०७

अथ सप्तमः पटलः ।

वक्ष्ये मुद्राः शैवतन्त्रप्रसिद्धा याभिः पूजाकर्मसिद्धिः प्रदिष्टा ।
सूर्यस्यादौ षड् विशेषेण पश्चाच्छम्भोर्मुख्याः स्युर्दशान्याश्च वेद्याः ॥ ७-१ ॥

पद्माकारावाभिमुख्येन पाणी मध्येऽङ्गुष्ठौ शायितौ कर्णिकावत् ।
पद्माख्येयं सैव संलग्नमध्या सृष्टाङ्गुष्ठा बिम्बसञ्ज्ञा तु मुद्रा ॥ ७-२ ॥

प्राग्वत् पाण्योर्लग्नयोरङ्गुलीनामग्रेऽङ्गुष्ठोच्चालनान्निष्ठुरा स्यात् ।
बद्ध्वा मुष्टिं दक्षिणामास्फुरन्त्यौ मुक्त्वा तर्जामध्यमे गोवृषाख्या ॥ ७-३ ॥

अन्योन्यग्रथितसमाङ्गुलीकपाण्योस्तर्जाग्रद्वयसमवेतमध्यमाग्रे ।
व्यत्यस्तेऽप्यथ तदनामिकाकनिष्ठायुक्ताग्रे भवति हि धेनुसञ्ज्ञमुद्रा ॥ ७-४ ॥

बद्ध्वां दक्षिणहस्तेन मुष्टिमुत्सृष्टतर्जनीम् ।
तत्तर्जन्या वामतलताडनात् त्रासनी भवेत् ॥ ७-५ ॥

इति मुद्राषट्कं सूर्यस्य ।

प्रसारिताधोमुखाभ्यां हस्ताभ्यां संस्पृशेत् तनुम् ।
पादावारभ्य मूर्धान्तं महामुद्रेयमीरिता ॥ ७-६ ॥

उत्तानपाण्योर्विहिताञ्जलौ तज्ज्येष्ठाग्रयुग्मेन पृथङ्निकुञ्च्य ।
स्पृष्ट्वा तथानामिकयोस्तु मूलं मुद्रेयमावाहनसञ्ज्ञिता स्यात् ॥ ७-७ ॥

इयमावहन्येवाधोमुखी स्थापनी ।

संलग्नमुष्ट्योः करयोः स्थितोर्ध्वज्येष्ठायुगं यत्र समुन्नताग्रम् ।
सा सान्निधापन्यथ सैव गर्भाङ्गुष्ठा भवेच्चेदिह निष्ठुराख्या ॥ ७-८ ॥

बद्ध्वाञ्जलिं पङ्कजकोशकल्पं यद्दक्षिणज्येष्ठिकया तु वामाम् ।
ज्येष्ठां समाक्रम्य तु वन्दनीयं मुद्रा नमस्कारविधौ प्रयोज्या ॥ ७-९ ॥

बद्धमुष्ट्योस्तु संलग्नसम्मुखाङ्गुष्ठहस्तयोः ।
कालकर्णी भवेच्छैवी मु * * त्रापराः स्मृताः ॥ ७-१० ॥

अधोमुखं दक्षिणहस्तमुष्टौ ज्येष्ठा तु वामा निहिताथ मुष्टेः ।
वामस्य मध्यात् प्रसृतापसव्यज्येष्ठायपरा वेष्टितलिङ्गमुद्रा ॥ ७-११ ॥

पूर्वोदितैव धेनुमुद्रा ।

तिरश्चीने कनिष्ठाग्रे त्वङ्गु(ष्ठे ? ष्ठा)भ्यां समास्थिते ।
देशिनी मध्यमे रुन्ध्यादनामे द्वे समुन्नते ॥ ७-१२ ॥

संयुक्ताग्रे च ते कृत्वा मुद्रा पञ्चमुखी भवेत् ।

दशमुद्राधिकारः ।

आकुञ्च्याथ कनिष्ठाग्रमाक्रम्याङ्गुष्ठमध्यतः ॥ ७-१३ ॥

ऋज्वायतास्तु शेषाः स्युरङ्गुल्यः शक्तिसञ्ज्ञिता ।
इयमेव हि शक्त्याख्या विरलोर्ध्वाङ्गुलित्रया ॥ ७-१४ ॥

यदि स्यात् त्रिशिखाकारा शूलमुद्रेति कथ्यते ।
बद्ध्वाञ्जलिं तु हस्ताभ्यां निगृह्यानामिकाद्वयम् ॥ ७-१५ ॥

शेषाङ्गुलीः प्रसार्येयं द्रव्यमुद्रा प्रकीर्तिता ।
प्रसार्य दक्षिणं हस्तं कनिष्ठाद्यखिलाङ्गुलीः ॥ ७-१६ ॥

क्रमादाकुञ्चयेच्छीघ्रं मुद्रा संहारिणी मता ।
मिथः पृष्ठार्पितौ हस्तावन्योन्यग्रथिताङ्गुली ॥ ७-१७ ॥

कृत्वा बद्ध्वा परावर्त्य नत्वा सा स्यात् क्षमापनी ।

इति पञ्चमुद्राः ।

इत्थं मन्त्रा मुख्यशश्चापि (रु ? मु)द्राः प्रोक्ता येभ्यः कर्मसिद्धिः प्रदिष्टा ।
ज्ञानाद् येषां धारणाच्चापि जापादिष्टान् कामान् साधनाच्चाप्नुवन्ति ॥ ७-१८ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे मुद्रापटलः सप्तमः ॥ ७ ॥