अथ त्रयोदशः पटलः ।
अथ सूर्यार्चनं वक्ष्ये शिवार्चाविघ्नशान्तिदम् ।
स्नात्वा सन्ध्यामुपास्याथ सन्तर्प्यार्चनमन्दिरम् ॥ १३-१ ॥
गत्वा धौताङ्घ्रिराचम्य तद्द्वाःस्थावाख्ययार्चयेत् ।
ॐ दण्डिने नमः । ॐ पिङ्गलाय नमः ।
अन्तः प्रविश्योपविश्य कृत्वा तु प्राणसंयमम् ॥ १३-२ ॥
अस्त्र शुद्धकरोऽङ्गानि हृदयादीनि विन्यसेत् ।
आत्मानं भास्करं ध्यायन् यथोक्तार्घ्यं तु पूरयेत् ॥ १३-३ ॥
साष्टाङ्गं विन्यसेत् तत्र मूलाङ्गान्यर्चयेदपि ।
तत्प्रोक्षितात्मस्थानार्चाद्रव्यचक्रकुशैस्ततः ॥ १३-४ ॥
ॐ गं गणपतये नमः । ॐ गुं गुरुभ्यो नमः ।
इति दक्षिणतो विघ्नं गुरुं चोत्तरतो यजेत् ।
तत्प्रभूतासनं पीठं तारवर्गादिपूर्वकम् ॥ १३-५ ॥
स्वनाम्नाभ्यर्च्य तत्पादांश्चतुरोऽथ हरीन् यजेत् ।
विमलं सारमाराध्यं सुखं परमपूर्वकम् ॥ १३-६ ॥
तारबिन्द्वन्तवर्गादियुक्ताख्याभिर्नमोन्तकम् ।
तथैव परमात्मानं सूर्यपद्मासनं तथा ॥ १३-७ ॥
दीप्तां सूक्ष्मां जयां भद्रां विभूतिं विमलामपि ।
अमोघां विद्युतां चाष्टादिग्दलेषु क्रमाद् यजेत् ॥ १३-८ ॥
सप्तमस्य द्वितीयं तु स्वरैर्दीर्घैर्विभेदितम् ।
सबिन्दुमादौ शक्तीनां नमश्चान्ते नियोजयेत् ॥ १३-९ ॥
नवमीं कर्णिकायां च तारादिं सर्वतोमुखीम् ।
इष्ट्वाथ प्रस्फुरन्मुद्रां दर्शयेदथ भास्करम् ॥ १३-१० ॥
वृत्तस्वतेजोबिम्बस्थं श्वेतपद्मोपरि स्थितम् ।
प्रोक्तमूर्तिधरं देवं सञ्चिन्त्य स्थिरधीर्हृदा ॥ १३-११ ॥
पुष्पैरञ्जलिमापूर्य खषोत्कं मूलसंयुतम् ।
उच्चार्य द्वादशान्ताब्जात् तदावाहनमुद्रया ॥ १३-१२ ॥
आवाह्य स्थापयेत् पद्मे स्थापन्या सुसमाहितः ।
सन्निधान्या सन्निधाप्य रुद्ध्वा तं निष्ठुराख्यया ॥ १३-१३ ॥
धेन्वा प्ररोच्याथार्घ्यादीन् दत्त्वा चैव खषोत्किना ।
साङ्गमूलेन चाराध्य पद्मं बिम्बं च दर्शयेत् ॥ १३-१४ ॥
स्नानवस्त्रोपवीतानि दत्त्वाङ्गानि यजेत् क्रमात् ।
हृदयादीनि वह्नीशरक्षोवायुदलेष्वथ ॥ १३-१५ ॥
मध्ये नेत्रं ततश्चास्त्रं दिग्दलेषु स्वजातिभिः ।
धेनुमुद्रां हृदादीनां दर्शयेद् गोवृषां दृशः ॥ १३-१६ ॥
त्रासनीमपि चास्त्रस्य पुनर्गन्धादिभिर्यजेत् ।
प्रागादिदिक्षु सोमं च बुधं चैव बृहस्पतिम् ॥ १३-१७ ॥
पूजयेद् भार्गवं चाग्निरक्षोवाय्वीशदिग्गतान् ।
अङ्गारकं शनैश्चारं राहुं केतुमिति ग्रहान् ॥ १३-१८ ॥
तारादिस्वाह्वयाद्यर्णैर्बिन्द्वन्तैरथ नामभिः ।
वन्दन्या तु प्ररोच्यैतान् गन्धाद्यैरथ भास्करम् ॥ १३-१९ ॥
निवेद्यान्तं तु सम्पूज्य ग्रहांश्चैव यथाक्रमम् ।
पद्माख्यां बिम्बमुद्रां च दर्शयित्वाभिनन्दयेत् ॥ १३-२० ॥
यथाशक्ति जपित्वाथ दत्त्वार्घ्यं तु विसर्जयेत् ।
संहृत्य मुद्रया मन्त्रान् साङ्गं देवं ग्रहानपि ॥ १३-२१ ॥
हृदये द्वादशान्ते वा सूर्यबिम्बे नियोजयेत् ।
तन्निर्माल्यादिकं सर्वं तेजश्चण्डाय दापयेत् ॥ १३-२२ ॥
तारवर्गादिपूर्वेण स्वनाम्नैवेशगोचरे ।
सर्वत्र नामभिः पूजा स्याच्चतुर्थ्या नमोन्तकैः ॥ १३-२३ ॥
सूर्यपूजाधिकारः ।
अथ त्यक्त्वा पवित्रं तदाचम्य द्वारमर्चयेत् ।
सामान्यार्घ्येण पुष्पैश्च प्रोक्ष्य द्वारं शिवास्त्रतः ॥ १३-२४ ॥
ॐ गं गणपतये नमः । ॐ सं सरस्वत्यै नमः ।
(इति) दक्षिणवामस्थावूर्ध्वौदुम्बरके यजेत् ।
ॐ गङ्गायै नमः । ॐ यमुनायै नमः ।
ऊर्ध्वभागे यजेदेवं दक्षिणोत्तरभागयोः ॥ १३-२५ ॥
ॐ नं नन्दीशाया नमः । ॐ मं महाकालाय नमः ।
इति दक्षिणवामस्थौ द्वारशाखाश्रितावधः ।
ज्वलदस्त्रात्मकं पुष्पं विघ्नसङ्घनिबर्हणम् ॥ १३-२६ ॥
नाराचवच्छिवास्त्रेण पूजागेहोदरे क्षिपेत् ।
पार्ष्णिघातैस्त्रिभिर्भौमाञ्छोटिकाभिर्नभोगतान् ॥ १३-२७ ॥
तर्जनीभिर्दिविष्ठांश्च विघ्नानुत्सारयेत् क्रमात् ।
ततस्तु मनसेन्द्रादीन् स्वाशासु स्थापयेत् (स्व ? सु)रान् ॥ १३-२८ ॥
अत्र मञ्जर्याम् –
इन्द्रादींल्लोकपालांश्च सायुधान् रक्षणोद्यतान् ।
दशदिक्षु प्रतिष्ठाप्य मण्डलान्तर्विशेत् स्वयम् ॥
इति ।
अन्तर्दक्षिणपादेन देहलीमस्पृशन् विशेत् ।
द्रागाश्रित्योत्तरां शाखां ततः प्रतिनिवृत्य तु ॥ १३-२९ ॥
ज्वलदस्त्रात्मकं पुष्पं देहल्यां स्थापयेत् स्मरन् ।
विघ्नौघवारणं पश्चात्
ॐ वां वास्तुपुरुषाय नमः । ॐ वास्त्वधिपतये ब्रह्मणे नमः ।
ब्रह्मस्थानेऽर्पयेदिति ॥ १३-३० ॥
प्रदक्षिणं यागृहं वीक्ष्योपकरणान्यपि ।
ॐ अम् अनन्तासनाय नमः ।
इति स्वासनमभ्यर्च्य तत्रासीनोत्तरामुखः ॥ १३-३१ ॥
शोषणादिविधानं च भूतशुद्धिं समाचरेत् ।
पूर्वोक्तमार्गाद् गन्धार्द्रं शिवहस्तं विधाय तु ॥ १३-३२ ॥
कलयेल्लिङ्गमुद्रां च करकच्छविकां पुनः ।
अष्टात्रिंशत्कलान्यासं कृत्वात्मनि यथोदितम् ॥ १३-३३ ॥
आवाह्य हृदयाम्भोजे मूलमन्त्रं शिवात्मकम् ।
हृदयाद्यङ्गमन्त्रैस्तु षड्भिरात्मनि विन्यसेत् ॥ १३-३४ ॥
परमीकरणं कृत्वा शिवोऽहमिति भावयेत् ।
महामुद्रां समायोज्य प्ररोच्यात्मानमात्मना ॥ १३-३५ ॥
तालत्रयच्छोटिकाभिर्वीक्षणैस्तर्जनीस्वनैः ।
विघ्नान् हत्वा विरिच्याशाः शोधयित्वावकुण्ठ्य तु ॥ १३-३६ ॥
आश्रयं शोधयित्वैवं मन्त्रं सिंहासने स्मरन् ।
हृत्पुण्डरीककुहरे ज्योतिर्लिङ्गे सदाशिवम् ॥ १३-३७ ॥
अङ्गुष्ठमात्रं मनसा सिद्धैर्द्रव्यैर्यथाक्रमम् ।
पूजयेन्निश्चलधिया चक्रवर्त्युपचारतः ॥ १३-३८ ॥
परमामृतविष्यन्दैर्नाभिकुण्डेऽनले शिवम् ।
सन्तर्पयेच्च भ्रूमध्ये प्रस्फुरद्बिन्दुगह्वरे ॥ १३-३९ ॥
ध्यात्वा शिवं परं सूक्ष्ममन्तर्यागं समाप्य तु ।
स्वैक्यं सदाशिवं ध्यात्वा रक्षार्थं चाश्रयस्य तु ॥ १३-४० ॥
यथा ब्रह्मशम्भुः –
तालत्रयमथास्त्रेण प्राकारं च समुद्गतम् ।
तद्बहिः खानितं श्वभ्रं तनुत्राणेन कल्पयेत् ॥
इति ।
यथोपचारपटले विशेषार्घ्यमिहोदितम् ।
आपूर्याभ्यर्च्य तत्तोयैः स्वशिरः प्रोक्षयेत् कुशैः ॥ १३-४१ ॥
सगन्धभस्मना कृत्वा त्रिपुण्ड्राणि यथाविधि ।
विशुद्धात्माश्रयस्त्वेवं द्रव्यशुद्धिं समाचरेत् ॥ १३-४२ ॥
यथोक्तपूजाद्रव्याणि शक्तिदृष्ट्यावलोक्य तु ।
कुशमूलेन वा कूर्चादर्घ्यतोयैस्तु वर्मणा ॥ १३-४३ ॥
अभ्युक्ष्यालभ्य तु जपेदजातेन हृदाथवा ।
गन्धं ततस्तु वामेन शिरसा वाम्बराण्यपि ॥ १३-४४ ॥
कृष्णेन वाथ शिखया भूषणानि स्रजोऽपि च ।
पुंसा वा वर्मणा वापि नैवेद्यं च फलादिकम् ॥ १३-४५ ॥
ईशेन वाथ गायत्त्र्या मुक्तपुष्पादिकं तु यत् ।
कङ्कटेन दधिक्षीरं घृतं तु शिखया पुनः ॥ १३-४६ ॥
शर्करां हृदयेनाथ शिखया क्षौद्रमम्बु च ।
मूलेन शिष्टं चैतेषु क्षिपेदर्घ्याम्बुशीकरान् ॥ १३-४७ ॥
ललाटे तिलकं कृत्वा चन्दनेनैव मूलतः ।
मूलेनारोपयेत् पुष्पं प्रोक्ष्य चाथ स्वमस्तके ॥ १३-४८ ॥
द्रव्यशुद्धिः कृतैवं स्यान्मन्त्रशुद्धिरथोच्यते ।
यथा ब्रह्मशम्भुः –
त्रिमात्रादिक्रमेणोर्ध्वं मन्त्रमुच्चारयेच्छनैः ।
यावन्निष्ठापदप्राप्तिस्तन्मन * * * * णः ॥
मन्त्रशुद्धिर्भवेदेवं शुद्धतत्त्वसमाश्रयात् ।
इति ।
लिङ्गशुद्धिं ततः कुर्यादुपचारोदितक्रमात् ॥ १३-४९ ॥
गड्डुकैर्वर्धनीकुम्भेष्वापूर्य सलिलं शुचिः ।
गर्भागारमथास्त्रेण समुद्घाट्य प्रसन्नधीः ॥ १३-५० ॥
सामान्यार्घ्यं पुरो दत्त्वा गायत्र्या शिवसञ्ज्ञया ।
अपनीय तु निर्माल्यमावर्त्य ब्रह्मपञ्चकम् ।
पुष्पं सपदि तल्लिङ्गमस्तके विनिधाय तु ॥ १३-५२ ॥
स्थिरालङ्गे(चतु ? तु च)दण्डाय दद्यादर्घ्यपुरःसरम् ।
चले जलादौ प्रक्षिप्य हृदयास्त्राम्बुसेकतः ॥ १३-५३ ॥
पिण्डिकां क्षालयेत् पूर्वं लिङ्गं च तदनन्तरम् ।
यथाह ब्रह्मशम्भुः –
यत्नेने क्षालयेल्लिङ्गं दक्षिणेनैव पाणिना ।
विशुद्धं सजलाधारं लिङ्गमस्त्राम्भसा पुरा ॥
सामान्यार्घ्यजलैः पश्चादभिषिञ्चेत् तु मन्त्रवत् ।
इति ।
अशून्यमस्तकं लिङ्गमभिषेकार्चनादिषु ॥ १३-५४ ॥
गन्धपुष्पादिभिः कुर्यात् तद्धि सान्निध्यकारकम् ।
इत्थमात्माश्रयद्रव्यमन्त्रलिङ्गविशुद्धयः ॥ १३-५५ ॥
कर्तव्याः पञ्च शैवानां नान्यथार्चनमिष्यते ।
ॐ गं गणपतये नमः ।
अनेन वायुकोणे तु पूजयेद् गणनायकम् ॥ १३-५६ ॥
नैर्-ऋते वारुणं पद्मे प्रोक्तरूपं गजाननम् ।
ॐ गुं गुरुभ्यो नमः ।
गुरूनपि तथैशाने प्रोक्तरूपादिकान् स्मरन् ॥ १३-५७ ॥
सामान्यार्घ्येण गन्धाद्यैर्निवेद्यान्तं तु शक्तितः ।
गुरूनित्यनेन गुरुं, परमगुरुं, परमेष्ठिगुरुं, पूज्यगुरुं, महापूज्यगुरुं चेति पञ्चगुरूनिति यावत् । ॐ हाम् आधारशक्तये नमः ।
पीठाधः पूजनीयेति शक्तिः कूर्मशिलागता ॥ १३-५८ ॥
मृणालबीजाङ्कुराभा
ॐ हाम् अनन्तासनाय नमः
इति ब्रह्मशिलागता ।
धर्मं ज्ञानं च वैराग्यमैश्वर्यं चार्चयेत् क्रमात् ॥ १३-५९ ॥
आग्नेयादीशपर्यन्तं पीठपादान् यथोदितान् ।
अधर्ममपि चाज्ञानमवैराग्यं दिशास्वपि ॥ १३-६० ॥
अनैश्वर्यं च पीठेषु प्रागादिषु यजेत् क्रमात् ।
तारहृद्बीजसंयुक्तचतुर्थ्यन्तैस्तु नामभिः ॥ १३-६१ ॥
पूज्यान्यावरणानि स्युः सामान्येनाविशेषिते ।
ॐ हाम् ।
अधस्तान्मेखलायास्तदितीष्ट्वा ज्ञानसन्निधौ ॥ १३-६२ ॥
ऊर्ध्वच्छदं तथोर्ध्वस्थमैश्वर्याशागतं यजेत् ।
ॐ हां पद्माय नमः । ॐ हां कर्णिकायै नमः ।
इतीष्ट्वा केसरेष्वष्टौ क्रमाद् वामादिशक्तयः ॥ १३-६३ ॥
पूज्याः सर्वा दिक्षु यथा सूपविष्टाः पुरोदिताः ।
ॐ हां वामायै नमः । ॐ हां मनोन्मन्यैः नमः ।
नवमीं कर्णिकायां तु यजेच्छक्तिं मनोन्मनीम् ॥ १३-६४ ॥
ॐ हां सूर्यमण्डलाय नमः । ॐ हां सूर्यमण्डलाधिपतये ब्रह्मणे नमः ।
इति पद्मदलेष्वग्राद् व्याप्तिं सञ्चिन्त्य पूजयेत् ।
ॐ हां सोममण्डलाय नमः । ॐ हां सोममण्डलाधिपतये विष्णवे नमः ।
इत्यादि केसराग्राद् वा व्याप्तिं ध्यात्वा यजेद् द्वयम् ॥ १३-६५ ॥
ॐ हां वह्निमण्डलाय नमः । ॐ हां वह्निमण्डलाधिपतये रुद्राय नमः ।
इति तत्कर्णिकामध्ये बिम्बबिम्बाधिपौ यजेत् ।
ॐ हां व्योममण्डलाय नमः । ॐ हां शिवासनाय नमः ।
इति प्रोक्तासनः पूज्यः
अत्र पौष्करे –
इति स्थिरं स्थिरे लिङ्गे त्वासनं कल्पयेद् यदा ।
चललिङ्गे विशेषः स्यादासनं तच्चलाचलम् ॥
स्नपनानन्तरं न्यस्य पीठे वा मण्डलेऽथवा ।
तत्र स्थिरासनं देवं चललिङ्गस्थमर्चयेत् ॥
इति ।
पुष्पैरापूर्य चाञ्जलिम् ॥ १३-६६ …
ॐ हां हां शिवमूर्तये नमः ।
अनेन मूर्तिलिङ्गे तु विन्यसेत् प्रोक्तलक्षणम् ।
ॐ हां हां ज्ञानक्रियात्मिकायै ईश्वरमूर्तये नमः ।
ब्रह्मपञ्च(क)वक्त्रेषु चाष्टात्रिंशत् कलास्तथा ॥ १३-६७ ॥
विन्यसेत् स्वस्वमुद्राभिर्मूर्तौ न्यासोदितक्रमात् ।
पुनः पुष्पाञ्जलिं बद्ध्वा तस्यां देवं सदाशिवम् ॥ १३-६८ ॥
विद्यादेहं विभज्याथ तारहृन्मूलहृद्युतम् ।
विद्यादेहाय नत्यन्तमुक्त्वा मूर्तौ तु विन्यसेत् ॥ १३-६९ ॥
पुष्पाञ्जलिमथोद्यम्य तारहृद्बीजसंयुतम् ।
सद्यमूलेन सन्धाय प्लुतान्तं मन्त्रमुच्चरन् ॥ १३-७० ॥
हृदयाब्जात् परं ज्योतिर्ध्यायेन्नादसमं शिवम् ।
नीत्वोर्ध्वं द्वादशान्ताब्जं शिवे संयोज्य निष्कले ॥ १३-७१ ॥
यथाह ब्रह्मशम्भुः –
तावदुच्चारयेद् यावत् प्राप्तं निष्कलगोचरम् ।
तद्भावभावनाविष्टः प्रस्फुरद्रश्मिमण्डले ॥
बिन्दावभ्युदितं ध्यायन्नावाहनविधिं प्रति ।
तस्मादादाय विस्रब्धः स्थिरधीः पुरतः स्थिते ॥
न्यसेल्लक्षीकृते देहे
इति ।
एवमावाहयेच्छम्भुमावाहन्या यथोदितम् ।
तारहृद्वामदेवैस्तु स्थापन्या स्थापयेद् विभुम् ॥ १३-७२ ॥
तारहृद्वक्त्रमुच्चार्य मुद्रया सन्निधापयेत् ।
प्रणवं हृदयाघोरावुक्त्वा तं निष्टुराख्यया ॥ १३-७३ ॥
निरोधयेत् पुनः पुष्पैरापूर्योद्यम्य चाञ्जलिम् ।
उक्त्वा नमःस्वधास्वाहावौषड् हृत्कवचानि तु ॥ १३-७४ ॥
पुष्पाञ्जलिं समायोज्य हस्ताभ्यामवकुण्ठयेत् ।
अङ्गानि च यथास्थानं स्वैर्मन्त्रैर्विन्यसेच्छिवे ॥ १३-७५ ॥
आवाहनादिकानां तु ये येऽर्थाः सम्प्रदर्शिताः ।
पटले तूपचाराख्ये तांस्तानत्र स्मरन् क्रमात् ॥ १३-७६ ॥
स्वैरर्चिर्भिर्यथा वह्निर्भानुभिर्भानुमान् यथा ।
समर्थो दुष्प्रधर्षश्च तद्वदङ्गैर्निजैः शिवः ॥ १३-७७ ॥
हृदयं तस्य सद्भावः शिरः सर्वेशिता गुणाः ।
वशित्वमपराधीनं यच्छिखा सोपरि स्थिता ॥ १३-७८ ॥
स्वभावगुप्तमन्येषां समर्थमविशेषतः ।
तेजः कवचसाधर्म्यात् तन्नाम्ना व्यपदिश्यते ॥ १३-७९ ॥
योऽसावप्रसहस्तस्य प्रतापोऽवारितः परैः ।
सोऽस्त्रमस्यति येनाशु दूरमन्तरदायकान् ॥ १३-८० ॥
इत्यपि ब्रह्मशम्भूक्ते स्मरणेनाङ्गकल्पनाम् ।
विधाय कुर्यान्मूलेनास्यामृतीकरणं तथा ॥ १३-८१ ॥
प्रोक्तं प्ररोचनं चापि तन्महामुद्रया भवेत् ।
विशेषार्घ्यं च पाद्यं चाप्याचामं हृदयेन तु ॥ १३-८२ ॥
नमोन्तं च स्वधान्तं च स्वाहान्तं च निवेदयेत् ।
पूर्वं पाद्याचमनीये दत्त्वा पश्चादर्घ्यमिति केचित् ।
हृदैव वौषडन्तेन दत्त्वार्घ्यं पञ्चमूर्धसु ॥ १३-८३ ॥
दूर्वापुष्पाक्षतव्रातं तच्छिरस्यधिरोपयेत् ।
सद्गन्धपुष्पधूपैश्च सम्पूज्य तु सदाशिवम् ॥ १३-८४ ॥
स्नानवेदिगतं देवं स्नापयेदुक्तमार्गतः ।
निर्मृज्य वाससा पाद्यं पद्भ्यां दत्त्वाथ मस्तके ॥ १३-८५ ॥
द्रागर्घ्यं चाप्यथाचामं वस्त्राण्याभरणानि च ।
पुनरासनमूर्त्यादिक्रमेणाराधयेद् विभुम् ॥ १३-८६ ॥
यथोक्तगन्धकल्केन समालिप्य सपीठकम् ।
हेमपट्टैश्च हारैश्च मालाभिः कुसुमैर्दलैः ॥ १३-८७ ॥
पुष्पप्रतिसराभिश्च तमिण्डाभिश्च भूषयेत् ।
प्रणवं च तथा मूलं शिवाय नम इत्यपि ॥ १३-८८ ॥
प्रतिद्रव्यं समुच्चार्य तत्तदारोपयेच्छिवे ।
ब्रह्माणि पञ्चवक्त्रेषु ब्रह्माभिः क्रमशोऽर्चयेत् ॥ १३-८९ ॥
ईशानादीनि वै शम्भोरङ्गेष्वङ्गानि तैर्यजेत् ।
ततः शिवस्य वक्त्रेभ्यो ब्रह्माण्याहृत्य तान्यथ ॥ १३-९० ॥
शिवाङ्गेभ्यस्तथाङ्गानि दीपाद् दीपानिवोज्ज्वलन् ।
प्रोक्तरूपादिकं ध्यायन् दलमध्येषु विन्यसेत् ॥ १३-९१ ॥
तत्कर्णिकायामीशानमैशान्यां पुरतो न्यसेत् ।
यथादिशं दलेष्वन्यानासीनाञ्ञ्छिवसम्मुखम् ॥ १३-९२ ॥
अग्नीशरक्षोवाय्वाशादलेषु हृदयादिकम् ।
कवचान्तं तु विन्यस्य दिक्ष्वस्त्रं तु क्रमान्न्यसेत् ॥ १३-९३ ॥
नेत्रं च पुरतः शम्भोस्तत्तन्मन्त्रेण विन्यसेत् ।
ध्यात्वा यथोक्तरूपाणि पाद्यार्घ्यैः पूजयेत् क्रमात् ॥ १३-९४ ॥
अत्र ब्रह्मशम्भुः –
नावकुण्ठनमेतेषाममृतीकरणं न च ।
स्नपनं दीपकॢप्तिश्च न पृथक् चाङ्गकल्पना ॥
इति ।
यथोक्तधूपं दद्यात् तु घण्टां वामेन नादयन् ।
देवाय पूर्वं तदनु ब्रह्माङ्गानां यथाक्रमम् ॥ १३-९५ ॥
राक्षसाश्चासुरा यक्षाः पिशाचा ब्रह्मराक्षसाः ।
नश्यन्ति घण्टाशब्देन धूपः सान्निध्यकारकः ॥ १३-९६ ॥
दीपं च दीपपात्रस्थं दर्शयित्वेशगोचरे ।
अवतार्य यथोक्तं तद् भ्राम्यमारात्रिकं तथा ॥ १३-९७ ॥
शिवलिङ्गे शिवो यस्माच्छिवे विश्वं प्रतिष्ठितम् ।
दीपनीराञ्जनं तस्य जगच्छान्तिकरं स्मृतम् ॥ १३-९८ ॥
धूपे दीपे च नैवेद्ये बलौ होमे तथैव च ।
स्वाहाशब्दः प्रयोक्तव्यः शेषेषु स्यान्नमस्कृतिः ॥ १३-९९ ॥
उक्तानुक्तं च यत् सर्वं हृद्बीजेन विधीयते ।
निवेद्यं तु ततो दद्यादुपचारोदितं यथा ॥ १३-१०० ॥
मूलेनैव तु देवस्य ब्रह्माङ्गानां तदर्धतः ।
पृथक् पात्रेषु वाङ्गानां नो चेदेकत्र वा स्मृतम् ॥ १३-१०१ ॥
पानीयं च निवेद्यास्मै दद्याद्धस्तावसेचनम् ।
हस्तोद्वर्तनकं चैव दद्यादाचमनीयकम् ॥ १३-१०२ ॥
ताम्बूलं मुखवासं चाप्यञ्जनं दर्पणं तथा ।
छत्रं च चामरे तद्वन्नृत्तं गीतं च वादितम् ॥ १३-१०३ ॥
श्रीमत्पञ्चमहाशब्दैः स्तुतिः स्तात्रैश्च मङ्गलैः ।
प्रकृत्या सहितं देव्या हृष्टं ध्यात्वा सदाशिवम् ॥ १३-१०४ ॥
एवमादिभिरन्यैश्च तदा तमभिनन्दयेत् ।
अत्र तदा तदभिनन्दयेत् । प्रकृत्या सहितं हृष्टमिति ब्रह्मशम्भुः ।
सौवर्णमुपवीतं च दूर्वाग्राण्यक्षतानि च ॥ १३-१०५ ॥
पवित्रं नैत्यकं त्वेतन्मूलेनारोपयेच्छिवे ।
मूलं तत्त्वत्रयोपेतं स्वाहान्तमुच्चार्य पवित्रं लिङ्गमूर्धन्यारोपयेत् ।
यद्यूनमधिकं वाथ पूजायां स्खलितं च्युतम् ॥ १३-१०६ ॥
तत् पावयेत् त्रायते च यस्मात् तस्मात् पवित्रकम् ।
प्रकृतेः परमीभावसम्पत्त्यर्थमनन्तरम् ॥ १३-१०७ ॥
परमान्त्रिकमुच्चार्य प्रासादं पूर्ववन्न्यसेत् ।
प्ररोच्य च यथान्यायं मुद्रया प्रागुपात्तया ॥ १३-१०८ ॥
पुष्पैर्धूपैः पुनश्चेष्ट्वा भ्राम्यमारात्रिकं भवेत् ।
शिवस्य दक्षिणे भागे पद्मे मूलाङ्ग(र्हि ? र्भि)ताम् ॥ १३-१०९ ॥
अक्षमालां तु गन्धाद्यैर्धूपान्तमभिपूजयेत् ।
अत्र
अक्षाणामक्षकल्पानां संयमो यः प्रसूयते ।
दृष्टादृष्टफलं चेष्टमक्षसूत्रं तदुच्यते ॥
शतेनाष्टाधिकं चा(ष्ट ? क्ष)मक्षाणां मेरुणा सह ।
तदर्धेनाथ पादेन संस्कृतं सर्वशम्बरैः ॥
इति ब्रह्मशम्भुः ।
मोक्षार्थी पञ्चविंशत्या धनार्थी त्रिंशता जपेत् ॥ १३-११० ॥
पुष्ट्यर्थी सप्तविंशत्या चतुःपञ्चाशता श्रियै ।
सर्वकामफलावाप्त्यै शतेनाष्टाधिकेन तु ॥ १३-१११ ॥
कन्याक(र्ति ?ल्पि)तसूत्रेण त्रिवृता त्रिगुणेन तु ।
प्रोक्तं तु सम्मुखैरक्षैर्ग्रथितं मेरुमूर्धनि ॥ १३-११२ ॥
अक्षसूत्रं गुरोर्लब्धं तदभावे स्वनिर्मितम् ।
कुशबन्धैर्जपेन्मुक्त्यै रत्नैर्हैमैश्च भूतये ॥ १३-११३ ॥
ब्राह्मणः क्षत्रियो वापि शुभैः शुद्धैर्मितैः समैः ।
विट्छूद्रौ पुत्रजीवैस्तु रुद्राक्षैः सर्व एव हि ॥ १३-११४ ॥
रुद्राक्षास्तु स्वयं रुद्रादुत्पन्नास्ते शिवात्मकाः ।
तैर्जपन् धारयंश्चैनान् रुद्रत्वमधिगच्छति ॥ १३-११५ ॥
अत्र
पशवोऽपि हि रुद्राक्षैः संयुक्ताः शिवतां गताः ।
इति शिवधर्मे ।
यावत् षोदशवक्त्रान्तमेकवक्त्रादिभेदतः ।
अष्टैकादशवक्त्रौ च षोडशास्या(न्ततो ? स्तथो)त्तमाः ।
रुद्राक्षस्त्वेकवदनो दुर्लभो ह्युत्तमोत्तमः ॥ १३-११७ ॥
त्रिचतुःपञ्चवक्त्राश्च कनिष्ठाः सुलभाश्च ते ।
शेषास्तु मध्यमाः प्रोक्ताः सर्वे चोक्तफलप्रदाः ॥ १३-११८ ॥
(सं)पूज्याक्षस्रजं पूर्वममृतीकृत्य वै जपेत् ।
मन्त्रमुच्चारयन्नक्षमेकैकं कर्षयेच्छनैः ॥ १३-११९ ॥
मोक्षायाङ्गुष्ठतर्जन्या भोगार्थी मध्यया युतम् ।
त्यक्त्वा कनिष्ठमन्याभिरङ्गुलीभिस्तु पुष्टये ॥ १३-१२० ॥
त्रिविधस्तु जपः स स्यादुच्चोपांशू च मानसः ।
उच्चोऽधमफलस्तद्वन्मानसो मध्यसिद्धिदः ॥ १३-१२१ ॥
उपांशुः श्रेष्ठफलदस्तस्मात् तेन जपेद् बुधः ।
अत्र मानसस्यातियत्नसाध्यत्वाद् (भाष्य ? बाह्य)स्याधमसिद्धिरूपत्वादुपांशुः साधारणरूपत्वात् प्रयोज्यः । त्रिविधोऽपि न द्रुतो न विलम्बितो नास्पष्टाक्षरो न चान्यमनसा कर्तव्यः । नित्यनैमित्तिकेषु प्राङ्मुखोदङ्मुखेन वा एकचित्तेन कार्यः इति भोजः । अत्र –
असङ्ख्या (तु ? तं) जपं होमं गृह्णन्त्यसुरराक्षसाः ।
अमौनिना चाशुचिना ततः पैशाचको जपः ॥
इति बृहत्कालोत्तरे ।
कल्पोक्तं तु जपं कृत्वा पूजामात्मानमेव च ॥ १३-१२२ ॥
मन्त्रपूजादिसिद्ध्यर्थं शिवाय विनिवेदयेत् ।
अत्र भोजराजः – ततो हृन्मन्त्रसम्पुटमस्त्ररक्षितं कवचावगुण्ठितं कुशपुष्पचन्दनोन्मिश्रगन्धोदकचुलुकत्रये जपं पूजामात्मानं च त्रिभिः श्लोकैर्ममास्तु फलसाधनमिति देवपादयोर्निवेदयेद् बुभुक्षुः इति ।
मुमुक्षुश्चेदिदं कर्म मास्तु मे देव ! बन्धकम् ॥ १३-१२३ ॥
इति । ॐ ।
गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवति मे येन त्वत्प्रसादात् त्वयि स्थि(तम् ? ता) ॥ १३-१२४ ॥
यत्किञ्चित् कुर्महे देव ! सदा सुकृतदुष्क्टम् ।
तन्मे शिवपदस्थस्य हुं क्षं क्षपय शङ्कर ! ॥ १३-१२५ ॥
शिवो दाता शिवो भोक्ता शिवः सर्वमिदं जगत् ।
शिवो यजति सर्वत्र यः शिवः सोऽहमेव तु ॥ १३-१२६ ॥
निवेद्यैवं सदात्मानं जपं पूजां च (भु ? भ)क्तितः ।
ततो नमस्कृत्य शिवं लब्धानुज्ञः शिवेन तु ॥ १३-१२७ ॥
यथोक्तमग्निकार्यं तु सम्यक् कृत्वा समाप्य च ।
अग्निष्ठं तु शिवं लिङ्गे समायोज्यानलं तथा ॥ १३-१२८ ॥
अथैकावरणं देवे वक्त्राङ्गेषु नियोजयेत् ।
देवं च लिङ्गमूर्तौ तु पुनरर्घ्यपुरस्सरम् ॥ १३-१२९ ॥
अष्टपुष्पिकयाभ्यर्च्य सापेक्षं तं विसर्जयेत् ।
योगपीठं च मूर्तिश्च शिवस्तस्याङ्गपञ्चकम् ॥ १३-१३० ॥
इत्यष्टौ पृथगष्टाभिर्मन्त्रैः सत्कृत्य पूजयेत् ।
सापेक्षो निरपेक्षश्च विसर्गो द्विविधः स्मृतः ॥ १३-१३१ ॥
लिङ्गे परिगृहीते तु (स्थिरे)वाथ चलेऽपि वा ।
सापेक्षं तु विसर्गः स्याच्छिवसान्निध्यकारणात् ॥ १३-१३२ ॥
निरपेक्षं तु सामान्यलिङ्गेषूद्वासनं स्मृतम् ।
सामान्यान्यपि लिङ्गानि क्षणिकानि हि मृन्मयम् ॥ १३-१३३ ॥
सैकतं पिष्टजं चाथ नावनीतं च गोमयम् ।
फलजं लिखितं चान्नमिति सामान्यमष्टधा ॥ १३-१३४ ॥
एतानि सद्यो निर्माय तदैवावाह्य शङ्करम् ।
पूजयित्वा यथान्यायं निरपेक्षं विसर्जयेत् ॥ १३-१३५ ॥
नैषां जलाधिवासो वा स्थापने शयनं न च ।
न तिथिर्न च नक्षत्रं लक्षणोधारणं नहि ॥ १३-१३६ ॥
सद्यः सपीठं सम्पूज्य विसृज्याप्सु क्षिपेच्च तत् ।
अयमेव विधिस्तुल्यः स्थण्डिलेऽग्नौ च (त ? द)र्पणे ॥ १३-१३७ ॥
कुम्भे जले च पूजायामात्मन्यपि सदा भवेत् ।
विशुद्धगोमयाम्भोभिर्विलिप्ते चतुरश्रके ॥ १३-१३८ ॥
परिकल्प्यासनं चेष्ट्वा तत्रावाह्य यथाविधि ।
पूजयेत् स्नपनं त्वत्र मानसं तु न बाह्यतः ॥ १३-१३९ ॥
स्थण्डिले स्याद् विधिरयं शेषं पूर्ववदाचरेत् ।
तद्वत् सकललिङ्गेषु मार्त्तिकेषु पटादिषु ॥ १३-१४० ॥
चित्रेष्वपि पुरस्तेषां निरम्बुकुसु(मान्य? मं य)जेत् ।
हेमरौप्यमयानां च रत्नजानां च पूजनम् ॥ १३-१४१ ॥
सकलानां प्रकुर्वीत सर्वं निष्कललिङ्गवत् ।
ताम्रारकूटकांस्यानामम्लाद्यैः शोधनं स्मृतम् ॥ १३-१४२ ॥
नैमित्तिकेषु स्नपनं कुर्यान्नित्यं न कारयेत् ।
निरपेक्षविसर्गेषु प्रागाराध्याष्टपुष्पया ॥ १३-१४३ ॥
विसृज्य प्रणवं न्यस्य तस्मिंश्चण्डेशमर्चयेत् ।
तमप्युद्वास्य मन्त्रांश्च हृत्पद्मे योजयेत् क्रमात् ॥ १३-१४४ ॥
अयं विधिः सामान्यस्थण्डिल एव । परिगृहीतानां स्थिरचललिङ्गानां विसर्गः सापेक्ष एव । यथा ब्रह्मशम्भुः –
निरपेक्षविसर्गस्तु लिङ्गे साधारणे मतः ।
परिगृहीतलिङ्गे तु सापेक्षः प्राक् प्रदर्शितः ॥
चललिङ्गेऽपि सापेक्षो निरपेक्षः स्थण्डिले सदा ।
इति । अत्र पौष्करेऽपि-
परिगृहीतलिङ्गस्य स्थिरस्याथ चलस्य वा ।
निरपेक्षविसर्गे तु महान् दोषोऽभिधीयते ॥
अपिच
प्रशस्तकालनक्षत्रमुहूर्तादौ विधानतः ।
लिङ्गे प्रतिष्ठा क्रियते मन्त्रमूर्तिविधानतः ॥
तदाप्रभृति तल्लिङ्गे वसत्यात्मैव यच्छिवः ।
तस्य प्रतिदिनार्चायामावाहनविसर्जने ॥
तत्पूजाप्रतिपत्त्यर्थं सम्मते ह्यौपचारिके ।
विश्वक्रियानुसन्धानं दृष्टं देहं शरीरिणः ॥
यथा जाग्रदवस्थायां तथास्यावाहनादिकम् ।
निवृत्ताखिलबाह्यार्थक्रिया चिन्मात्रशेषिता ॥
यथा सुषुप्त्यवस्थायां स्थितिर्दृष्टा शरीरिणः ।
तथा पूजावसाने तु सापेक्षोद्वासनं स्मृतम् ॥
लिङ्गे स्थिरे चले वापि प्रतिष्ठितशिवस्य तु ।
यथा हि तस्य कुण्डेऽग्नेः कालेकाले प्रबोधनम् ॥
होमादौ क्रियते (चा)न्ते तत्र तस्यैव गोपनम् ।
तथा स्यात् स्थापिते लिङ्गे विधिरावाहनादिकः ॥
सापेक्षे तु विसर्गेऽर्घ्यं दत्त्वा शम्भोः पराङ्मुखम् ।
मुद्रां परां दर्शयित्वा चोत्थाप्याङ्गानि चास्त्रतः ॥
संहारिण्या शिव ध्यात्वा मूर्तामूर्तौ(?)नियोजयेत् ।
अष्टपुष्पिकयाभ्यर्च्य ध्यायेत् तं निष्कलात्मकम् ॥
ततश्चार्घ्यादिपात्रेभ्यो मन्त्रान् संहृतिमुद्रया ।
सम्पूज्य निष्क्रम्य बहिर्गर्भागारं तु वर्मणा ॥
विहाय तद्बहिर्गत्वा क्षलिताङ्घ्रिकरद्वयः ।
आचम्याथ शिवं ध्यात्वा च्युतस्खलितशुद्धये ॥
जपित्वा संहितामन्त्रान् दानं दद्याच्छिवार्पणम् ।
इति ।
इतीदमेकावरणं तु पूजनं सदाशिवस्योदितमिष्टसिद्धिदम् ।
निरूप्य नानाविधशैवसंहिताः शिवशङ्करं शैवजनप्रियङ्करम् ॥ १३-१७२ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे एकावरणार्चनापटलस्त्रयोदशः ॥ १३ ॥