०३

अथ तृतीयः पटलः ।

अथोच्यते नैत्यकमत्र कर्म सामान्यतः सिद्धिकरं यथावत् ।
समस्तवर्णाश्रमलिङ्गभाजामावश्यकं यत् करणीयमेकम् ॥ ३-१ ॥

प्रभावतीष्वेव हि तारकासु कालं तु सूर्योदयदर्शनात् प्राक् ।
वदन्ति सन्ध्यां मुनयः प्रभातां तस्यां विनिद्रः शयनं च जह्यात् ॥ ३-२ ॥

स्मरन् हृदम्भोरुहकोटरस्थं शैवं परं ज्योतिरथात्मसंस्थम् ।
व्रजेत् समुत्थाय दिशं विशुद्धमम्भः प्रभूतं सुलभं च यस्याम् ॥ ३-३ ॥

विदूरतो मार्गजलाशयादेश्छन्ने तृणैर्भूमितले निवीती ।
उदङ्मुखो याम्यमुखोऽहि रात्रौ त्यक्त्वा मलं चाथ गृहीतशिश्नः ॥ ३-४ ॥

कर्णावसक्तयज्ञोपवीतोऽवगुण्ठितशिरस्क इति यावत् ।

जलाशयं प्राप्य मृदं विशुद्धामादाय चाष्टाङ्गुलखातलब्धाम् ।
निधाय तां दक्षिणतो धृताभिरद्भिस्तु शौचं विधिवत् प्रकुर्यात् ॥ ३-५ ॥

एकैव लिङ्गे करयोस्तु तिस्रस्तथा गुदे पञ्च मृदः प्रदेयाः ।
वामे करे द्वादश तत्प्रसङ्ख्याः पाण्योरयं शौचविधिर्हि मुख्यः ॥ ३-६ ॥

उत्थाय वासः परिधाय सम्यगाजानुसन्धेश्चरणौ करौ च ।
प्रक्षाल्य मृत्स्नासलिलैर्विशुद्धैर्वक्त्रं च गण्डूषजलैर्विशोध्य ॥ ३-७ ॥

प्लक्षाम्रजम्बूककुभाश्वकर्णमालूरकाशोकलवङ्कजाद्यम् ।
वैकङ्कतौदुम्बरचम्पकं वा शस्तं बुभुक्षोः खलु दन्तकाष्ठम् ॥ ३-८ ॥

स्वैरङ्गुलैर्द्वादशभिर्मितं तत् कनिष्ठिकानाहसमं सवल्कम् ।
पूर्वामुखोऽद्यादुपविश्य मौनी प्रदक्षिणं वामरदादधः प्राक् ॥ ३-९ ॥

मोक्षार्थिनां कण्टकिनस्तु वृक्षास्तद्वच्छिरीषार्जुननक्तमालाः ।
शस्तं ह्यपामार्ग इतीह तेषामष्टाङ्गुलं दन्तविशोधनाय ॥ ३-१० ॥

सनिम्बधात्रीधवसेलुशिग्रुवानीरकैरण्डतृणैः कुशैर्वा ।
स्थितः प्रजल्पन् शायितोऽथवाद्यात् तैलावसिक्तोऽपि न दन्तकाष्ठम् ॥ ३-११ ॥

नोपोषितः पारणपूर्वकालं न जन्मभे पर्वणि नासिताहे ।
नाप्यष्टमीश्राद्धदिनेषु दन्तान् प्रधावयेदङ्गुलिभिर्नखैर्वा ॥ ३-१२ ॥

अत्र कालोत्तरे –

प्रतिपत्पर्वषष्ठीषु नवम्यामपि वा गुह ! ।
दन्तानां काष्ठसंयोगे महान् दोषोऽभिधीयते ॥

तद्वत्तु जिह्वामपि मार्जयित्वा तद्दन्तकाष्ठादि विसृज्य दूरे ।
गण्डूषकद्वादशकेन पश्चादाचम्य तु स्नानमुपक्रमेत ॥ ३-१३ ॥

सरित्सु गङ्गादिषु मुख्यमुख्यं तीर्थेषु चान्यासु नदीषु मुख्यम् ।
सरस्तटाकादिषु मध्यमं स्यात् स्नानं तु कूपेषु गृहे च नीचम् ॥ ३-१४ ॥

स्नायात् तु कूपादिषु शुद्धपात्रैः स्नातैर्द्विजैरेव समाहृताद्भिः ।
स्नायात् तु नोष्णाम्भसि कर्मयोग्यं नैतद् यतो रोगिषु सम्मतं तत् ॥ ३-१५ ॥

भुवमष्टाङ्गुलां खात्वा त्यक्त्वाधो मृदमस्त्रतः ।
खातां मृदं समादाय तत् खातं परिपूर्य च ॥ ३-१६ ॥

शिरसा पयसस्तीरे धौते संस्थाप्य तां पुनः ।
शिखया शोधयित्वा तु वर्मणा विभजेत् त्रिधा ॥ ३-१७ ॥

लिप्त्वैकभागमानाभेः प्रक्षाल्याचम्य वाग्यतः ।
द्वितीयेनास्त्रयुक्तेन दीप्तेनाङ्गानि लेपयेत् ॥ ३-१८ ॥

प्राणानायम्य सलिले निमज्ज्यास्त्रमनुस्मरन् ।
कालानलप्रतीकाशं तथोपतटमम्भसि ॥ ३-१९ ॥

उपविश्य समाचान्तः कृत्वास्त्राद् दिग्विबन्धनम् ।
शिष्टं तु पूर्वमृद्भागमादायानाभि वारिणि ॥ ३-२० ॥

स्थित्वा वामकरस्थं तत् त्रिधा तु विभजेत् पुनः ।
दक्षिणं भागमस्त्रेण प्राक् स्वमूलेन तूत्तरम् ॥ ३-२१ ॥

अङ्गमन्त्रैः समालभ्य गृहीत्वास्त्रेण दक्षिणम् ।
हुम्फडन्तेन रक्षायै दशदिक्षु क्षिपेत् सुधीः ॥ ३-२२ ॥

मूलालब्धेन पूर्वेण जले दक्षिणपाणिना ।
निक्षिप्य भ्रामयेद् वारि शिवतीर्थमनुस्मरन् ॥ ३-२३ ॥

अङ्गालब्धार्कदीप्तेन शिष्टभागेन विग्रहम् ।
सर्वमालिप्य तत्तीर्थं स्वनाम्नावाह्य पूजयेत् ॥ ३-२४ ॥

गन्धपुष्पैर्यथालाभं मनसा वा समाहितः ।
मुख्यनद्यब्धितीर्थेषु नान्यतीर्थानि कीर्तयेत् ॥ ३-२५ ॥

कीर्तनान्निष्फल तत् स्यात् क्रुध्येच्चातो न कीर्तयेत् ।
केवलाम्भस्सु गङ्गादितीर्थानां कीर्तनं स्मृतम् ॥ ३-२६ ॥

तत्तत्फलप्रदं तस्मात् तत्तत्तीर्थानि कीर्तयेत् ।
ततः प्राणान् समायम्य त्रिर्निमज्ज्य समाहितः ॥ ३-२७ ॥

निमग्न एव साङ्गं स्वमूलं शक्त्या जपेद्धृदा ।
एकशीतिपदं मन्त्रं जपेच्छक्तोऽघमर्षणे ॥ ३-२८ ॥

द्विजश्चेद् वैदिकं सूक्तमाघर्षणिकं जपेत् ।
हिरण्यशृङ्गमित्यादि यथोक्तं पूर्वपद्धतौ ॥ ३-२९ ॥

यथा जलौघे लवणस्य सञ्चयः प्रयाति सद्यो विलयं महानपि ।
तथा महानप्यघमर्षणेऽंहसां चयो विनाशं व्रजतीति निश्चितम् ॥ ३-३० ॥

ततः स्थितो वारिणि वामदक्षिणौ करौ शशाङ्कार्कशिवद्वयात्मकौ ।
विभाव्य मूलेन च कुम्भमुद्रया शिरस्यथाङ्गैरपि चाभिषेचयेत् ॥ ३-३१ ॥

ततोऽम्भस्तटमागत्य कौपीनं मेखलामपि ।
परिवर्त्याथवा शुक्ले वाससी परिधापयेत् ॥ ३-३२ ॥

यथा ब्रह्मशम्भुः –

द्वितीयं हस्तविस्तीर्णं कौपीनं ब्रह्मचारिणाम् ।
त्रयोदशाक्षसङ्कोचं सत्सूत्रगुणमेखलम् ॥

ब्रह्मचारिग्रहणमुपलक्षणम् यतीनां लिङ्गिनामपीत्यर्थः ।

स्नातो नाङ्गानि निर्मृज्यात् पाणिना वार्द्रवाससा ।
तथा नेक्षेत पाषण्डिपातकिश्वान्त्यजाशुचीन् ॥ ३-३३ ॥

प्रमादाद् यदि वीक्षेत पुनः स्नात्वा विशुध्यति ।
चिताचण्डालयूपश्वचितिकाष्ठादिरासभान् ॥ ३-३४ ॥

वराहकुक्कुटोदक्यासृगालोलूकवायसान् ।
सूतकीशावकाशौचिमहापातकिनोऽशुचीन् ॥ ३-३५ ॥

स्पृष्टा देवलकं चापि सचेलो जलमाविशेत् ।
नैमित्तिकेषु कृत्येषु ग्रहणेन्दुक्षयादिषु ॥ ३-३६ ॥

अयनद्वयतीर्थादौ सचेलः स्नातुर्महति ।
सन्ध्यासु वपने शुक्लविण्मूत्रोच्छिष्टकुष्ठिनाम् ॥ ३-३७ ॥

सम्पर्के वमने चाब्धेः स्पर्शने चाप्यपर्वणि ।
वृषलप्रतिलोमानां मार्जारस्पर्शनेऽपि च ॥ ३-३८ ॥

श्मश्रुकर्मणि चोत्तीर्य नदीं वारुणमाचरेत् ।
दानादौ स्नानजप्यादौ तर्पणे हवनेऽपि वा ॥ ३-३९ ॥

सर्वत्र सपवित्रः स्यादन्यथा स्यात् तदासुरम् ।
यद्वा मुक्तशिखो नग्नः प्रलपन् वावगुण्ठितः ॥ ३-४० ॥

करोति कृत्यं दैवादि सर्वं विद्यात् तदासुरम् ।
अथानुदित आदित्ये सन्ध्यावन्दनमाचरेत् ॥ ३-४१ ॥

तत्र पूर्वं तु मृत्तोयैः क्षालिताङ्घ्रिकरद्वयः ।
द्विराचामेद् यथाकल्पं स्वागमस्मृतिचोदनात् ॥ ३-४२ ॥

तद्यथा –

अङ्गुल्यग्रे दैवमङ्गुष्ठमूले ब्राह्मं तीर्थं पर्वसन्धिष्वथार्षम् ।
प्राजापत्यं स्यात् कनिष्ठामधोऽथ पित्र्यं तर्जामूलदेशे द्विजानाम् ॥ ३-४३ ॥

हस्ते तूक्तं दक्षिणे तत्तले स्यादाग्नेयाख्यं तीर्थमन्यत्र सौम्यम् ।
दैवं चान्यत् कर्म कुर्यात् स्वतीर्थादाचामेत्तु ब्रह्मतीर्थेन तोयैः ॥ ३-४४ ॥

ज्येष्ठाग्रेऽग्निस्तर्जनीमूर्ध्नि वायुर्मध्याग्रेऽर्कोऽनामिकाग्रे सुरेन्द्रः ।
प्राजापत्यः स्यात् कनिष्ठेति देवैरङ्गुल्यः स्युर्दक्षिणे विप्रपाणौ ॥ ३-४५ ॥

अत्र विप्रशब्दग्रहणमुपलक्षणं दीक्षितानां द्विजातीनामित्यर्थः ।
प्राग्वक्त्रो वोदङ्मुखः सोपवीतो बद्ध्वा चूडां जानुमध्यस्थबाहुः ॥
तोयापेक्षी सूपविष्टोऽथ मौनी स्यादाप्रह्वस्त्वेकधीराचमिष्यन् ॥ ३-४६ ॥

अदुष्टरसगन्धाद्यैरकीटाफेनबुद्बुदैः ।
अनुष्णैरम्बुभिः शुद्धैराचामेदभिवीक्षितैः ॥ ३-४७ ॥

आत्मविद्याशिवैस्तत्त्वैरीश्वरायनमोन्तकैः ।
प्रणवाद्यैः पृथग्युक्तं त्रिः पिबेदम्बु वीक्षितम् ॥ ३-४८ ॥

हस्तं गोकर्णवत् कृत्वा यवमग्नमितं जलम् ।
पिबेदशब्दवद् ब्रह्मतीर्थेन त्रिर्यथोदितम् ॥ ३-४९ ॥

ओष्ठावस्त्रेण सम्मृज्य खानि सर्वात्मना स्पृशेत् ।

कालोत्तरटीकायां –

हृत्कण्ठास्यगताः पुनन्ति विधिनैवापो द्विजातीन् क्रमात्
त्रिः पीता वृषलस्त्रियावपि तथा कुण्डानुलोमादिकान् ।
आचम्य त्रिरपस्त्रिदेवपुरुषाः प्रीणन्ति निर्मार्ष्टि यद्
द्विः साथर्वषडङ्गयज्ञपुरुषाः प्रीताः स्युरप्यग्नयः ॥

प्रीणात्यर्कमनामिका नयनयोः स्पर्शात् तथाङ्गुष्ठयुक्
साङ्गुष्ठा त्वथ तर्जनी सममिता घ्राणद्वये मारुतान् ।
अङ्गुष्ठेन कनिष्ठिका श्रवणयोराशां च नाभेर्वसू –
नात्मानं तु हृदोंसयोर्दिवमृपीन् मूर्ध्नः समस्ताङ्गुलैः ॥

इत्थं सम्यग् द्विः समाचम्य शुध्येदुच्छिष्टे वा क्षालने पादयोश्च ।
कक्ष्यामोक्षे वा शिखाबन्धमोक्षे निष्ठीवे वा जृम्भिकायां क्षुते च ॥ ३-५० ॥

स्नानाचमनाधिकारः ।

इत्थमाचम्य तु ततः सन्ध्यावन्दनमाचरेत् ॥ ३-५१ ॥

तत्र प्राग्वैदिकात् तन्त्रसन्ध्या मन्त्राह्वया ततः ।
क्षत्त्रवैश्यावपि तथा ह्यन्ये केवलतान्त्रिकीम् ॥ ३-५२ ॥

ईशानपुरुषाघोरवामदेवा यथोदिताः ।
सद्यश्च सचतुर्थामी(?) नमोन्ताः पञ्च ते पृथक् ॥ ३-५३ ॥

हृच्छिरश्च शिखा वर्म नेत्रमस्त्रं च षट् क्रमात् ।
षडङ्गानि सजातीनि मूलं प्रासादसञ्ज्ञितम् ॥ ३-५४ ॥

अस्त्रं पाशुपताख्यं चेत्येषा स्यान्मन्त्रसंहिता ।

अत्र कालोत्तरे –

ब्रह्माणि च शिवं साङ्गं नेत्रं पाशुपतं च यत् ।
समासात् कथितः सर्वो मन्त्रोद्धारस्त्वयं शुभः ॥

इति ।

शिवाङ्गान्यत्र लिख्यन्ते वक्ष्यमाणक्रियाप्तये ॥ ३-५५ ॥

ॐ हां शिवाय हृदयाय नमः । ॐ हीं शिवाय शिरसे स्वाहा । ॐ हूं शिवाय शिखायै वषट् । ॐ हैं शिवाय कवचाय हुम् । ॐ हौं शिवाय नमः नेत्रत्रयाय वौषट् । ॐ हं शिवाय नमः अस्त्राय फट् ।

षष्ठवर्गद्वितीयं तु चतुर्थाद्येन भूषितम् ।
द्वितीये प्रथमार्णं तु पञ्चमाद्येन संयुतम् ॥ ३-५६ ॥

एतत् पाशुपतास्त्रं स्यात् सोपदेशं यथाक्रमात् ।
एतदेव शिवास्त्रेण युक्तं विघ्नान्निहन्ति हि ॥ ३-५७ ॥

गन्ध नुलिप्तकरयोस्तु मिथोऽपघर्षात्तालत्रयास्त्ररववारितविघ्नसङ्घः ।
ज्येष्ठादिकाङ्गुलिषु युग्मकनिष्ठिकान्तमीशानपूर्वकमनून् क्रमशो न्यसेच्च ॥ ३-५८ ॥

ह्रस्वैः स्वरैस्तु बिन्द्वन्तैर्युक्तं व्योमाक्षरं यथा ।
ओकाराद्यमकारान्तमीशानाद्यैर्न्यसेत् तथा ॥ ३-५९ ॥

अथाङ्गमन्त्रैस्तु पुनः कनिष्ठादिषु विन्यसेत् ।
ज्येष्ठान्तमस्त्रमन्त्रं तु तलयोरुभयोरपि ॥ ३-६० ॥

नष्टाङ्गुष्ठा बद्धमुष्ठिरैशानी स्यादवाङ्मुखी ।
शेषाः स्युः पुरुषादीनामङ्गुल्यो ज्येष्ठिका ग्रहाः ॥ ३-६१ ॥

पञ्चब्रह्मोदिता मुद्रा न्यासेष्वेवं क्रमोदिताः ।
ताभिर्मूर्धास्यहृद्गुह्यपादाद्यामस्तकांस्तनोः ॥ ३-६२ ॥

ईशानादीन् स्वमन्त्रैस्तु मूर्ध्नि मस्तकपूर्वतः ।
दक्षिणे चोत्तरे पश्चाद् भागेषु शिरसो न्यसेत् ॥ ३-६३ ॥

स्वाङ्गानि हृदयादीनि स्वेषु स्थानेषु विन्यसेत् ।
पञ्चब्रह्ममुखं स्वैक्यं विद्यादेहं सदाशिवम् ॥ ३-६४ ॥

सन्ध्योपास्यार्चनादौ च शिवोऽहमिति भावयेत् ।

सकलीकरणाधिकारः ।

अत्र कालोत्तरे –

कृतविद्यातनुः सन्ध्यां ध्यात्वा कालक्रमेण तु ।
उपस्थितारुणश्वेतश्यामलाभां विभागशः ॥
ब्रह्मादिकारणोपाधिभेदभिन्ना विभाविनी ।
साक्षिणी कर्मणां शम्भोः शक्तिः सन्ध्येति गीयते ॥
तत्प्रभामण्डलाभोगप्रविष्टामात्मनस्तनुम् ।

कुर्यात् इति ।

तद्यथा –

हंसारूढां स्वतेजोगणमणिवसनालेपनामब्जनेत्रां
वेदास्यामक्षमालां स्रवमथ कलशं दण्डमप्यादधानाम् ।
धायेद् दोर्भिश्चतुर्भिस्त्रिभुवनजननीं पूर्वसन्ध्यां तु वन्द्यां
सावित्रीमृक्सवित्रीमभिनववयसं मण्डले चण्डरश्मेः ॥ ३-६५ ॥

तार्क्ष्यारूढाम्बुजाक्षी शतमखमणिभा शङ्खचक्रे दधाना
दोर्भियुक्ता चतुर्भिः स्थितिरिह जगतां या यजूंष्युद्गिरन्ती ।
व्यालोलानेकहारद्युतिरुचिरुचिरा वैष्णवी मध्यमेऽह्नः
सावित्री ध्येयरूपा विलसति सवितुर्मण्डले पीतवस्त्रा ॥ ३-६६ ॥

पञ्चास्यां पिङ्गविद्युत्ततिरुचिरजटामण्डलां चन्द्रमौलिं
रङ्गद्भूषाभुजङ्गोत्फणमणिकिरणोद्भासिभस्माङ्गरागाम् ।
ध्यायेत् खट्वाङ्गशूलाभयवरदकरां व्याघ्रचर्माम्बराढ्यां
सावित्रीं सत्रिनेत्रां परिणतवयसं सामसृति दिनान्ते ॥ ३-६७ ॥

प्रतिसन्ध्यं क्रमात् सन्ध्यां पृथग्रूपां विचिन्त्य तु ॥ ३-६८ ॥

स्वदक्षिणेतरौ हस्तावग्नीषोमात्मकौ पुनः ।
शिवशक्त्यात्मकौ ध्यात्वा तोयमादाय दक्षिणे ॥ ३-६९ ॥

शिवतीर्थमनुस्मृत्य गङ्गादिसरिदन्वितम् ।
जपित्वा संहितां कुम्भमुद्रया मूर्ध्नि योजयेत् ॥ ३-७० ॥

दक्षिणेन पुनस्तोयं हस्तेनादाय चास्त्रतः ।
तद्वामहस्ते विन्यस्य दिव्यं ध्यात्वा सुधामृतम् ॥ ३-७१ ॥

ततः स्रुताम्भसो बिन्दून् दक्षिणेन करेण तु ।
आदाय सपवित्रेण पथन् वै संहितामनून् ॥ ३-७२ ॥

अभ्युक्षन् योजयेन्मूर्ध्नि शेषं हस्तेऽथ दक्षिणे ।
ज्वलज्ज्योतिर्मयं ध्यात्वा दक्षिणघ्राणसङ्गमात् ॥ ३-७३ ॥

शरीरान्तर्गतं पापं निःशेषेण तमोमयम् ।
तज्ज्योतिष्प्रभया क्षिप्तं वामनासाविनिर्गतम् ॥ ३-७४ ॥

चिन्तयेत् पुनरस्त्रेण दह्यमानं भुवि क्षिपेत् ।
सर्वपापक्षयकरं ह्येतदप्यघमर्षणम् ॥ ३-७५ ॥

ॐ हौं शिवात्मने सूर्याय नमः ।

आदायाञ्जलिना तोयं मन्त्रेणानेन भानवे ।
त्रिरूर्ध्वमुत्क्षिप्य पुनराचम्याभिमुखो रवेः ॥ ३-७६ ॥

जपित्वा शिवगायत्रीं प्रासादाद्यन्तसंयुताम् ।
अष्टोत्तरशतं शक्त्या दशमात्रमथापि वा ॥ ३-७७ ॥

शिवात्मानं रविं ध्यात्वा त्रिधा कृत्वा प्रदक्षिणम् ।
अभिवाद्याप्यनुज्ञाप्य तर्पणं प्रारभेत च ॥ ३-७८ ॥

घृतोत्तरासङ्गपवित्रपाणिर्ब्रह्माणि चाङ्गानि च मूलमन्त्रम् ।
चतुर्मुखं चाप्यथ विष्णुरुद्रौ तथेश्वरं चापि सदाशिवं च ॥ ३-७९ ॥

स्वाहानमोन्तं निजनामधेयैः सन्तर्प्य शीतैः सलिलैर्विशुद्धैः ।
तारं पदद्वन्द्वमुदीर्य पश्चात् स्वाहान्तवाग्वादिनिशब्दयुक्तम् ॥ ३-८० ॥

इन्द्रादिदिक्पालदिशः स्वनाम्ना युक्तं चतुर्थ्याथ नमोन्तकं च ।
सन्तर्प्य चोर्ध्वामपि नाकपृष्ठां तथा धरां चापि च नागभोग्याम् ॥ ३-८१ ॥

इति दशदिक्तर्पणम् ॥

इन्द्राग्निवैवस्वतराक्षसेशतोयेशवाय्वर्थपतींश्च सोमम् ।
ईशाह्वयं वेधसमप्यनन्तं प्राग्वत् स्वनाम्ना दश तर्पयेत् तान् ॥ ३-८२ ॥

तत्र सोमं धनददिशि इन्द्रेशानयोर्मध्ये ब्रह्माणमूर्ध्वदिक्पतिं निर्-ऋतिवरुणयोर्मध्येऽनन्तं मधोदिक्पतिं विद्यादित्युपदेशः ।

इति दिक्पतितर्पणम् ।

अत्रिस्तद्वत् कौशिकाख्यः पुलस्त्यो भारद्वाजश्चाङ्गिराः स्याद् वसिष्ठः ।
दक्षोऽथान्यः स्याद् भृगुर्वै मरीचिश्चैतान् प्राग्वत् तर्पयित्वा क्रतुं च ॥ ३-८३ ॥

सनकं च सनातनं सनन्दं भृगुसञ्ज्ञं च सनत्कुमारपैलौ ।
सह पञ्चशिखेन तर्पयामीत्यभिधानादिनमोन्तकं पृथक् स्यात् ॥ ३-८४ ॥

इति योगिमनुष्यान् ।

शिवं च रुद्रं श्रियमप्युमां च ब्रह्माणमग्निं च तथैव विष्णुम् ।
वायुं च सूर्यं त्वथ धर्मसोमावीशानमेतानथ तर्पयेच्च ॥ ३-८५ ॥

इति सिद्धान् ।

आदित्यं च तथा सोममङ्गारकबुधावपि ।
गुरुं शुक्रं शनिं राहुं केतुं चेति नव ग्रहान् ॥ ३-८६ ॥

चतुर्थ्यन्तं स्वनामभिर्नमोन्तं तर्पयेत् । ॐ सर्वेभ्यो भूतेभ्यो वषट् नमः इति सर्वभूतानि सन्तर्प्य,

ततोऽपसव्यं तिलदर्भतोयैः पितॄन् स्वतीर्थेन तु तर्पयित्वा ।
सोमः पितृमान् यभोऽङ्गिरस्वानग्निः कव्यवाहनादयो ये पितरः तान् पितॄन् स्वधा नमस्तर्पयामि ।

पितृपत्नीः पितृगणान् पत्नीः पितृगणस्य च ।
ततः स्वनामगोत्राभ्यां स्वपितॄनपि तर्पयेत् ॥ ३-८७ ॥

स्वधा नमस्तर्पयामीत्यन्ते नाम्ना नियोजयेत् ।
पितॄन् पितामहांश्चापि तथैव प्रपितामहान् ॥ ३-८८ ॥

मातॄः पितामहीश्चैव तथैव प्रपितामहीः ।
मातामहांस्तथा मातुस्तर्पयेच्च पितामहान् ॥ ३-८९ ॥


मातुः पितामहीश्चैव मातुश्च प्रपितामहीः ॥ ३-९० ॥

ज्ञातींश्च ज्ञातिपत्नीश्चाप्याचार्यांश्च तथा पुनः ।
सखीनपि च तत्पत्नीरन्यानप्यात्मवंशजान् ॥ ३-९१ ॥

तर्पयित्वा यथापूर्वं प्रणम्याद्भ्यो नमोऽस्त्विति ।
पादक्षेपादिसङ्क्षोभदोषशान्त्यै विभावयेत् ॥ ३-९२ ॥

ह्रस्वप्रासादतस्तीर्थं संहृत्य हृदि योजयेत् ।
इत्थमुत्थानकावश्यशौचदन्तविशोधनैः ॥ ३-९३ ॥

स्नानसन्ध्याविधेरूर्ध्वमाग्नेयं स्नानमिष्यते ।
स्नानं प्राग् वारुणं कृत्वा पश्चादाग्नेयमाचरेत् ।

इति वचनात् ।
तथाच मतङ्गे –

एवं सकृत् तथाशक्त्या स्नातोऽम्भसि विचक्षणः ।
भस्मस्नानाधिकारी स्यान्नान्यथा मुनिपुङ्गव ! ॥

इति ।

रोगपीडावशात् स्नातुमशक्तो वारुणे यदा ॥ ३-९४ ॥

आग्नेयमेव तस्येष्टं रोगप्रशमनं च तत् ।
आग्नेयं भस्मना स्नानमखिलाघनिबर्हणम् ॥ ३-९५ ॥

स्वतेजस्सम्भवेनैव येन स्नातः स्वयं शिवः ।
सन्ध्यात्रये च जप्यादौ चर्यापूर्वावसानयोः ॥ ३-९६ ॥

भुक्त्वा सुप्त्वाम्बु पीत्वा वा कृत्वाप्यावश्यकादिकम् ।
स्त्रियं वाप्यनुलोमादीन् स्पृष्ट्वा वा मूषिकाशुचीन् ॥ ३-९७ ॥

आचरेत् स्नानमाग्नेयं यथैवाथर्वचोदितम् ।
देवाग्निगुरुविद्यानां समीपेऽन्त्यजदर्शने ॥ ३-९८ ॥

अशुद्धभूमौ मार्गे वा स्थितो नोद्धूलयेद् बुधः ।
कल्पानुकल्पोपकल्पभेदात् तद्वदकल्पकम् ॥ ३-९९ ॥

चतुर्धा भस्म शैवोक्तं पूर्वं पूर्वं गुणाधिकम् ।
अरोगायाः सवत्सायां भूमावपतितं तु गोः ॥ ३-१०० ॥

गोमयं पद्मपालाशपत्राद्यन्यतमेन तु ।
गृहीत्वा तु विशुद्धात्मा गायत्र्या शिवसञ्ज्ञया ॥ ३-१०१ ॥

शिवाग्नौ संहितामन्त्रैः साधितं कल्पसञ्ज्ञितम् ।
आरण्यगोमयं दूरे ग्रामादेः पूतमाहरेत् ॥ ३-१०२ ॥

प्राग्वच्छिवाग्निना दग्धं यत् तत् स्यादनुकल्पकम् ।
चतुर्विधं च तद् भस्म जातिसङ्करवर्जितम् ॥ ३-१०३ ॥

आग्निदग्धेष्वरण्येषु गृहीत्वा भस्म तत् पुनः ।
गोमूत्राबद्धपिण्डं तु विशोष्याथ शिवानले ॥ ३-१०४ ॥

दग्धं भस्मोपकल्पं स्यादकल्पकमथोच्यते ।
विशिष्टविप्रगोवाटजातं वा देवतालयात् ॥ ३-१०५ ॥

गृहीत्वा साधितं प्राग्वत् तद् भस्म स्यादकल्पकम् ।
चतुर्विधं च तद् भस्म जातिसङ्करवर्जितम् ॥ ३-१०६ ॥

अपरिग्रहमन्येषां कर्मस्पर्शाद्यदूषितम् ।
श्लक्ष्णं पूतमरोगं च पात्रस्थं भसितं सितम् ॥ ३-१०७ ॥

आग्नेयस्नानयोग्यं स्याद् यथोक्तं ब्रह्मशम्भुना ।
तद्भस्म संहितामन्त्रैः शक्त्या लब्धं सुरक्षितम् ॥ ३-१०८ ॥

पात्रात् सङ्गृह्य हस्तेन दक्षिणेनाभिमन्त्र्य तु ।
विशोद्ध्य धारिणीभिस्तु भूतशूद्धिविधानतः ॥ ३-१०९ ॥

षडङ्गेनाभिमन्त्र्यादौ कृत्वा वामकरे पुनः ।
कृत्वास्त्रेण मलस्नानं मस्तकप्रभृति क्रमात् ॥ ३-११० ॥

ततस्त्वीशानपुरुषाधोरवामैः ससद्यकैः ।
क्रमान्मूर्धास्यहृद्गुह्यजङ्घान्ताशेषविग्रहम् ॥ ३-१११ ॥

उद्धूलयेद् द्विजोऽन्ये तु ललाटांसहृदादिषु ।
धारयेयुस्त्रिपुण्ड्राणि तथैव ब्राह्मणादयः ॥ ३-११२ ॥

त्रियायुषं धारयेयुर्वेदप्रामाण्यदर्शनात् ।

त्रियायुषं जमदग्नेः काश्यपस्य त्रियायुषम् इत्यादिश्रुतेः ।

आग्नेयस्नानाधिकारः ।

ऐन्द्रादीन्यपि दृश्यन्ते स्नानान्यागमदर्शनात् ॥ ३-११३ ॥

येषु स्नानादघध्वंसं पुण्यं भद्रञ्च विन्दति ।
अनभ्रे प्रतपत्यर्के वृष्टिं दृष्ट्वोर्ध्वबाहुना ॥ ३-११४ ॥

माहेन्द्रस्नानमीशानात् कार्यं सप्तपदावधि ।
गवां खुरपुटोत्खातरेणुभिः पवनोपगैः ॥ ३-११५ ॥

गोमध्यगस्तत्पुरुषं गो(मूत्रं ?सूक्तं)वा जपन् द्विजः ।
अन्यस्तु गोस्तुतिं गोभ्यो नमो वेत्यभ्युदीरयन् ॥ ३-११६ ॥

वायव्यमाचरेत् स्नानमखिलाघनिबर्हणम् ।
स्नानानामिह सर्वेषां मूलं श्रेष्ठं च वारुणम् ॥ ३-११७ ॥

तस्मात् प्राग् वारुणं कृत्वा ततः स्नानान्तरं भजेत् ।
प्रक्षाल्य पाणिपादं तु समाचम्याथ वाग्यतः ॥ ३-११८ ॥

विद्यादे(हयुतो) भूत्वा मन्त्रस्नानं समाचरेत् ।
पञ्चभिर्ब्रमभिर्विप्रो गायत्र्या शिवसञ्ज्ञया ॥ ३-११९ ॥

मूलेन च षडङ्गैश्च शिवतीर्थमनुस्मरन् ।
स्वशिरः प्रोक्षयेद् दर्भकूर्चाद् वा कुशमूलतः ॥ ३-१२० ॥

अद्विजो दीक्षितो यस्यां मन्त्रैरीशानपूर्वकैः ।
मूलाङ्गैरपि चाभ्यस्तैः प्रोक्षयेत् तु स्वमस्तकम् ॥ ३-१२१ ॥

आपोहिष्ठादिभिर्मन्त्रैर्मन्त्रस्नानं हि वैदिकम् ।
तेनापि मार्जयेद् विप्रो विशुद्धिं परमामियात् ॥ ३-१२२ ॥

ततो यागगृहं गच्छंस्तीर्थं ह्रस्वेन संहरेत् ।

ह्रस्वप्रासादेनेत्यर्थः ।

स्नानवस्त्रादिकं दण्डे संयम्यामन्त्र्य तज्जलम् ॥ ३-१२३ ॥

स्मृत्वा गुरुं गणेशं च हृदयेनाभिपूज्य तु ।
विशोध्यास्त्रेण पन्थानमस्त्रपञ्चकमध्यगः ॥ ३-१२४ ॥

गच्छेत् तत्त्वान्यधस्तात् तु कल्पयन् यागमन्दिरम् ।
विद्यातत्त्वास्पदं ध्यायन् सर्वविद्यानिकेतनम् ॥ ३-१२५ ॥

स्नानमात्राः समारोप्य नागदन्तादिके क्वचित् ।
शुद्धे विविक्ते मौनी तु ततः पूजामुपक्रमेत् ॥ ३-१२६ ॥

सन्ध्योपास्तिप्रसङ्गादिति विधिविहितं नैत्यकं कर्मचक्रं
सङ्क्षेपाच्छैवतन्त्रे स्मृतमिह कथितं लिङ्गिनां वर्णिनां च ।
दृष्टादृष्टेष्टसिद्धिप्रदमिह मुनिभिः सेवितं चेति सन्तः
स्वीकुर्वन्तु स्ववित्तं स्वयमिव सुहृदः सत्पथावर्तयन्तः ॥ ३-१२७ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे क्रियापादे नित्यस्नानादिपटलस्तृतीयः ।