अथ चतुर्थः पटलः ।
प्रणम्य शम्भुं शशिखण्डशेखरं भवं भवच्छेदकरं समासतः ।
सभूतशुद्धिक्रममात्मशोधनं निगद्यते योगजपादिसिद्धये ॥ ४-१ ॥
स्नातो यथावत् समुपास्य सन्ध्यां यागालयं प्राप्य कृताङ्घ्रिशौचः ।
आचम्य चान्तर्विधिवत् प्रविष्टः शस्तासने वाग्यमवान् निविष्टः ॥ ४-२ ॥
आमस्तकाङ्घ्रिद्वयमात्मदेहे ध्यायन् सुसूक्ष्मं सुषिरं तदन्तः ।
बाह्ये तु विन्यस्य तु शक्तिमच्छां व्योमत्विषं तामथ देहमध्ये ॥ ४-३ ॥
हुङ्कारबीजं रुचिमद् विचिन्त्य प्राणन्नियम्यात्र निवेश्य चित्तम् ।
तद्रेचकान्तोक्तफडन्तमस्त्राद् ग्रन्थिप्रभेदं क्रमशो विदध्यात् ॥ ४-४ ॥
अस्त्रशब्देन पाशुपतास्त्रेणेति यावत् ।
ये ग्रन्थयः पञ्च तमोमलिष्ठा हृत्कण्ठतालुस्थितयः प्रसिद्धाः ।
भ्रूमध्यतो मूर्धनि चेति तेषां भेदात् तु नाडीसरणिः प्रसिद्ध्येत् ॥ ४-५ ॥
वायुं नियम्यात्मनि पूरकार्धाच्चैतन्यसान्तात्मकजीवरूपम् ।
सान्तात्मकशब्देन हंसमन्त्र उच्यते ।
तं बिन्दुभूतं च निरामयं स्वे हृत्पङ्कजे कुम्भकतो विभाव्य ॥ ४-६ ॥
तत्रोर्ध्ववायोः प्रसरेण जीवं सौषुम्नमार्गान्निहितं स्वमूर्ध्नि ।
उद्घातमात्रेण तु बीजवृत्त्या तं द्वादशान्तःस्थशिवं नयेच्च ॥ ४-७ ॥
उद्घातो नाम द्वादशमात्रः । अत्र योगानुशासने –
जानु प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् ।
यत् करोत्यङ्गुलिस्फोटं तावन्मात्रां विदुर्बुधाः ॥
मात्राद्वादशकः काल उद्धात इति कथ्यते ॥
इति ।
कादङ्गुलद्वादशकेऽत्र सौम्यं शुक्लं सहस्रच्छदपुण्डरीकम् ।
व्योमामृतव्याप्तमधोमुखं तन्मध्यं शिवाध्यासितमभ्युपेयम् ॥ ४-८ ॥
लीनः शिवेऽङ्गैरभिरक्षितात्मा साधोमुखं देहतरुं विभाव्य ।
तत्त्वानि षट्त्रिंशदथो विलोमं नीत्वा लयं स्वेष्विह कारणेषु ॥ ४-९ ॥
तद्यथा –
भूम्यम्बुतेजोमरुदम्बरैः स्याद् गन्धो रसश्चाप्यथ रूपमुक्तम् ।
स्पर्शाख्यशब्दौ कथितावुपस्थं वाक्पाणिपादं च तथैव पायू ॥ ४-१० ॥
घ्राणं च जिह्वा नयनं तथा त्वक् श्रोत्रं मनोऽहङ्कृतिबुद्धयश्च ।
गुणप्रकृत्या पुरुषश्च रागोऽप्यशुद्धविद्या च कला नियत्या ॥ ४-११ ॥
तथैव कालः कथिता च माया विशुद्धविद्या च तथेश्वरश्च ।
सदाशिवः शक्तिरथो शिवश्चेत्युक्तानि तत्त्वानि शिवादिकानि ॥ ४-१२ ॥
पञ्चाथ भूतानि परस्परान्तः शोध्यानि खादीनि विलोममार्गात् ।
विरिञ्चपूर्वैः समधिष्ठितत्वात् तत्तत्कलाबिम्बगुणाक्षदेवैः ॥ ४-१३ ॥
भूमण्डलं यच्चतुरश्रवीतं वज्राङ्कितं गन्धगुणं ससद्यम् ।
घ्राणेन्द्रियं तत्कलया निवृत्त्या युक्तं च दैवेन चतुर्मुखेन ॥ ४-१४ ॥
ह्राम्बीजतः पूरककुम्भकाभ्यां व्याप्तं तदाजानु तदङ्घ्रियुग्मात् ।
शोध्यं तदुद्धातकपञ्चकान्तं वायौ प्रविष्टं परिभावयेच्च ॥ ४-१५ ॥
अब्बिम्बमर्धेन्दुसितं सिताब्जे चिह्नं रसाढ्यं रसनेन्द्रियं च ।
वामास्थितं विष्णुसमन्वितं तद्युक्तं प्रतिष्ठाकलया विशोध्यम् ॥ ४-१६ ॥
ह्रीम्बीजमुद्धातचतुष्कशोध्यमग्नौ तदानाभितटं प्रविष्टम् ।
वह्नेस्त्रिकोणारुणमण्डलं स्याद् विद्याकलं स्वस्तिकलाञ्छनं च ॥ ४-१७ ॥
दृगिन्द्रियं रूपगुणं सरुद्रं ह्रूम्बीजतोऽघोरयुतं विशोध्यम् ।
त्र्युद्धाततस्तच्च जले प्रविष्टं व्याप्तं तु कण्ठावधि सन्निरूप्य ॥ ४-१८ ॥
षड्बिन्दुचिह्नं त्वथ वायुबिम्बं कृष्णं षडश्रं पुरुषास्थितं च ।
त्वक्स्पर्शशान्त्यन्वितमीश्वरेण ह्रैम्बीजमुद्घातयुगाद् विशोध्यम् ॥ ४-१९ ॥
व्याप्तं च तद्भ्रूयुगलावसानं स्थूलांशमात्रेण धरां प्रविष्टम् ।
वृत्तं खबिम्बं स्फटिकावदातं सश्रोत्रशब्दं च सबिन्दुशक्तिम् ॥ ४-२० ॥
ईशानसादेशयुतं त्वतीतं व्याप्तं समूलास्त्रकमाशिरोन्तात् ।
तद् द्वादशान्तः स्थितमूलमन्त्राच्चन्द्रामृतासारजलैः समस्तम् ॥ ४-२१ ॥
आप्लाव्य निर्वर्तितभूतशुद्धिः सम्पाद्य तत्त्वानि यथाक्रमेण ।
शिवादिपृथ्व्यन्ततत्त्वैः स्वशक्त्यधिष्ठानशिवस्येच्छया विद्यादेहं सम्पादयेत् ।
शिवेच्छयोत्पादितशुद्धदेहो हृद्यासनं तु प्रणवेन दत्त्वा ॥ ४-२२ ॥
तद्व्यापिनीं न्यस्य शिवां तु शक्तिं स्वबीजजीवं निहितं शिवाख्ये ।
तं द्वादशान्तादथ पूरकेण त्वानीय नाड्या हृदयाब्जमध्ये ॥ ४-२३ ॥
संस्थाप्य मूलामृतवारिपूरैराप्लाव्य पूजादिकमारभेत् ।
भूतशुद्ध्यधिकारः
भूतशुद्ध्यधिकारः ।
अत्रोच्यतेऽन्या स्फुटमात्मशुद्धिर्या शोषणादिक्रमशोर्ध्वदेहे ॥ ४-२४ ॥
निःशेषदोषक्षयशुद्धिदानाद् रोगान् जरां मृत्युमपि क्षिणोति ।
प्राग्वत् स्वदेहे सुषिरं विचिन्त्य तद्व्यापिनीं चान्तरबाह्यशक्तिम् ॥ ४-२५ ॥
हुङ्कारमध्यस्थितचित्तजीवः प्राणान्नियम्याहृतपूरकेण ।
ग्रन्थीन् विदार्याहृतरेचकान्तमस्त्रेण वायुं विनिवर्त्य पूरात् ॥ ४-२६ ॥
चैतन्यमाहृत्य ससान्तजीवं हृत्सम्पुटे ज्योतिरनामयाख्यम् ।
तं कुम्भकोद्घातवशात् तदूर्ध्वं चाकृष्य सौषुम्नपथेन कान्तम् ॥ ४-२७ ॥
तं द्वादशान्तःस्थशिवे नियुज्यात् तत्त्वानि नीत्वा विलयं विलोमात् ।
वर्णान् वोलोमात् क्षहसक्रमोक्तान् नीत्वा लयं शब्दततिं च शक्तौ ॥ ४-२८ ॥
शून्यं तु देहं मलपापमात्रं विचिन्त्य कृष्णं त्वथ नाभिचक्रे ।
बिम्बे तु वायोरतिधूम्रवर्णं यङ्कारमुद्भाव्य तु चण्डवायुम् ॥ ४-२९ ॥
ध्यायेदधःशाखमथोर्ध्वमूलं संसारवृक्षात्मकमात्मदेहम् ।
देहात्माधोमुखस्तत्र ध्यातव्यो भवपादपः ।
इति ब्रह्मशम्भुः ।
तं शोषयेन्नाभिविनिर्गतान्तश्चण्डानिलेनाघमले च शोष्ये ॥ ४-३० ॥
उद्धातकैः पञ्चभिरस्य शोषं वायोर्निरोधेन विद्याय पश्चात् ।
हृत्पङ्कजेऽन्त्याक्षरमग्नियुक्तं सानुग्रहार्धेन्दुयुतं सनादम् ॥ ४-३१ ॥
बीजं तु सञ्चिन्त्य हुताशकल्पं बिम्बे हुताशस्य तु रक्तवर्णम् ।
विन्यस्य षट्कोणलसत्त्रिशूलज्वालासहस्रप्रसरैरघौघम् ॥ ४-३२ ॥
सम्यग्दहन्तं तु कलेवराख्यं तद्भस्मसाद्भूतमपीह चिन्त्यम् ।
दहेत् पाशुपतास्त्रेण इति पराख्यपौरुषयोरुक्तत्वात् पाशुपतास्त्रेण वा तद् दहेत् ।
प्रोत्सार्य चण्डानिलवायुबीजात् तद्भस्म सर्वं तु दिशो विकीर्य ॥ ४-३३ ॥
शून्यं खतुल्यं परिभाव्य देहं शुद्धं तु तत्केवलपुण्यशेषम् ।
व्योमाम्बुजान्तःस्थशिवस्य शक्तेरिच्छाक्रियाज्ञानवशात् सिसृक्षोः ॥ ४-३४ ॥
शक्तेर्यथावल्लिपिवर्णपूगैस्तत्त्वानि चोत्पाद्य तु तैः शरिरम् ।
सृष्ट्वा तदण्डात्मकविश्वलोकं सम्भाव्य शुद्धं गतपाशबन्धम् ॥ ४-३५ ॥
प्राग् द्वादशान्ताहितबीजजीवमाकृष्य तत्पूरकवायुमिश्रम् ।
तद् ब्रह्मरन्ध्रेण निवेश्य मार्गाद्धृत्पद्ममध्यं शिवमात्मरूपम् ॥ ४-३६ ॥
व्योमाब्जमध्येन्दुकलास्वराढ्यं द्व्यष्टच्छदाधारसुधाकलाभिः ।
सुषुम्नयानीय पृथग् यथावच्चापूरयेद् व्युत्क्रमतः स्वराणाम् ॥ ४-३७ ॥
सामृतामानिनी तुष्टिपुष्टी तथा प्रीतिरुक्ता रतिः श्रीश्च शान्तिः सुधा ।
कान्त्यथ ज्योत्स्नया हैमवत्या प्रभा पूरणी वामया स्यादमा षोडशी ॥ ४-३८ ॥
दक्षिणाङ्गुष्ठतो गुल्फजानुक्रमात् स्यात् कटिश्चोदरं पाणिसन्धिर्भुजः ।
मूर्ध्नि चार्धं क्रमाद् वामभागेऽपि च स्थानमुक्तं कलास्तद्विलोमा न्यसेत् ॥ ४-३९ ॥
अः अमायै नमः । अं वामायै नमः । औं पूरण्यै नमः । इत्याद्यङ्गुष्ठादिमूर्धान्तं षोडश कला विन्यस्य तदमृतैः क्रमादापूरयेदित्युपदेशः ।
तोयमर्धेन्दुमत्पूर्णचन्द्रप्रभं खाम्बुजे भावयेत् तत्कलात्तस्वरम् ।
शङ्खकुन्देन्दुगोक्षीरगौरामृतैर्ब्रह्मनाड्या पथापूर्य देहं स्वकम् ॥ ४-४० ॥
द्व्यष्टवर्षाकृतिं शुद्धविद्यातनुं तत्सुधापूरणप्लाव्यमानाकृतिम् ।
पुण्यपूगार्जितं शुद्धमित्थं धिया यः स्मरेदेकदाप्येष योगी भवेत् ॥ ४-४१ ॥
इत्थमभ्यासतः शुद्धसत्त्वः स्वयं शक्तिपातं लभेतेश्वरानुग्रहात् ।
जप्यपूजादिभिश्चेष्टासिद्धिं तथा सुप्रसन्ना मुखान्निःसरेद् भारती ॥ ४-४३ ॥
न हि सलिलविशेषैः केवलं क्षालनाद्यैः
प्रभवति परिशुद्धिर्यन्मलिष्ठं शरीरम् ।
द्विविधमितिह सद्भिः सान्तरङ्गात्मशुद्धिः
सविधि समुपदिष्टां तां भजेन्नित्यशोऽपि ॥ ४-४३ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे क्रियापादे भूतशुद्ध्यादि पटलश्चतुर्थः ॥ ४ ॥