१०

अथ दशमः पटलः ।

प्रस्तु(तैः ? ता) प्रथ (म) मा (वि ? गम) दीक्षा षट्पदार्थपटले सविचारम् ।
सद्गुरुं तदधिकारविशेषैः सप्रभेदमपि तां कथयिष्ये ॥ १०-१ ॥

दीयते यदनया शिवभावो दीक्षया हि पशवेऽत्र ददातेः ।
क्षीयतेऽस्य सह पाशपशुत्वं क्षिक्षयार्थपरिनिष्ठितधातोः ॥ १०-२ ॥

वित्तनाथपथयायिनि सूर्ये वृद्धिमत्युडुपतौ शुभवारे ।
स्वर्क्षलग्नतिथियोगिनि कुर्यात् स्वानुकूलदिवसे खलु दीक्षाम् ॥ १०-३ ॥

शस्तसिन्धुतटदेवगृहादौ गोष्ठकेऽप्यथ मठे स्वगृहे वा ।
शोधिते भुवि सलक्षणमिष्टं मण्डपं च सुकृतं चतुरश्रम् ॥ १०-४ ॥

तस्य पूर्वदिशि पश्चिमतो वा शोभनेऽत्र भवने सुविविक्ते ।
रक्षणाय यजमानसमृद्ध्यै मङ्गलाङ्कुरविरोपणमिष्टम् ॥ १०-५ ॥

उत्सवेषु विविधेष्वपि दीक्षास्थापनादिषु पवित्रविधौ च ।
मङ्गलाङ्कुरविरोपणपूर्वं मङ्गलं भवति कर्म कृतं तत् ॥ १०-६ ॥

शस्तयागदिवसात् तु पुरस्तात् सप्तमेऽहनि शुभे नवमे वा ।
पञ्चमेऽपि सुदिने सुमुहूर्ते मङ्गलाङ्कुरविधिं विदधीत ॥ १०-७ ॥

पात्रमत्र विहितं त्रिविधं तत् पालिका च घटिका च शरावम् ।
विष्णुपद्मभवशङ्करदैवं तत्त्रयं पृथगनुक्रमशः स्यात् ॥ १०-८ ॥

अङ्गुलानि खलु विंशतिरुच्चैः पालिका वदनविस्तरतोऽपि ।
उत्तमाष्टजगतीपरिसङ्ख्ये मध्यमाधमविधौ कथिते द्वे ॥ १०-९ ॥

पादविस्तृतिरतोऽर्धमिता स्यात् तन्त्रिभागमितकण्ठबिलं च ।
दण्डवद्भवति शिष्टमशेषं कण्ठतुल्यपरिणाहमनोज्ञम् ॥ १०-१० ॥

उच्चविस्तरसमा घटिकाख्या तालमात्रमिह पञ्चमुखी स्यात् ।
दिक्षु तन्मुखचतुष्टयमेकं मध्यतस्तु समवर्तितभागम् ॥ १०-११ ॥

तालविस्तृतमुखं तु शरावं तत्समोच्छ्रितमतोऽर्धमिताङ्घ्रि ।
दण्डमस्य चतुरङ्गुलनाभं कण्ठमस्य बिलवर्ज्यमुदग्रम् ॥ १०-१२ ॥

सम्भवे कनकरूप्यकताम्रैर्मार्तिकान्यभिनवान्यथवा स्युः ।
क्षालितानि सलिलेन शिवास्त्रात् सूत्रवेष्टितगलानि निदध्यात् ॥ १०-१३ ॥

शुद्धमृत्सिकतगोमयचूर्णैः पूरितानि कुशकूर्चयुतानि ।
मङ्गलाङ्कुरगृहे सविताने पात्रकाणि विदधातु मनोज्ञे ॥ १०-१४ ॥

गोमयाद्भिरुपलिप्य तु भूमिं स्वाङ्गमूलमनुयुक्तजलास्त्रात् ।
प्रोक्ष्य पिष्टपरिरूषितसूत्रैरुक्तलक्ष्मविहिते चतुरश्रे ॥ १०-१५ ॥

विघ्नराजमभिपूज्य पुरस्तात् पुण्यकाहमपि वेदविशिष्टैः ।
वाचयेदधिकमेकमशीतेः स्युः पदानि कथिते चतुरश्रे ॥ १०-१६ ॥

मध्यतो नवपदैरथ शुक्लं कर्णिकाष्टदलकेसरशोभि ।
आलिखेत् सरसिजं तु रजोभिः शालिभिः सुविहितोच्छ्रितमध्यमम् ॥ १०-१७ ॥

तत्र सूत्रविनिवेष्टितकुम्भं धूपितं तु विनिधाय कुशेषु ।
द्वादशान्तगलितामृततोयैः पूरयेत् सकुशकूर्चहिरण्यम् ॥ १०-१८ ॥

पिप्पलाम्रनवपल्लवगन्धैर्माल्यदामकुसुमाक्षतवक्त्रम् ।
शालितण्डुलफलाढ्यविधानं वस्त्रयुग्मकुसुमैरभिरामम् ॥ १०-१९ ॥

मातृकाम्बुजगतं तु कलाभिः षोडशस्वरयुताभिरुपेतम् ।
तं विभाव्य शिशिरांशुमुदंशुं स्वौषधीशमुडुचक्रसमेतम् ॥ १०-२० ॥

पूजयेत् तदुपचारविशेषैः पायसं च सघृतं विनिवेद्य ।
शोभितेषु रजसाथ पदेषु स्थापयेत् तु पृथगङ्कुरपात्रम् ॥ १०-२१ ॥

आदित्ये समरीचे च विवस्वति यमे तथा ।
जलाधिपे च मित्रे च सोमे च पृथिवीधरे ॥ १०-२२ ॥

एषां पदेषु घटिकाः स्थापयेदष्ट वै क्रमात् ।
अग्नौ पूषणि पित्राख्ये दौवारे रोगनागयोः ॥ १०-२३ ॥

अदितावपि चेशाने शरावाण्यभिविन्यसेत् ।
एषां मध्यपदेष्वष्टौ दिग्विदिक्क्रमयोगतः ॥ १०-२४ ॥

स्थानानि पालिकानां तु कथितान्येषु विन्यसेत् ।
पदान्यादौ विलिख्यैषु शुक्लचूर्णेन पूरयेत् ॥ १०-२५ ॥

पृथक्छाल्याढके क्षिप्त्वा दर्भविष्टरके पृथक् ।
प्रस्थाप्य घटिकादीनि तेषु बीजानि वापयेत् ॥ १०-२६ ॥

माषमुद्गकुलस्थानि निष्पावतिलशालयः ।
सर्षपा मार्गगोधूमश्यामाकव्रीहयो यवाः ॥ १०-२७ ॥

प्रियङ्गवस्तथाढक्यो वेणवश्चेत्यनुक्रमात् ।
त्रिपञ्चवर्गबीजानि कथितान्युत्तमाङ्कुरे ॥ १०-२८ ॥

वर्गद्वयं मध्यमे स्यादधमे बीजपञ्चकम् ।
बीजानि क्षालयित्वाद्भिः क्षीरेण तदनन्तरम् ॥ १०-२९ ॥

वस्त्रखण्डे दृढं बद्ध्वा दिनमात्रं जले स्थितम् ।
उद्धृत्य यामद्वितये समतीते तु वापयेत् ॥ १०-३० ॥

बीजानां दैवतं सोमः स रात्रौ कान्तिमान् यतः ।
तस्माद् बुभुक्षुर्बीजानि निशायामेव वापयेत् ॥ १०-३१ ॥

अभिमन्त्र्य हृदा पूर्वं मन्त्रेणानेन वापयेत् ।
ॐ त्र्यम्बकाय शर्वाय शङ्कराय शिवाय च ॥ १०-३२ ॥

सर्वलोकप्रधानाय शाश्वताय नमो नमः ।
अनेनैव तु मन्त्रेण सिञ्चेद्धारिद्रवारिणा ॥ १०-३३ ॥

पञ्चोपचारेणाभ्यर्च्य चाच्छाद्य वसनैः सितैः ।
सप्तरात्रं बलिं दद्याद् वक्ष्यमाणक्रमेण तु ॥ १०-३४ ॥

ब्रह्मभूतेन्द्रगन्धर्वयक्षरक्षः पिशाचकाः ।
गणा बलिभुजः सप्त क्रमात् तन्नामलक्षिताः ॥ १०-३५ ॥

सान्नपुष्पकुशं ब्रह्मरात्रे तु प्रथमे बलिः ।
अन्नं दधि निशाचूर्णं लाजसक्तुतिलान्वितम् ॥ १०-३६ ॥

भूतक्रूरमिति ख्यातं भूतरात्रे प्रदापयेत् ।
इन्द्रवल्लीरसोन्मिश्रमन्नं सक्तुपयोदधि ॥ १०-३७ ॥

इन्द्ररात्रे तृतीये तु बलिं दद्यात् तु देशिकः ।
वैणवान्नं पयोयुक्तं गान्धर्वे स्याच्चतुर्थके ॥ १०-३८ ॥

पञ्चमे यक्षरात्राख्ये पुष्पान्नाज्याम्बुभिर्बलिः ।
रक्तान्नं सतुषं मृत्स्नायुक्तं षष्ठे तु राक्षसे ॥ १०-३९ ॥

सप्तमे त्वथ पैशाचे माषान्नं कृसरं मधु ।
हारिद्रचूर्णं तैलाढ्यं सामिषं तु प्रदापयेत् ॥ १०-४० ॥

अन्यथा केचिदाचार्याः प्राहुर्वैः गणसप्तकम् ।
तच्चात्र कथ्यते भूताः पितरोऽपि च गुह्यकाः ॥ १०-४१ ॥

नागा ब्रह्मा शिवो विष्णुर्देवताः सप्तरात्रिषु ।
प्रणवादिनमोन्तैः स्वैर्नामभिर्दापयेद् बलिम् ॥ १०-४२ ॥

प्रथमे भूतरात्रे तु भूतक्रूरेण दापयेत् ।
तिलैस्तण्डुलमिश्रैस्तु पितृरात्रे द्वितीयके ॥ १०-४३ ॥

तृतीये नालिकेराम्भःशाल्यन्नैर्यक्षरात्रके ।
सक्षीरपिष्टसक्त्वद्भिर्नागरात्रे चतुर्थके ॥ १०-४४ ॥

सपद्माक्षान्नमाज्यं च ब्रह्मरात्रे तु पञ्चमे ।
सापूपान्नेन साज्येन षष्ठे शैवे तु दापयेद् ॥ १०-४५ ॥

गुलौदनेन साज्येन सप्तमे वैष्णवे बलिः ।
यदा नव स्युर्दिवसाः पायसं कृसरं क्रमात् ॥ १०-४६ ॥

उद्दिष्टदैवतगणमुद्दिष्टबलिनार्चयेत् ।
न कश्चिदङ्कुराण्यन्यो निरीक्षेत कदाचन ॥ १०-४७ ॥

आचार्य एव प्रविशेत् तच्छिष्यो वा तदाज्ञया ।
आरूढैरङ्कुरैः कर्तुर्निर्दिशेत् तु शुभाशुभम् ॥ १०-४८ ॥

श्यामैः कृष्णैरङ्कुरैरर्थहानिं तिर्यग्रूढैर्व्याधिमालोहितैश्च ।
कुब्जैर्दुःखं (तत्प्र ? त्वप्र)रूढैर्मृतिं च ब्रूयाद् भग्नैः स्थानदेशेष्टहानिम् ॥ १०-४९ ॥

शुक्लैः पीतैः सम्प्ररूढैः सुपूर्णैः शीघ्रोत्पन्नैश्चारुभिर्व्यायतैश्च ।
लक्ष्मीं पुष्टिं चेष्टसिद्धिं समग्रां कर्ता विन्देदङ्कुरैर्मङ्गलं च ॥ १०-५० ॥

आचार्यस्तत्राङ्कुरेष्वप्रशस्तेष्वालक्ष्यास्मिन् शान्तिकं कर्म कुर्यात् ।
मूलेनाङ्गैर्ब्रह्मभिश्चाथ हुत्वा व्याहृत्यन्तं शोभनं स्यात् तिलैश्च ॥ १०-५१ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे अङ्कुरार्पणपटलो दशमः ॥ १० ॥