११

अथैकादशः पटलः ।

दीक्षाभिषेकेष्वथ देशिकेन्द्रः प्राक्प्रस्तुतं शोभनकालमिष्टम् ।
ईक्षेत शिष्यस्य गुरोश्च यस्मिन् देशे च कालेऽभ्युदयो यथा स्यात् ॥ ११-१ ॥

मुख्यो वसन्तः शिशिरस्तु मध्यो ग्रीष्मः कनिष्ठोऽभिमतोऽत्र शुक्लः ।
पक्षः सितज्ञेन्दुसुरे (ड्य) वाराः शस्तास्तु वर्ज्या हि कुहूश्च रिक्ता ॥ ११-२ ॥

तिष्यप्रजेशादितिसोमविष्णुब्रह्मेन्द्रपूषानिलनैर्-ऋतानि ।
मैत्रोत्तराश्चेत्युदितान्युडूनां दीक्षाभिषेकेष्वनवग्रहाणि ॥ ११-३ ॥

ज्योतिर्विदां चाभिमतं यदन्यल्लग्नादिकं शस्तमनिष्टहीनम् ।
निश्चित्य कालं गुरुरत्र शिष्यान् सन्दीक्षयेत् तानधिकारियुक्त्या ॥ ११-४ ॥

विशिष्टदेशे च कुले प्रसूतः स्यादग्रजन्मा श्रुतवान् शुशीलः ।
शुचिः सुधीः शोभनलक्षणाङ्गः सौम्यस्तथाचार्यपदाधिकारी ॥ ११-५ ॥

सत्यव्रतः शमदमार्जवधर्मनिष्ठः
साष्टाङ्गयोगनिरतः शिवशास्त्रविद् यः ।
भक्त्या शिवेऽष्टविधया समलङ्कृतश्च
त्यागी सदैव करुणानिलयो गुरुः स्यात् ॥ ११-६ ॥

धीरः कृतज्ञः कुलशीलयुक्तो भक्तः शिवे चापि गुरौ विनीतः ।
शुश्रूषुरत्यर्थमभीष्टदाता शिष्योऽप्यलोभादिगुणान्वितः स्यात् ॥ ११-७ ॥

श्रुतशीलसमाचारश्रैष्ठ्यसामर्थ्यभक्तिभिः ।
गरीयाननुगृह्णाति योऽन्यान् स गुरुरिष्यते ॥ ११-८ ॥

तन्त्रचोदितदेशेषु जातो यस्तपसा चरन् ।
ज्ञानेन देशिकः स स्याच्छ्रेयोऽन्येषां च दर्शयन् ॥ ११-९ ॥

देशेन चरतीति देशिकः ।

देशेन जात्या वृत्तेन यः शिष्टो गुरुसंश्रयः ।
विशेषयिष्यन् स्वात्मानं स गुणैः शिष्य उच्यते ॥ ११-१० ॥

शासुरनुशिष्टावित्यस्माद्धातोः क्यपि तु रूपम् ।

आगस्त्यहिमवद्भूभृदन्तरालव्यवस्थिताः ।
ककाराष्टकनिर्मुक्ता देशा देशिकसम्मताः ॥

इत्यादि माहेन्द्रे ।

कुमारीहिमवन्मध्ये स्वतः कृष्णमृगान्विते ।
(देशे)जातस्तु यो विद्वानाचार्यत्वं द्विजोऽर्हति ॥

इति वीरे ।

आर्यावर्तोद्भवोऽन्यो वा ककाराष्टकवर्जितः ।
कुलीनो निपुणो दक्षो विनीतः प्रियदर्शनः ॥
शैवसिद्धान्ततत्त्वज्ञः प्रतिष्ठातन्त्रपारगः ।

इति प्रतिष्ठासमुच्चये । अत्र योगशिवपद्धतौ –

मध्यदेशे कुरुक्षेत्रलाटोज्जयिनिसम्भवाः ॥
अन्तर्वेदिप्रतिष्ठाना आवन्त्याश्च गुरूत्तमाः ।
गौडाः सुह्योद्भवास्तैरा मागधाः केरलास्तथा ॥
कोसलाश्च दशार्णाश्च गुरवः सप्त मध्यमाः ।
कर्णाटकमहाराष्ट्रकच्छनीरोद्भवास्तथा ॥
कलिङ्गाश्चैव लाम्बाकाः काम्बोजाश्चाधमाः स्मृताः ।
काञ्चीकाश्मीरसौराष्ट्रपाण्ड्यान्यविषयोद्भवाः ॥
कावेरीकोङ्कणोद्भूता निन्दिता गुरवः स्मृताः ।
कुण्डादयश्च रोगार्ता निन्द्याः स्युर्देशजा अपि ॥
भ्रष्टव्रताच्च पतितादुत्पन्नो यो नराधमः ।
भस्माङ्कुराह्वयौ त्याज्यौ निन्दितौ सर्वकर्मसु ॥
अन्यलिङ्गी तु तत् त्यक्त्वा पुनः शैवे तु दीक्षितः ।
सोऽपि निन्द्यः प्रतिष्ठादौ देशिकत्वं च नार्हति ॥
शैवदीक्षामनासाद्य शास्त्रमात्रप्रपाठकः ।
स्वयम्भूर्नाम निन्द्योऽसौ शैवकर्मसु गर्हितः ॥
सन्न्यासिनोऽङ्गहीनाश्च विरूपा मठभोजनाः ।
कर्णाटकलिङ्गाख्यकच्छकाश्मीरवासिनः ।
कोङ्कणाः करहाटाश्च काम्बोजाः कामरूपिणः ॥

ककाराष्टकसञ्ज्ञास्ते देशा देशिकवर्जिताः ।

एते कीकटा इत्येके इति विजये ।

क्रूरोऽल्पविद्यो व्यसनी कृतघ्नो डम्भः पुनर्भूर्गुरुभक्तिहीनः ।
मात्सर्ययुक्तो विषयी क्रियासु वर्ज्यः प्रतिष्ठादिषु तार्किकश्च ॥

इति मञ्जर्याम् । सन्न्यासी नास्तिकोऽम्बष्ठः इत्यादिश्लोकैर्देव्या मते गुरुत्वानर्हाः कथिताः ।

अथाचार्यः समः श्रीमानग्रजन्मा सुपेशलः

इत्यादि स्वायम्भुवे । अग्रजन्मा तु ब्राह्मण एव, ब्रह्मणः प्रथमजातत्वात् ।

देशज(न्म)श्रुताकारवृत्तशीलगुणान्वितः ।
सत्त्वप्रभावसम्पन्नो गुरुर्यो गुरुणा कृतः ॥

इत्यादि ब्रह्मशम्भुः ।

इत्थं यथाधिकारेण दीक्षाचार्येण साध्यते ।
स च सद्देशसम्भूतः सुमूर्तिः श्रुतशीलवान् ॥

इत्यादि सोमशम्भुः ।

दृष्टकर्मा शुचिर्दक्षः शिष्यानुग्रहतत्परः ।
शिवसद्भावविद् विद्वानात्मविद् देशिकोत्तमः ॥

इति मतङ्गे । इत्थं भूतादिदीक्षा लब्धाचार्येण क्रियते । स त्वार्यावर्तादिदेशसम्भूतः श्रुतशीलगुणाचारसम्पन्नः शुद्धाशयः स्यादिति भोजराजः । श्रेष्ठो देशकुलाशयैर्विनयवान् वाग्ग्मी कुलीनः इत्यादि प्रयोगमञ्जर्याम् ।

आचार्यः शिवशास्त्रज्ञः शस्तदेशसमुद्भवः ।
ब्रह्मचारी गृहस्थो वा शिवभक्तिपरायणः ॥
यजमानानुकूलर्क्षजन्मा देशिक उच्यते ।

इति देव्यामते ।

सर्वलक्षणयुक्तेन गुरुणा दीक्षितो नृपः ।
सर्वान् कामानवाप्नोति परत्र च शिवां गतिम् ॥

जटी मुण्डी शिखी वापि शस्तदेशसमुद्भवः ।
शिवशास्त्रार्थतत्त्वज्ञः श्रुतवृत्तान्वितो द्विजः ॥
शिवमेवाश्रितो नित्यं वाङ्मनःकायकर्मभिः ।
आचार्यः स इहोद्दिष्टः शिवदीक्षादिकर्मसु ॥

इत्यजिते ।

अनूचानः प्रसन्नात्मा शिवदीक्षाभिषेचितः ।
शिवागमज्ञो मतिमाञ् शिवपूजापरायणः ॥
रुद्राक्षमालां बिभ्राणस्त्रिपुण्ड्राङ्कितविग्रहः ।
विशुद्धदेशकुलजः शीलाचारसमन्वितः ॥
वेदशास्त्रार्थतत्त्वज्ञो ज्ञानवान् गुरुरुच्यते ।

इति सान्तानिके ।

कृष्णवर्णो मृगो यस्मिंश्चरतीह स्वभावतः ।
तं देशं यज्ञियं विद्याद् यश्च विप्रैरधिष्ठितः ॥
तद्देशकालसम्भूतस्त्वाचार्यः शास्त्रसम्मतः ।

इति सर्वज्ञानोत्तरे ।

शुभदेशोद्भवः श्रीमान् पदवाक्यप्रमाणवित् ॥
शिवशास्त्रार्थसन्तुष्टः सर्वत्र करुणानिधिः ।
चीर्णाचार्यव्रतो मन्त्री प्रसन्नहृदयाननः ॥
लिङ्गादिलक्षणज्ञाननिपुणः कर्मसन्ततौ ।
अहीनसन्ततिर्यस्तु ब्रह्मचारी गृही तथा ॥
सान्तानिको गृही श्रेष्ठः समयाचारपालकः ।
भौतिको ब्रह्मचारी यः पुरा पश्चाद् गृही भवेत् ॥
स भौतिको गृहस्थः स्यात् तज्ज्ञैराचार्य उच्यते ।
सोऽपि श्रेष्ठः तत्सुतश्च भवेत् सान्तानिको गुरुः ॥
देवताव्याप्तितत्त्वज्ञः षड्विधाध्वविशारदः ।
शुभाशुभनिमित्तज्ञोऽप्यथवा विस्तरेण किम् ॥

सम्यग्जातिः परिज्ञानं वृत्तं चाद्यास्त्रयो गुणाः ।
यस्यैते स गुरुः श्रेष्ठः सर्वकामफलप्रदः ॥

इति प्रतिष्ठापद्धतौ ।

पूर्णविद्याव्रतो मन्त्री ज्ञानवान् सुसमाहितः ।
भस्मनिष्ठो यतिः ख्यातो गुरुः स्याद् भौतिकोऽपि वा ॥

इति मोहशूरोत्तरे ।

द्रष्टव्यं गुरुणा नित्यं विप्रवृत्त्यनुसारिणा ।
य एवं वर्तते वन्द्यो ब्रह्मवित् स गुरुर्द्विज ! ॥

इत्यादि पराख्ये ।

शुभजातिं सुवृत्तस्थं शुभदेशसमुद्भवम् ।
क्रियाकाण्डरतं शान्तं धार्मिकं गुरुवत्सलम् ॥
प्रतिपन्नजनानन्दं शौचोपेतं दृढव्रतम् ।
विद्ययाभयदातारं लौल्यचापलवर्जितम् ॥
एवंविधं गुरुं प्राप्य को न मुच्येत बन्धनात् ।

इति वातुलोत्तरे । धार्मिकः सत्यनादीत्यादि सर्वज्ञानसमुद्रे ।

सर्वलक्षणहीनोऽपि ज्ञानववान् गुरुरिष्यते ।
ज्ञान च तत्त्वविज्ञानं षडध्वज्ञानसंश्रयम् ॥

इत्यादि पौष्करे ।

ब्राह्माणाः क्षत्रिया वैश्या विशुद्धाः साधकाः स्मृताः ।
स्ववर्णादानुपूर्व्येण स्युराचार्याः षडानन ! ॥

इति बृहत्कालोत्तरे ।

किमर्थं बहुनोक्तेन ग्रन्थगौरवकारिणा ।
इत्थमागमवाक्यानां बाहुल्याद् विप्र एव हि ॥ ११-११ ॥

दीक्षितश्चोदितैर्युक्तो गुणैः सौम्यः प्रियंवदः ।
योग्यो नृपगुरुत्वे स्यादन्येषां च न संशयः ॥ ११-१२ ॥

कुलशीलसमाचारैः संयुक्तो गुरुवत्सलः ।
गुरोरधीततन्त्रश्च पूतः साधकदीक्षया ॥ ११-१३ ॥

संसाधयति यो मन्त्रान् दृढभक्तिः स साधकः ।
मत्वासारं च संसारं मानुष्यं जन्म दुर्लभम् ॥ ११-१४ ॥

उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
इहामुत्रार्थभोगानां प्राप्तये चापि मुक्तये ॥ ११-१५ ॥

उपायः सुकरोऽस्त्यन्यो नहि मुख्यः शिवाश्रयात् ।
द्विजानामनुपेतानां स्वकर्माध्ययनादिषु ॥ ११-१६ ॥

यथाधिकारो नास्तीह स्याच्चोपनयनादनु ।
तथा ह्यदीक्षितानां तु तन्त्रमन्त्रार्चनादिषु ॥ ११-१७ ॥

नाधिकारोऽस्त्यतः कुर्यादात्मानं शिवसंस्कृतम् ।

तथाहि –

नारुद्रः संस्मरेद् रुद्रं नारुद्रो रुद्रमर्चयेत् ॥ ११-१८ ॥

नारुद्रः कीर्तयेद् रुद्रं नारुद्रो रुद्रमाप्नुयात् ।
शिवव्रत गृहीत्वा तु प्रत्यहं पालयेत् सुधीः ॥ ११-१९ ॥

तद्यथा –

वरं हि शिरसश्छेदो वरं हि मरणं मम ।
न त्वनभ्यर्च्य भुञ्जी(यां ? य) भगवन्तं त्रिलोचनम् ॥
न शिवार्चनतुल्योऽस्ति धर्मोऽत्र भुवनत्रये ।
इति विज्ञाय यत्नेन पूजनीयः सदाशिवः ॥

इति शिवधर्मे –

अतः समयिभिश्चैव साधकैर्गुरुभिस्तथा ।
प्रत्यहं यत्नमास्थाय पूजनीयः सदाशिवः ॥ ११-२० ॥

अत्र पतञ्जलिराह –

यदृच्छयाप्येकमपेतगन्धं त्वत्पादपद्मे कुसुमं निधाय ।
बहूनि कामं बहुरूप ! भुङ्क्ते पलान्यहो स्वादुतराणि लोके ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे साधकाचार्यलक्षण एकादशः पटलः ॥ ११ ॥