ।
भृङ्गी च वृषभस्कन्दावुदग्द्वारादिषु स्थिताः ॥ १४-१५ ॥

एत एवोत्तराशादिचतुर्द्वारेषु युग्मशः ।
पूज्याः पवित्रादिषु च स्थिरलिङ्गे जयावलौ ॥ १४-१६ ॥

इन्द्रोऽग्निश्च यमश्चाथ निर्-ऋतिर्वरुणस्तथा ।
वायुर्वैश्रवणस्तद्वदीशानश्चापि लोकपाः ॥ १४-१७ ॥

ऊर्ध्वलोकाधिपो ब्रह्मा स्यादीशानेन्द्रमध्यगः ।
अधोलोकाधिपोऽनन्तो रक्षोवरुणमध्यगः ॥ १४-१८ ॥

सुराणां तेजसां तद्वत् प्रेतानां रक्षसामपि ।
जलानां प्राणयक्षाणां ज्ञानानां लोकभोगिनाम् ॥ १४-१९ ॥

क्रमादेतेऽधिपतयः सवाहपरिवारकाः ।
रुद्रपार्षदशब्दान्ताः पूज्यास्तत्पार्षदास्तथा ॥ १४-२० ॥

धनदस्य समीपे तु सोमाय नक्षत्राधिपतय इत्यादिना सोमं च यजेत् । ॐ हाम् इन्द्राय सुराधिपतये सायुधवाहनपरिवाराय रुद्रपार्षदाय नमः । तत्पार्षदेभ्यो नमः ।

इत्यादिमन्त्रैः पूर्वादिदशाशासु यजेदिमान् ।
लोकपालावृतावेव पूज्याः स्युर्देवताः पुनः ॥ १४-२१ ॥

ॐ हां वृषभाय नमः ।

इन्द्रः प्राच्यां वृषस्थाने ज्योऽस्ति वृषभो यदि ।
स्थिरलिङ्गे वृसः पूज्यो न चले वृषभः स्मृतः ॥

इति ललिते ।

पश्चाद् यमाद् वीरभद्रः पूज्यः प्रत्यङ्मुखो भवेत् ।
प्राङ्मुखश्चैव विघ्नेशस्तयोर्मध्येन मातरः ॥ १४-२२ ॥

ॐ लं वीरभद्राय नमः । ॐ गं गणपतये नमः । ॐ व्यों ब्रह्माण्यै नमः । ॐ मां माहेश्वर्यै नमः । ॐ कां कौमार्यै नमः । ॐ हां वैष्णव्यै नमः । ॐ हें वाराह्यै नमः । ॐ होम् इन्द्राण्यै नमः । ॐ हूं महाकाल्यै चामुण्डायै नमः । एतासामग्रतः पुनः सर्वमातॄरर्चयेत् । ॐ मातृभ्यो नमः । ॐ सर्वमातृगणेभ्यो नमः इति ।

निर्-ऋतेः किञ्चिदाग्नेय्यां शास्तारं स्वाख्यया यजेत् ।
वायोस्तु निकटे किञ्चिदैशान्यां स्कन्दमर्चयेत् ॥ १४-२३ ॥

कुबेरात् पश्चिमे किञ्चिद् यजेद् दुर्गां स्वमन्त्रतः ।
ईशानान्नैर्-ऋते किञ्चिच्चण्डेशं मन्त्रतो यजेत् ॥ १४-२४ ॥

पञ्चमस्य चतुर्थ्यान्त्यौ पञ्चमाग्निस्वरान्वितौ ।
प्रणवाद्यौ समुद्धृत्य चण्डशब्दं च वर्म च ॥ १४-२५ ॥

अस्त्रं च सप्तवर्णः स्या(न्मनुश्च)ण्डेश्वरस्य तु ।

ॐ चण्डाय नमः । ॐ चण्डेशाय नमः इति चार्चयेत् ।

वृषभाद्यास्तु चण्डान्त्या याः प्रोक्ता देवतास्त्विमाः ॥ १४-२६ ॥

स्थिरलिङ्गे तु पूज्याः स्युर्न चले स्थण्डिलेऽपि च ।

यथा ललिते –

चले वा स्थण्डिले नित्यविधौ न वृषभं यजेत् ।
न सप्तमातरस्तत्र चण्डः स्कन्दोऽपि नेष्यते ॥
नैमित्तिके पवित्रादौ चैषां पूजा विशिष्यते ॥

इति ।

लिकेशावरणाद् बाह्ये वज्रादीनि स्वनामभिः ॥ १४-२७ ॥

स्वरूपतश्च संस्मृत्य दशदिक्षु क्रमाद् यजेत् ।
यथोपपत्त्या गन्धाद्यैर्यजेदावरणस्थितान् ॥ १४-२८ ॥

यदसम्पन्नमेतेषां मनसा तत् प्रकल्पयेत् ।
उत्सवो बलिदानं च स्थिरलिङ्गे विधीयते ॥ १४-२९ ॥

न चलस्थण्डिलार्चासु द्वयमेतत् समाचरेत् ।
विभवे सति गीतं च नृत्तं वाद्यादिकं च यत् ॥ १४-३० ॥

सामान्येन प्रशस्तं हि स्थिरेष्वपि चलेषु वा ।
तथाग्निकार्यं सर्वत्र प्रकुर्वीत विधानतः ॥ १४-३१ ॥

तद्वच्चैत्रपवित्राद्यं कुर्यान्नैमित्तिकं विधिम् ।

इत्थं सपञ्चावरणं शिवार्चनं प्रोक्तं यथावच्छिवतन्त्रचोदितम् ।
येनैहिकामुष्मिकभोगमुक्तयः प्राप्यास्त्वयत्नेन भवन्ति देहिनाम् ॥ १४-३२– ॥

इति –स्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे पञ्चावरणपूजाविधिश्चतुर्दशः पटलः ॥ १४ ॥