१२

अथ द्वादशः पटलः ।

अत्र ब्रूमः परिवारोचितानां मूर्तीश्चान्यत् सकलं दैवतानाम् ।
यद् विज्ञेयं यजनादौ विशेषाद् येनापि स्यात् फलसिद्धिः समग्रा ॥ १२-१ ॥

इष्ट्वा सूर्यं प्रथमं विघ्नशान्त्यै विघ्नाधीशं तद * * गुरुं च ।
शम्भोः पूजां विदधीताग्निकार्यं कृत्वा सम्यक् परिवाराश्च पूज्याः ॥ १२-२ ॥

सूर्यार्चायामथ तद्द्वारपालो दण्डी खड्गं विदधद् दक्षिणस्थः ।
खड्गी वामे कपिशः पिङ्गलाख्यो रक्ताकल्पावपि तौ चण्डवेषौ ॥ १२-३ ॥

विघ्नान् निघ्नन् द्विरदास्योऽरुणाङ्गो रक्ताकल्पः शशिमौलिस्त्रिनेत्रः ।
पूज्यो नित्यं द्विभुजो दक्षिणस्थः शुभकल्पः स्वगुरुश्चेशकोणे ॥ १२-४ ॥

प्रभूतासनं नाम हिरण्मयं चतुरश्रपीठं कृतादिचतुर्युगैः सितरक्तपीतकृष्णवर्णसिंहाकृतिभिर्विमलादिनाम-भिश्चतुष्पादैर्विधृतं तन्मध्यवर्तुलारुणबिम्बोपरि विकसिताष्टदलं सूर्यपद्मासनं विचिन्त्य तस्याग्न्यादिकोणदलेषु हृदयाद्यङ्गानि दिग्दलेष्वस्त्रं पुरतो नेत्रं च रक्तवर्णानि स्त्रीवेषाणि कृताञ्जलीनि पूजयेत्

रक्ताकल्पा ललिताङ्ग्यः सुवेषाः सिन्दूराभा नव याः शक्तयस्ताः ।
प्रत्राग्रस्था नवमी कर्णिकायां दीप्ताद्यास्तु द्विभुजा वन्दनीभिः ॥ १२-५ ॥

तत्पद्मकर्णिकामध्यावस्थितं भगवन्तं भास्करमुभयपार्श्वस्थितप्रभा(सन्ध्या?)सञ्ज्ञाभ्यां देवीभ्यां सहितं ध्यात्वावाहनादिभिरभ्यर्चयेत् ।

बन्धूकाभं सुकुमारं सुवेषं दिव्याकारं द्विभुजं पद्महस्तम् ।
रक्ताकल्पं कमलाताम्रनेत्रं वेदात्मानं विलसद्रुक्मदेहम् ॥ १२-६ ॥

दिव्यैर्मणिकुण्डलाङ्गदकटकहारादिभिराभरणैर्विभूषितं प्रसन्नवदनं भानुमालिनं देवं ध्यायेत् ।

शुक्लाकल्पं विकसत्पद्महस्तं प्रालेयांशुं द्विभुजं हारगौरम् ।
कम्राकारं कमलाक्षं प्रसन्नं चन्द्रं ध्यायेद् धवलाश्वाधिरूढम् ॥ १२-७ ॥

ऐशान्यां तेजश्चण्डं रक्तं रक्ताम्बरादिभिराभूषितं शूलहस्तं ध्यायेत् ।

अथवा –

श्वेतः श्वेताम्बराकल्पो द्विभुजस्तु गदाधरः ।
दशाश्वरथमारूढश्चन्द्रो ध्येयो वरप्रदः ॥ १२-८ ॥

रक्ताकल्पो वरदं शक्ति शू(ले दोर्भि)र्बिभ्रद् युगसङ्ख्यैर्गदां च ।
मेषारूढो ललिताङ्गः सुवेषो बन्धूकाभो भगवान् भूमिजः स्यात् ॥ १२-९ ॥

पीताकल्पो वरदं चापि खड्गं दोर्भिश्चर्माप्यथ बिभ्रद् गदां च ।
दिव्याकारो मकुटी भूषिताङ्गः सिंहारूढः शशिजः पीतवर्णः ॥ १२-१० ॥

पीताकल्पो धिषणः पीतवर्णो दण्डाक्षस्रग्वरदान् कुण्डिकां च ।
दोर्भिर्बिभ्रत् कनकस्यन्दनस्थः स्यादुष्णीषी मणिभिर्भूषिताङ्गः ॥ १२-११ ॥

श्वेताकल्पो भगवान् हारगौरो दण्डाक्षस्रग्वरदान् कुण्डिकां च ।
दोर्भिर्बिभ्रद् रजतस्यन्दनस्थः स्यादुष्णीषी भृगुजो भूषिताङ्गः ॥ १२-१२ ॥

नीलाकल्पो धृतशूलोऽञ्जनाभः प्रासं बिभ्रद् वरदं चेषुचापे ।
गृध्रारूढः स्वरथे भूषिताङ्गो ध्येयो मन्दो भगवानर्चनादौ ॥ १२-१३ ॥

कृणाकल्पः स्फुटभिन्नाञ्जनाभः शूली खड्गी धृतचर्माम्बराढ्यः ।
ध्वान्ताकारः सितदंष्ट्रोत्कटास्यो राहुर्नीलैर्हरिवीरै रथे स्वात् ॥ १२-१४ ॥

धूम्राकल्पा द्विभुजाः स्पष्टदंष्ट्रा धूम्राभासाः सगदास्ते वराढ्याः ।
रौद्राकाराः खलु गृध्रासनस्था ध्येया नैका रथिनः केतवः स्युः ॥ १२-१५ ॥

सर्वे ग्रहाः किरीटादिभिर्भूषणैर्विभूषिता युवानो लोकयात्राप्रवर्तका भोगैश्वर्यवरप्रदा ध्येयाः स्युः ।

सूर्यपूजामूर्तयः ।

प्रासादं यच्छिवशक्त्यात्मकं तच्छक्त्यन्तैः स्याद् वसुधाद्यैस्तु तत्त्वैः ।
शैवी मूर्तिः खलु देवालयाख्येत्यस्माद् ध्येया प्रथमं चाभिपूज्या ॥ १२-१६ ॥

शान्तिद्वारं प्रथमं पूर्वतः स्याद् विद्या याम्ये त्वथ पश्चान्निवृतिः ।
कौबेरं यत् तदपि स्यात् प्रतिष्ठा शान्तिद्वारं खलु नित्येषु शस्तम् ॥ १२-१७ ॥

मातङ्गास्यो धवलः पङ्कजस्थो द्वारे दन्ती सृणिपाशेक्षुहस्तः ।
ध्येयस्तुन्दी मकुटी दक्षिणे स्याद् रक्ताकल्पः शशिमौलिस्त्रिनेत्रः ॥ १२-१८ ॥

तद्वद् वाणी स्फटिकेन्दुप्रकाशा मुद्राक्षस्रक्कलशग्रन्थपाणि ।
शुभ्राकल्पा शशिमौलिस्त्रिनेत्रा वामे ध्येया सितपद्मोपविष्टा ॥ १२-१९ ॥

नन्दीशमहाकालौ द्वारपालावरणे वक्ष्येते।

गङ्गा तुङ्गस्वतरङ्गाच्छवर्णा दिव्याकारा युवतिर्दक्षिणे स्यात् ।
गौराकल्पा द्विभुजाम्भोजहस्ता वन्द(न्यो ?न्या)न्यस्फुटवामैकपाणिः ॥ १२-२० ॥

कालिन्दी स्यान्निजकल्लोलनीला लोलापाङ्गा युवतिर्दिव्यरूपा ।
वामे त्वब्जं दधती वामपाणावन्येनार्धं धृतवन्दन्यमुद्रा ॥ १२-२१ ॥

नाराचास्त्रं तनुविद्युत्प्रकाशं देहल्यां च स्थितमग्न्यर्ककल्पम् ।
वास्त्वीशः स्यादसुरोऽधोमु(खा ? खो)ऽङ्गान्याकीर्यैशे कृतशीर्षः शयानः ॥ १२-२२ ॥

तत्र वास्तुपुरु(षो)ऽधोमुखः प्रसारितपाणिपादो भूमौ शयानो ह्यसुरः ।
वास्त्वधिपतिर्ब्रह्मा परतो ज्ञेयः ।

आधाराख्या धवला शक्तिरुक्ता ज्योत्स्नाप्रख्या गगनाभा सुरूपा ।
लोकान् सर्वान् परमेशेच्छया या धत्ते नित्यं प्रथमं तेन पूज्या ॥ १२-२३ ॥

द्वात्रिंशद्भिः खलु तत्त्वैर्धराद्यैर्विद्यान्तैस्तैर्महितं विष्णुतेजः ।
आनन्तं तत् कथितं ह्यासनं स्यात् पीठाकारः स तु नागो ह्यनन्तः ॥ १२-२४ ॥

धर्मं रक्तं वृषरूपं तु सिंहं ज्ञानं श्यामं त्वथ भूतं तु पीतम् ।
वैराग्यं स्याद् गजरूपं सिताङ्गं चैश्वर्यं च क्रमशः पीठपादाः ॥ १२-२५ ॥

सितकाश्मीरतालालिवर्णान् सिंहाकृतीनित्यन्ये ।
पीठस्येषाः स्युरधर्मादयो ये चत्वारस्ते कनकाकाररम्याः ।

ईषाश्चाधर्ममित्यादि मञ्जर्याम् ।

पद्मं शुक्लं वितताष्टच्छदं स्यात् किञ्जल्काल्या रुचिरं कर्णिकाढ्यम् ॥ १२-२६ ॥

सौरे बिम्बे चतुरास्यः किरीटी हंसारूढः कलशं चाक्षमालाम् ।
ब्रह्मा बिभ्रद् वरदं चाभयाख्यं हस्तैर्ध्येयः सितवक्त्रश्चतुर्भिः ॥ १२-२७ ॥

सौम्ये बिम्बे गरुडे मेघनीलश्चक्रं शङ्खं गदयाब्जं दधानः ।
हारी माली कटकी सत्किरीटी विष्णुः पीतं वसनं कौस्तुभं च ॥ १२-२८ ॥

अग्नेर्बिम्बे वृषभे चन्द्रमौलिः श्वेतो रुद्रो दशबाहुस्त्रिनेत्रः ।
टङ्कैणाग्नित्रिशिखाहींश्च बिभ्रद् वज्राक्षस्रग्वरदाभीतिपाणिः ॥ १२-२९ ॥

एतेऽत्र पत्रकेसरकर्णिकाव्यापित्वेन ध्येयाः । यथा वातुले –

ब्रह्मा विष्णुश्च रुद्रश्च सूर्येन्द्वनलबिम्ब(पाः ? गाः) ।
ईश्वरस्तत्र च व्यापी तस्मात् पूज्यः सदाशिवः ॥

इति । ब्रह्मविष्णुरुद्रान् मण्डलव्यापित्वेन पत्रकेसरकर्णिकासु तद्व्यापिनमीश्वरं चार्चयेदिति । सदाशिवदेवस्यासनत्वेन चतुर्णामप्यधिकारः । अत्राह वरुणः –

अष्टबाहुश्चतुर्वक्त्रः स्फटिकाभस्त्रिलोचनः ।
नागयज्ञोपवीती च विज्ञेयो ध्रुव ईश्वरः ॥

इति ।

श्वेता रक्ता त्वसिता पीतवर्णा श्यामा कृष्णा (चा)ञ्जना स्याज्जपाभा ।
ज्योत्स्नाभा वेत्युदिता चारुरूपा वामाद्या याः परितो भूषिताङ्ग्यः ॥ १२-३० ॥

बद्धपद्मासनः शुद्धचन्द्रप्रभः षोडशाब्दोपमश्चारुदिव्याकृतिः ।
ब्रह्मभिः पञ्चभिः पञ्चवक्त्रः क्रियाज्ञानशक्तिस्पृहार्केन्दुवह्नीक्षणः ॥ १२-३१ ॥

पङ्क्तिसङ्ख्यैर्भुजैः साभयेष्टप्रदे शक्तिशूले दधच्चापि खट्वाङ्गकम् ।
दक्षिणे चान्यतः सर्पमक्षस्रजं डामरूकोत्पले बीजपूरं तथा ॥ १२-३२ ॥

सुप्रसन्नाननो दिव्यमाल्याम्बरो भूषणैर्भूषितो हेमरत्नोज्ज्वलैः ।
जाटजूटस्फुरच्चन्द्र + पूरकश्चिन्तनीयो भवेत् तत्र सादेश्वरः ॥ १२-३३ ॥

सादेशाभं विभुमीशानरूपं केचित् प्राहुर्ह्यपरे त्वेकवक्त्रम् ।
चन्द्राश्माभं वरदं शूलपाणिं चन्द्रोत्तंसं वरवेषं युवानम् ॥ १२-३४ ॥

काश्मीराभं सकपर्देन्दुमौलिं बीजापूरं दधतं चाक्षमालाम् ।
दिव्याकारं वरदाभीतिहस्तं ध्यायेत् पीतं पुरुषं भूषिताङ्गम् ॥ १२-३५ ॥

दष्टोष्ठास्यं कपिलश्मश्रुकेशं भीमाकारं धृतरक्ताम्बराढ्यम् ।
सर्पोष्णीषं सितदंष्ट्राकरालं सर्पैश्चोग्रैरलिभिर्भूषिताङ्गम् ॥ १२-३६ ॥

दोर्भिः शूलं परशुं चासिदण्डौ खट्वाङ्गाख्यं दधतं चर्मपाशौ ।
हेतीर्ध्यायेत् सकपालं कपालैः सालङ्कारं घननीलं त्वघोरम् ॥ १२-३७ ॥

बन्धूकाभं ललितं स्त्रीविलासं दिव्याकारं धृतधम्मिल्लकेन्दुम् ।
रक्ताभूषावसनालेपमाल्यं वामं ध्यायेद् धृतचर्मासिहस्तम् ॥ १२-३८ ॥

सद्योजातं शशिगोक्षीरगौरं शुक्लाकल्पाम्बरगन्धं त्रिनेत्रम् ।
सप्ताभारं वरदाभीतिहस्तं चन्द्रापीडं स्मरतां बालवेषम् ॥ १२-३९ ॥

पृथिव्याद्यष्टमूर्तीनां वामाद्याः शक्तयः क्रमात् ।
जगत्प्रवृत्तिसंसिद्धिर्याभिः सिध्येच्छिवाज्ञया ॥

इति कालोत्तरोदितत्वात् । अतोऽष्टमूर्तयोऽपि स्वरूपतः प्रदर्श्यन्ते –

पृथ्वीमूर्तिश्चतुरास्याष्टबाहुः कूर्मारूढा दधती दिव्यरूपा ।
पीता शालिप्रसवं चोत्पलं च साद्रिद्वीपाम्बुधिनद्यावृताङ्गी ॥ १२-४० ॥

मेषारूढो वरदाभीतिशक्तीर्बिभ्रद्धस्तैररुणः स्वस्तिकं च ।
ज्वालामालामकुटः पञ्चवक्त्रो हेमाकल्पः सुमुखः सप्तजिह्वः ॥ १२-४१ ॥

श्वेतोष्णीषो नवनीताक्तदेहः साङ्गं चर्मापि च कृष्णं दधानः । पत्न्या युक्तः सितयज्ञोपवीतिः स्रुक्पाणिः स्याद् यजमानोऽध्वरस्थः ॥

सप्तच्छन्दस्तुरगस्यन्दनस्थो बन्धूकाभः सुमुखश्चारुरूपः ।
रक्ताकल्पाम्बरमाल्यानुलेपः सूर्यो वर्मी मकुटी पद्महस्तः ॥ १२-४३ ॥

अम्भोमूर्तिः कथिता शुक्लवर्णा नक्रारूढा वरपाशौ दधाना ।
मुक्ताजालैर्विविधैर्भूषिताङ्गी शुभ्राकल्पा युगमौलिः सुमौलिः ॥ १२-४४ ॥

एणारूढः पवनो धूम्रवर्णः पीनाङ्गांसो मकुटी कुञ्चितभ्रूः ।
कृष्णाकल्पश्चतुरास्योऽङ्कुशी च दिव्याकारो युगबाहुर्ध्वजी स्यात् ॥ १२-४५ ॥

आकाशोऽपि स्फुटितेन्दुप्रकाशो दोर्भिः शूलं डामरूकं च शङ्खम् ।
खट्वाङ्गं चादधदर्धेन्दुमौलिस्त्र्यक्षो ध्येयः सकपर्दो वृषस्थः ॥ १२-४६ ॥

प्रालेयांशुर्हिमगोक्षीरगौरः शुक्लाकल्पो ललिताङ्गः किरीटी ।
शङ्खाम्भोजे वरदाख्यं गदां चाबिभ्रद् दोर्भिस्तुरगस्थोऽभिपूज्यः ॥ १२-४७ ॥

शर्वाद्यष्टौ वृषवाहास्त्रिनेत्रा वेदास्यास्ते सकपर्देन्दुखण्डाः ।
शूलं वज्रं शर(चापौ) दधाना नागाकल्पाः खलु ते मूर्तिपाः स्युः ॥ १२-४८ ॥

तद्वद्वर्णैः कमलस्वर्णरक्ताः शुक्लापीतावरणा रक्तकृष्णाः ।
मूर्तीशास्ते स्युरनन्तादयो ये विद्याधीशा अपि वर्णैः समानाः ॥ १२-४९ ॥

योगोपेताः सुमुखाश्चारुरूपा धम्मिलाग्रग्रथितस्र * * * ।
सौम्याः सर्वे सुदुकुलाम्बराढ्या विद्याधीशाः कथिता नागहस्ताः ॥ १२-५० ॥

योषिद्रूपाण्यपि चाङ्गानि वर्णैः श्वेतस्वर्णारुणकृष्णानिभानि ।
ध्येयानि स्याद् वरदाभीतिकाढ्यं त्र्यक्षं तेषामपि शूलं च टङ्कम् ॥ १२-५१ ॥

अत्र मञ्जर्यां –

हृदयादीनि चाङ्गानि तद्रूपा द्विभुजाः स्त्रियः ।
वरदाभीतिहस्ताः स्युरस्त्रं किञ्चित् तु पिङ्गलम् ॥

इति ।

नन्दीशाख्यो मकुटी स्वर्णवर्ण किञ्चिद्दंष्ट्री सुमुखो दक्षिणस्थः ।
द्वारे शूली गदयावस्थितः स्याद् दैत्याकारो द्युतिमान् सत्रिनेत्रः ॥ १२-५२ ॥

मेघश्यामः शुभवेषः किरीटी रक्ताकल्पो धृतटङ्कस्त्रिनेत्रः ।
द्वाःस्थो वामे गदयावस्थितः सन् दंष्ट्री किञ्चित् स महाकालसञ्ज्ञः ॥ १२-५३ ॥

निर्मांसाङ्गो धृतशूलस्त्रिनेत्रः प्रेताकारः कृशदीर्घोदरास्यः ।
भृङ्गीशाख्यः परमेशप्रियोऽसौ याम्यद्वारे स भवेत् पश्चिमस्थः ॥ १२-५४ ॥

लक्षावर्णो धृतटङ्काक्षमालो रक्ताकल्पो गजवक्त्रस्त्रिनेत्रः ।
ह्रस्वाङ्गः स्यादहियज्ञोपवीती याम्यद्वारे खलु पूर्वस्थितोऽसौ ॥ १२-५५ ॥

कैलासाभो हिमचन्द्रांशुगौरस्तुङ्गः शृङ्गी बहलाङ्गः ककुद्मान् ।
धर्मः साक्षाद् वृषरूपी चतुष्पात् पश्चाद्द्वाःस्थः खलु कौबेरभागे ॥ १२-५६ ॥

षड्वक्त्रोऽस्माद् द्विगुणाक्षश्च दोर्भिर्युक्तो रक्तः शिखिवाहः किरीटी ।
रक्ताकल्पः शिखिशक्त्यक्षमालापूर्वा हेतीर्विदधद् बालवेषः ॥ १२-५७ ॥

कन्या देवी दधती नीलवर्णा चक्रासीषूंस्त्रिशिखं शङ्खखेटे ।
दोर्भिश्चापं वरदं सिंहवाहा रक्ताकल्पा धनदद्वारपूर्वे ॥ १२-५८ ॥

संरक्ताङ्गः परशुं चापि कुण्डीं बिभ्रद् दोर्भिस्त्रिशिखं चाक्षमालाम् ।
चण्डेशः स्यान्मकुटी सत्रिनेत्रो दिव्याकरोऽरुणमाल्याम्बराढ्यः ॥ १२-५९ ॥

इ(न्द्रा ? न्द्रः)पीतो मकुटी युग्मबाहुर्हारैर्निष्कैः कटकैश्चाङ्गदाद्यैः ।
दिव्याकल्पो धृतवज्राशनिः स्यात् प्राच्यां देवैः सह चैरावतस्थः ॥ १२-६० ॥

तप्तस्वर्णद्युतिरग्निश्चतुर्भिर्दोर्भिर्बिभ्रद् वरदं चाभयं च ।
कुण्डीं तद्वज्जपमालां च हैमीं हैमाकल्पः सुमुखो वृद्धवेषः ॥ १२-६१ ॥

ज्वालावेष्टितस्वमण्डलस्थो दक्षिणभागाश्रितया स्वाहया सहितो मेषारूढश्च ।

नीलाभ्राभो बलवान् दण्डपाणिर्दिव्याकारो युगबाहुः किरीटी ।
कृष्णाकल्पो महिषं चाधिरूढः प्रेताधीशः खलु धर्मो यमः स्यात् ॥ १२-६२ ॥

चित्रगुप्तादिभिः स्वगणैः परिवृतश्च ।

रक्षोधीशो निर्-ऋतिः कृष्णवर्णो दंष्ट्री खड्गी शितिमाल्याम्बराढ्यः ।
भीमाकारोऽपि च रम्याकृतिः स्यात् स्वाशासंस्थः पुरुषं चाधिरूढः ॥

रक्षोगणैरावृतश्च ।

प्रालेयेन्दुस्फटिकस्वच्छवर्णः पीताकल्पो मकुटी भूषिताङ्गः ।
नक्रारूढो धृतपाशः सुरूपो देवो ध्येयो वरुणः स्यात् प्रसन्नः ॥ १२-६४ ॥

गङ्गायमुनादिभिर्दिव्यरूपिणीभिर्नागैश्च परिवृतः ।

धूम्रो वायुर्ललिताङ्गो युवा स्यान्नीलाकल्पो युगबाहुर्मृगस्थः ।
हारी बिभ्रद् ध्वजमप्यङ्कुशं च ध्येयो देवः सहितः स्यान्मरुद्भिः ॥ १२-६५ ॥

हेमाभासो मधुपिङ्गाक्षसौम्यो दिव्याकल्पो नरवाहो गदाधृक् ।
तुन्दी किञ्चिद् बहलो ह्रस्वबाहुर्यक्षाधीशो निधिभिश्चावृतः स्यात् ॥ १२-६६ ॥

मुक्तावर्णो धृतशूलस्त्रिनेत्रः श्वेताकल्पः सकपर्देन्दुखण्डः ।
सौम्याकारो वृषवाहः शिवांशो विद्याधीशो भवतीशानदेवः ॥ १२-६७ ॥

विद्यामूर्तिभिः परिवृतश्च ।

तप्तस्वर्णप्रतिमो हंसबाहो वक्त्रैर्युक्तः स चतुर्भिर्भुजैश्च ।
साक्षस्रक्स्रुक्स्रुवकुण्डीकुशांश्च बिभ्रद् ब्रह्मा सकपर्दः सुरूपः ॥ १२-६८ ॥

वामतः सावित्र्या दक्षिणतः सरस्वत्या च प्रजापतिर्भिर्देवैश्च समस्तलोकैः परिवृतः कुशध्वजश्च ।

नागाधीशैरखिलैः सेव्यमानः श्वेतारक्तप्रभया सौम्यरूपः ।
दिव्याकल्पः कमले चक्रहस्तो ध्येयोऽनन्तो वसुधाशेखरः स्यात् ॥ १२-६९ ॥

सहस्रफणामणिकिरणोद्भासितोत्तमाङ्गः स्यात् ।

शङ्खप्रख्यो वृषवाहस्त्रिनेत्रो नागाकल्पः सकपर्देन्दुखण्डः ।
भीमाकारोऽप्यतिभद्रो वटाधः शूली टङ्की निवसन् वीरभद्रः ॥ १२-७० ॥

हंसारूढा त्वरुणाभा चतुर्भिर्वक्त्रैर्दोर्भिर्धृतकुण्ड्यक्षमाला ।
ब्राह्मी देवी निवसन्ती पलाशे दिव्याकल्पा वरदाभीतिहस्ता ॥ १२-७१ ॥

प्लक्षे श्वेता सकपर्देन्दुरेखा टङ्कं शूलं वरदं चाभयं च ।
उक्षारूढा दधती सत्रिनेत्रा नागाकल्पा खलु माहेश्वरी स्यात् ॥ १२-७२ ॥

बन्धूकाभा ह्यरुणाकल्परम्या शक्त्यक्षस्रग्वरदाभीतिपाणिः ।
दिव्याकारा समयूरध्वजा या कौमारी स्यात् स्फुटमौदुम्बरस्था ॥ १२-७३ ॥

मेघश्यामा धृतपीताम्बराढ्या श्रीवृक्षस्था सकिरीटादिभूषा ।
शङ्खं चक्रं वरदं चाभयं च तार्क्ष्यारूढा दधती वैष्णवी स्यात् ॥ १२-७४ ॥

मेषारूढा हलचक्राब्जहस्ता नीलाकल्पा स्फुटभिन्नाञ्जनाभा ।
वाराही स्यात् सवराहास्यदंष्ट्रा घोरा रम्या निवसन्ती करञ्जे ॥ १२-७५ ॥

ऐन्द्री श्यामा वरमाल्यानुलेपा वज्रं पाशं वरदाभीतिके च ।
हेमाकल्पा दधती कल्पवृक्षच्छायासंस्था सचतुर्दन्तिवाहा ॥ १२-७६ ॥

कृष्णा रौद्री वटवृक्षेऽद्रिकल्पा शूलं खड्गं डामरुकं कपालम् ।
रक्ताकल्पा दधती प्रेतवाहा चामुण्डा स्याद् भटमुण्डान्त्रमाला ॥ १२-७७ ॥

विघ्नाधीशो गजवक्त्रोऽञ्जनाभष्टङ्काक्षस्रग्वरदाभीतिहस्तः ।
रक्ताकल्पः श्री * * * * * * भक्ष्यैः प्रीतो भगवानाखुवाहः ॥ १२-७८ ॥

सर्वा लोके विविधा मातरोऽन्या नानावेषाः शुभवर्णायुधाढ्याः ।
तास्तास्तुष्टाः शिवया(गस्स ? गे स) मेता ध्येयाः पूजामधिगम्य प्रसन्नाः ॥ १२-७९ ॥

रुक्मप्रख्या सकिरीटा चतुर्भिर्दोर्भिर्वज्रं दधती चाक्षमालाम् ।
अम्भोजं चाप्यभयं दिव्यरूपा शुभ्राकल्पाम्बुजसंस्था निवृत्तिः ॥ १२-८० ॥

रक्ताकल्पा स्फटिकस्वच्छवर्णा पाशाक्षस्रक्कमलाभीतिहस्ता ।
नानारत्नैर्मुकुटाद्यैरुपेता ध्येया रक्ताम्बुजसंस्था प्रतिष्ठा ॥ १२-८१ ॥

गुञ्जारक्ता सकपर्दा त्रिवक्त्रा चन्द्रोत्तंसा धृतशक्त्यक्षमाला ।
अब्जासीना जलजाभीतिहस्ता दिव्याकल्पा खलु विद्या कला स्यात् ॥ १२-८२ ॥

दोर्भिर्वक्त्रैरपि युक्ता चतुर्भिः कृष्णा कृष्णैर्वसनाद्यैरुपेता ।
सर्पाकल्पा सकपर्दा ध्वजाक्षस्रक् साभीतिः कथिता शान्तिसञ्ज्ञा ॥ १२-८३ ॥

शङ्खक्षीरस्फटिकस्वच्छगौरा पञ्चास्या स्यात् सकपर्देन्दुखण्डा ।
पद्माक्षस्रग्वरदाभीतिपाणिः शुभ्राकल्पा जलजे शान्त्यतीता ॥ १२-८४ ॥

पद्मासीनं चतुरास्यं सुपीतं ध्यानैकाग्रं द्विभूजाङ्कस्थमुद्रम् ।
ऊर्ध्वाक्षस्रक्कलशं दिव्यरूपं दिव्याकल्पं कथिताध्यात्मतत्त्वम् ॥ १२-८५ ॥

मेघानीलं श्रितपुर्यष्टकाब्जैर्दोर्भिः कुण्डीं जलजार्यक्षमालाः ।
विद्याधारं त्वभयं बोधमुद्रां विद्यातत्त्वं विदधद् दिव्यरूपम् ॥ १२-८६ ॥

इन्दुश्वेतं सचतुर्बाहुवक्त्रं दिव्याकारं धृतटङ्काक्षमालम् ।
पद्मासीनं सकपर्दं समुद्रं सक्तं ध्येयं शिवतत्त्वं समाधौ ॥ १२-८७ ॥

सौम्यासौम्यास्त्वपरे चाप्यसङ्ख्या नानारूपा वरवेषायुधाढ्याः ।
स्मर्तव्यास्ते दशदिक्स्था गणेशा ये वक्ष्यन्ते परतोऽस्मिन् समासात् ॥ १२-८८ ॥

पीतं रक्तं त्वथ कृष्णं च नीलं विद्युत्प्रख्यं बहुरूपं सुवर्णम् ।
अग्निज्वालाशशिसूर्यद्युतीनि वज्रादीनि क्रमशोऽस्त्राणि विद्यात् ॥ १२-८९ ॥

रक्षादक्षं निजलोकेशदिक्स्थं विघ्नान्निघ्नं पुरुषाकाररम्यम् ।
रक्ताकल्पं द्विभुजं स्वाङ्कशीर्षं प्राञ्जल्यस्त्रं खलु तत्तद्विधेयम् ॥ १२-९० ॥

तत्र गदा शक्तिश्च स्त्रियौ ।

कल्पानलसमप्रख्यं कोटिसूर्यसमप्रभम् ।
दंष्ट्राकरालवदनैर्वमदग्निशिखाकुलम् ॥ १२-९१ ॥

अनेकवक्त्रनयनमनेकायुधभीषणैः ।
भुजैरनन्तैः शस्त्राणि मुञ्चन्तं परिपन्थिषु ॥ १२-९२ ॥

व्यालयज्ञोपवीताढ्यं नागभूषणभीषणम् ।
रक्तगन्धाम्बरधरं शिरोमालान्त्रभूषितम् ॥ १२-९३ ॥

सिंहव्यालाहिगृध्रश्वव्याघ्रक्रोडद्विपाननैः ।
भूतैः परिवृतं नैकैरट्टहासविभीषणैः ॥ १२-९४ ॥

रक्षकं शिवभक्तानां सर्वोपद्रवनाशनम् ।
(हेदनं परदिव्यानां?) परसैन्यनिवारणम् ॥ १२-९५ ॥

रूपं पाशुपतास्त्रस्य प्रोक्तमेतत् समासतः ।
भिन्नाञ्जनगिरिप्रख्यं रक्ताकल्पसुभीषणम् ॥ १२-९६ ॥

दंष्ट्राकरालवदनं प्रदीप्तोर्ध्वशिरोरुहम् ।
शूलस्य मूलं वेतालं खड्गं दक्षिणतोऽन्यतः ॥ १२-९७ ॥

भुजैर्डमरुकं चैव कपालं घण्टयाष्टभिः ।
शूलमध्यं च दधतं व्याघ्रचर्माम्बरं विभुम् ॥ १२-९८ ॥

सद्यःकृत्तस्रवद्रक्तसद्भटाननमालिकाम् ।
लूतवृश्चिकमालां च (घण्टा ? कण्ठा) दाजानुलङ्घिनीम् ॥ १२-९९ ॥

नूपुरे कटिसूत्रं च क्रोडबन्धं तथाङ्गदैः ।
कटकानि तथा निष्कं कुण्डलोत्तंसकानि च ॥ १२-१०० ॥

उपवीतं च बिभ्राणमाक्रान्तमणिपादुकम् ।
अग्रविन्यस्तसव्याङ्घ्रिं युद्धोपक्रमभीषणम् ॥ १२-१०१ ॥

निखिलोपद्रवहरं स्मृतं * * * भञ्जनम् ।
अघोरास्त्रमिति ध्यायेद् यथोक्तपरिवारकम् ॥ १२-१०२ ॥

इत्थं मूलासनाङ्गानि गर्भद्वारेशलोकपैः ।
अस्त्राण्यावरणाख्यानि तेषां या मूर्तयः स्मृताः ॥ १२-१०३ ॥

ताः सर्वा मुख्यशो ह्यत्र कथिताः पूजनादिषु ।
यथायथावत् स्मर्तव्या नित्यादिष्विह कर्मसु ॥ १२-१०४ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे आवरणादिमूर्तिपटलो द्वादशः ॥ १२ ॥