अथ नवमः पटलः ।
वक्ष्ये स्रक्सुवयोश्च लक्षणमथो स्रुग्धस्तमात्रायता
पालाशी खदिरोद्भवापि च तथा स्याच्छामिली शोभना ।
वेदाश्रं तु मुखं स्वराङ्गुलिमितं श्रेष्ठं रसैर्वा शरै –
र्मध्यं चाप्यधमं च निम्नमिह तन्मध्ये त्रिभागास्तृतम् ॥ ९-१ ॥
विस्तारेणं समं हि खातमपि तद् वृत्तं बहिर्मेखला –
स्तिस्रः स्युः कमलं तथैव परितस्तासां तु मध्ये भवेत् ।
कण्ठो गोलकविस्तृतोऽङ्गुलमितो दैर्घ्येण तच्चोर्ध्वतः
स्यादग्रं च शराङ्गुलायमथो विस्तारतस्तत्समम् ॥ ९-२ ॥
कण्ठे स्यादथ मध्यदेशसुषिरं तद्वै त्रिकोणं घृतं
निर्गच्छेद्धि यथायतं तदवटं यद्वत् कनिष्ठा विशेत् ।
तत्पृष्ठं कमलाङ्कितं खलु मुखं सर्वं गजोष्ठोपमं
शिष्टं वर्तुलदण्डमस्य तु भवेदग्रं सरोजाङ्कितम् ॥ ९-३ ॥
दण्डाग्रं परिणाहतः सरसिजस्याधो यथर्त्वङ्गुल
स्थूलोऽसौ क्रमशः प्रकोष्ठमिव तन्मूलं च वस्वङ्गुलम् ।
तत्र स्यादृपभोऽथवा सरसिजं श्लक्ष्णाकृतिः सर्वतो
निर्दोषाञ्छुभदेशजान् क्षितिरुहाञ्छित्त्वा स्रुचं कारयेत् ॥ ९-४ ॥
स्रुन्जातं तु भवेत् स्रुवं सुविहितं तालद्वयायामकं
कुर्याद् वर्तुलमङ्गुलेनं वदनं तस्यावटेऽर्धाङ्गुले ।
भित्तिर्मध्यगता स्मृता यवमिता तद्गर्तयोः श्लक्ष्णयोः
कर्षाज्यस्थितिगोष्पदाकृति च तत्पृष्ठे यवाभ्यां स्फिजौ ॥ ९-५ ॥
स्फिङ्मध्येन यवप्रमाणविहिता रेखा च वक्त्रादधः
कण्ठः पङ्कजलक्षणस्तु तदधो दण्डः सुवृत्तः समः ।
दण्डाग्रं परिणाहतोऽङ्गुलमितं मूलं ततोऽध्यर्धतः
स्याद् गोपुच्छनिभं गलात् प्रभृति तत् स्थूलं हि मूलं यथा ॥ ९-५ ॥
बाहुमात्र्योऽरत्निमात्र्यो वा स्रुच इत्येके ।
स्रुक्स्रुवाधिआरः ।
छित्त्वा पिप्पलशाखिकामथ शमीगर्भांस्तथाश्वत्थतो
निर्दोषां(श्च) षडङ्गुलायतसमाञ्छित्त्वारणिं कारयेत् ।
स्यान्नाहोऽस्य षडङ्गुलेन तु शिरो मूलेऽङ्घ्रिरग्रे स्मृतो
योनिर्मध्यगताङ्गुलैः श्रुतिमितैर्मन्थानयोग्या भवेत् ॥ ९-७ ॥
अश्वत्थेन तथोत्तरारणिरपि स्यात् षड्भिरेवाङ्गुलैः
कुर्याद् भ्रामकमस्य खादिरमृजुं नेत्रं च रज्जुं दृढाम् ।
तत्राग्निं जनयेत् तथेन्धनमपि त्वग्वर्जितं सारवद्
भिन्नं शस्ततरूद्भवं ध(म)नमप्युक्तं धवित्रादिना ॥ ९-८ ॥
अरणिविधिः ।
वक्राः शीर्णदलाः कृशाः कृमिहता भिन्नास्त्वशस्ताहृता
ह्रस्वाः स्थूलगतत्वचोऽप्युपहता दीर्घाग्निदग्धादयः ।
वर्ज्याः स्युः समिधः शुचिस्थलभुवः शेषाः समं छेदिता
मध्यानामिकयोस्तु नाहसदृशाः शस्ताः कनिष्ठाधमाः ॥ ९-९ ॥
इध्मोऽष्टादशभिः समिद्भिरुदितः प्रादेशमात्रोऽथवा
रत्न्यायाममितः क्वचित् परिधयो हस्तायताः स्युस्त्रयः ।
दीर्घो दक्षिणतस्तु पश्चिमशयः स्थूलस्तनुर्ह्रस्वकः
सौम्ये कौशिकजाश्च बालककुशाः श्रेष्ठा हि दर्भाः क्रमात् ॥ ९-१० ॥
व्यग्रा हस्तनखाहृताः क्रिमिहताः कर्मान्तरायोजिता
याम्या व्याघ्रविलङ्घनाद्युपहता धूम्रोर्ध्वशुष्कादयः ।
वर्ज्याः श्यामलकोमलाः प्रतिनवा लूनार्द्रशुष्कास्तथा
दर्भाः स्युर्यदिहाग्निकार्यपटले वेण्यादिकं चोच्यते ॥ ९-११ ॥
तत्र त्रिंशद्दर्भकृता वेणिः । अष्ट्यत्यष्टिधृत्यतिधृतिसङ्ख्या वा दर्भाः, परिस्तरणे पूर्वादितः स्युः । तत्त्वसङ्ख्यादर्भैर्बद्धं कूर्चं ज्ञानखड्गः, द्वात्रिंशद्दर्भैरिति केचित् । दर्भद्वयेन सामान्यम् । दर्भपञ्चकेन विशेषकूर्चम् इति संहितायाम् ।
इध्माबर्हिषां विधिः ।
स्थाल्याज्यस्य भवेच्छरावसदृशी विस्तारतोऽष्टाङ्गुला
विस्तारार्धसमुच्छ्रयापि च भवेन्नालं च वेदाङ्गुलम् ।
विस्तारेण षडङ्गुलोच्छ्रितसमं पात्रं प्रणीताम्भसां
स्यादष्टाङ्गुलविस्तृतोछ्रयसमा नालान्विता प्रोक्षणी ॥ ९-१२ ॥
अत्र पौष्करे – सर्वत्र स्वर्णरजतताम्रमृन्मयानि पात्राण्युत्तममध्यमाधमफलानि भवन्तीति ।
अष्टाभिः कुडुबैः प्रपूरितचरुः स्थाली स्मृतात्राधमा
मध्यार्कस्वरसङ्ख्यकैः परिमिता स्यादुत्तमा ताम्रजा ।
श्रेष्ठान्या त्वधमा त्रिसप्तकमिता दर्व्यङ्गुलानां भवेद्
दैर्घ्यात् सप्तशराङ्गुलैरिह शिरोवृत्तं तु पुच्छं द्वयात् ॥ ९-१३ ॥
शाल्यः स्युः सितषष्टिकाश्च कलमा नीवारजास्तण्डुलाः
संशुद्धास्तुषशर्करादिरहिताः शुक्लाः प्रशस्ताश्चरोः ।
श्रेष्ठं यत् स्वपशोर्घृतं नवमथ क्रीतं नवं मध्यमं
क्रीताज्यं यदनूतनं तदधमं गव्यं भवेद् गालितम् ॥ ९-१४ ॥
क्षौद्रं गन्धरसाद्यदूषितमपि क्रीतं पुनर्गालितं
ग्राह्यं क्रीतसितोपलाद्यभिनवं खण्डं गुलं चैक्षवम् ।
पूर्वं पूर्वमिह प्रशस्तमखिलं शुद्धं च शुक्लार्जितं
होमादेश्च तिलादिधान्यमखिलं प्रक्षाल्य संशोधितम् ॥ ९-१५ ॥
यच्चान्यत् फलमूलकादि सुरसं ग्राह्यं विशुद्धं नवं
तत्राङ्गुष्ठमिताहुतिस्तु कथिता ह्यन्य(स्य ? त्र) शाल्यादिषु ।
स्यात् पञ्चाङ्गुलिभिर्घृतं द्रवरसेषूक्तं स्रुवा पूरितं
लाजानां खलु मुष्टिरेव कुसुमेष्वेकैकमब्जादिषु ॥ ९-१६ ॥
वल्लीनां चतुरङ्गुलं कणतिले सक्तुष्वपि स्यान्मृगी
साङ्गुष्ठा खलु मध्यमाङ्गुलियुता नाम्ना मृगीसञ्ज्ञिता ।
गन्धानां चणकीमितं तु बदरीबीजोपमं गुग्गुलो –
र्भक्ष्याणां च महाफलादिषु भवेदक्षप्रमाणाहुतिः ॥ ९-१७ ॥
खर्जूरेङ्गुदगोस्तनीबदरिकाजम्बूफलानां तथा
पत्राणां पृथगेकमेकमुदिता पर्वैकमिक्षोरपि ।
नानाभक्ष्यविमिश्रहोमविषये पञ्चाङ्गुलीभिर्धृतं
दूर्वाग्रत्रितयं तथैव समिधामेकैकमेवाहुतिः ॥ ९-१८ ॥
आहुतिप्रमाणम् ।
स्याद् वर्धन्यपि पूर्णभारसलिला कुम्भश्च खार्यम्बुभृद्
द्रोणाम्भःपरिपूरितस्तु कलशः पू(र्णः ? र्णा)शिवात् कर्करी ।
पूर्णा स्याद् घटिकाढकेन कुडुबद्वन्द्वं शरावं स्मृतं
(सं)पूर्णः कुडुबेन वा प्रसरतः शङ्खश्च दीपस्तथा ॥ ९-१९ ॥
पात्रमानम् ।
वक्ष्ये शुद्धिमपीह पात्रविषयां द्रव्यादिकानां तथा
यावद् गन्धविलेपनाद्यपगमस्तावज्जलैः क्षालयेत् ।
चूर्णैरप्यवघर्षयेत् पुनरपि प्रक्षाल्य चोष्णैर्जलैः
प्रात्राणां भवतीह शुद्धिरधुना शुद्धिर्विशिष्टोच्यते ॥ ९-२० ॥
सौवर्णं सलिलेन शुध्यति यथा लेपापनोदो भवेत्
पात्रं शुल्बमयं त्वथाम्लसलिलैस्तारोद्भवं गोमयात् ।
कांस्यं भस्मजलैस्तथा मणिमयं सूर्यांशुभिर्वाम्भसा
मृत्पात्रं दहनेन चेदभिनवं तत्तक्षणाद् दारवम् ॥ ९-२१ ॥
दाहादायसशुद्धिरेवमुदिता लोहानि तत्कर्तृभिः
स्पर्शाद् वा तुरगाननाभिगमनाच्छुध्यन्त्यनन्याहतौ ।
शुद्धिश्चर्मसु रज्जुवस्त्रविषये चेत् क्षारवारिप्लवात्
स्याच्चालाबुकवैणवेऽम्बुपवनं गोबालकाघर्षणात् ॥ ९-२२ ॥
शुद्धिः सोदकभाजनेष्वपि भवेत् पर्यग्निकृत्वा तथा
धान्यानां फलदर्भमूलसमिधां सम्प्रोक्षणाधावनैः ।
कौशेयादिदुकूलपट्टवसनैर्यान्युप्तरङ्गाणि ता –
न्यम्भस्सेकविरागकाणि धवलैः शुध्यन्ति सिद्धार्थकैः ॥ ९-२३ ॥
त्याज्यं दारववैणवादिकमथो भाण्डं तथा मार्तिकं
श्लेष्मोच्छिष्टमलादिदुष्टमथवा निर्माल्यसन्दूषितम् ।
स्नेहानामपि शुद्धिरप्युपहतिर्नो चेदभिद्योतना –
च्छुध्येताथ जलाशयादिषु निशास्वग्नेः शिखादर्शनात् ॥ ९-२४ ॥
गोभिर्वाध्युषिता निखानिततला कृष्टाथवा सूद्धृता
भूः शुद्ध्येद् भवनादिकं च सलिलैः सद्गोमयालेपितम् ।
पुण्याहाद् द्विजभोजनेन च तथा चोल्लेखनाद् वा क्षितिः
शुध्येत् पातकिनाभिभाष्य वचसां शुद्धिर्द्विजाभाषणात् ॥ ९-२५ ॥
प्राणायामैः शुध्यति देहः समनस्कः स्पृष्ट्वास्पृश्यानप्सु निमग्नः सहचेलः ।
जग्ध्वा यत् तद् वा क्षुतनिष्ठविनजृम्भास्वाचम्यान्तेजातशुनामप्यवलोके ॥ ९-२६ ॥
निस्सार्याम्भः कूपजलादेर्महदम्भो वेगात् स्पृष्टं वांशुभिरंशोरिह शुध्येत् ।
अग्निः शुध्येन्मन्त्रवदम्भः परिषेकात् प्रायश्चित्ताच्चाग्निमुखाद्वाहितवह्निः ॥ ९-२७ ॥
गन्धादीनां मन्त्रजलैः प्रोक्षणतः स्याच्छुद्धिः क्षीरान्नादिषु चाज्यं त्वभिघार्य ।
दर्भेणाभिद्योतनतोऽल्पा प्रहतिश्चेच्छिष्टानामप्येवमिवोह्या परिशुद्धिः ॥ ९-२८ ॥
सामान्येन श्रैष्ठ्यगुणानामपि हेतुः कर्मद्रव्यस्वात्मसु शुद्धिर्मनसो या ।
शुद्धिः सा स्यात् यस्य तु रागाद्यविदुष्टा चेच्चत्वारोऽप्यस्य करस्थाः पुरुषार्थाः ॥ ९-२९ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे क्रियापादे स्रुक्स्रुवादिलक्षणपटलो नवमः ॥ ९ ॥