अथाष्टमः पटलः ।
प्रासादे मण्डपे वापि गृहे वा यत्र कर्म तत् ।
क्रियते तत्र संशुद्धे गोमयालेपिते स्थले ॥ ८-१ ॥
मध्येऽत्र सूत्रं वरुणेन्द्रदीर्घं निवेश्य चास्फाल्य तु तस्य मध्ये ।
बिन्दुं विधायापरपूर्वयोर्वै तदङ्कयेत् सूत्रवशात् समानम् ॥ ८-२ ॥
पुनस्ते सूत्रखण्डे तु समं भित्त्वाङ्कयेदपि ।
बिन्दोस्तु पूर्वापरमध्यमाङ्कैर्मितेन सूत्रेण तदाहितेन ।
बिन्दोः सयाम्योत्तरदिक्समाङ्कवशात् समालिख्य तुं मत्स्ययुग्मम् ॥ ८-३ ॥
तयोर्निधाय सूत्रं स्याद् दक्षिणेनोदगायतम् ॥ ८-४ ॥
इत्थं ब्रह्माह्वयं सूत्रमुदक्सूत्रं च साधयेत् ।
क्षेत्रार्धमानेन तु बिन्दुसं(स्थ ? स्थां)श्चतुर्दिशं सूत्रवशाद् यथेष्टम् ।
अङ्कान् विधायाथ तदङ्कयुग्मात् सूत्रद्वये स्युः खलु कोणमत्स्याः ॥ ८-५ ॥
तेषु मत्स्येषु परितो दिक्षु सूत्रैर्निपातितैः ॥ ८-६ ॥
चतुरश्रं भवेत् क्षेत्रं चतुष्कोष्ठं समं शुभम् ।
सर्वमण्डलकुण्डादिवास्तुनिर्माणकारणम् ॥ ८-७ ॥
चतुरश्रसाधनम् ।
कुण्डं प्रशस्तं चतुरश्रमादावश्वत्थपत्रं च तथार्धचन्द्रम् ।
तद्वत् त्रिकोणं त्वपि वर्तुलं स्यात् षट्कोणकं पद्ममथाष्टकोणम् ॥ ८-८ ॥
रत्निमात्रं शतार्धे स्याच्छतहोमे त्वरत्निकम् ।
सहस्रे हस्तमानं स्यादयुते च द्विहस्तकम् ॥ ८-९ ॥
लक्षे चतुष्करं कुण्डं दशलक्षे तु षट्करम् ।
कोटिहोमेऽष्टहस्तं स्याद् यथा भोजेन्द्रपद्धतौ ॥ ८-१० ॥
सर्वाणि कुण्डानि यथोक्तमानादायामविस्तारसमानि तानि ।
खातं च विस्तारसमं विधेयं तिस्रः क्रमाच्चोपरि मेखलाः स्युः ॥ ८-११ ॥
समं स्यात् सर्वतः खातं खातोपरि चतुर्दिशम् ।
एकाङ्गुलं परित्यज्य कुर्यात् तिस्रोऽथ मेखलाः ॥ ८-१२ ॥
रत्निप्रमाणे खलु मेखला स्यादाद्याङ्गुलाभ्यामपराङ्गुलेन ।
अर्धाङ्गुलान्या त्वथ चाप्यरत्नौ त्रिद्व्येकमात्राङ्गुलकैर्विधेया ॥ ८-१३ ॥
अत्र भोजराजः –
मुण्डहस्तप्रमाणे स्यादाद्या द्व्यङ्गुला । द्वितीया अङ्गुलेन । अर्धाङ्गुलेन च तृतीया । अरत्निप्रमाणस्य त्र्यङ्गुलद्व्यङ्गु(ल ? लैकाङ्गुल)माना इति ।
हस्तकुण्डे मेखलाः स्युश्चतुस्त्रिद्व्यङ्गुलाः क्रमात् ।
षट्चतुस्त्र्यङ्गुलैः कुर्याद् द्विहस्तेऽपि यथाक्रमम् ॥ ८-१४ ॥
चतुष्करे त्वष्टकषट्चतुर्भिः षड्ढस्तके चापि दशाष्टषड्भिः ।
स्युरङ्गुलैरष्टकरेऽपि कुण्डे ताः षोडशद्वादशकाष्टसङ्ख्यैः ॥ ८-१५ ॥
सर्वाः सर्वेषु कुण्डेषु विस्तारोच्छ्रयतः समाः ।
परितः स्वसमायामा निम्नोन्नतविवर्जिताः ॥ ८-१६ ॥
अत्र भोजराजः –
क्रमेण सर्वकुण्डेषु तिस्रो मेखलाः कुण्डानुरूपेणैव विधातव्याः
इति ।
कुण्डस्य पश्चिमे योनिं कुर्याद् दक्षिणतोऽपि वा ।
मध्यतो मेखलानां तु सर्वासामुपरि स्थिताम् ॥ ८-१७ ॥
सूर्याङ्गुलायाममिता तु योनिरामूलतोऽश्राद् वसुवेददस्रैः ।
तुल्याङ्गुलैस्तु क्रमशोऽङ्गुलोच्चा द्राङ्निर्गताग्रापि च रत्निकुण्डे ॥ ८-१८ ॥
अरत्न्यादिषु कुण्डेषु द्व्यङ्गुलं द्व्यङ्गुलं पृथक् ।
क्रमादायामविस्तारवृद्ध्या योनिर्विधीयते ॥ ८-१९ ॥
अत्र भोजराजेन्द्रपद्धतौ –
एवं प्रथमकुण्डस्य । शेषाणां द्व्यङ्गुलवृद्ध्या योनिर्विधातव्या इति ।
मञ्जर्यां च –
हस्तमात्रस्य कुण्डस्य
तालायता जलपतेर्दिशि संस्थिता स्यादश्वत्थपत्रसदृशी क्रमशोऽथ निम्ना ।
नाभिर्दशाङ्गुलषडङ्गुलतः क्रमेण विस्तारतश्च चतुरङ्गुलगोलकाग्रा ॥
इति ।
चतुरश्रं तु वा वृत्तं कुण्डं नित्ये च शान्तिके ।
सार्वकामिकमित्यन्ये चतुरश्रं तु वर्तुलम् ॥ ८-२० ॥
श्रुत्येकांशं तु सीम्नोर्बहिरपि पुरतोऽथाङ्कयित्वाम्बुनाथे
तन्मानात् सूत्रमन्तर्निहितमुभयतः कोणयोर्वर्तयित्वा ।
मध्याद्यन्यस्य कर्णान्तकमपि परतः कोणयोः पूर्वचिह्ने
सूत्रे त्वास्फाल्य योनिप्रतिममपि भवेत् कुण्डमश्वत्थपत्रम् ॥ ८-२१ ॥
चतुरश्रं युगांशांशं कृत्वान्त्यश्चोत्तरे यजेत् (?) ।
भागं त्वनेन प्राक्प्रत्यग् बहिरङ्कौ निधाय तु ॥ ८-२२ ॥
तद्वद् दक्षिणतो मध्यस्थितसूत्रभ्रमाद् द्वयोः ।
अर्धचन्द्रसमाकारं कुण्डं भवति शोभनम् ॥ ८-२३ ॥
वेदाश्रे चतुरंशके भुजमितं प्रागंशमाप्याद् बहिः
क्षिप्त्वा मध्यमवारुणाङ्कविहिते सूत्रे द्विधा वर्तिते ।
स्यातां द्वौ शफरौ तयोश्च पुरतश्चाङ्केऽथ सूत्रत्रयं
क्षिप्त्वा नैर्-ऋतदिङ्मुखे भवति तत् कुण्डं त्रिकोणाह्वयम् ॥ ८-२४ ॥
षष्ठाशं पूर्वनिहितं गृहीत्वा नैर्-ऋतस्थितम् ।
वायव्यान्तेषु सूत्रे द्वे क्षिप्त्वा वा स्यात् त्रिकोणकम् ॥ ८-२५ ॥
मध्यबिन्दुस्थितं सूत्रं प्राग्भुजाङ्कन्निधाय तु ।
परिवर्त्य भवेत् कुण्डं वर्तुलं तत् सुशोभनम् ॥ ८-२६ ॥
भु(जा)शब्दस्याभिप्रायात् प्राग्भुजाया बहिः प्राक्च्छब्ददर्शनादङ्गुलाः ये (?) निधायेति यावत् ।
बाह्यस्थं षष्ठमंशं शतमखवरुणस्थापितं वेदकोणे
मध्ये संस्थाप्य सूत्रं सममिह तु तयोर्वर्तयित्वा तु बाह्ये ।
चत्वारस्तत्र मत्स्यास्तदनु धनददिग्दक्षिणस्थे च सूत्रे
तत्रस्थेष्वेव चिह्नेष्वथ समपतिते स्यात् षडश्रं हि कुण्डम् ॥ ८-२७ ॥
वृत्तकुण्डेऽब्जप्रत्राणि बाह्ये तन्मेखलोपरि ।
कुण्डार्धमायतान्यष्टौ कृत्वा स्यात् पद्मसञ्ज्ञितम् ॥ ८-२८ ॥
आदित्याङ्गांशमन्तर्बहिरपि परितः सम्भ्रमाद् दिक्षु ताभ्यां
द्वाभ्यां मत्स्यौ भवेतां दिशि दिशि विततैस्तेषु सूत्रैर्यथावत् ।
कुण्डं स्यादष्टकोणं सुरुचिरमथवाप्यर्धदिक्सूत्रकोणैः
शिष्टार्धाप्यैन्द्रपञ्चाशकशफरयुगोत्पन्नमीनाष्टकैर्वा ॥ ८-२९ ॥
तुर्यश्रं नवधा विभज्य तु बहिश्चान्तः क्षिपेदंशकं
दिक्कोणोषु विधाय चांशमथ तत्संस्थैः क्रमात् सूत्रकैः ।
स्यातां द्वे चतुरश्रके सममिते व्यत्यासतोऽष्टाश्रकं
ह्यैशान्यां सुसमं यथा सुरुचिरं कुण्डं तथा वा भवेत् ॥ ८-३० ॥
कुण्दाधिकारः ।
चतुरश्रं तु संसाध्य द्व्यष्टधा विभजेत् पुनः ।
षट्पञ्चाशच्च कोष्ठानां द्विशतं चात्र वै भवेत् ॥ ८-३१ ॥
षण्णां षड्भिस्तु कोष्ठैर्लिखतु सरसिजं मध्यदेशेऽस्य बाह्ये
पङ्क्त्या पीठं च पीठाद् बहिरपि परितः पङ्क्तियुग्मेन वीथीम् ।
तद्बाह्ये पङ्क्तियुग्मे दिशि विदिशि तथा द्वारकण्ठोपकण्ठान्
गल्लांश्चैवोपगल्लाननलनिर्-ऋतिवाय्वीशकोणेषु कोणान् ॥ ८-३२ ॥
(कण्ठोपकण्ठान् ? गल्लोपगल्लान्) कपोलोपकपोलान् शोभोपशोभानिति केचिदाहुः ।
पद्मक्षेत्रस्थदिक्सूत्रे संस्थाप्यान्यद् विमृज्य तु ।
बहिर्द्वादशकं भागं त्यक्त्वान्यत् परिवर्तयेत् ॥ ८-३३ ॥
क्षेत्रं चतुर्धा विभजेत् तु वृत्तं सूत्रक्रमेणैव समं क्रमेण ।
तत्कर्णिकाकेसरपद्म(ग ? स)न्धिपत्रावसानं च भवन्ति तानि ॥ ८-३४ ॥
पूर्वं द्वादशकांशं यत् त्यक्तं तद् भ्रामयेद् बहिः ।
पञ्चमं तु भवेत् क्षेत्रं व्योमाख्यं तद्दलाग्रकम् ॥ ८-३५ ॥
प्रसार्य कोणसूत्रे द्वे कोणदिङ्मध्यमेन तु ।
चत्वारि सूत्राण्यास्फाल्य सूत्रषोडशकं भवेत् ॥ ८-३६ ॥
दलान्तसिद्ध्यै दलसन्धिमध्ये निधाय सूत्रं तु दलान्तमानम् ।
दलान्तरालद्वयसम्भ्रमोत्थैः शशाङ्कखण्डैस्तु दलं प्रसिध्येत् ॥ ८-३७ ॥
पद्मषोडशसूत्राणां मध्यं सूत्रैर्विभज्य तु ।
द्वात्रिंशत्खण्डसूत्राणि स्युर्दलाग्रवृतौ समम् ॥ ८-३८ ॥
दलाग्रसूत्रोभयपार्श्वसूत्रयोरग्रे स्थितं सूत्रमथाग्रमूलतः ।
दलाग्रसूत्रान्तमुपानयेल्लिखन्नेवं दलाग्रं तु भवेन्मनोरमम् ॥ ८-३९ ॥
शालीयपिष्टं सितचूर्णमुक्तं हारिद्रमीषत्सितयुक् सुपीतम् ।
कुसुम्भसिन्दूरकजातिरक्तं दग्धैर्यवाद्यैरपि नीलचूर्णम् ॥ ८-४० ॥
शम्यब्जबिल्वादिदलैर्याज्ञिकैः श्यामलं स्मृतम् ।
तत्तद्वर्णैस्तु धान्याद्यैः पूरयेन्मण्डलानि वै ॥ ८-४१ ॥
मनःशिलारोचना(भ्यां) पीतचूर्णं प्रशस्यते ।
रजसां पञ्चवर्णानां ब्रह्माद्याः पञ्च मूर्तयः ॥ ८-४२ ॥
दैवतानि भवन्त्येषां निवृत्त्याद्याः कलास्तथा ।
कृतं त्रेता द्वापरं च कालः कलियुगं तथा ॥ ८-४३ ॥
सितलोहितकश्यामपीतकृष्णात्मकानि च ।
शुक्लं च रक्तं च तथैव कृष्णं त्रितत्त्ववेदत्रयवह्निलोकैः ।
त्रिशक्तिसन्ध्यात्रिगुणैः कमेण व्याप्तं तु बिम्बैश्च विचिन्त्य योज्यम् ॥ ८-४४ ॥
भुक्त्यर्थमपसव्यं तु पुष्ट्यर्थं तु प्रदक्षिणम् ॥ ८-४५ ॥
रजःपातं नियुञ्जीत मण्डलेषु विचक्षणः ।
मुष्टिना पातयेत् पुष्ट्यै यदि मुक्तिरभीप्सिता ॥ ८-४६ ॥
मध्यमाङ्गुष्ठतर्जाभिः सर्वाभिश्चैव शान्तिके
शक्तस्तु वाञ्छेद् यदि सिद्धिमग्र्यां तद्वर्णरत्नैरिह मण्डलानि ।
कुर्यात् तथा मौक्तिकपुष्यरागमाणिक्यनीलैर्हरितैश्च रत्नैः ॥ ८-४७ ॥
एवं विधेषु चूर्णेषु सिद्धिकामो मुक्ताविद्रुमादिकैस्तदेवं कुर्यादिति भोजराजः ।
रेखास्तु सर्वाः सर्वत्र शुक्लाः स्युर्मध्यमामिताः ॥ ८-४८ ॥
द्विहस्तेऽङ्गुष्ठमात्रा वा हस्ते वानामिकासमाः ।
अत्र भोजराजः – एताश्च रेखाः प्रथमाङ्गुलप्रमाणाः अन्या यवोना यवान्तराश्च । सर्वा मुक्तिकामस्य भुक्तिकामस्य समाः कार्याः इति ।
कर्णिका पीतवर्णा स्याद् रेखाः सर्वाः सिताः समाः ॥ ८-४९ ॥
द्विहस्तेऽङ्गुष्ठमात्राः स्युर्हस्ते मध्यमया मिताः ।
इत्यन्ये ।
मध्ये सुपीता खलु कर्णिका स्यात् तस्यां तु बीजानि नवासितानि ।
द्वे द्वे पृथक्केसरके दलानां मध्येषु लेख्ये कुटिलाग्रमीषत् ॥ ८-५० ॥
मूले तनून्यापीतानि मध्ये स्थूलारुणान्यपि ॥ ८-५१ ॥
अन्ते द्राक् तनुपीतानि तदन्तेऽल्पसितानि वै ।
मूलमध्याग्रेषु शुक्लरक्तपीतं केसरजालमिति भोजराजः ।
शुक्लानि तान्यष्टदलानि कुर्यात् समानि तुङ्गाग्रमनोरमाणि ॥
भुक्त्यै तथा प्राञ्जलिकानि मुक्त्यै स्मरादियागेषु शिताग्रवन्ति ॥ ८-५२ ॥
दलाग्राण्यपि चत्वारि रक्तवर्णानि कारयेत्
इत्यजिते ।
गौरीसरस्वत्यादीनां दलान्यश्वत्थपत्रवत् ॥ ८-५३ ॥
विद्येशानां ग्रहाणां च गोकर्णा(ग्रा)णि कारयेत् ।
पीठं तु शुक्लारुणपीतकृष्णपादं तथा नीलककीलशोभम् ।
गात्रैश्चतुर्भिस्तु विचित्रवर्णैः कुर्याद् यथेष्टं त्वथवापि वर्णैः ॥ ८-५४ ॥
अत्र तत्त्वसागरे – पीठे कोष्ठद्वयं दिक्षु लोप्यम् । तथा कोणे त्रीणि त्रीणि विलोपयेदिति ।
वीथीं लतावितानाद्यैः पत्रकैश्चोपशोभयेत् ।
तद्बाह्ये दिक्षु शुक्लेन चतुर्द्वाराणि पूरयेत् ॥ ८-५५ ॥
दिक्सूत्रकाणामुभयत्र कोष्ठे द्वारार्थमभ्यन्तरपङ्क्तिसंस्थे ।
स्याद् बाह्यपङ्क्तौ द्वितयं द्वयं च तत्कोष्ठषट्कं विमृजेद् दिशासु ॥ ८-५६ ॥
कोष्ठत्रयं त्रयं चान्तर्द्वाराणां पार्श्वयोर्द्वयोः ॥ ८-५७ ॥
कण्ठोपकण्ठसिद्ध्यर्थमेकैकं विमृजेद् बहिः ।
एवं पृथक्कोष्ठचतुष्कवन्तः कण्ठोपकण्ठाः प्रभवन्ति चाष्टौ ।
तत्पार्श्वतस्तद्विपरीतवक्त्रास्तद्वत् कपोलोपकपोलकाः स्युः ॥ ८-५८ ॥
ततः कोणेषु शिष्टानि षट्कोष्ठानि पृथक् पृथक् ॥ ८-५९ ॥
विसृजेत् कोणसिद्ध्यर्थं वृषभानेषु वा लिखेत् ।
कण्ठोपकण्ठान् रक्तेन कपोलोपकपोलकान् ॥ ८-६० ॥
पीतेनाच्छादयेदष्टौ यथा भूमिर्न दृश्यते ।
बहिर्गुणान् वै परितः क्रमोक्ताल्लिखेत् ततः सत्त्वरजस्तमांसि ।
रजोभिरङ्गुष्ठमितांस्तु शुक्लारुणासितान् मध्ययवान्तरांस्तान् ॥ ८-६१ ॥
भद्रकाधिरारः ।
चतुरश्रेऽष्टधा भिन्ने चतुष्षष्टिकृते पदे ॥ ८-६२ ॥
मध्ये कोष्ठचतुष्केणं पद्मपीठं च संलिखेत् ।
तद्बाह्यपङ्क्त्या खलु वीथिका स्यात् तद्बाह्यपङ्क्तिद्वयदिक्चतुष्के ।
द्वाराणि कोष्ठैः खलु वेदसङ्ख्यैः सम्मृज्य शुक्लानि समानि कुर्यात् ॥ ८-६३ ॥
द्वाराणां पार्श्वयोर्बाह्यपङ्क्तावेकैककोष्ठकम् ॥ ८-६४ ॥
द्वारेणायोज्य विमृजेत् स्यातां कण्ठोपकण्ठकौ ।
संस्थाप्य कोणेष्वथ कोष्ठमेकं शिष्टैः पृथक्कोष्ठकपञ्चकैः स्युः ।
एकीकृतैर्वेदकपोलकास्ते तावन्त एवोपकपोलकाश्च ॥ ८-६५ ॥
कपोलं तु भवेत् तेषु पदं पूर्वापरायतम् ।
दक्षिणोत्तरगं चापि भवेदुपकपोलकम् ॥
इत्यजिते ।
प्रागुक्तमार्गेण तु कर्णिकाद्यं त्वापूर्य वीथीं च तथोक्तवर्णैः ।
द्वाराणि शुक्लेन कपोलकास्तु रक्तास्तथापीतरुचोऽथवा स्युः ॥ ८-६६ ॥
अत्राजिते –
कपोलोपकपोलानि वह्निकोणादिषु क्रमात् ।
रक्तं पीतं तथा श्यामं श्वेतं च परिकल्पयेत् ॥
इति ।
वह्न्यादिकोणकोष्ठानि पीतश्यामासितारुणैः ॥ ८-६७ ॥
पूरयेद् वाथ सर्वाणि कृष्णेनेत्यपरे जगुः ।
बाह्ये तु शुक्लारुणकृष्णवर्णैः प्राग्वत् समालिख्य गुणत्रयं तत् ।
स्यात् सर्वतोभद्रमिदं तु कोणे षट्कोष्ठकैकीकरणेन भद्रम् ॥ ८-६८ ॥
मण्डलेष्वपि सर्वेषु शुक्लान्यब्जदलानि तु ।
द्वाराणि चाथ वीथी स्याल्लताद्यैरविशेषिते ॥ ८-७३ ॥
सर्वतोभद्राधिकारः ।
द्वात्रिंशदंशे चतुरश्रकेऽस्मिन् सहस्रकं सङ्कृतिसङ्ख्यकं च ।
कोष्ठानि तन्मध्यगतत्त्वसङ्ख्यैः कोष्ठैः सरोजं तु लिखेत् पुरोवत् ॥ ८-७४ ॥
तद्बाह्यपङ्क्त्या पीठं स्यात् तद्बाह्ये सप्तपङ्तिभिः ।
लिङ्गाष्टकं तु विलिखेद् दिक्सूत्रोभयपार्श्वयोः ॥ ८-७५ ॥
ऋतुवेदाक्षिवेदर्तुकोष्ठैः स्यात् तिर्यगायतैः ।
पीठं सकण्ठं ब्रह्मादिजलपट्टान्तकं शुभम् ॥ ८-७६ ॥
पीठोपरिष्टात् खलु मध्यपङ्क्त्योर्युग्मस्थत्कोष्ठचतुष्टयेन ।
लिङ्गं भवेत् तद्गतमध्यसूत्रं मध्यान्तसंवर्तितमस्तकं वा ॥ ८-७७ ॥
अन्तर्मुखानि लिङ्गानि बुभुक्षूणां समालिखेत् ।
विपरीतं मुमुक्षूणामन्तःपीठानि कारयेत् ॥ ८-७८ ॥
तत्कण्ठपीठोभयपार्श्वसंस्थे भद्रे चतुष्कोष्ठवशाद् भवेताम् ।
लिङ्गान्तरालेष्वपि पञ्चविंशैः कोष्ठैस्तु कोणेषु लता विधेयाः ॥ ८-७९ ॥
गोमूत्रिकावत् संसृष्टा रेखास्तत्कोष्ठगा यथा ।
तथान्यरेखालोपेन लताः स्युर्विदिगायताः ॥ ८-८० ॥
अश्र्यन्तरेषु वल्लीनां पत्राण्यप्यथवा लिखेत् ।
वल्ल्यादौ सक्तमूलानि कुटिलाग्रादिकान्यपि ॥ ८-८१ ॥
तद्बाह्ये पङ्क्तियुग्मेन वीथीं प्राग्वत् तु मार्जयेत् ।
वीथीं तथा कल्पलताविशेषैराभूष्य तद्बाह्यवृतित्रयेऽपि ।
कोष्ठानि वेदर्तुवसुप्रसङ्ख्यं द्वारार्थमन्तःप्रभृतीह लुम्पेत् ॥ ८-८२ ॥
शोभोपशोभेऽपि स्यातां द्विचतुष्षड्विलोपतः ॥ ८-८३ ॥
त्रिः सप्तकोष्ठानि पृथक् कोणे कोणे तु मार्जयेत् ।
पद्मादिकं भद्रकवत् तु सर्वमाभूषयेत् पञ्चविधैस्तु चूर्णैः ।
लिङ्गाष्टकं पञ्चमुखोक्तवर्णैरिच्छानुरूपं परिपूरयेद् वा ॥ ८-८४ ॥
इतीदं पार्वतीकान्तमुक्तं प्रासादमण्डलम् ।
अष्टलिङ्गलतापद्मवीथीप्राकारमण्डितम् ॥ ८-८५ ॥
पार्वतीकान्तप्रासादाधिकारः ।
चतुरश्रं चतुर्हस्तं क्षेत्रं विंशतिभागिकम् ।
स्याच्चतुश्शतकोष्ठं तन्मध्येऽब्जं तत्त्वकोष्ठकैः ॥ ८-८६ ॥
पङ्क्त्यैकया पीठमथैकया स्याद् वीथी ततः पङ्क्तिचतुष्टयेन ।
तद्द्वारलिङ्गैः परितो लताः स्युस्तद्बाह्यपङ्क्त्यापि च बाह्यवीथी ॥ ८-८७ ॥
कुर्याद् भद्रकवत् पद्मपीठवीथीर्यथाविधि ।
प्रतिपङ्क्ति द्विकोष्ठाष्टकोष्ठैर्द्वाराणि दिक्ष्वपि ॥ ८-८८ ॥
वीथ्यन्तरा द्वारनिबद्धकोष्ठत्रयेण भूपीठमथैककोष्ठम् ।
स्यात् कण्ठपीठं त्वथ तोयपट्टं कोष्ठैस्त्रिभिर्लिङ्गमथैककोष्ठम् ॥ ८-८९ ॥
अधश्चोर्ध्वं च तत्कोणान् पीठकोष्ठचतुष्टये ।
कोष्ठान्तः कोणगं सूत्रं कोष्ठसूत्रार्धमानतः ॥ ८-९० ॥
भ्रमयित्वा त्यजेद् बाह्ये खण्डिताश्रिचतुष्टयम् ।
पीठमेवं भवेद् रम्यं द्वादशाग्रैरलङ्कृतम् ॥ ८-९१ ॥
प्राग्वत् समापूर्य तु वर्णचूर्णैः पद्मादिविथ्यन्तमशेषबिम्बम् ।
ख्यातं लतालिङ्गसमुद्भवाख्यं तन्मण्डलं शङ्करवल्लभं यत् ॥ ८-९२ ॥
लतालिङ्गोद्भवाधिकारः ।
क्षेत्रे षोडशधा भिन्ने चतुरश्रे चतुर्दिशम् ।
पार्वतीकान्तवत् कोष्ठैः कुर्याल्लिङ्गचतुष्टयम् ॥ ८-९३ ॥
मध्येऽवशिष्टैरपि वेदकोष्ठैर्लिङ्गान्तरालेष्वपि तत्प्रसङ्ख्यैः ।
चतुर्दलाब्जं स्वयमेव तैः स्याल्लिङ्गेषु संवर्तितमस्तकेषु ॥ ८-९४ ॥
भद्राष्टकं स्यात् कण्ठेषु लताः कोणेषु पूर्ववत् ।
लिखित्वा मण्डलं तत् स्यात् पञ्चब्रह्माभिधानकम् ॥ ८-९५ ॥
मध्येऽम्बुजे वर्तुलकर्णिका स्यात् पीतात्र रक्ता तनुकेसराली ।
ईशस्तु मध्ये पुरुषादयोऽपि सुवर्णदिग्लिङ्गता भवन्ति ॥ ८-९६ ॥
अस्यैव तु लतास्थानेष्वालिख्य स्वस्तिकानि तु ।
एकं त्रीणि ततः पञ्च कोष्ठलोपः क्रमात् स्मृतः ॥ ८-९७ ॥
एतत् खलु स्वस्तिकमण्डलाब्जं क्षेत्रेष्थवा द्वादशभागिकेऽस्मिन् ।
मध्येऽम्बुजं षोडशकोष्ठकैः स्यात् स्युः स्वस्तिकान्यष्टदिशासु तद्वत् ॥ ८-९८ ॥
स्वस्तिकान्यपि पद्मं च प्राग्वदापूर्य चूर्णकैः ।
स्वस्त्यर्थं स्वस्तिकं शस्तं सर्वदेवाभिनन्दनम् ॥ ८-९९ ॥
स्वस्तिकाब्जद्वयाधिकारः ।
क्षेत्रे तथाष्टादशभागिकेऽस्मिंस्तन्मध्यगस्वस्तिकनाभिमादौ ।
सङ्कल्प्य लुम्पेत् तु चतुष्पथाभं समन्ततः कोष्ठकपञ्चकानि ॥ ८-१०० ॥
कोष्ठमात्रायता रेखाः कुटिलाः स्वस्तिकाकृतौ ।
परस्परोपयोगिन्यः स्थाप्याः स्युः शेषलोपतः ॥ ८-१०१ ॥
पञ्चाशदस्मिन् खलु सप्तकं च स्यात् स्वस्तिकानां सह चार्कभद्रैः ।
मध्येषु पञ्चाशदपि द्वयं च स्यात् सर्वतोभद्रचतुष्पथानाम् ॥ ८-१०२ ॥
कोणेष्वेकैककोष्ठानि शिष्टान्याभूषयेत् सितैः ।
नीलपीतारुणश्यामैर्भद्राण्यपि चतुष्पथान् ॥ ८-१०३ ॥
एतद्धि सर्वतोभद्रस्वस्तिकं नाम मण्डलम् ।
सर्वस्वस्तिकमित्येके प्राहुर्यच्छिवयोः प्रियम् ॥ ८-१०४ ॥
क्षेत्रेऽथवा षोडशधा विभक्ते मन्वर्कदिग्वस्वृषिभेदिते वा ।
प्राग्वद् विलोपात् खलु मण्डलानि स्युः सर्वतः स्वस्तिकभद्रवन्ति ॥ ८-१०५ ॥
स्वस्तिकसर्वतोभद्राणि ।
चतुरश्रे द्विहस्ते तु चक्राब्जं पीठवर्जितम् ।
स्यादेकनाभं तल्लक्ष्म भवेन्मानाङ्गुलक्रमात् ॥ ८-१०६ ॥
निधाय सूत्रं त्वथ पद्मबिन्दौ पद्मार्धमानेन नवाङ्गुलैश्च ।
त्रिभिश्च वस्वब्धिमितैर्भ्रमेण सरोरुहं नाभ्यरनेमयः स्युः ॥ ८-१०७ ॥
पद्मं पुरोवदालिख्य नाभिं पीतेन पूरयेत् ।
दलतुल्यारके चक्रे दलरेखाः प्रसार्य तु ॥ ८-१०८ ॥
लिखेत् ततस्तेष्वरकान् यथावद् दलाद् द्विसङ्ख्येष्वरकेषु तद्वत् ।
दलाग्रसूत्रैर्दलसन्धिसूत्रैः प्रसारितैस्तावदिहारकाः स्युः ॥ ८-१०९ ॥
विभज्यारभुवं त्रेधा द्वाभ्यामन्तरथाङ्कयेत् ।
मत्स्यवत् तेष्वथास्फाल्य सूत्राण्येषु लिखेदरान् ॥ ८-११० ॥
इन्दीवराश्वत्थदलोपमा वा ते मातुलुङ्गाकृतयोऽथवा स्युः ।
अब्जच्छदाभाश्च यवोदरा वा मध्ये कृशा वाथ पिपीलिकाभाः ॥ ८-१११ ॥
अरकास्त्वरुणाः श्यामास्ते स्युरेकान्तराः क्रमात् ।
अन्ते गोरोचनाभाः स्युः पीटाः स्युररसन्धयः ॥ ८-११२ ॥
नेमिं त्रिधा सम्प्रविभज्य कुर्याच्छुक्लेन मध्ये त्वसितेन बाह्ये ।
पीतेन चान्तः परिपूर्य कोणान् कृष्णेन सस्वस्तिकचिह्नरम्यान् ॥ ८-११३ ॥
अरसन्ध्यन्न्तरालस्थो बहिर्नेमेः परिभ्रमेत् ।
अरसन्धेस्तु मध्यस्थो वर्तयेदरमूलकम् ॥ ८-११४ ॥
मध्येऽरकाणां स्थित्वा तु वर्तयेदरमध्यकम् ।
मातुलुङ्गफलाकारास्त्वेवं सिध्यन्त्यराः क्रमात् ॥ ८-११५ ॥
अराग्रसंस्थं त्वरसन्धिमूलात् सूत्रं तथारोभयपार्श्वसंस्थम् ।
पृथक् समास्फाल्य तथारकाः स्युर्विस्तारितेन्दीवरपत्रकल्पाः ॥ ८-११६ ॥
अरमध्ये स्थितोऽराग्रं किञ्चित् त्यक्त्वाब्जपत्रवत् ।
अरसन्धेर्भ्रमाच्चाग्रभ्रमादब्जदलारकाः ॥ ८-११७ ॥
कृशाग्रमूलाः पृथवस्तु मध्ये कार्यास्तृतीयांशतयारसन्धेः ।
अन्तः प्रविष्टास्तु यवोदराख्याः सिध्यन्ति ते स्युः क्रमशः शिताग्राः ॥ ८-११८ ॥
त्रिधा विभज्यारक्षेत्रं द्वितीयप्रथमांशयोः ।
मध्ये स्थित्वा भ्रमं कृत्वा तृतीयांशे दलाग्रवत् ॥ ८-११९ ॥
अर्धचन्द्राभरेखाभ्यां पत्राग्रं च समालिखेत् ।
इत्थमश्वत्थपत्राभास्तत्राराः सम्भवन्ति हि ॥ ८-१२० ॥
वि?त्वारंसन्धेरथ मध्यमेऽंशे तिर्यग्भ्रमाच्चोभयतोऽंशकार्धात् ।
रेखाद्वयान्तः कृशमध्यमकारकाः स्युः (?) पिपीलिकाक्रोडसमाह्वयाराः ॥ ८-१२१ ॥
अरसन्ध्यन्तरा पुष्पैर्विचित्रैरभिभूष्य तु ।
बिम्बबाह्येऽप्यथालिप्ते पुष्पालीभिर्विभूषयेत् ॥ ८-१२२ ॥
उक्तं च चक्राम्बुजमेकनाभं प्रियं शिवार्यारविकेशवानाम् ।
अन्यानि च स्युर्नवनाभकान्तान्यूह्यानि चक्राम्बुजमण्डलानि ॥ ८-१२३ ॥
चक्राब्जाधिकारः ।
कर्णिकार्धप्रमाणेन प्राक्स्थसूत्रभ्रमक्रमात् ।
तस्यैव पार्श्वयोगेन मत्स्यद्वादशकं भवेत् ॥ ८-१२४ ॥
सूत्रेषु तेष्वापतितैः ससन्धिसूत्रैश्च तद्द्वादशपत्रमब्जम् ।
अष्टच्छदाब्जस्य समं प्रभेदात् स्यादम्बुजं षोडशपत्रशोभम् ॥ ८-१२५ ॥
केसरव्योमरेखान्तसूत्रात् तत्केसराग्रगात् ।
मत्स्यवल्लाञ्छयित्वा स्यात् पञ्चपत्रं तु पङ्कजम् ॥ ८-१२६ ॥
कर्णिकादलसन्धिभ्यां प्राग्वत् षट्पत्रसिद्धये ।
व्योमरेखाकर्णिकाभ्यां दलाग्रस्थं तु सप्तकैः ॥ ८-१२७ ॥
दलसन्धिकर्णिकाभ्यां दलसन्धौ न्यस्तमत्स्यचिह्नेन ।
नवदलकं स्यात् सूत्रैः पञ्चभिरास्फाल्य पङ्क्तिपत्रं स्यात् ॥ ८-१२८ ॥
केसराकाशयोर्मध्यव्योम्नि विन्यस्य लाञ्छयेत् ।
एकादशच्छदं त्वेवं पद्मं स्यात् सूत्रपाततः ॥ ८-१२९ ॥
पत्राग्रपत्रसन्धिभ्यां पत्राग्रे न्यस्य लाञ्छिते ।
आस्फाल्य तेषु सूत्राणि तत् स्यादभिकृतिच्छदम् ॥ ८-१३० ॥
अतः परं चेद् दलवृद्धिमिच्छेद् दिशानयैवात्र यथाक्रमेण ।
तदूहतो मत्स्यवशेन सूत्रैर्लिखेत् सरोजानि यथाभिलाषम् ॥ ८-१३१ ॥
दलभेदलक्षणम् ।
अर्धचन्द्रादिकुण्डानां लक्ष्मणा सूत्रपाततः ।
अर्धचन्द्रादिबिम्बानि कुर्यात् साम्यानुसारतः ॥ ८-१३२ ॥
इति कुण्डमण्डलविधिः प्रधानतः कथितः शिवाध्वरविशेषसिद्धिदः ।
बहुशो निरूप्य विविधाञ् शिवागमानिह देशिकेन्द्रपरितोषकारकः ॥ ८-१३३ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे क्रियापादे उपरिभागे कुण्डमण्डलपटलोऽष्टमः ॥ ८ ॥