०५

अथ पञ्चमः पटलः ।

अथ विद्यातनोरस्य शिवस्य परमात्मनः ।
पूजा सिद्धिकरी ज्ञेया दृष्टादृष्टफलप्रदा ॥ ५-१ ॥

सा हि पूजा त्रिधा भिन्ना श्रेष्ठमध्याधमक्रमात् ।

पूजोत्तमा भवति षोडशधोपचारैर्या मध्यमा प्रभवतीह दशोपचारात् ।
पञ्चोपचारविधिनात्वधमा सपर्येत्यासां यथाविभवमर्चनमाददीत ॥ ५-२ ॥

आसनावाहनार्घ्याणि पाद्यमाचमनीयकम् ॥ ५-३ ॥

साङ्गोपाङ्गं तथा स्नानं वसनाभरणानि च ।
गन्धपुष्पे तथा धूपो दीपश्चरुनिवेदनम् ॥ ५-४ ॥

अग्निकार्यं नमस्कारो जपपूजासमर्पणम् ।
इति षोडश चोद्दिष्टा ह्युपचाराः समासतः ॥ ५-५ ॥

पाद्यमर्घ्यं तथाचामः स्नानं गन्धश्च पुष्पकम् ।
धूपदीपनिवेद्यानि नमस्कारश्च ते दश ॥ ५-६ ॥

मध्यमायां तु पूजायामुपचाराः प्रकीर्तिताः ।
गन्धः पुष्पं धूपदीपौ निवेद्यं पञ्चैते स्युस्तूपचाराः कनिष्ठे ॥
अप्येतेषां लक्षणानां प्रभेदाः संलिख्यन्ते साधकानां हिताय ॥ ५-७ ॥

अत्र ब्रह्मशम्भुः –

आसनमूर्तिमावाह्य मेरु + + + मध्वनि ।
व्याप्यव्यापकभावेन ज्ञात्वा यजनमारभेत् ॥
आसनं शुद्धविद्यान्तर्मूर्तिः शक्त्यन्तगोचरा ।
आवाह्यः स शिवा मुष्टिमूर्तिमानुपरि स्थितः ॥

अपि च,

अनन्तमासनं शक्तिमूर्तिस्तद्वाञ्छिवोऽपरे ।
शक्तिमेवासनं केचिद् वदन्ति कृतबुद्धयः ॥

इति ।

आधारो वेत्यासनं देवतायाः स्वासीनास्मिन् पूज्यते देवतेष्टा ।
धातोरासेत्यस्य चैवोपवेशः सिद्धस्तस्मादासनं प्राक्प्रशस्तम् ॥ ५-८ ॥

आधारशक्तिं ज्योस्नाभां न्यसेत् कूर्मशिलां गताम् ॥ ५-९ ॥

अनन्तमासनीभूतं न्यसेद् ब्रह्मशिलोपरि ।
अनन्त इति सकलपालनहेतुशक्तिर्विष्णुरेव ।
अथाग्नेयरक्षोनिलेशानदिक्स्थान यजेच्चारुसिंहाकृतीन् पीठपादान् ।
क्रमादिन्दुकाश्मीरतालालिवर्णान् सतारं हृदा नामभिः स्वनैर्मोन्तैः ॥ ५-१० ॥

तथैवाधर्ममज्ञानमवैराग्यं यथाक्रमम् ।
इन्द्रादिदिक्षु पीठस्याप्यनैश्वर्यं चं विन्यसेत् ॥ ५-११ ॥

अत्र किरणे –

चतुर्युगमहापादं पृथिवीतत्त्वकन्दकम् ।
कलातत्त्वान्तनालं तत् पञ्चाशद्भावकण्टकम् ॥
मायातत्त्वबृहद्ग्रन्थिं शुद्धविद्याब्जशोभितम् ।
विद्येश्वरदलच्छन्नं शक्तिकेसरसंयुतम् ॥
शिवशक्तिद्वयारब्धकर्णिकाबीजराजितम् ।
पीठमेवंविधं कल्प्यं मातृकाबीजसम्भवम् ॥

इति ।

कालोत्तरेऽपि –

पद्ममष्टदलं श्वेतं कर्णिका कनकप्रभा ।
उद्यदर्कांशुसङ्काशं शक्तिचक्रं मनोन्मनीम् ॥
ज्योत्स्नाभां मण्डलानीकं स्वस्वरूपेण चिन्तयेत् ।
सूर्यबिम्बं दलव्यापि ब्रह्मा तस्याधिपो भवेत् ॥
तथैव सोमबिम्बं च केसरे विष्णुपालकम् ।
कर्णिकाव्यापि चाग्नेयं मण्डलं रुद्रदैवतम् ॥
पृथिव्याद्यष्टमूर्तीनां वामाद्याः शक्तयः क्रमात् ।
जगत्प्रवृद्धिसंसिद्धिर्याभिः सिद्ध्येच्छिवाज्ञया ॥
नवमी तु शिवस्यैव शक्तिर्देवी मनोन्मनी ।

इति

वामा ज्येष्ठा तथा रौद्री काला कलविकरणी ॥ ५-१२ ॥

बलविकरणी चैव बलप्रमथिनी ततः ।
सर्वभूतदमन्याख्या नवमी स्यान्मनोन्मनी ॥ ५-१३ ॥

श्वेता रक्ता त्वसिता पीतवर्णा श्यामा कृष्णाञ्जनाभा स्याज्जपाभा ।
ज्योत्स्नाभा वेत्युदिताश्चारुरूपा वामाद्याः स्युः परितो भूषिताङ्ग्यः ॥ ५-१४ ॥

एकवदना द्विभुजाः कृताञ्जलिपुटा देवाभिमुखा ध्यातव्याः इति कालोत्तरटीकायाम् ।

तारहृद्बीजपूर्वं तु स्वनाम्नैव नमोन्तकम् ।
शिवासनं तु सङ्कल्प्य ध्यात्वा तत्त्वाध्वगं यजेत् ॥ ५-१५ ॥

अशेषाध्वविनिर्मितमित्यन्ये ।

आसनाधिकारः ।

स्वत एवाभिपूर्णस्य तत्त्वस्येहार्चनादिषु ।
सादरं सम्मुखीभावं तदावाहनमिष्यते ॥ ५-१६ ॥

पुष्पैरञ्जलिमापूर्य शिवमूर्तिं ततः स्मरन् ।
लिङ्गादौ विन्यसेत् तेन हृदाद्येन नमोन्तकम् ॥ ५-१७ ॥

पृथ्व्यादिशक्तिपर्यन्तैस्तत्त्वैर्मूर्तिर्भवेद् यथा ।

बद्धपद्मासना शुद्धचन्द्रप्रभा षोढशाब्दोपमोद्देशदिव्याकृतिः ।
पञ्चभिर्ब्रह्मभिः पञ्चवक्त्रा क्रियेच्छान्वितज्ञानशक्तित्रयं त्रीक्षणा ॥ ५-१८ ॥

पङ्क्तिसङ्ख्यैर्भुजैः साभयेष्टप्रदे बिभ्रती शक्तिशूले च खट्वाङ्गकम् ।
दक्षिणेत्यन्यतो नागमक्षस्रजं डामरूकोत्पले बीजपूरं तथा ॥ ५-१९ ॥

पञ्चस्रोतःशिराः शान्तो दशदिग्बाहुरीश्वरः ।

इति ब्रह्मशम्भुः ।

मूर्तिमेवं तु सञ्चिन्त्य लिङ्गे पुष्पाञ्जलिं क्षिपेत् ।
विद्यादेहं ततो ध्यायेत् पूर्णपुष्पाञ्जलिः शिवम् ॥ ५-२० ॥

अपि च,

निष्पत्तये सदेशानशरीरस्यानघात्मनः ॥ ५-२१ ॥

शान्त्यतीतकलामूर्धा शान्तिवक्त्रसरोरुहा ।
विद्याविशालवक्षोंसा प्रतिष्ठागुह्यमण्डला ॥ ५-२२ ॥

निवृत्तिजानुजङ्घाङ्घ्रिर्भुवनाध्वतनूरुहा ।
वर्णाध्वमन्त्ररुधिरा पदमांससिरान्विता ॥ ५-२३ ॥

तत्त्वाध्वमज्जशुक्लास्थिधातुरेषा तनूः शिवा ।

इति ।

ध्यात्वा विद्यातनुं त्वेवं तारहृन्मूलहृद्युतम् ॥ ५-२४ ॥

विद्यादेहाय नत्यन्तमुक्त्वा मूर्तौ नियोजयेत् ।
अष्टत्रिंशत् कलास्त्वत्र विद्यादेहे तु विन्यसेत् ॥ ५-२५ ॥

यथा पुरस्तात् तन्न्यासः पूजाविषय इष्यते ।
ततस्त्वावाहयेद् देवं विद्यादेहे शिवं विभुम् ॥ ५-२६ ॥

अत्र ब्रह्मशम्भुः –

सर्वोपाधिविनिर्मुक्तमस्मिन् परमकारणम् ।
सर्वज्ञादिगुणैर्युक्तमनादिं परमेश्वरम् ॥
सत्कुर्यात् संविधाभिस्तु निष्कलं सकलात्मनि ।
आवाहनादिभिर्भक्त्या प्रासादात्मानमुच्चरन् ॥

पुष्पैरञ्जलिमापूर्य हृदयाग्रेसरं शिवम् ।
तावदुच्चारयेद् यावत् प्राप्तं निष्कलगोचरम् ॥
तद्भावभावनाविष्टं प्रस्फुरद्रश्मिमण्डले ।
बिन्दावभ्युदितं ध्यायेदावाहनविधिं प्रति ॥
तस्मादादाय विस्रब्धः स्थिरधीः पुरतः स्थिते ।
देहे लक्षीकृते न्यस्य स्थापयेद्धृदयेन तम् ॥

इति ।

आवाहनाङ्गभूतानि स्थापनं सन्निधापनम् ।
सन्निरोधामृतीकाराववकुण्ठनमेव च ॥ ५-२७ ॥

शिवस्यावाहितस्यास्य विद्यादेहेऽत्रं सन्ततम् ।
स्थिरीकरणमुद्दिष्टं स्थापनं भक्तितोऽर्चने ॥ ५-२८ ॥

तेन स्वस्वामिसम्बन्धे स्वसामर्थ्यप्रदर्शनम् ।
यत् सान्निध्यं तदस्येह सर्वगस्यापि कीर्त्यते ॥ ५-२९ ॥

आसमाप्तेस्तु पूजायाः सान्निध्यं तु शिवस्य यत् ।
स सन्निरोध उद्दिष्टो विभोरप्यस्य भक्तितः ॥ ५-३० ॥

आनन्दायतनं तत्त्वं सच्चिदानन्दविग्रहम् ।
तदत्र सकले व्याप्तं ध्येयं स्यादवकुण्ठनम् ॥ ५-३१ ॥

अपि भिन्नस्वभावानां यदभिन्नं प्रयोजनम् ।
अङ्गानामङ्गिना सार्धममृतीकरणं हि तत् ॥ ५-३२ ॥

अवकुण्ठनवत् तेजोरुचिराङ्गप्रवर्धनम् ।
तन्महामुद्रया कार्यं यतस्तद्धि प्ररोचनम् ॥ ५-३३ ॥

आवाहानाधिकारः ।

अर्घ्यं तत् त्रिविधं शैवं षडङ्गाष्टाङ्गभेदतः ।
शाक्तं चाष्टाङ्गमर्घ्यं स्यात् + + + + दितं यथा ॥ ५-३४ ॥

गन्धपुष्पाक्षतकुशा दूर्वाग्रं च तथोदकम् ।
भोजेन्द्रब्रह्मशम्भूक्तं षडङ्गार्घ्यमुदाहृतम् ॥ ५-३५ ॥

कुशाक्षततिला दूर्वा गन्धः पुष्पं यवास्तथा ।
क्षीरं चाष्टाङ्गमर्घ्याम्भः शैवं स्याद् विजयोदितम् ॥ ५-३६ ॥

मतङ्गे –

जलं विल्वफलं दूर्वा तिलाः पुष्पाणि तण्डुलाः ।
गव्यं दधि च दर्भाग्रमर्घ्यमष्टाङ्गमीरितम् ॥

गन्धपुष्पाक्षतयवाः कुशदूर्वाग्रसर्षपाः ।
आपश्चेत्यष्टभ्रिद्रव्यैः शाक्तमर्घ्यं प्रचक्षते ॥ ५-३७ ॥

हैरण्यं राजतं ताम्रमलाभे वाथ दारवम् ।
पात्रं त्रिकुडुबैः पूर्णमर्घ्ये शङ्खोऽथवा भवेत् ॥ ५-३८ ॥

यन्त्रिकाधारसंस्थं तदस्त्रधौतमधोमुखम् ।
अ(वा?वो)क्ष्योत्तानयित्वास्मिन् कूर्चं शक्तिं च विन्यसेत् ॥ ५-३९ ॥

आपूर(वि?मि)न्दोश्च्योतद्भिरमृतैः संहितां जपन् ।
अष्टाङ्गैर्वा षडङ्गैर्वा विन्यस्याङ्गैः शिवं ततः ॥ ५-४० ॥

मन्त्रसंहितयालभ्य प्ररोच्यामृतमुद्रया ।
गन्धपुष्पाक्षतैर्धूपैरिष्ट्वास्त्रेण सुरक्षितम् ॥ ५-४१ ॥

कवचेन सुगुप्तं तत् सर्वविघ्ननिवारणम् ।
तदद्भिः कुशकूर्चेन स्वशिरः प्रोक्षयेत् ततः ॥ ५-४२ ॥

प्रत्येककमर्चनाद्रव्यं भुवं च प्रोक्षयेत् क्रमात् ।
तत्सुगुप्तं विशेषार्घ्यं यत् पूजायां प्रदीयते ॥ ५-४३ ॥

केवलाम्भोभिरापूर्य गन्धपुष्पाक्षतैरपि ।
शिवास्त्रजपितं ज्ञेयं सामान्यार्घ्यं शिवार्चने ॥ ५-४४ ॥

अर्घ्यविधिः ।

पाद्यं सामान्यतो ज्ञेयं दूर्वाश्यामाकपङ्कजैः ।
पाग्वत् पात्रे सामापूर्य पाद्यं दद्यात् तु पादयोः ॥ ५-४५ ॥

सजातिफलतक्कोललवङ्कं शीतलं जलम् ।
कर्पूरचन्दनोन्मिश्रं ज्ञेयमाचमनीयकम् ॥ ५-४६ ॥

पुनराचमनीयेषु शस्तमम्भः सुगन्धि यत् ।
नमः स्वधा तथा स्वाहावषड्जातियुजा हृदा ॥ ५-४७ ॥

अर्घ्यादिकचतुष्कं तु दद्यादेवं यथाक्रमम् ।
अर्घ्यस्य त्रीणि पात्राणि पाद्यस्यापि त्रयं भवेत् ॥ ५-४८ ॥

षडाचमनपात्राणि स्यादप्येकमसम्भवे ।
अर्घ्यमादौ तथा स्नाने पूजान्ते च प्रदीयते ॥ ५-४९ ॥

आदौ स्नाने विभूषान्ते पाद्यं कालेषु वै त्रिषु ।
पाद्यान्ते मधुपर्कान्ते स्नानाद्यन्ताम्बरादिषु ॥ ५-५० ॥

निवेद्यान्ते च षट्स्वेषु दद्यादाचमनीयकम् ।
गन्धपुष्पादिकं द्रव्यं दत्त्वा दत्त्वा पृथक् पृथक् ॥ ५-५१ ॥

सामान्याचमनं दत्त्वा कर्तव्यं कर्म चोत्तरम् ।

पाद्याचमनाधिकारः ।

आत्माश्रयद्रव्यमन्त्रशुद्धिं कृत्वा यथाक्रमम् ॥ ५-५२ ॥

यथेह सम्यक् परतः पूजापटल उच्यते ।
सूर्यविघ्नेश्वरगुरून् सम्पूज्यात्मानमेव च ॥ ५-५३ ॥

गन्धपुष्पादिनाभ्यर्च्य सङ्कल्प्येष्ट्वा शिवासनम् ।
आवाह्योदितमार्गेण लिङ्गे तु सकलं शिवम् ॥ ५-५४ ॥

मूर्ध्नि दूर्वाक्षतं दत्त्वा विशेषार्घ्यं प्रदाय तु ।
गड्डुकांस्तोयवस्त्रं च प्रक्षाल्यास्त्रेण वै सकृत् ॥ ५-५५ ॥

पूरयेद् गलितैरद्भिर्गड्डुकांश्चास्त्रवर्धनीम् ।
हृदा वाप्यथ गायत्र्या गन्धं पुष्पं क्षिपेत् पृथक् ॥ ५-५६ ॥

अर्घ्यबिन्दुं क्षिपेदेषु मूलं विन्यस्य तेष्वथ ।
तैर्जलैः स्नापयेद् देवमर्चितं धूपितं पुनः ॥ ५-५७ ॥

अत्र ब्रह्मशम्भुः –

वामहस्ततले कृत्वा गड्डुकान् लिङ्गमस्तकान् ।
कुसुमं पूर्वविन्यस्तं तदर्घ्येणापनीय तु ॥

धौतपाणिः स्वमन्त्रेण शङ्खमुद्रापरिप्लुतैः ।
जलैरनुचलद्भिस्तु स्नापयेदीशमस्तके ॥
नोपरि भ्रामयेद्धस्तं न मुद्रां बन्धयेदधः ।
अद्भिरुच्चलिताभिस्तु पूजाद्रव्यं न सेचयेत् ॥

इति ।

सुगन्धतैलेनाभ्यज्य यवमाषादिचूर्णकैः ।
विरूक्षयित्वा कोष्णेन प्रक्षाल्य सलिलेन तु ॥ ५-५८ ॥

सम्पूज्य धूपयित्वा तु पिष्टदीपादिविस्तरैः ।
नीराज्य गीतवाद्यादिस्तुतिमङ्गलसंयुतम् ॥ ५-५९ ॥

दुग्धेन दध्ना चाज्येन मधुना चैक्षवेण च ।
प्रत्येकं जलपुष्पाभ्यां धूपेनान्तरितं क्रमात् ॥ ५-६० ॥

पञ्चगव्यैः समस्तैर्वा व्यस्तैस्तमभिषिच्य तु ।
पुनर्विरूक्ष्य प्रक्षाल्य गन्धपुष्पाधिवासितैः ॥ ५-६१ ॥

अशून्यमस्तकं लिङ्गमभिषिच्य विशेषतः ।
कलशैर्वा यथोद्दिष्टैः शङ्खैर्वा गड्डुकैरपि ॥ ५-६२ ॥

ब्रह्मभिः संहितामन्त्रैः सरुद्रपवमानकैः ।
द्विजाश्चेदभिषिञ्चेयुरितरः संहितां जपन् ॥ ५-६३ ॥

पर्याप्तौ गन्धतोयेन कृत्वा स्नानं सवैदिकम् ।
मार्जयेत् सितवस्त्रेण यथा निर्जलतां व्रजेत् ॥ ५-६४ ॥

स्थिरलिङ्गे विधिस्त्वेष चललिङ्गे च सम्मतः ।
स्नानवेद्यां तु तत्पीठे चलमाधाय यत्नतः ॥ ५-६५ ॥

स्नापयित्वा विधानेन पूजापिठे निधाय तु ।
यजेद् यथावद् व्यक्तानां शैलेयानां मणिष्वपि ॥ ५-६६ ॥

लौहीषु प्रतिमास्वन्ये न नित्यस्नपनं विदुः ।
चित्रेष्वन्यत्र लिङ्गे वा स्नपनं नेति चापरे ॥ ५-६७ ॥

क्षणिके स्थण्डिले चाग्नौ स्नपनं मानसं स्मृतम् ।

स्नानाधिकारः ।

ततो वासांसि शुद्धानि सूक्ष्माण्यभिनवानि तु ॥ ५-६८ ॥

दुकूलपट्टकार्पासदेवाङ्गादीनि यानि हि ।
अन्यत्रानुपयुक्तानि विकेशान्यहतानि च ॥ ५-६९ ॥

भक्त्या यथोपपन्नानि तैर्देवं परिधापयेत् ।
भूषणानि च हैमानि नानारत्नोज्ज्वलानि च ॥ ५-७० ॥

पादाद्याकेशयोग्यानि यानि तैस्तं विभूषयेत् ।
अलाभे मानसैर्वापि दर्पणं च प्रदर्शयेत् ॥ ५-७१ ॥

वस्त्रभूषणाधिकारः ।

गन्धस्तु द्विविधः शैवः पञ्चाङ्गोऽष्टाङ्ग एव च ।
चन्दनागरुकर्पूरकुङ्कुमानि हिमाम्भसा ॥ ५-७२ ॥

श्लक्ष्णपिष्टानि गन्धोऽयं पञ्चाङ्गः समुदाहृतः ।
चन्दनं कुङ्कुमं कुष्ठं दलं शीतमथागरु ॥ ५-७३ ॥

कर्पूरं हिरिवेरं च गन्धोऽष्टाङ्गः प्रकीर्तितः ।

चन्दनागरुकर्पूरकाश्मीरोशीररोचनाः ।
कुष्ठं हिमजलं चेति गन्धोऽष्टाङ्गः शिवप्रियः ॥

इति वातुले ।

चन्दनागरुकर्पूरमांसीकुङ्कुमरोचनाः ।
स्पृग्वानराभ्यामष्टाङ्गः शाक्तो गन्ध उदाहृतः ॥

इति (च) ।

पुष्पाणि सात्त्विकानीह शुक्लवर्णानि यानि वै ॥ ५-७४ ॥

राजसानि च रक्तानि तामसान्यसितान्यपि ।
श्यामं तमोरजोमिश्रं पीतं राजससात्त्विकम् ॥ ५-७५ ॥

सात्त्विकाद्यैस्तु कुसुमैः स्यात् फलं सात्त्विकादिकम् ।
श्वेतार्कं करवीरकं च कमलं धुर्धूरकारग्वधे
राजार्कं च सिताम्बुजं च तुलसी साशोकसच्चम्पकैः ।
कल्हारं बकपाटले वकुलकं द्वे मल्लिके मालती
पालाशस्थलपद्मदर्भदमनापामार्गदूर्वाङ्कुरैः ॥ ५-७६ ॥

तद्वद्ग्रन्थिशमीबृहन्मरुवकैः पुन्नागनागासनै –
र्नन्द्यावर्ततमालकुब्जविजयामन्दारकाश्मीरकैः ।
शस्तान्युत्पलकर्णिकारकुसुमैः कादम्बबैल्वान्यथो
नीलं चोत्पलमित्यमूनि कुसुमान्युक्तानि शैवान्यलम् ॥ ५-७७ ॥

अम्भोजोत्पलबन्धुजीवविजयापुन्नागनागान्यथो
जातीकुन्दकरण्डचम्पकजपायूथीरमापाटलैः ।
बिल्वाशोकहयारिकुब्जदमनैर्मन्दारदूर्वादलै –
र्नन्द्याह्वाप्यपराजितेति कुसुमान्युक्तानि शाक्तान्यलम् ॥ ५-७८ ॥

निर्गन्धानि तथोग्रगन्धकटुकान्यस्पृश्यदुष्टानि चा –
प्यन्यायोपहतानि वा कृमिनखच्छिन्नानि भिन्नानि वा ।
ऊर्णासूत्रशिरोरुहाद्युपहतैर्म्लायत्पुराणानि वा
कालातीतविलङ्घितानि च तथा पुष्पाण्यथो वर्जयेत् ॥ ५-७९ ॥

शस्ते द्वे तुलसी सिताम्बुजमथो रक्ताब्जपालाशके
जातीकुब्जकमाधवीदमनकैः पुन्नागनागासनैः ।
नन्द्यावर्तशमीस्थलाब्जविजयासन्मल्लिकाचम्पकै –
र्बिल्वं चोत्पलकेतकानि च नवं कुन्दं तथा पातलम् ॥ ५-८० ॥

लक्ष्मीदेविसहाः सभृङ्गमुसलीभीतेन्द्रवल्ल्यः सदा –
भद्रा श्रीपतिलङ्घिता च दशमी दूर्वाथ जम्बूच्छदः ।
कल्हारं करवीरमेकदलकं पद्मं कुशाः कैरवं
रक्तं चेति विलोमतोऽधिकफलं पुष्पं भवेद् वैष्णवम् ॥ ५-८१ ॥

त्रेधा चोदितपुष्पजातिषु तथानुक्तानि वर्ज्यानि ता-
न्यन्योन्यप्रतिषेधदर्शनमपि स्याद् यत्र चोक्तं विना ।
अन्यस्मै परिकल्पितानि च तथा वर्ज्यानि तद्युक्तितो
यद् यस्यात्र विशेषतस्तु विहितं तद्दैवतं तोषयेत् ॥ ५-८२ ॥

सूर्याग्न्योस्त्रिविधानि चापि कुसुमानीष्टानि विघ्नेशितुः
शाक्तान्यप्यथ शाम्भवानि च तथा स्कन्दार्यचण्डादिषु ।

शाक्तान्येव मनोजवाग्गिरिसुतादुर्गाष्टमातृप्रिया-
ण्यम्भोजासनदेवराजकमलाः पूज्यास्तथा वैष्णवैः ॥ ५-८३ ॥

नन्द्यावर्तैः प्रातरेवापराह्णे प्राग्रात्रे वा मालतीमल्लिकाभिः ।
अह्न्येवाब्जैरुत्पलैः सर्वदा वा हैमैः प्रातः केसरैः पूर्वरात्रे ॥ ५-८४ ॥

आ वैवर्ण्यात् केसराणां सरोजं बैल्वं पत्रं दामनं च त्रिरात्रम् ।
पूजायोग्यं कर्णिकारं तु पक्षं न स्याज्जीर्णं मासषट्कं वकाख्यम् ॥ ५-८५ ॥

पुष्पाधिकारः ।

धूपद्रव्येषु सर्वेषु श्रेष्ठः कृष्णागरुर्भवेत् ॥ ५-८६ ॥

कर्पूरमधिकश्रेष्ठमगरूपहितं तथा ।
गुग्गुलुर्महिषाक्षाख्यः श्रेष्ठ एव शिवप्रियः ॥ ५-८७ ॥

चन्दनोशीरके चैव मध्यमे तु प्रकीर्तिते ।
श्रीवाससर्जावधमौ ततो लाक्षा घृतं मधु ॥ ५-८८ ॥

सर्वैरेतैः सितोपेतैर्धूप उक्तो दशाङ्गकः ।
निर्धूमस्फुरदङ्गारे निर्ज्वाले च निरिन्धने ॥ ५-८९ ॥

धूपं दद्यादधः किञ्चिद् घण्टां वामेन नादयन् ।
विशुद्धसितसूत्रेण वर्त्यः कार्पासजाः शुभाः ॥ ५-९० ॥

दीपार्थं गोघृतं मुख्यं मध्यान्त्ये तैलमाहिषे ।
सकर्पूरदशो दीपः फलं दद्याच्छताधिकम् ॥ ५-९१ ॥

दीपः केवलकर्पूरः सहस्रगुण उच्यते ।
प्रभूतस्नेहसम्पूर्णैर्दशभिर्वा नवाष्टकैः ॥ ५-९२ ॥

दीपैः प्रतिनवैराराद् भ्राम्यमारात्रिकं भवेत् ।
न दग्धशेषवर्त्त्या तु पुनर्दीपं प्रवर्तयेत् ॥ ५-९३ ॥

नोच्छिष्ठाशुचितैलाद्यैर्नान्यतैलघृतादिना ।

धूपदीपारात्रिकविधिः ।

ब्रीहेः पञ्चशतं तलं द्विगुणितं ते द्वे प्रकुब्जं स्मृतं
ते द्वेऽथ प्रसरस्तथैव कुडुबं प्रस्थार्धकं तद्द्वयम् ।
प्रस्थं पात्रमथाढकं शिवमथो द्रोणं च खारिः क्रमात्
खारीणां त्रितयं हि भार उदितो मानं यथाशास्त्रतः ॥ ५-९४ ॥

नित्यं नैमित्तिकं चेति नैवेद्यं द्विविधं मतम् ॥ ५-९५ ॥

तच्चोत्तमोत्तमाद्यं तु नवभेदेन वक्ष्यते ।
तत्र नित्यविधेरष्टद्रोणशालिजतण्डुलैः ॥ ५-९६ ॥

सार्धरात्रचतुष्कालपूजायां विनिवेदयेत् ।
पायसं कृसरं गौलमन्नं तच्च चतुर्विधम् ॥ ५-९७ ॥

यथोचितोपदंशाज्यदध्यपूपरसोत्तरम् ।
सगीतनृत्तवादित्रं सभूतबलिमङ्गलम् ॥ ५-९८ ॥

तत्र पञ्चशतं दीपास्त्वेवं स्यादुत्तमोत्तमम् ।
षड्भिर्द्रोणैश्चतुष्कालमभ्यर्च्य विनिवेदयेत् ॥ ५-९९ ॥

शतद्वयं तथा दीपाः स्युर्गीतबलिनर्तनैः ।
कुर्यात् पूर्वानुसारेण तत् स्यादुत्तममध्यमम् ॥ ५-१०० ॥

पञ्चद्रोणैश्चतुष्कालं निवेद्यं पूजनं तथा ।
अष्टोत्तरशतं दीपा गीतवाद्यबलिक्रियाः ॥ ५-१०१ ॥

अग्निकार्यं च कुर्वीत स्यादेवं तूत्तमाधमम् ।
सचतुर्द्रोणनैवेद्यं चतुष्कालोचितार्चनम् ॥ ५-१०२ ॥

गीताद्यं बलिहोमौ च प्रदीपाः स्युश्च सप्ततिः ।
मध्यमोत्तममेवं स्यान्मध्यमध्यमथोच्यते ॥ ५-१०३ ॥

तण्डुलैरर्धभारैस्तु नैवेद्यं चार्चनान्वितम् ।
मध्याह्न एव होमः स्याद् द्विकालं नर्तनादिकम् ॥ ५-१०४ ॥

चत्वारिंशत् प्रदीपाः स्युर्मध्यमध्ये बलिस्तथा ।
खारितण्डुलनैवेद्यं चतुष्कालार्चना बलिः ॥ ५-१०५ ॥

होमो द्वादश दीपाः स्युर्गीताद्यं मध्यमाधमे ।

सायम्प्रातस्त्वाढकाभ्यां शिवं तन्मध्याह्ने स्यादह्नि वेदप्रदीपाः ।
रात्रावष्टौ स्युस्त्रिकालार्चनं यत् पञ्चातोद्यैः स्यात् कनिष्ठोत्तमाख्यम् ॥ ५-१०६ ॥

प्रातः पात्रं सायमप्यत्र पात्रं स्यान्मध्याह्ने त्वाढकं चाह्नि दीपौ ।
चत्वारो वै रात्रिदीपास्त्रिकालं पूजेत्युक्तं मध्यमं यत् कनिष्ठे ॥ ५-१०७ ॥

सायम्प्रातः प्रतिप्रस्थद्वयनैवेद्यमर्चनम् ॥ ५-१०८ ॥

दीपोऽह्नि निशि दीपावित्युक्तं स्यादधमाधमम् ।

नित्यनैवेद्यप्रकरणम् ।

अष्टद्रोणं समारभ्य यावद् द्वादशभारकम् ॥ ५-१०९ ॥

नैमित्तिकं स्यान्नैवेद्यं नवधात्रापि पूर्ववत् ।
उत्तमोत्तमपूर्वं तु पूजां चैव समूहयेत् ॥ ५-११० ॥

स्यात् काम्यमपि नैवेद्यं यावद्वा प्रार्थितं भवेत् ।
न कालनियमस्तत्र साङ्गं पूजा प्रशस्यते ॥ ५-१११ ॥

नैमित्तिककाम्यकविधिः ।

क्षीरं त्रिभागं भागस्तु तण्डुलाः पायसस्य तु ।

भिन्नमुद्गैः समं तण्डुलाः स्युः समास्तस्य चार्धं घृतं स्याद् घृतार्धं गुलम् ।
तण्डुलेभ्यस्तथा गोपयः षड्गुणं स्याद् गुलान्नं तु तद्युक्तरम्भाफलम् ॥ ५-११२ ॥

धौतदन्ता द्विजाः स्नातशुक्लाम्बरा वस्त्रपूताम्भसा मौनिनस्तण्डुलान् ।
क्षालयेयुस्तथा सप्तवारं हृदा ज्वालयेयुस्तथाग्निं धवित्रादिना ॥ ५-११३ ॥

ध्यात्वा चुल्लिं शक्तिमग्निं च रुद्रं वह्नेर्बीजात् तारकाद् वाभिपूज्य ।
तस्मिन्नग्नौ दद्धविः साधयेयुरोङ्काराद्येनाभिघार्याहरेयुः ॥ ५-११४ ॥

बृहत्यः कदल्यस्तथा क्रण्डहाल्यः (?)सकूश्माण्डमुर्वारुकं कर्कटी च ।
तथा कारवल्ल्याम्रके शृङ्गिवेरं वृहन्मुद्गमुद्गास्तथा नालिकेरम् ॥ ५-११५ ॥

तथा माषशिम्ब्याढकीमातुलुङ्गाः कुलस्थाश्च शस्तोपदंशाः सुराणाम् ।
कदल्यादिपक्वैः सिताव्योषलोणैर्युतः स्याद् यवानीदधिक्वाथसूपः ॥ ५-११६ ॥

तथा मोदकांश्चोपदंशांश्च कुर्याद् घृतव्योषलोणैर्यवानीष्टपिष्टैः ।
ततः पात्रवर्गं बहिः शोधयित्वा सशङ्खध्वनिच्छत्रमुत्थापयेच्च ॥ ५-११७ ॥

त्रं हृदा धौतमद्भिः कदल्यादिपत्राणि वात्राभिघार्य ।
हविस्तत्र दत्त्वोपदंशादियुक्तं कदल्यादिपक्वैः फलैर्मोदकैश्च ॥ ५-११८ ॥

सिताक्षौद्रदध्युत्तरे तत्र गव्यं घृतं नूतनं षोडशद्वन्द्वकांशम् ।
निवेद्यात् प्रदेयं तु पुष्पार्चितेऽस्मिंस्ततो धेनुमुद्रामृतैः प्लावयित्वा ॥ ५-११९ ॥

सम्प्रोक्ष्य मूलमन्त्रेण द(ग्ध्वा ? त्त्वा) म्भोऽग्निप्रियान्तकम् ॥ ५-१२० ॥

सपुष्पदक्षिणकरो हविः स्पृष्ट्वा निवेदयेत् ।
ध्यायेत् तन्मनसा दिव्यमन्नाद्यं तृप्तिकारणम् ॥ ५-१२१ ॥

पानीयं च निवेद्यास्मै हृद्यं शीतं सुगन्धि च ।
बहिर्निर्गत्य तच्छेषमन्नं हुत्वानलेऽपि च ॥ ५-१२२ ॥

मूलाङ्गादिविधानेन तत्तन्मन्त्रेण साधकः ।
तत्रोदितबलिं दत्त्वा वह्निं भक्त्या विसर्जयेत् ॥ ५-१२३ ॥

प्रदक्षिणनमस्कारस्तुतिभिस्तं प्र(दाप?साद)येत् ।
प्रक्षाल्य चरणौ सम्यगाचान्तोऽन्तः प्रविश्य तु ॥ ५-१२४ ॥

सुतृप्तं शङ्करं स्मृत्वा दद्यादाचमनीयकम् ।
ततो लवङ्ककर्पूरतक्कोलक्रमुकान्वितम् ॥ ५-१२५ ॥

निवेदयेच्च ताम्बूलं गन्धपुष्पार्चितं ततः ।
पूजयित्वा नमस्कृत्य जपेन्मूलं तु शक्तितः ॥ ५-१२६ ॥

अथवान्नं तु होमार्थं पात्रे संस्थाप्य रक्षितम् ।
सुतृप्ते त्वथ देवेशे वह्निकार्ये नियोजयेत् ॥ ५-१२७ ॥

नैवेद्याधिकारः ।

अङ्गानि चैव परिवारगणांश्च + + पञ्चोपचारविधिना तु यथोपपत्त्या ।
सम्पूजयेदनुपपन्नमिहार्चने यत् तत् कल्पयेत् तु मनसैव समाहितात्मा ॥

अत्रोपचारभेदेन पूजाभेदांस्तथापरे ।
वदन्ति तांश्च वक्ष्यामः किञ्चिद्भेदात् पुरोदितात् ॥ ५-१२९ ॥

दशोपचाराः कथिता निवेद्यान्ते तु पूजने ।
होमान्तको तु कथिता ह्युपचारास्तु षोडश ॥ ५-१३० ॥

बल्यन्ते चापि ते ख्याताः पञ्चविंशतिसङ्ख्यया ।
नृत्तान्ते वापि षट्त्रिंशदुपचाराः प्रकीर्तिताः ॥ ५-१३१ ॥

उत्तमोत्तमपूजायामुत्तमे वा भवन्त्युत ।
आसनावाहनार्घ्याणि पाद्यमाचमनीयकम् ॥ ५-१३२ ॥

साङ्गं स्नानं तथा वस्त्रमुपवीतं च भूषणम् ।
गन्ध्पुष्पे च मालाश्च धूपो दीपश्च दर्पणम् ॥ ५-१३३ ॥

नीराजनं च नैवेद्यमग्निकार्यं प्रदक्षिणम् ।
नमस्कारः स्तुतिवाद्यगीते नित्यबलिस्तथा ॥ ५-१३४ ॥

पूजासमर्पणं चेति पञ्चविंशति चोदिताः ।
अथासनादयः पञ्च पञ्चगव्याभिषेचनम् ॥ ५-१३५ ॥

पञ्चामृताभिषेकश्च स्नानं राजोपचारतः ।
वस्त्रोपवीताभरणं गन्धपुष्पस्रगक्षतम् ॥ ५-१३६ ॥

धूपदीपौ च मुकुरं नीराजनविधिस्ततः ।
नैवेद्यं चाथ ताम्बूलं विद्यापीठार्चनं ततः ॥ ५-१३७ ॥

अग्निकार्यं यथावच्च पादुके चामरेऽपि च ।
छत्रं च नित्ययात्रा च बलिदानं पवित्रकम् ॥ ५-१३८ ॥

प्रदक्षिणनमस्कारस्तोत्राण्यातोद्यमेव च ।
गीतं नृत्तं च पूजादेः समर्पणमतः परम् ॥ ५-१३९ ॥

षट्त्रिंशदुपचाराः स्युरेवं तन्त्रोदिताः क्रमात् ॥

इति निददितमार्गास्तूपचाराः प्रदिष्टाः
पृथगिह परिपाट्या शैवतन्त्रेषु दृष्टाः ।
यजनविधिषु शम्भोर्वेदितव्या यथावत्
स्वभिमतफलसिद्धिः स्याद् यथा भक्तिभाजाम् ॥ ५-१४० ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे उपचारपटलः पञ्चमः ॥ ५ ॥