अथ षष्ठः पटलः ।
अङ्गैः षड्भिः स्यात् क्रियायाः प्रसिद्धिर्मन्त्रा मुद्राः कुण्डवन्मण्डलानि ।
द्रव्यावाप्तिः साधकाश्चेति सम्यग् वक्ष्यन्ते तान्यत्र तन्त्रोदितानि ॥ ६-१ ॥
अत्र मतङ्गे –
मुद्रामण्डलमन्त्राश्च क्षेत्रद्रव्याणि साधकाः ।
गुरुणा + + + + नि यथावत् तन्निबोधत ॥
इति । तद् यथा –
मननत्राणधर्मित्वं वाचके दैवतस्य तु ।
यत्र तन्मन्त्रसञ्ज्ञं स्याद्ध्रस्वदीर्घादिलक्षणैः ॥ ६-२ ॥
मननात् सर्वभूतानां त्राणात् संसारसागरात् ।
मन्त्ररूपा हि तच्छक्तिर्मननत्राणधर्मिणी ॥ ६-३ ॥
रत्नत्रये –
निर्विकल्पात्मकं ब्रह्म यन्नित्यानन्दविग्रहम् ।
शिवतत्त्वं हि तन्नित्यं निर्मलं व्यापि चिद्घनम् ॥
शिवादभिन्ना तच्छक्तिर्नित्या तद्वत् सुनिर्मला ।
चितिः स्वतन्त्रा विश्वस्य सिद्धिहेतुर्हि सा मता ॥
कृत्यं पञ्चविधं तस्य शिवस्य करुणानिधेः ।
सृष्टिः स्थितिश्च संहारस्तिरोभावोऽप्यनुग्रहः ॥
सिध्येच्छक्त्यान (ये ? या) स्वेच्छाक्रियाज्ञानाख्यभेदया ।
सा शक्तिर्बिन्दुतामेति परापरविभागतः ॥
तस्माच्च नादो ह्यभवन्मूलबीजं शिवात्मकम् ।
तथाहि –
नादाख्यं यत् परं बीजं सर्वभूतेष्ववस्थितम् ॥
मुक्तिदं परमं दिव्यं सर्वसिद्धिप्रदायकम् ।
सान्तं सर्वगतं शून्यं मात्राद्वादशकस्थितम् ॥
ह्रस्वा ब्रह्म समाख्याता दीर्घा ह्यङ्गानि षण्मुख ! ।
अनुस्वारो भवेन्नेत्रं सर्वेषां चोपरि स्थितः ॥
षष्ठं त्रयोदशान्तं च पञ्चमे विनियोजयेत् ।
शिवं तं तु विजानीयान्मन्त्रमूर्तिं सदाशिवम् ॥
इति । कालोत्तरे –
मूलमन्त्रो विनिर्दिष्टो ब्र्ह्मभिः स्वाङ्गसंयुतः ।
अकारश्चाप्युकारोऽथ मकारो बिन्दुनादवान् ॥
ताराख्यः प्रणवो ह्येष शब्दब्रह्मात्मको मतः ।
अ-ईमबिन्दुनादाढ्यं वाग्भवं बीजमीरितम् ॥
विश्ववाग्भूतिदं तत् तु वागीश्वर्यास्तनुर्भवेत् ।
शक्तिबीजं तथा तारो वाग्भवं च ततः परम् ॥
पञ्चाशद्वर्णरूपा या मातृका परमेश्वरी ।
अवर्गोऽस्या मुखं साङ्गं कचवर्गौ भुजद्वयम् ॥
टतवर्गौ तथा पादौ पार्श्वयुग्मं पफौबभौ ।
पृष्ठं बकारो नाभिस्तु भकारो हृन्मकारकम् ॥
त्वगसृङ्मांसभेदोस्थिमज्जाशुक्लानि यादयः ।
धातवः सप्त वर्णाः स्युर्हकारः प्राण इष्यते ॥
स्फूर्तिः क्षकारः सक्रोधो विश्वलोकमयी तनुः ।
लिपेर्हृदादीन्यङ्गानि लिख्यन्तेऽत्र यथाक्रमम् ॥
हृदयं षष्ठवर्गान्त्यं बिन्दुमद्वीप्सितं भवेत् ।
प्रथमप्रथमं बिन्दुयुक्तं तद्वच्छिरः स्मृतम् ॥
प्रथमस्य द्वितीयं तु सानुस्वारं शिखा तथा ।
वीप्सितः कचशब्दस्तु तथैव कवचं स्मृतम् ॥
तृतीयं च चतुर्थं च प्रथमस्य त्रिनेत्रकम् ।
वर्गान्त्यं सविसर्गं तु वीप्सितं त्वस्त्रमुच्यते ॥
तारप्राणान्वितं शुक्लमौकारस्वरमण्डितम् ।
षण्णां च मातृकाङ्गानामादौ संयोजयेत् क्रमात् ॥
नमः स्वाहा वषट् चाथ हुं वौषट् फट् च जातयः ।
चतुर्थ्यन्ताङ्गमन्त्राणामन्ते योज्या यथाक्रमम् ॥
मुद्राक्ष(?)स्फटिकाक्षसूत्रकलशांश्चाबिभ्रती पुस्तकं
हस्तैर्दक्षिणपूर्वकैस्त्रिनयना शुक्लस्रगालेपना ।
कुन्दाभाक्षरविग्रहा शशिकलामौलिः प्रसन्नानना
ध्येया स्याल्लिपिदेवताम्बुजगता (सुप्ताभि ? मुक्ताभ)रालङ्कृता ॥
पञ्चाशद्वर्णमूर्तिं तामेवं ध्यात्वा स्वविग्रहे ।
तद्वर्णान् क्रमशो न्यस्य जपन् मन्त्रान् स साधयेत् ॥
केशान्ते मुखवृत्तेऽक्ष्णोः श्रोत्रयोर्घ्राणयोरपि ।
गण्डयोरोष्ठयोर्दन्तपङ्त्योर्मूर्धास्ययोः स्वरान् ॥
कवर्गं दक्षिणे हस्ते चवर्गमितरे भुजे ।
टतवर्गौ तथा पद्भ्यां पफौ पार्श्वद्वये न्यसेत् ॥
पृष्ठे नाभौ च हृदये न्यसेद् बभमसञ्ज्ञितान् ।
त्वगसृङ्मांसमेदोस्थिमज्जाशुक्लासुपङ्कजे ॥
हृत्स्थे तत्पत्रगान् यादीनष्टार्णानात्मनि न्यसेत् ।
क्षकारं कर्णिकायां तु सर्वगं संस्मरन् न्यसेत् ॥
मातृकान्यासः ।
पञ्चानां ब्रह्मणां चापि स्वरूपन्यास इष्यते ।
सद्योजातादिकानि स्युर्ब्रह्माण्युद्धानुजप्ययोः (?) ॥ ६-४ ॥
तान्येवेशा(नादि ? न) पूर्वाणि न्यासपूजादिकेषु वै ।
गोक्षीरधवलं सद्यं वामदेवं जपारुणम् ॥ ६-५ ॥
नीलाञ्जनाभं चाघोरं पुरुषं कुङ्कुमप्रभम् ।
शुद्धस्फटिकसङ्काशमीशानाख्यं मुखं विभोः ॥ ६-६ ॥
वक्त्रं वर्णास्तु तन्मन्त्राः कलास्तन्मूर्तयोऽपि च ।
अपृथक् च पृथक् चैव ज्ञातव्यास्तत्र तत्र हि ॥ ६-७ ॥
सद्योजातं तु वारुण्यां वामदेवं तथोत्तरे ।
अघोरं दक्षिणमुखं प्राचि तत्पुरुषाह्वयम् ॥ ६-८ ॥
ईशानमूर्ध्ववक्त्रं स्याद् ब्रह्माणीमानि पञ्च हि ।
ह्रस्वस्वरान् बिन्दुयुतांस्ताराद्यान् ब्रह्मणां क्रमात् ॥ ६-९ ॥
संयोज्यादौ चतुर्थ्यन्तं नमोन्तं च पृथक् पृथक् ।
ब्रह्माणीमानि पञ्च स्युः सामान्यान्यर्चनादिषु ॥ ६-१० ॥
दीक्षितानां तु सर्वेषां पाठ्यान्येवाविशेषतः ।
अथ वेदागमोक्तानि पञ्च ब्रह्माणि पञ्च हि ॥ ६-११ ॥
तानि द्विजातिपाठ्यानि न स्त्रीशूद्रादिभिः क्वचित् ।
तान्युद्ध्रियन्ते सावित्री गायत्री शैवसम्मता ॥ ६-१२ ॥
तद्वत् पाशुपतास्त्रं च व्योमव्यापि च मन्त्रराट् ।
तारं च शुक्लद्योकारो जातं सष्ठाद्यमग्नियुक् ॥ ६-१३ ॥
षष्ठाद्यं द्यामिचेत्यादौ नववर्णान् समुद्धरेत् ।
सद्योजातं चतुर्थ्यन्तं द्वादशस्वरकं जलम् ॥ ६-१४ ॥
नतिं भवेति द्विगुणमनात्यन्ते भवे पदम् ।
भजस्वेति च मां चोक्त्वा चतुर्थ्यन्तं भवोद्भवम् ॥ ६-१५ ॥
नमश्च सद्यस्त्वेकोनचत्वारिंशद्भिरक्षरैः ।
प्रणवो वामदेवश्च चतुर्थ्यन्तो नमोन्वितः ॥ ६-१६ ॥
ज्येष्ठश्च रुद्रः कालोऽपि त्रयस्तावन्नमोन्तकाः ।
पृथक् कालबलान्ते स्यात् पदं विकलनाय तु ॥ ६-१७ ॥
बलप्रमथनाय स्यात् सर्वभूतपदं ततः ।
दमनश्च चतुर्थ्यन्तः तद्विभक्त्या मनोन्मनः ॥ ६-१८ ॥
नमोन्तो नवभिस्तारैः पञ्चसप्ततिवर्णकैः ।
वामदेवस्य मन्त्रोऽयं नवशक्त्युपबृंहितः ॥ ६-१९ ॥
तारं वर्गादिकं चोक्त्वा घोरेभ्योऽथेति चोद्धरेत् ।
अथमुक्तं पुनश्चैतत् पदं घोरद्वयं ततः ॥ ६-२० ॥
तारेभ्यस्त्र्यक्षरादूर्ध्वं च शब्दं सर्वतःपदम् ।
शर्वसर्वेभ्य इत्युक्त्वा नस्तेति पदद्वयम् ॥ ६-२१ ॥
अस्तु रुद्रपदान्ते तु रूपेभ्य इति चोद्धरेत् ।
अघोरमन्त्र एष स्यादुक्तः षट्त्रिंशदक्षरैः ॥ ६-२२ ॥
तारं तदिति चोद्धृत्य पुरुषायपदं ततः ।
विद्मेत्यर्णद्वयं हे च महादेवाय चोद्धरेत् ॥ ६-२३ ॥
पञ्चमस्य चतुर्थं स्याच्चतुर्थस्वरभूषितम् ।
महितन्नश्चतुर्वर्णान् रुद्रःप्रेत्यक्षरत्रयम् ॥ ६-२४ ॥
चोदयादिति मन्त्रोऽयं पञ्चविंशतिवर्णकः ।
भवेत् तत्पुरुषस्यापि मन्त्रोऽथेशान उच्यते ॥ ६-२५ ॥
तारं स्वरं चतुर्थं च सप्तमात् पञ्चमादपि ।
पञ्चमे दीर्घसर्गान्ते चोद्धृत्यार्णचतुष्टयम् ॥ ६-२६ ॥
सर्वशब्दं च विद्यानामीश्वरश्चाक्षराणि षट् ।
सर्ववर्णौ च भूतानां ब्रह्माधिपतिरित्यपि ॥ ६-२७ ॥
षष्ठ्यन्तं ब्रह्मशब्दं च प्रोक्तोऽथाधिपतिस्त्विति ।
ब्रह्मा शिवश्चतुर्वर्णान् मे अस्त्वित्यक्षरत्रयम् ॥ ६-२८ ॥
सदाशिवं च तारान्तः स्याच्चत्वारिंशदक्षरैः ।
प्रोक्तो हीशानमन्त्रोऽयं ब्रह्माणीमानि पञ्च हि ॥ ६-२९ ॥
अष्टौ त्रयोदशाष्टौ च चतस्रः पञ्च एव च ।
कलाः सद्यादिकानां स्युरष्टात्रिंशद् यथाक्रमम् ॥ ६-३० ॥
ब्रह्मभक्त्या न्यसेद् देहे पञ्च वक्त्रेषु च न्यसेत् ।
वक्त्रभक्त्या कलान्यासं कुर्यात् स्थानेष्वनुक्रमात् ॥ ६-३१ ॥
शशिनीं चाङ्गदामिष्टां मरीचीं ज्वालिनीं तथा ।
ईशानस्य कलाः पञ्च न्यसेत् तत्पदपञ्चकैः ॥ ६-३२ ॥
शान्तिं विद्यां प्रतिष्ठां च निवृत्तिं च स्वकैः पदैः ।
सह तत्पुरुषस्यैताश्चतस्रो विन्यसेत् क्रमात् ॥ ६-३३ ॥
तामसीं च तथा मोहां क्षपां निष्ठाह्वयामपि ।
मृत्युं मायां भयां चैव जरां चाघोरजाः कलाः ॥ ६-३४ ॥
राजसीं चैव रक्षां च रतिं चाप्यथ पालिनीम् ।
सज्जमन्या क्रियां तद्वद् बुद्धिं छायाह्वयामपि ॥ ६-३५ ॥
धात्रीं च भ्रामणीं चैव मोहिनीं चाभयां न्यसेत् ।
स्वैः पदैर्वामदेवस्य कला ह्येतास्त्रयोदश ॥ ६-३६ ॥
सिद्धिं चर्द्धि द्युतिं लक्ष्मीं मेधां कान्तिं स्वधां स्थितिम् ।
सद्योजातकला ह्येतास्तत्पदैर्विन्यसेत् क्रमात् ॥ ६-३७ ॥
नवाष्टादिजगत्यर्णैः शरवेदाक्षरैरपि ।
क्रमादीशानमन्त्रस्य कलाः पञ्च न्यसेद् बुधः ॥ ६-३८ ॥
नवाष्टवेदवेदार्णैः कलास्तत्पुरुषस्य च ।
शरबाणाश्विगायत्रशराग्निशरसायकैः ॥ ६-३९ ॥
स्वाक्षरैर्विन्यसेद् विद्वानघोरस्य कलाष्टकम् ।
ऊर्ध्वप्राग्दक्षिणोदीच्यपश्चिमाशास्थमूर्धसु ॥ ६-४० ॥
ईशानस्य कलाः पञ्च नमोन्तं विन्यसेत् पृथक् ।
ऊर्ध्वास्ये शान्त्यतीताख्यां प्रणवेन कलां न्यसेत् ॥ ६-४१ ॥
ततः प्रा + + + + + + + + + षौरुपीः ।
कलाविन्यसेदिति यावत् ।
अघोरस्याथ हृदये कण्ठे चैवांसयोः क्रमात् ॥ ६-४२ ॥
नाभौ च जठरे पृष्ठे तथोरसि कलां न्यसेत् ।
गुह्योपरिष्टाद् गुह्ये चाप्यूर्वोर्जान्वोश्च जङ्घयोः ॥ ६-४३ ॥
स्फिजोः कट्यां पार्श्वयोश्च वामदेवकलां न्यसेत् ।
पादयोश्च तथा पाण्योर्नासिकायां च मूर्धनि ॥ ६-४४ ॥
बाह्वोश्च विन्यसेदष्टौ सद्योजातकलाः क्रमात् ।
अंसोर्वादिषु युग्मेषु पूर्वं दक्षिणतो न्यसेत् ॥ ६-४५ ॥
वामे पश्चात् क्रमोऽयं स्यात् सर्वत्र स्वस्वमुद्रया ।
सामान्येन षडङ्गानि वक्ष्यन्ते ब्रह्मणां क्रमात् ॥ ६-४६ ॥
यथा-
प्रोक्तं प्रयोगमञ्जर्यां पौष्करे च निबन्धने ।
शरतारादिसर्वज्ञशब्दः स्यात् सचतुर्थिकः ॥ ६-४७ ॥
नमोन्तं हृदयं प्रोक्तमथ वर्गादिमुद्धरेत् ।
षष्ठान्तं सप्तमोपेतं पञ्चमाद्यं दशान्तयुक् ॥ ६-४८ ॥
तेजोमालिनिशब्दश्च तृप्तया ब्रह्मशब्दयुक् ।
शिरश्चतुर्थ्या स्वाहान्तः शिवो मन्त्र उदाहृतः ॥ ६-४९ ॥
तृतीयस्य तृतीयार्णं सजलं त्वथ सप्तमात् ।
तृतीयं तत्स्वरोपेतं तकारं शिखिशब्दयुक् ॥ ६-५० ॥
शिखे चानादिबोधोऽयं जातियुक्तं शिखां तथा ।
वज्रिणे च समुद्धृत्य वज्रशब्दं धराय च ॥ ६-५१ ॥
स्वतन्त्रं च चतुर्थ्यन्तं कवचाय च जातियुक् ।
अष्टमाद्यं तृतीयाद्यं चतुर्थं चाष्टमस्य च ॥ ६-५२ ॥
त्रयोदशान्तयुक्तानि बिन्दुमन्त्युद्धरेत् क्रमात् ।
अलुप्तशक्तयेशब्दं नेत्रत्रयपदं तथा ॥ ६-५३ ॥
चतुर्थ्यन्तं समुद्धृत्य नेत्रं स्याज्जातियोजितम् ।
अथ पाशुपतास्त्रं तु यत् पञ्चार्णं तदुद्धरेत् ॥ ६-५४ ॥
अनन्तशक्तये चोक्त्वा स्यादस्त्रं तत् स्वजातियुक् ।
शिव एव विसर्गान्तः शिवास्त्रं परिकीर्तितम् ॥ ६-५५ ॥
षष्ठवर्गद्वितीयं तु चतुर्धाद्यार्धमात्रयुक् ।
पथमात् पञ्चमादाद्यौ संयोज्यैव द्विवर्णकम् ॥ ६-५६ ॥
अस्त्रं पाशुपतं त्वेतत् समस्तदुरितापहम् ।
अस्यादौ सशिवास्त्रं तु शिखाबीजे नियोजयेत् ॥ ६-५७ ॥
सर्वविघ्नहरं दिव्यं मुक्तिदं स्याज्जपादिभिः ।
अष्टमाद्यं भूमियुक्तं तृतीयस्वरबिन्दुमत् ॥ ६-५८ ॥
प्रथमं बीजमुद्दिष्टं षष्ठाद्यं स्याद् द्वितीयकम् ।
तृतीयमष्टमाद्यं तु पञ्चमस्वरसंयुतम् ॥ ६-५९ ॥
वर्मास्त्रे चेति पञ्चार्णमस्त्रं पाशुपतं स्मृतम् ।
एवं पाशुपतास्त्रं स्यादघोरास्त्रमथोच्यते ॥ ६-६० ॥
षष्ठाद्यं साग्निमुद्धृत्य स्फुरशब्दं च वीप्सितम् ।
द्वितीयस्य चतुर्थं च द्वादशान्तस्वरान्वितम् ॥ ६-६१ ॥
अग्निं पुनश्च तावुक्त्वा पञ्चमाद्यमथानलम् ।
तनुरूपपदं चोक्त्वा चटयुग्मं समुद्धरेत् ॥ ६-६२ ॥
प्रचटेति द्विरुच्चर्य कहद्वन्द्वं वमद्वयम् ।
वीप्सितं घातयपदं वर्मास्त्रेऽग्निप्रियां तथा ॥ ६-६३ ॥
तारादिकमघोरास्त्रं द्विचत्वारिंशदक्षरम् ।
रसर्तुवेददशकैर्वसुनागैश्च सम्मितैः ॥ ६-६४ ॥
साक्षरैर्जातिसंयुक्तैरस्त्रान्ताङ्गानि तानि षट् ।
तृतीयस्य तृतीयं तु पञ्चमस्वरदण्डयुक् ॥ ६-६५ ॥
शुक्लश्चैव विसर्गान्तमक्षरद्वयमुच्चरेत् ।
प्लुतान्तताराद्यमिदं मृत्युञ्जयमिति स्मृतम् ॥ ६-६६ ॥
शुक्लपद्मयु(ता ? गा)न्तःस्थचन्द्रमण्डलसम्पुटे ।
स्मृतासारविष्यन्दि ध्यात्वा मृत्युरुजापहम् ॥ ६-६७ ॥
बिन्दुनादान्वितः प्राणः शुक्लं सर्गी च पाण्डरम् ।
ध्यायेद्धृदयपद्मस्थं चिन्मन्त्रोऽयं शिवात्मकः ॥ ६-६८ ॥
प्रणवश्चैव तच्छब्दो महेशायपदं ततः ।
विद्मशब्दस्य हे चान्ते वाग्विशुद्धाय धीमहि ॥ ६-६९ ॥
तन्नः पदान्ते रुद्रः स्यात् प्रकारान्ते तु चोदयात् ।
इत्युक्ता शिवगायत्री शैवी सावित्र्यथोच्यते ॥ ६-७० ॥
त्रयोदशस्वराढ्यं तु जल वायुसमन्वितम् ।
षष्ठान्तं चोद्धरेदस्य पदस्यादौ च कारकम् ॥ ६-७१ ॥
व्योमशब्दं चतुर्थ्यन्तं विद्मशब्दं च हेयुतम् ।
शुक्लं षष्ठस्वरयुतमन्त्यं षष्ठान्तसंयुतम् ॥ ६-७२ ॥
सूक्ष्मशब्दं चतुर्थ्यन्तं धीमहीत्यादिकं तथा ।
प्राग्वत् समुद्धृत्य भवेत् सावित्री शिवसञ्ज्ञिता ॥ ६-७३ ॥
द्वितीयस्य तृतीयं तु बिन्दुनादसमन्वितम् ।
गणेशबीजं विज्ञेयं स्वदीर्घैर्वाङ्गकल्पना ॥ ६-७४ ॥
तारादिकं द्वितीयस्य तृतीयं कर्णबिन्दुयुक् ।
गुरुभ्योऽन्ते नमश्चोक्तो मन्त्रोऽयं गुरुपूजने ॥ ६-७५ ॥
तारान्ते स्याद् वचच्छब्दो (?) भुवोऽन्ते च नतिर्भवेत् ।
स्कन्दस्य सप्तवर्णोऽयं मन्त्रं सर्वार्थसाधकः ॥ ६-७६ ॥
पुरस्तारकं व्योमदीर्घाग्निबिन्दुप्लुतं शक्तिबीजं च शुक्लं ससर्गम् ।
समुद्द्धृत्य सूर्याय नत्यन्तमुक्त्वा भवेन्मूलमन्त्रस्तु सौरो नवार्णः ॥ ६-७७ ॥
ओम्ं ब्रह्मतेजो ज्वल ज्वल हृदयाय नमः । ॐ अम् विष्णुतेजः प्रज्वल प्रज्वल अर्काय शिरसे स्वाहा । ॐ अं रुद्रतेजो ज्वल भूर्भुवः स्वरों ज्वालिनि शिखायै वषट् । ॐ अं महेश्वरतेजः शूलिनि कवचाय हुम् । ॐ अं सत्यसदाशिवतेजः कपर्दिनि कपर्दिनि अस्त्राय फट् । ॐ अं हं शिवतेजः शक्ते नेत्रत्रयाय वौषट् ।
अङ्गानीमानि सूर्यस्य स्वास्त्रशुद्धे करद्वये ।
ज्येष्ठाद्यङ्गुलिषु न्यस्य क्रमादस्त्रं तलद्वये ॥ ६-७८ ॥
शीर्षास्य हृदुपस्थेषु पदयोर्दिक्षु च क्रमात् ।
तान्यङ्गान्येव विन्यस्य हृदयादिषु च क्रमात् ॥ ६-७९ ॥
पूजाजपादिकं कुर्यात् सिद्धिमिष्टां स विन्दति ।
तारं सान्तं बिन्दुयुतं कान्तं बिन्दुसमन्वितम् ॥ ६-८० ॥
द्वितीयस्य द्वितीयं च षोत्कायेति समुद्धरेत् ।
प्रयोजनतिलकसञ्ज्ञो मन्त्रोऽयं भास्करस्य निर्दिष्टः ॥ ६-८१ ॥
पूज्योऽनेनापि रविः शैवैरिष्टार्थसिद्धये नित्यम् ।
मन्त्रं व्योमव्यापिसञ्ज्ञं तु वक्ष्ये व्यक्तस्त्वेकाशीतिसङ्ख्यैः पदैर्यः ।
वर्णानां चाप्यष्टषष्ट्युत्तराणि त्रीण्येवास्मिन् सङ्ख्यया वा शतानि ॥ ६-८२ ॥
प्रथमं तु पदं तारं सप्तमान्त्यं त्वगन्वितम् ॥ ६-८३ ॥
त्रयोदशस्वरोपेतमुद्धृत्यैवं तथा पुनः ।
षष्ठ्यान्त्यं व्यापिने चेति द्वितीयं पञ्चवर्णकम् ॥ ६-८४ ॥
व्योमशब्दश्च रूपाय सर्वव्यापिन इत्यपि ।
पञ्चाक्षरे पदे प्रोक्ते शिवायेति त्रियक्षरम् ॥ ६-८५ ॥
अनन्तानाथशब्दैस्तं चतुर्थ्या चतुरक्षरे ।
पदेऽथानाश्रितायेति पञ्चार्णैरष्टमं पदम् ॥ ६-८६ ॥
त्रिचतुर्वर्णकपदे चतुर्थ्या ध्रुवशाश्वतौ ।
योगपीठसंस्थिताय नित्ययोगिन इत्यपि ॥ ६-८७ ॥
वसुबाणाक्षरे ध्यानाहाराय शरवर्णकम् ।
पञ्चाक्षरस्तु तारादिर्मुख्यं षड्वर्णकं पदम् ॥ ६-८८ ॥
सर्वप्रभव इत्यर्णैः पञ्चभिः स्यात् पदं ततः ।
शिवायेति त्रिवर्णं स्यादथेशानादिपञ्चकम् ॥ ६-८९ ॥
उक्त्वा मूर्धाय वक्त्राय हृदयायेति चोपरि ।
गुह्याय मूर्तये चेति षट्सप्तमुनिसङ्ख्यया ॥ ६-९० ॥
समुद्रोदधिसङ्ख्यार्णैः क्रमात् स्यात् पदपञ्चकम् ।
तारं नमो वीप्सितं च पदं पञ्चाक्षरं भवेत् ॥ ६-९१ ॥
षड्भिर्गुह्यातिगुह्याय गोप्त्रे वर्णद्वयं पदम् ।
अनिधनाय पञ्चार्णैः सर्वविद्याधिपाय तु ॥ ६-९२ ॥
सप्तार्णैः सर्वयोगाधिगतायेत्यष्टवर्णकम् ।
ज्योतीरूपाय बाणार्णैः परमेश्वरपराय च ॥ ६-९३ ॥
अष्टाक्षरैः परमात्मन्पदं स्याद् वेदवर्णकम् ।
अचेतनाचेतनेति पदं सप्ताक्षरैः स्मृतम् ॥ ६-९४ ॥
व्योम्निद्वन्द्वं चतुर्वर्णं व्यापिन्युग्मं तथैव हि ।
अरूपिन् वीप्सितं षड्भिः प्रथमद्वितयं तथा ॥ ६-९५ ॥
तेजोयुग्मं चतुर्वर्णं ज्योतिर्द्वन्द्वं तथैव हि ।
अरूप चाप्यनग्ने च अधूमेति त्रिभिस्त्रिभिः ॥ ६-९६ ॥
अभस्म चाप्यनादे च नात्रयं धूत्रयं तथा ।
त्रियक्षराणि चत्वारि पदानीमानि वै विभोः ॥ ६-९७ ॥
ताराद्यं भूर्भुवःस्वश्च द्वित्रिद्व्यर्णानि वै क्रमात् ।
पदान्यनिधनेत्यर्णैश्चतुर्भिर्निधनं त्रिभिः ॥ ६-९८ ॥
निधनोद्भवपञ्चार्णं शिव इत्यक्षरद्वयम् ।
द्वाभ्यां शर्वेति च पदं विज्ञेयमिह देशिकैः ॥ ६-९९ ॥
महेश्वरेति श्रुत्यर्णं महादेवपादं तथा ।
सद्भावेश्वरपञ्चार्णं महातेजश्चतुष्टयम् ॥ ६-१०० ॥
पञ्चार्णं योगाधिपते मुञ्चद्वन्द्वचतुष्टयम् ।
प्रथमद्वितयं षड्भिः शर्वयुग्मचतुष्टयम् ॥ ६-१०१ ॥
भवद्वन्द्वं चतुर्भिः स्याद् भवोद्भवचतुष्टयम् ।
अथाष्टवर्णं हि पदं सर्वभूतसुखप्रदम् ॥ ६-१०२ ॥
सप्ताक्षरं सर्वपूर्वं सान्निध्यकर इत्यपि ।
ब्रह्मविष्णुरुद्रप(दं ? र) पदमष्टाक्षरं भवेत् ॥ ६-१०३ ॥
अनर्चितानर्चितेति तथासंस्तुतवीप्सितम् ।
अष्टवर्णे पदे ज्ञेये पूर्वस्थितचतुष्टयम् ॥ ६-१०४ ॥
साक्षिद्वन्द्वं चतुर्भिः स्याद् वेदार्णं तुरुयुग्मकम् ।
पतङ्गेति त्रिवर्णं स्यात् पिङ्गयुग्मं चतुष्टयम् ॥ ६-१०५ ॥
ज्ञानद्वयं शब्दयुगं सूक्ष्मयुग्मं पदत्रयम् ।
पृथग् वेदाक्षराण्येव शिवशर्वद्वयं द्वयम् ॥ ६-१०६ ॥
सर्वदेति त्रिभिर्वर्णैः पञ्चार्णैरोन्नमो नमः ।
शिवाय त्र्यक्षरपदं विज्ञेयं देशिकोत्तमैः ॥ ६-१०७ ॥
तारपूर्वं नतिद्वन्द्वं पदं पञ्चाक्षरं स्मृतम् ।
एकाशीतिपदान्येवं विज्ञेयानि क्रमेण हि ॥ ६-१०८ ॥
तारौ सर्वात्मनेज्योतिःसहितं हृदयं स्मृतम् ।
द्वितीयं पदमुच्चार्य सशिवब्रह्मशब्दयुक् ॥ ६-१०९ ॥
स्वजातियुक्तं तु शिरः शिखामन्त्रोऽपि कथ्यते ।
तृतीयं पदमुच्चार्य ज्वालिनीति द्विरभ्यसेत् ॥ ६-११० ॥
जातियुक्ता शिखोक्ताथ चतुर्थं पदमुद्धरेत् ।
उक्त्वा पिङ्गलशब्दं तु वर्म स्याज्जातियोजितम् ॥ ६-१११ ॥
पञ्चमं पदमुच्चार्य शिवाघोरास्त्रके तथा ।
जातियुक्तं तदस्त्रं स्यादङ्गानीमानि पञ्च हि ॥ ६-११२ ॥
व्योमव्यापिमनोरस्य चन्द्रज्ञानोक्तमार्गतः ।
षडङ्गान्यपि दृष्टानि लिख्यन्ते तान्यनुक्रमात् ॥ ६-११३ ॥
ओम्ं व्योमव्यापि शिव ॐ नमः सर्वात्मने पराय परमेश्वरपराय योगाय योगसम्भवाय करकर कुरुकुरु सत्यसत्य भवोद्भव वामदेवाय सर्वकार्यप्रशमन सदाशिव प्रसन्न नमोऽस्तु ते स्वाहा हृदयाय नमः । ॐ शिव ब्रह्मशिरसे स्वाहा । ॐ शिवहृदयज्वालिनि स्वाहा ज्वालिन्यै शिखायै वषट् ।
शिवात्मकं महादेवं सर्वज्ञं प्रभुमव्ययम् ।
आवर्तये महाघोरं कवचं पिङ्गलं शुभम् ॥ ६-११४ ॥
आयाहि पिङ्गल ! महाकवच ! शिवाज्ञया हृदयं बन्धबन्ध ज्वलज्वल घूर्णघूर्ण शक्तिवज्रधर वज्रपाशमनुप्रविश्य सर्वदुटान् स्तम्भयस्तम्भय हुं फट् । पिङ्गलाय कवचाय हुम् । ॐ जुं सं ज्योतीरूपाय नेत्रत्रयाय वौषट् । पूर्ववदघोरास्त्रमेवास्त्रम् ।
सर्वकर्मकराः सर्वे सर्वे सर्वार्थसाधकाः ।
सर्वरूपधराः सर्वे सर्वे चामोघशक्तयः ॥
शिवकार्योद्भवाः सर्वे न मीमांस्याः कथञ्चन ।
इति मतङ्गे ।
इत्यास्मादस्य मन्त्रस्य न पृथग्देवताः स्म्र्टाः ।
शिवो हि देवता चास्य ऋषिः शक्तिर्गायत्रिसञ्ज्ञितम् (?) ॥ ६-११५ ॥
छन्दः स्मृतमथोऽन्यत् तु न मीमांस्यं कथञ्चन ।
षष्ठाद्यं भूमिबीजस्थं पञ्चमस्वरबिन्दुयुक् ॥ ६-११६ ॥
तोयं सर्गि जलं वायुर्द्वादशान्तयुतं तथा ।
षष्ठान्त्यं व्यापिनेशब्दो हुतभुक्प्रिययान्वितः ॥ ६-११७ ॥
तारादिर्दशवर्णोऽयं व्योमव्यापी शिवात्मकः ।
तारं स्व(रौर्द्वि ? रद्वि)तीयश्च स्वरौ वेदर्तुसम्मितौ ॥ ६-११८ ॥
व्योमव्यापी चतुर्थ्यन्तस्तारान्तोऽयं दशाक्षरः ।
तारं प्रासादबीजं च शिवायेत्यक्षरत्रयम् ॥ ६-११९ ॥
नमस्कारश्च सप्तार्णो + + मन्त्रः शिवस्य च ।
प्रासादोक्ताङ्गबीजान्ते शिकाराद्यक्षराणि तु ॥ ६-१२० ॥
संयोज्य जातियुक्तानि शिवाङ्गानि भवन्ति हि ।
शिवशब्दश्चतुर्थ्यन्तो नत्यादिस्तु शराक्षरः ॥ ६-१२१ ॥
उद्धृतः शिवमन्त्रोऽयं धर्मकामार्थमोक्षदः ।
तारादि स्याद् द्विजातीनां + + + + + + + + ॥ ६-१२२ ॥
-
-
-
-
-
-
-
-
-
-
-
- षडक्षरः ।
नानेन सदृशोऽन्योऽस्ति मन्त्रः सर्वार्थसाधकः ॥ ६-१२३ ॥
- षडक्षरः ।
-
-
-
-
-
-
-
-
-
-
सतारः शक्तिबीजादिर्मन्त्रोऽयं हि षडक्षरः ।
शैवाष्टाक्षरसञ्ज्ञः स्याद् भोगमोक्षफलप्रदः ॥ ६-१२४ ॥
अस्यैवाष्टाक्षरस्यान्ते चिन्मात्रं योजयएद् यदा ।
मन्त्रो दशाक्षरः प्रोक्तः कल्पवृक्ष इवेष्टदः ॥ ६-१२५ ॥
पञ्चानामपि मन्त्राणां पङ्क्तिर्गायत्रमेव च ।
बृहती च पुनः पङ्क्तिश्छन्दांस्युक्तान्यनुक्रमात् ॥ ६-१२६ ॥
वामदेवो दधीचश्च शिलादश्च महामुनिः ।
सनत्कुरारश्चेत्यु(क्त्वा ? क्ता) मुनयोऽमी यथाक्रमम् ॥ ६-१२७ ॥
शिव एव स्वयं साक्षाद् दैवतं पूर्वमन्त्रयोः ।
शिष्टानां तु त्रयाणां स्यात् सशक्तिर्देवता शिवः ॥ ६-१२८ ॥
एतेषां तु पृथक्कल्पा लिखिताः पूर्वपद्धतौ ।
मन्त्रपादे तु मन्त्राणां यस्मिन् पटल उद्धृताः ॥ ६-१२९ ॥
सर्वेऽप्यमितसामर्थ्याः सर्वे सर्वार्थसिद्धिदाः ॥ ६-१३० ॥
इतीह मन्त्राः कथितां यथावद् (या ? य)थाप्रधानाः शिवतन्त्रसिद्धाः ।
क्रियाः प्रसिध्यन्ति च यैरशेषाः शिवत्वपूर्वाभ्युदयाश्च मोक्षः ॥ ६-१३१ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे मन्त्रोद्धारपटलः षष्ठः ॥ ६ ॥