०२

अथ द्वितीयः पटलः ।

प्रणम्य भक्त्या प्रथमं गणेश्वरं प्रपञ्चसूतिं च गिरं शिवां शिवम् ।
सपाशविश्लेषशिवत्वबोधिनीं पशोस्तु दीक्षां प्रवदाम्यथोत्तरम् ॥ २-१ ॥

अत्र मतङ्गे –

पशुः पाशयिता पाशस्त्रयमेतद् व्यवस्थितम् ।
साध्यसाधकभावोक्त्या यथा तत् प्रकटं भवेत् ॥

इति ।

य एष देहे नियतस्तु देहभृच्छरीरभिन्नो ह्यशरीरलक्षणः ।
स जीव आत्मा पशुरित्युदीर्यते स्मृतश्च संसारितया पुमानणुः ॥ २-२ ॥

पशुः पाशः पतिः शक्तिर्विचारश्चेति पञ्चधा ।
पदार्थाः स्युः क्रिया चर्या षष्ठी शैवागमोदिता ॥

पशुः प्रागीश्वरो विद्यायोनिर्मुक्तिरिहान्तिमा ।

इति श्रीपराख्ये ।

इतीह षट्पदार्थानां पृथग् याथार्थ्यनिर्णयः ।
विदित्वा समयी सम्यग् भोगं मोक्षं च विन्दति ॥
न पशुर्नाममात्रेण शरीरी परिभाव्यते ।
शरीरेऽस्मिन् कुतो ह्यात्मा शरीराद् व्यतिरिच्यते ॥

इति मतङ्गे । तथाहि –

बौद्धाः क्षणध्वंसिनमाहुरेनं विज्ञानसन्तानमयं च युक्त्या ।
तं प्रत्यगात्मानमुशन्ति नित्यः त्र्यय्यन्तिदन्तिप्रवरास्तथैकम् ॥ २-३ ॥

आशाम्बरा देहमितं स्वतन्त्रं तं गर्विचार्वाकपिशाचसङ्घाः ।
प्राहुस्तथा भूतनिकायमात्रदेहेन्द्रियात्मानमिहैकमानात् ॥ २-४ ॥

साङ्ख्याः सङ्ख्यापरं त्वेनं प्राहुः प्रकृतिवादिनः ।
बद्धावस्थमकर्तारं मुक्तावस्थागतं विदम् ॥ २-५ ॥

जैमिनीयमतैर्ज्ञानी कर्तानेकात्मतां गतः ।
मुक्तौ पाषाणकल्पो वा धर्मज्ञानैकसाधनात् ॥ २-६ ॥

नैयायिकादिभिर्भिन्नो बुद्धिदुःखसुखान्वितः ।
इच्छाद्वेषप्रयत्नैश्च धर्माधर्मयुतोऽपि च ॥ २-७ ॥

संस्कारवान् नवगुणो ह्यात्मा प्रतितनु स्मृतः ।
शब्दार्थयोरभेदेन ब्रूयुः शब्दात्मनित्यताम् ॥ २-८ ॥

बद्धं मुक्तं च तज्ज्ञानाद् येऽमी व्याकरणास्पदाः ।
एवं मिथो विरोधेन ह्यात्मा तीर्थैः पृथक् स्मृतः ॥ २-९ ॥

स पशुः पाशितः पाशैः पतिः पाशयिता शिवः ॥ २-९ १।२ ॥

पशुस्त्वमूर्तः खलु नित्यनिर्गुणः स निष्क्रियो ज्ञप्रभुदेहगोचरः ।
मलादशुद्धोऽपि च भोक्तृतां गतः स्वकर्मणामीश्वरमायया वृतः ॥ २-१० ॥

स्वयं तु किञ्चिज्ज्ञतयाथ रागतः स रञ्जितः सत्त्वरजस्तमोगुणैः ।
तथापि बुद्ध्यादिभिरेव बुद्ध्यते विचिन्तको भोगविधानतृष्णया ॥ २-११ ॥

तथाच किरणे-

पशुर्नित्योऽप्यमूर्तोऽज्ञो निष्क्रियो निर्गुणः प्रभुः ।
व्यापी मायोदरान्तःस्थो भोगोपायविचिन्तकः ॥

इति वरुणोऽप्याह –

किञ्चिज्ज्ञो मलिनो भिन्नः कर्ता भोक्ता स्वकर्मणाम् ।
शरीरान्यो विभुर्नित्यः संस्कार्यः सेश्वरः पशुः ॥

इति स्वायम्भुवे च –

अचेतनो विभुर्नित्यो गुणहीनोऽक्रियोऽप्रभुः ।
व्याघाती भोगशक्तश्च शोध्यो बोध्योऽकलः प्रभुः ॥

इति । पराख्ये च –

देहाढ्यो नश्वरो व्यापी विभिन्नः समलो जडः ।
स्वकर्मफल(भुक्ता ? भोक्ता) च किञ्चिज्ज्ञः सेश्वरः प्रभुः ॥

इति । किं बहुना –

यदा नियत्या विनियम्यतेऽवशः पशुः समे कर्मणि कालयोगतः ।
शिवेच्छया शक्तिनिपातशोधितस्ततो विमुच्येत यथार्हदीक्षया ॥ २-१२ ॥

अत्र –

समे कर्मणि सञ्जाते कालान्तरवशात् ततः ।

तिव्रशक्तिनिपातेन

इत्यादिना किरणेऽभिहितत्वाद् दीक्षितस्य पाशमुक्तिः सिद्धेत्यत स्त्वदीक्षितो बद्ध एव ।

अथात्मा मलिनो बद्धः पुनर्मुक्तश्च दीक्षया ।

इति । स्वायम्भुवे । अत्र –

बद्धः पाशैः पशुर्देही सोऽसम्यग्ज्ञानहेतुतः ॥ २-१३ ॥

गवादिवद् भोक्तृतया यद् यदित्थं तथैव तत् ।

पशुविचाराधिकारः ।

तथैव पाशास्त्रिविधास्तु देहिनां मलं च मायाप्यथ कर्मसञ्चितम् ।
तदाणवं नाम मलं सहोद्भवं यदेव मायेयककार्मणाह्वयम् ॥
पाशा अपि त्रयो ज्ञेया मलं माया च कर्म च ।

इति वरुणः ।

पाशस्तु मलकर्ममाययोस्तेषां पशूनां त्रिविधा ।

इति रामकण्ठे । स्वायम्भुवे च –

अथानादिमलं पुंसां पशुत्वं परिकीर्तितम् ।
तुषकम्बुकवज्ज्ञेयं मायापापाङ्कुरस्य तत् ॥
मायातत्त्वं जगद्बीजमविनाश्यं शिवात्मकम् ।
कर्म तद् द्विविधं भोग्यम्

इति च ।

अनात्मभूतेऽत्र कलेबरे पशोर्यदात्मबुद्धिर्ममता च वस्तुषु ।
असत्सु सद्बुद्धिरितीह तत् त्रयं मलाख्यमज्ञानमिदं परिस्फुटम् ॥
सहजो हि मलो माया कार्यमागामिको मलः

इति किरणे । तथाच मतङ्गे –

मोहो नाम मलः पुंसां सहजोऽनादिमान् मतः ।
यो हि षण्णां मुदादीनां प्रधानत्वाद् द्विजोत्तम ! ॥

इति । मलं चाशुद्धिरज्ञानमिति वरुणः ।

मोहो मदश्च मात्सर्यं रागद्वेषौ च तृष्णया ।
लोभश्च सप्तधाज्ञानमलं यत् सहजं पशोः ॥

इति वृहत्कालोत्तरे ।

मायेत्युक्ता कलाद्यात्र क्षित्यन्ता तत्त्वसंहतिः ।
यस्यां विश्वप्रपञ्चोऽयं सहाभिः ख्यातिगोचरः ॥
कलादिकं तु तत्कार्यं सूक्ष्मं स्थूलं धरान्तकम् ।
स्वकर्मतः शरीरेऽस्मिन् सम्बद्धमनुमीयते ॥
सर्वकार्यं यतो माति मायातत्त्वमतः स्मृतम् ॥

इति पराख्ये ।

कला च पूर्वं नियतिश्च विद्या रागः पुमांश्च प्रकृतिश्च बुद्धिः ।
अहङ्कृतिर्मानसमिन्द्रियाणि दशैव तन्मात्रकपञ्चकं च ॥
व्योमानिलाग्न्यबुधरान्तमेभिस्तत्त्वैः प्रसिध्येत् तनुरत्र भोक्तुः ।
संसारिणः कर्मवशाद्धि सैषा मायेन्द्रजालप्रतिमा विभाति ॥
अचेतनं चेतनवद् विचित्रं सर्वत्रगं नित्यमतीव सूक्ष्मम् ।
यतस्ततः स्थूलमपीह मायातत्त्वं न शक्यं गदितुं यथावत् ॥
कर्मापि च स्यात् द्विविधं कृतं प्राक् पुण्यात्मकं चाप्यथ पापकं च ।
ते च त्रिभेदे खलु मानसं प्राग् वाग्जं च शरीरमिति क्रमेण ॥
त्रैधानि कर्माणि पुनस्त्रिधा स्युः प्रागार्जितानीह च सम्भृतानि ।
आगामिकानीति च तानि येषां द्वन्द्वात्मकानीह फलानि भोक्तुः ॥
अणोरशुद्धस्य शरीरिणोऽस्य मलं हि शुल्बस्य तु कालिमेव ।
सहैव जातं शिवशक्तिपाताद् रसेन्द्रवेधादिव यात्यभावम् ॥

शिवानुग्रहयोगात् तु शक्तिपातादनन्तरम् ।
प्रवर्तितायां दीक्षायां पशुत्वादेष मुच्यते ॥
शिवेच्छया परानन्ता शैवी शैवार्थदायिका ।
सा शक्तिरापतत्याद्या पुंसो जन्मन्यपश्चिमे ॥
तन्निपातात् क्षरत्यस्य मलं संसारकारणम् ।

इति स्वायम्भुवे ।

तस्य चिह्नानि भक्तिश्च विरागो भवसागरे ।
सम्यग् ज्ञानं शिवत्वस्य व्यक्तिश्चेति भवन्ति हि ॥ २-१४ ॥

तस्माज्ज्ञानं च भक्तिश्च वैराग्यमिति चात्मनः ।
दीक्षितस्य तु चिह्नानि शशोस्त्वेतानि नाञ्जसा ॥ २-१५ ॥ २-इति ।

वरुणपाशविचाराधिकारः ।

पतिस्तु शुद्धः शिव एव नित्यस्तृप्तश्च सर्वज्ञगुणः स्वतन्त्रः ।
अनादिबोधोऽयमलुप्तशक्तिः सोऽनन्तशक्तिर्निखिलाध्वपालः ॥ २-१६ ॥

अत्र रामकण्ठः – पतिस्तु भगवाञ्छिवसदाशिवादितत्त्वभेदेन भुवनपञ्चकभेदेन च वक्ष्यमाणः परमेश्वरः इति ।

अतीत्य तत्त्वानि विराजमानो व्योमाखिलं व्याप्य यतो ह्यरूपः ।
व्योमप्रकाशो भगवानमेयो ह्यनादिमध्यान्तमहेश्वरोऽसौ ॥ २-१७ ॥

क्रीडन् स विन्दोरवतीर्य शक्त्या स्वयोपगूढः परमप्रभावः ।
सर्वाध्वकार्यं निखिलं सिसृक्षुः स्वशक्तिजालावरणो बभूव ॥ २-१८ ॥

स मन्त्रनाथोऽप्युपचारयोगात् स्वमन्त्रपञ्चात्मतनुं व्यधत्त ।
अनन्तसूक्ष्मादिभिरष्टसङ्ख्यैः समं तु विश्वेश्वरशक्तिभेदैः ॥ २-१९ ॥

ईशानमूर्धां पुरुषाख्यवक्त्रामघोरहृद् गुह्यकवामदेवाम् ।
सद्याख्यमूर्ति त्वथ हारिणीं च तथा जनित्रीं च निरोधयित्रीम् ॥ २-२० ॥

अत्र मतङ्गे –

तनुर्यस्योपचारेण पञ्चमन्त्रमयी शिवा ।
ईशानमूर्धां पुंवक्त्रो ह्यघोरहृदयः प्रभुः ॥
उच्यते वामगुह्योक्त्या सद्योमूर्तिस्तथासने ।
हारिणी जननी चैव रोधयित्री च शक्तयः ॥

इति ।

अनन्तोऽनन्तवीर्यात्मा सूक्ष्मश्चेत्यादिनापि च ।
विद्येश्वराः प्रसिद्धाः । समासादेवंविधः पतिः सदाशिवरूपी वा निर्दिष्टः ।

पतिविचाराधिकारः ।

शिवास्य शक्तिः परमार्थसूक्ष्मा चितिः स्वतन्त्राखिलसिद्धिहेतुः ।
प्रभेव दीपात् तु शिवादभिन्ना जगद्भवोन्मीलनबोधदक्षा ॥ २-२१ ॥

तथाच मतङ्गे –

पत्युः शक्तिः परा सूक्ष्मा जगदुन्मलिनक्षमा ।
तया प्रभुः प्रबुद्धात्मा स्वतन्त्रश्च सदाशिवः ॥
प्रबोध्यते महातेजा ज्ञानशक्तिकृतास्पदः ॥

इति ।

तत्त्वेन सा चेश्वरसञ्ज्ञितेन युक्ता चतुर्भिर्भुवनैः समग्रा ।
इच्छाक्रियाज्ञानमयी त्रिभेदा भिन्ना पुनः षोडशधा च शक्तिः ॥ २-२२ ॥

तथाच मतङ्गे –

तत्सामर्थ्यादनन्तस्य तत्तेजः पारमेश्वरम् ।
भेदैः षोडशधा भिन्नमिच्छाज्ञानक्रियात्मकम् ॥

इति ।

सङ्क्षोभणी स्याज्जननी ततश्च स्यात् क्रोधयित्री च तथैव गोप्त्री ।
नेत्री च योक्त्रीत्युदिता परस्तात् त्राणाह्वया वामनियामिका च ॥ २-२३ ॥

रौद्रीत्यतः प्लाविकया ततोऽपि श्रद्धा परस्तादथ भासनी स्यात् ।
ज्वालिन्यथह्लादनिकेति गीता स्तम्भिन्यपि स्याद् विकिरा च शक्तिः ॥ २-२४ ॥

क्रमादमी षोडश शक्तिभेदाः प्रोक्ताः शिवो याभिरुदीर्णशक्तिः ।
स निष्कलः सन् सकलोपचारात् क्रीडत्यजः कर्तृतया स्म लोकैः ॥ २-२५ ॥

प्रबोध्यते महातेजा ज्ञानशक्तिकृतास्पदः ।
स्थानभेदेन कर्तृत्वं यस्मात् तस्योदितं सदा ॥

इति पारमेश्वरे ।

पत्युः शरीरं भुवनक्रियायां भोगाश्च सिध्यन्ति यथेश्वरेऽपि ।
स्थितास्तु तत्त्वाध्वनि शक्तयस्तास्तथा स्वनामानुगुणक्रियाढ्याः ॥ २-२६ ॥

तथाच रामकण्ठः – शक्तिपदार्थोऽत्रेश्वरतत्त्वेन वक्ष्यमाणभुवनचतुष्टययुक्तश्चतुर्थोऽभिधीयते । तदधिष्ठानं विना पुंसां ज्ञानानुत्पादनात् इति ।

मतङ्गे च –

स्वभावस्याप्युत क्रीडा स च क्षोभ इति स्मृतः ।
क्षोभेणातिजवात् कर्तुः शरीरमभवत् पुरा ॥
येनावतीर्य सम्भोगांस्तत्त्वादीश्वरसञ्ज्ञितात् ।
व्यापारस्थितयेऽनन्तः कृतवान् भुवनं महत् ॥
एवं क्षोभयिता देवः क्षोभ्याश्च पशवः स्मृताः ॥

इत्येतस्मात्,

क्षोभण्या क्षोभयल्लोकाञ् जनन्या भोगसृष्टिकृत् ।
रोधयित्र्या निरुध्याणून् स्वे स्वे कर्मफले न्यसेत् ॥
गोप्त्र्या जगद् गोपयति नेत्र्या विश्वं नयत्यसौ ।
रुक् पाशनिचयो भोक्तुर्येयं द्रावयितुं क्षमा ॥

इति मतङ्गे ।

पशूनां दुःखसन्तानं विमृज्य प्लाविकाह्वया ॥ २-२७ ॥

भोगामृतैः प्लावयति श्रद्धयार्थैश्च योजयेत् ।
स्वभावाभावभावैश्च भाविन्या भावयत्यणून् ॥ २-२८ ॥

संहृत्य विश्वं ज्वालिन्या ज्वालयत्यपि संहृतौ ।
ह्लादिन्या ह्लादयेद् भोगैर्मोक्षेण च शिवाश्रयात् ॥ २-२९ ॥

स्तम्भिन्या स्थापयेद् विश्वं स्वाज्ञायां स महेश्वरः ।
नानायोनिसहस्रेषु जनिमद् विकिरत्यणून् ॥ २-३० ॥

विकिरण्या चरस्थास्नुत्रसत्सु बहुधा शिवः ।

मतङ्गे च ।

विकिरिण्या यथोपात्तस्वाङ्गावयवगोचरे ।
व्यक्तीकरोति जगतः शरीराणि सहस्रधा ॥

इति ।

इत्थं शिवः षोडशशक्तिभेदैस्तद्भेदजाभिर्यदनन्तशक्तिः ।
विद्यासमग्रस्वविभूतिजालैर्विश्वं विदित्वा च सृजत्यजस्रम् ॥ २-३१ ॥

तिस्रः कोट्योऽर्धकोटिश्च नियोगेनाधिरोपिताः ।
विद्यातत्त्वविधौ शक्त्यस्तासामेव विभूतयः ॥ २-३२ ॥

अपि च,

अभ्युद्गताः कर्तुरमोघवीर्याः प्रविस्तृतास्ताश्च जगत्प्रपञ्चे ।
प्रकाशितं याभिरुदारवृत्तं स्वकं स्वकं कारणकार्यभावात् ॥ २-३३ ॥

उन्मीलिताः पाशविभागयुक्त्या कृताश्च सर्वे पशवः समृद्धाः ।
भोगेषु युक्त्यावसरागतानां विभाजितं कर्मफलं यथावत् ॥ २-३४ ॥

प्रभोः स्थितास्त्वात्मवशे महत्यस्ताः शक्तयोऽशेषजगत्प्रदीपाः ॥ २-३५ ॥

इति ।

शक्तिविचाराधिकारः ।

विचारशब्देन तु पूरुषस्य कर्मानुसाराद् भुवनाध्वनश्च ।
साधारणेनापि च सृष्टिपूर्वं जगत्त्वसाधारणतोऽपि गीतः ॥ २-३६ ॥

षड्विंशतिर्यो भुवनाध्वभेदो विद्यासविद्येश्वरतत्त्वयुक्तः ।
तस्यापि पश्चादिपुरोदितानां मीमांसनं चात्र विचारमाहुः ॥ २-३७ ॥

विचारपदार्थाधिकारः ।

क्रियेति च स्यादिह कृत्यचक्रं दीक्षादिसंस्कारविशेषयुक्त्या ।
सनित्यनैमित्तिककाम्यकर्म चर्याह्वयं तद्युगलं पदार्थः ॥ २-३८ ॥

षष्ठः प्रसिद्धः किरणादिकेषु शैवेष्वथैषां तु पदार्थकानाम् ।
व्युत्पादकं यद् भवतीह तन्त्रं तत्रीति धातोरिह धारणार्थात् ॥ २-३९ ॥

क्रियाचर्यापदार्थाधिकारः ।

दीक्षया शिवत्वव्याप्तिव्यावर्णनप्रसङ्गाच्च पटलस्व प्रथमश्लोके प्रवदाम्यथोत्तरमित्युक्तत्वाच्च प्रतिष्ठादिकं क्रियाचक्रमपि क्रियाचर्यापदार्थेऽन्तर्भूतमेवोपरिष्टात् प्रदर्श्यते ॥

निगदितमिति शैवतन्त्रबीजं त्विह पशुपाशपतीश्वरीविचारैः ।
फलति यादिह चापि सत्क्रियोप्तं सुरतरुषण्डमिवेष्टकामदोहम् ॥ २-४० ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे षट्पदार्थविचारौ नाम द्वितीयः पटलः ।