अथ प्रथमः पटलः ।
प्रणम्यादौ शिवं शक्तिं सादेशं च गणेश्वरम् ।
शुद्धविद्यां तथा वाणीं मुख्यं धर्मं प्रचक्ष्महे ॥ १-१ ॥
सामान्यमन्त्रपादाभ्यां पूर्वार्धे खलु दर्शिताः ।
धर्मार्थकाम्याः सामान्याः शिष्टं व्यावर्ण्यतेऽधुना ॥ १-२ ॥
मुख्यधर्मचिदाप्नोति दृष्टादृष्टफलोदयात् ।
भोगान् मोक्षं च तद्धर्मविषयः परमेश्वरः ॥ १-३ ॥
अथातो धर्ममित्यादिसूत्राद् वैशेषिकादतः ।
धर्मप्रयोजनं मोक्षः प्रोक्तश्चाभ्युदयो महान् ॥ १-४ ॥
धर्मा बहुविधाः ख्यातास्तत्तदागमचोदिताः ।
नहि ते मुख्यधर्माः स्युर्मुख्यधर्माः शिवोदिताः ॥ १-५ ॥
मायाविकारहीनेन विशुद्धेनामलात्मना ।
सर्वकर्त्रा शिवेनोक्तं शास्त्रं मुख्यं हि सर्वथा ॥ १-६ ॥
स हि मायादिभूम्यन्तविश्वकार्यस्य कारणम् ।
शिवः कर्ता विकर्ता च प्रमाणत्रयगोचरः ॥ १-७ ॥
जगत् सावयवं ह्येतद् बुद्धिमत्कर्तृकं स्मृतम् ।
कार्यत्वाद् यद्यदेवं स्याद् यथा घटपटादिकम् ॥ १-८ ॥
तथाचोक्तमिदं तस्मादुक्तसाध्यं न संशयः ।
अस्त्येकः स शिवः कर्ता ह्यपरेभ्यो विलक्षणः ॥ १-९ ॥
योगिप्रत्यक्षतः सिद्धश्चानुमानागमैरपि ।
सर्वेभ्यो ह्यपरेभ्योऽस्य वैलक्षण्यं कथंअ भवेत् ॥ १-१० ॥
विलक्षणः शिवोऽन्येभ्यस्त्वनादिरमलो यतः ।
सर्वेषां समलत्वाच्च यद् यत् स्यान्निर्मलं स्वतः ॥ १-११ ॥
तत्तद्विलक्षणं तेभ्यः स्वर्णं ताम्रादिकाद्यथा ।
तथाचोक्तं प्रसिद्धं स्यादत्रोक्तं किरणेऽपि च ॥ १-१२ ॥
अनादिमलसम्बन्धान्मलिनत्वमणौ स्थितम् ।
अनादिमलमुक्तत्वान्निर्मलत्वं स्थितं शिवे ॥ १-१३ ॥
इति । रामकण्ठोऽप्याह –
यश्चासौ सर्वज्ञः सर्वकर्ता च शुद्धः शिवः, तथा किञ्चिज्ञोऽह्यशुद्ध आत्मा । तयोः शिवात्मनोः सम्ब(न्धी ये ? न्धिनी) तु शुद्धाशुद्धे निर्मलमलयुक्ते स्वरूपे इति । श्रीमल्लम्बितेऽपि –
एकः शिवः पुमानासीदपरेभ्यो विलक्षणः ।
इति ।
तस्मादनादिमलिनास्त्वात्मानो ह्यणवः स्मृताः ।
इति ।
अनादिनिर्मलः शुद्ध एक एव महेश्वरः ।
निर्मलः शिव एकश्चेत् सर्वेभ्योऽपि विलक्षणः ॥ १-१४ ॥
निर्मलाः शिवधामानः सन्ति विद्येश्वराः कथम् ।
कथ्यते मलमोक्षोऽपि त्वयैव शिवदीक्षया ॥ १-१५ ॥
दीक्षितानां शिवत्वं च सिद्धं शैवागमे यदा ।
एतेऽप्यपर एवास्माच्छिवात्मानः शिवाद् यतः ॥ १-१६ ॥
तस्मादयुक्तं सर्वेभ्यो वैलक्षण्यं शिवस्य हि ।
अत्र निर्वाणदीक्षायाः पूर्वं ते मलिना यतः ॥ १-१७ ॥
दीक्षोत्तरं ह्यमलता शिवत्वव्यक्तिरेव च ।
शिवानुग्रहतस्त्वेषां शिवत्वं ह्यादिमत् स्मृतम् ॥ १-१८ ॥
शिवस्त्वनादिसिद्धेन शिवत्वेनापरानणून् ।
अनुगृह्णन् स्वतन्त्रश्च स्यात् तेभ्योऽपि विलक्षणः ॥ १-१९ ॥
अत्र त्रय्यन्तिदन्तीन्द्रा वदन्त्यद्वैतमात्मनाम् ।
ब्रह्मैकमेवाद्वितीयं यथात्मानोऽपरे कथम् ॥ १-२० ॥
यत्र न सिध्यति ।
न चेद्ग्रामः कुतः सीमा कस्यानुग्राहकः शिवः ॥ १-२१ ॥
इत्यादि ब्रुवतामेषां स्यात् प्रमाणं यदा तदा ।
द्वैतापत्तिः स्मृता नो चेदप्रमाणं हि तद् भवेत् ॥ १-२२ ॥
अत्र तद्वचनैस्तेषामुत्तरोत्तरमुत्तरम् ।
दत्तं द्वैतप्रसिद्धं स्यादद्वैतेन समासतः ॥ १-२३ ॥
ब्राह्मणाद्येषु सत्स्वेव भवन्त्यब्राह्मणादयः ।
तन्मतप्रतिकूलं स्यात् बन्धमोक्षपरिग्रहः ॥ १-२४ ॥
एकमेव यदा सर्वं ब्रह्म बद्धा न सन्ति हि ।
सर्वेऽपि मुक्ता एवातः किं फलं श्रवणादिभिः ॥ १-२५ ॥
गुरूपसदनं व्यर्थं नमस्कार्यः पृथक् कुतः ।
ज्ञातृज्ञेयविभागोऽपि ज्ञानं च स्यान्निरर्थकम् ॥ १-२६ ॥
इत्यादिभेदस्वीकारो वेदान्तेष्वपि दृश्यते ।
यस्माद् द्वैतं प्रसिद्धं हि गुणित्वमपि चात्मनः ॥ १-२७ ॥
किमत्र बहुनोक्तेन तस्याविद्याथवा तमः ।
माया वा त्याज्यमस्त्येव मुमुक्षोर्मोचकेतरत् ॥ १-२८ ॥
ब्रह्मविदाप्नोति परमित्यत्र श्रुतिदर्शनात् ।
नाप्नोत्यब्रह्मविद् यस्माद् भेदः सिद्धः प्रमाणवान् ॥ १-२९ ॥
हेतोरभावादैकात्म्ये तद्वच्छून्यात्मवादिनः ।
बौद्धा बुद्धिभ्रमादत्र भ्रमन्तोऽपि निराकृताः ॥ १-३० ॥
कर्म बुद्धिमता यस्मात् कृतं कार्यफलप्रदम् ।
ज्ञान चाहैतुकं तस्मात् क्रियातः फलवादिनाम् ॥ १-३१ ॥
कर्म तत् क्षणिकं वा स्यात् परतन्त्रमचेतनम् ।
न तादृक् फलसिद्ध्यै स्याद् बुद्धिमत्कारणं विना ॥ १-३२ ॥
तेषामचेतनैर्मन्त्रैः कर्मणा तादृशेन च ।
नूनं क्रियाफलावाप्तेः कर्ता ज्ञेयः सुधीः शिवः ॥ १-३३ ॥
गुणप्रकृतिरव्यक्तं विश्वोपादानमित्यपि ।
मृत्पिण्डवद् घटोत्पत्तेः स्वतो नालं हि कारणम् ॥ १-३४ ॥
अजो ह्येको जुषमाणोऽनुशेतेत्यादिनापि च ।
तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥ १-३५ ॥
इत्यादिवाक्यतः साङ्ख्यैरप्यन्वेष्यो महेश्वरः ।
अचेतनत्वाद् भूतानां देहेन्द्रियगणस्य च ॥ १-३६ ॥
त्यक्तगर्वैस्तु चार्वाकैरभ्युपेया ह्यनात्मता ।
भूतेन्द्रियाणि सन्त्येव मृतदेहेऽप्यतोऽपरः ॥ १-३७ ॥
अन्वेषणीय आत्मा स्यादस्वातन्त्र्यं तथात्मनः ।
अदृष्टस्य च सद्भावो ग्रहादित्यादिदर्शनात् ॥ १-३८ ॥
तत्कारणं सधीरस्तीत्येषणीयो महेश्वरः ।
देहप्रमाणमात्मानं नित्यानित्यविशेषणात् ॥ १-३९ ॥
ब्रुवतां जैनसाधूनां महर्षिस्तादृगेव हि ।
अहिंसादितपोयोगादहन्त्वं तस्य तन्मते ॥ १-४० ॥
सिद्धमित्यादिमान् सोऽपि तपसा परवान् यतः ।
तत्तपःफलदातान्यस्तैरुत्सृज्येह मत्सरम् ॥ १-४१ ॥
स्वतन्त्रोऽनादिमान् कर्ताध्येषणीयो महेश्वरः ।
इत्यादिवादपिशुनैरीश्वरेतरवादिभिः ॥ १-४२ ॥
क्षिप्तस्वपक्षविक्षेपैरेष्टव्यःश्रेयसे शिवः ।
शिवसद्भावाधिकारः ।
स शिवः स्वमुखोद्भूतैरागमैस्तु परापरैः ॥ १-४३ ॥
अनुगृह्णाति हि जगद् भोगमोक्षप्रसिद्धये ॥
अत्र स्वायम्भुवे –
अथात्ममलसन्तानपशुत्वविनिवृत्तये ।
व्यक्तये च शिवत्वस्य शिवाज्ज्ञानं प्रवर्तते ॥
तदेकमप्यनेकत्वाच्छिववक्त्राम्बुजोद्भवम् ।
परापरविभेदेन गच्छत्यर्थप्रतिश्रयात् ॥
इति ।
परैः शैवादिभिर्दिव्यैरागमैः पाशमोचकैः ॥ १-४४ ॥
विशिष्टभोगविभवशिवत्वफलदायिभिः ।
अपरैरपि वेदाद्यैरागमैः स्वमुखोद्गतैः ॥ १-४५ ॥
स्वर्गादिफलसिद्ध्यर्थं पशुज्ञानप्रकाशकैः ।
अत्र परेण कामिकादिना शिवज्ञानभेदेनापरेण वेदादिना पशुज्ञानभेदेनेति सद्योज्योतिः ।
तत्र पूर्वं तु शैवाख्यं तन्त्रं शिवमुखोद्गतम् ॥ १-४६ ॥
शुद्धशैवमिति ख्यातं शुद्धतत्त्वसमाश्रयात् ।
निष्कलो हि शिवो वक्ति कथं वाक्यादिलक्षणान् ॥ १-४७ ॥
आगमानिति चोद्येऽस्मिन् दृष्टं खं शब्दलक्षणम् ।
निष्कलो ह्येष मन्त्रात्मा विद्यादेहं समास्थितः ॥ १-४८ ॥
विसृजत्यागमान् सृष्टौ स्ववक्त्रेणात्मगोचरान् ।
अत्र किरणे –
पुंसामनुग्रहार्थं तु परोऽप्यपरतां गतः ।
कृत्वा मन्त्रात्मकं देहं वक्ति तन्त्राण्यनेकधा ॥
इति ।
शैवागमस्य भेदाः स्युः प्रथमं कामिकादयः ॥ १-४९ ॥
ततश्चाष्टादशविधा भेदाः स्युर्विजयादयः ।
अत्र स्वायम्भुवे –
एकमेव शिवज्ञानं विभिन्नं दशधा पुनः ।
तथाष्टादशधा भूयो भेदान्तरविसर्पितम् ॥
इति । तद्यथा –
कामिकं योगजाचिन्त्यकारणान्यजितं तथा ॥
दीप्तं सुक्ष्मं सहस्रं चाप्यंशुमान् सुप्रभेदकम् ।
शिवभेदसमाख्यानि तन्त्राण्येवं दश क्रमात् ॥
विजयं चैव निःश्वासं प्रोद्गीतं पारमेश्वरम् ।
आग्नेयं मुखबिम्बं च स्वायम्भुवमतः परम् ॥
रौरवं माकुटं चैव किरणं लम्बितं तथा ।
चन्द्रज्ञानं वीरभद्रं सिद्धं सान्तानिकं ततः ॥
शर्वोद्गीतं च विमलं वातूलं चेत्यनुक्रमात् ।
रुद्रभेदोद्भवान्येव तन्त्राण्यष्टादशैव हि ॥
एषां भेदोपभेदाश्च तत्तत्प्रकरणान्यपि ।
सुबहूनीत्यतोऽस्माभिर्निर्दिश्यन्ते न नामभिः ॥
उपभेदेन भेदानामस्य सङ्ख्या न विद्यते ।
भेदान्तराणि सर्वाणि महान्ति न महान्त्यपि ॥
इति स्वायम्भुवे –
पुनः स्वेच्छावतारेषु तन्त्रं पाशुपतं तथा ।
वाकुलं सोमतन्त्रं च जगाद परमेश्वरः ॥
तत्र शैवं हि मुख्यं स्याद् यदादौ शिवभाषितम् ।
एभिः शैवादिभिस्तन्त्रैश्चतुर्भेदविलक्षितैः ॥
दीक्षादिसत्क्रियाचर्याज्ञानयोगैर्महेश्वरः ।
दुःखपङ्काद् भवाम्भोधेस्तारयत्यमलानणून् ॥
अपरागमभेदोऽपि प्रथमो दशधा स्मृतः ।
ऋग्वेदोऽथ यजुर्वेदः साम चाथर्व एव च ॥
शिक्षा कल्पो निरुक्तं च च्छन्दो ज्यौतिषमेव च ।
ततो व्याकरणं चैव वेदानामित्यतो दश ॥
मीमांसा न्यायशास्त्रं च पुराणं स्मृतिरेव च ।
चतुर्भेदा हि विद्यास्ताः सर्वास्त्वेवं चतुर्दश ॥
एतासामपि विद्यानां वेदादीनां पृथक् पृथक् ।
शाखाश्च संहिताभेदाः शास्त्रभेदाश्च नैकधा ॥
सङ्ख्यातुं प्रायशोऽशक्याः शिवेच्छातः प्रवर्तिताः ।
तदेकप्रत्ययात् साध्यैरग्निष्टोमादिकर्मभिः ॥
नित्यैर्नैमित्तिकैः काम्यैरिष्टापूर्तैश्च नैकधा ।
स्वर्गादिपाशवान् भोगानिह चामुत्र चाप्नुयात् ॥
अत्र केचित्तु वेदानामुद्भवं शिववक्त्रतः ।
अज्ञानान्न सहन्ते यत् तन्न वेदहितावहम् ॥
पदवाक्यार्थसन्दर्भगर्भा शब्दमयी श्रुतिः ।
बुद्धिमत्पुरुषोदीर्णा नान्यथैवं प्रदृश्यते ॥
तत्र ह्याप्तप्रणीतत्वं शिष्टस्वीकरनिश्चितम् ।
अनाप्तकर्तृकत्वं च न श्रुतेः श्रूयते क्वचित् ॥
तस्मादत्यन्तमाप्तेन शिवेन श्रुतयोऽखिलाः ।
प्रणीताः सर्वकर्त्रेति प्रमाणं जायते सताम् ॥
अपिच,
इह वेदषडङ्गानां शिक्षादीनां जगत्त्रये ।
सिद्धं हि पौरुषेयत्वं सूत्राणां तन्मतेऽपि च ॥ १-५० ॥
अङ्गाङ्गिभावसम्बन्धो ह्येकजातिशरीरवान् ।
अवलाबालगोपालैरपि लोके सुसम्मतः ॥ १-५१ ॥
न गजाङ्गैरजः सिध्येन्नाजाङ्गैर्वा गजो भवेत् ।
तत्तदङ्गाङ्गिभावाः स्युरेवं सर्वत्र नान्यथा ॥ १-५२ ॥
वेदाः प्रमाणमीशेन स्वाप्तेन सुधियोदिताः ।
स्वाप्तप्रणीताङ्गवत्त्वात् तादृक् सूत्रादिमत्तया ॥ १-५३ ॥
यो यो बुद्धिमदाप्तोक्तैः स्वाङ्गैर्युक्तोऽत्र दृश्यते ।
आयुर्वेदादयो तद्वदुक्तसाध्यं तथा ततः ॥ १-५४ ॥
अपि चात्र स्मृतेः –
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥
इति ।
न्यायविस्तरमीमांसापुराणस्मृतयः समम् ।
पठिता वेदसाधर्म्यात् सपक्षत्वेन वैदिकैः ॥
मन्वादिभिस्तु निपुणैर्यदाप्तैर्वेदवित्तमैः ।
सिद्धास्माच्चाप्तयोगीन्द्रबुद्धिमत्कर्तृता श्रुतेः ॥
अत्र वेदः स्वयं प्राह सिसृक्षोरादिपूरुषात् ।
जन्मैवाखिलवेदानां विस्पष्टं तद्यथोच्यते ॥
तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्माद् यजुस्तस्मादजायत ॥
इति ।
अस्मिन्नर्थे पुराणेषु ब्राह्मकूर्मादिकेष्वपि ।
वैष्णवादिषु वाक्यानि सन्ति सृष्टौ प्रजापतेः ॥ १-५५ ॥
तद्यथा –
गायत्त्रं च ऋचं चैव त्रिवृत् स्तोमं रथन्तरम् ।
अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् ॥
यजूंषि त्रैष्टुभं छन्दस्तोमं पञ्चदशं तथा ।
वृहत्साम तथोक्थ्यं च दक्षिणादसृजन्मुखात् ॥
सामानि जागतं छन्दस्तोमं सप्तदशं तथा ।
वैरूपमतिरात्रं च पश्चिमादसृजन्मुखात् ॥
एकविंशमथर्वाणमप्तोर्यामाणमेव च ।
आनुष्टुभं सवैराजमुत्तरादसृजन्मुखात् ॥
इति ।
यच्चतुर्दशविद्यासु वेदाद्यास्वेकपाठतः ।
अङ्गीकृतं हि प्रामाण्यं पुराणानां तु वैदिकैः ॥ १-५६ ॥
एभिः पुराणवाक्यैस्तदनुमेयार्थबृंहिता ।
याजुषी श्रुतिरप्यस्ति ऋचां प्राचीति पूर्विका ॥ १-५७ ॥
पूर्वादिवक्त्रजातत्वात् तत्तद्दिङ्नियमश्रुतिः ।
दृश्यते खलु वेदानां नो चेद्दिङ्नियमः कुतः ॥ १-५८ ॥
तत्त्वैः कलादिपृथ्व्यन्तैः शरीरं ब्रह्मणोऽप्यभूत् ।
तत्त्वानां कारणं माया मायायाश्च महेश्वरः ॥ १-५९ ॥
मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ।
इत्यादिवचनात् कर्ता ब्रह्मणोऽपि महेश्वरः ॥ १-६० ॥
सिद्धः स्कन्दपुराणेऽपि दृश्यते देवलस्तवे ।
तद्यथा –
ब्रह्मा भूत्वा जगत् सर्वं सदेवासुरमानुषम् ।
यत् सृजत्यम्बुमध्यस्थं तस्य ब्रह्मात्मने नमः ॥
इति ।
एतस्मादपि वेदानां वक्ता ज्ञेयो महेश्वरः ॥ १-६१ ॥
तथाच न्याये –
वेदस्य पुरुषः कर्ता नहि यादृशतादृशः ।
किन्तु त्रैलोक्यनिर्माणनिपुणः परमेश्वरः ॥
इति ।
यद्येवमागमानां हि जन्म सिद्धं महेश्वरात् ।
आदिमत्त्वादनित्यत्वं श्रुतेः स्यादिति केचन ॥ १-६२ ॥
वदन्ति चेन्न तत् साधु यतोऽनादिर्महेश्वरः ।
नित्यशुद्धोऽमलो धीमान् मन्त्रविद्यातनुः स्वयम् ॥ १-६३ ॥
यास्य विद्यातनुः सापि ह्यनादिरनपायिनी
तथाच श्रुतिः –
या ते रुद्रशिवातनूरघोरापापकाशिनी
तया नस्तनुवा शन्तमया गिरिशन्ता ॥
इति ।
तस्मादभिन्ना तत्संस्था लवः काष्ठा कलादिवत् ॥ १-६४ ॥
तस्यैवेच्छाक्रियाज्ञानशक्त्युत्कर्षापकर्षतः ।
बिम्बादिपरिणामेन सूक्ष्मान्तर्वर्णसङ्ग्रहात् ॥ १-६५ ॥
वैखर्यादिपदैर्व्यक्तिं प्राप्यैषा शिवव्रक्त्रतः ।
तद्गता वाग् विनिर्याति शश्वद् वेदागमात्मिका ॥ १-६६ ॥
सा वागुत्पत्तिरत्रापि परतः किञ्चिदुच्यते ।
तां वाचमुपजीवन्ति विश्वे विश्वेश्वरोदिताम् ॥ १-६७ ॥
सिसृक्षुर्विसृजत्येनां पुनर्ग्रसति संहृतौ ।
सृष्टिं करोति कारुण्यात् पुंसां भुक्त्यै च मुक्तये ॥ १-६८ ॥
खिन्नानामिह संसारे विश्रमार्थं च संहृतिम् ।
अनादिः स शिवो मुख्यो यथान्येभ्यो विलक्षणः ॥ १-६९ ॥
तथा तद्वदनोदीर्णा वाचोऽन्याभ्यो विलक्षणाः ।
शिवागमाश्च वेदाश्च नित्या एव प्रमाणतः ॥ १-७० ॥
नित्याः शिवागमा वेदैः शिवेनादावभेदतः ।
नित्यस्थितास्त्वभिव्यक्तास्तस्मिंस्तेऽनादयो यतः ॥ १-७१ ॥
यद् यन्नित्ये स्थितं शश्वदभिव्यक्तं च तन्मुखात् ।
नित्यमेव यथा कालकलाकाष्ठादिनादयः ॥ १-७२ ॥
तथा च प्रकृतं तस्मादुक्तसाध्यं न संशयः ।
द्विविधागमानामीश्वरप्रणीततया प्रामाण्यस्थापनाधिकारः ।
स सिसृक्षुर्विभुर्विश्वमागमांश्च महेश्वरः ॥ १-७३ ॥
स्वशक्तिव्यक्तिमादध्रे पूर्णचन्द्रः स्वभामिव ।
अत्र
चिदचिदनुग्रहहेतोरस्य सिसृक्षोर्य आद्य उन्मेषः ।
तच्छक्तितत्त्वमभिहितमविभागापन्नमस्यैव ॥
इति । तत्त्वप्रकाशे –
शिवादभिन्ना सा शक्तिर्नित्या बलवती ध्रुवा ।
एकाप्यनेककार्याणां व्यक्तये बहुधोदिता ॥
इति ।
रत्नत्रयेऽपि –
इच्छाकार्यमनिच्छापि कुर्वाणेच्छा निगद्यते ।
ज्ञानमज्ञेयरूपापि क्रियामप्यक्रिया सती ॥
इति ।
तस्मादिच्छाह्वया शक्तिः क्रियाशक्तिश्च सा भवेत् ॥ १-७४ ॥
ज्ञानशक्तिश्च विज्ञेया तत्तत्कार्यप्रवर्तनात् ।
इच्छया प्रेरितो हीशः क्रियया कुरुतेऽखिलम् ॥ १-७५ ॥
ज्ञानशक्त्या विजानाति सा च कुण्डलिनी मता ।
साम्याज्ज्ञानक्रियाशक्त्योः प्रसरो यः शिवात्मकः ॥ १-७६ ॥
सदाशिवाख्यं तत् तत्त्वं विद्यादेहं शिवात्मकम् ।
तत्त्वरूपं तु परतः पूजाविषय उच्यते ॥ १-७७ ॥
ज्ञानशक्तिर्यदा स्वल्पा क्रियाशक्तिस्तथाधिका ।
तत्रेश्वराख्यं तत्त्वं स्यात् सर्वकर्तृत्ववैभवम् ॥ १-७८ ॥
निमित्तकारणं सृष्टेरीश्वराख्यं क्रियाधिकम् ।
यथा घटीघटादीनां कुलालः सम्प्रवर्तकः ॥ १-७९ ॥
क्रियाशक्तिर्यदा स्वल्पा ज्ञानशक्तिस्तथाधिका ।
शुद्धविद्याख्यतत्त्वं तज्ज्ञानरूपप्रकाशकम् ॥ १-८० ॥
यथा तत्त्वप्रकाशे –
न्यग्भवति कर्तृशक्तिर्ज्ञानाख्योद्रेकमश्नुते यत्र ।
तत्तत्त्वं विद्याख्यं प्रकाशकं ज्ञानरूपत्वात् ॥
इति ।
बिन्दुनादौ यदा स्निग्धौ सदाशिवसमाश्रयौ ।
तत्र विद्येश्वरा जाताः श्रीकण्ठानन्तपूरकाः ॥ १-८१ ॥
यत्र विद्याह्वयं तत्त्वं बिन्दुनादशिवाश्रयम् ।
तत्र विद्याश्च मन्त्राश्च स्फुरन्त्यब्धौ तरङ्गवत् ॥ १-८२ ॥
अत्र तत्त्वप्रकाशे –
आद्याननुगृह्य शिवो विद्येशत्वे नियोजयत्यष्टौ ।
मन्त्रांश्च करोत्यपरांस्ते चोक्ताः कोटयः सप्त ॥
इति । रत्नत्रयेऽपि-
तत्र विद्याभुजः पूर्वे मन्त्रा विद्याश्च नामतः ।
विद्येश्वरनियोज्यास्ते सङ्ख्याताः सप्तकोटयः ॥
इति ।
इत्थं शिवादिविद्यान्तं शुद्धतत्त्वानि पञ्च हि ।
येषां व्यतिकराद् विद्येश्वरविद्यादिसम्भवः ॥ १-८३ ॥
विद्याविद्येशमन्त्राणां सामर्थ्यादीश्वरेच्छया ।
अशुद्धतत्त्वं मायाख्यमिन्द्रजालवदुद्वभौ ॥ १-८४ ॥
तत्र मायातत्त्वमिन्द्रजालबीजम् । तदभिज्ञो भगवान् मायाकन्दलीकन्दः शिवो मलविदारणेन स्वयमभिव्यनक्ति । सा हि स्वयं न सती । यदि सती भवेद् मायैव न स्यादिति षट्त्रिंशत्तत्त्वसिद्धौ । तथाहि –
मायाविना न मायास्ति विना मायी शरीरवान् ।
दृष्टोऽस्मिन्निन्द्रजालादौ यथा लोके प्रयोजकम् ॥ १-८५ ॥
तथा कलादितत्त्वानां मायोपादानमिष्यते ।
अचेतनं चेतनवत् प्रतिभाति विचित्रकम् ॥ १-८६ ॥
असत् स्वतः सदाभासभिन्द्रजालं यथा तथा ।
तां मायां शक्तिभिः स्वाभिर्विक्षोभ्य परमेश्वरः ॥ १-८७ ॥
स्वकर्मानुगुणं सृष्टिं करोति करुणानिधिः ।
तस्यां कालकलादीनि पञ्च तत्त्वान्यनुक्रमात् ॥ १-८८ ॥
प्रभवन्त्यविशुद्धानि यथा तत्त्वप्रकाशके ।
पुंसोज्ञकर्तृकार्थं मायातस्तत्त्वपञ्चकं भवति ।
कालो नियतिश्च कला ह्यशुद्धविद्या च रागश्च ॥
इति ।
तत्र कालाह्वयं तत्त्वं त्रिविधं भूतपूर्वकम् ॥ १-८९ ॥
वर्तमानं भविष्यच्च जाग्रत् कलयति स्फुटम् ।
तथा नियतितत्त्वं च जातं नियमनात्मकम् ॥ १-९० ॥
जातं तथा कलातत्त्वमणूनां मलमेकतः ।
कलयित्वा व्यञ्जयति कर्तृशक्तिं यतः कला ॥ १-९१ ॥
मलं नृणामेकतस्तु कलयित्वा व्यञ्जयति कर्तृशक्तिमिति तत्त्वप्रकाशे ।
कलोद्बलितसामर्थ्यकर्तृशक्तेः प्रवर्तिका ।
अशुद्धविद्या सा पुंसां विषयाणां प्रदर्शिनी ॥ १-९२ ॥
पुंसो विषयप्रदर्शनार्थमथो विद्यातत्त्वं सूते प्रकाशकमिति तत्त्व प्रकाशे ।
विद्यातो रागतत्त्वाख्यं जातमर्थेषु पूरुषः ।
प्रवर्तयत्यभिष्वङ्गाद् विषयेष्वभिरञ्जकम् ॥ १-९३ ॥
तत्त्वैरोभिर्निबद्धोऽसावणुभोक्तृत्वमागतः ।
तत्त्वं पुरुषसञ्ज्ञं स्यात् कर्तृशक्त्युपबृंहितम् ॥ १-९४ ॥
तथाहि –
तत्त्वैरेभिः कलितो भोक्तृत्वदशां यदा पशुर्नीतः ।
पुरुषाख्यतां तदायं लभते तत्त्वेषु गणनां च ॥
इति ।
पुरुषादस्य भोगार्थं तत्त्वं प्रकृतिसञ्ज्ञितम् ।
जातं त्रिगुणसाम्येन तदेवाव्यक्तमिष्यते ॥ १-९५ ॥
बुद्ध्यादितत्त्वविकृतेः प्रकृतित्वात् तथा स्मृतम् ।
गुणसाम्यात् तदव्यक्तगुणमव्यक्तसञ्ज्ञितम् ॥ १-९६ ॥
बोद्धव्यलक्षणा सै प्रकृतिः शक्तिवृंहिता ।
बुद्धितत्त्वं भवेद् व्यक्तं सात्विकं गुणमाश्रिता ॥ १-९७ ॥
सैव बुद्धिर्महान् नाम तत्त्वं साङ्ख्यैर्निगद्यते ।
अव्यक्तमेव तु व्यक्तसत्त्वराजसतामसैः ॥ १-९८ ॥
स्यादहङ्कारतत्त्वं तन्मोहाहम्मानलक्षणम् ।
सोऽहङ्कारस्त्रिभेदः स्यात् पृथक् सत्त्वादिभेदवान् ॥ १-९९ ॥
सात्त्विकस्तैजसो नाम वैकारी राजसः स्मृतः ।
भूतादिस्तामसस्तेऽपि पृथक् तत्त्वान्यवासृजन् ॥ १-१०० ॥
तैजसतस्तत्र मनो वैकारिकतो भवन्ति चाक्षाणि ।
भूतादेस्तन्मात्राण्येषां सर्गोऽयमेतस्मात् ॥
इति तत्त्वप्रकाशे ।
इच्छारूपं मनस्तत्त्वं ससङ्कल्पविकल्पकम् ।
तैजसादेव सञ्जातं जडं तच्च निरन्वयम् ॥ १-१०१ ॥
वैकारिकात् तु जातानि श्रोत्रं त्वक्चक्षुषी तथा ।
जिह्वा घ्राणं च पञ्चैव तानि बुद्धीन्द्रियाणि हि ॥ १-१०२ ॥
तथा वाक् पादपाणी च पायूपस्थेन्द्रिये अपि ।
वैकारिकाख्यादेव स्युः पञ्च कर्मेन्द्रियाण्यपि ॥ १-१०३ ॥
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।
तन्मात्राण्येव विषया भूतादेरभवन् क्रमात् ॥ १-१०४ ॥
तन्मात्रेभ्यस्तु जातानि खानिलाग्न्यब्धराः क्रमात् ।
गुणोत्तराणि तान्याहुः पञ्च भूतानि सूरयः ॥ १-१०५ ॥
श्रोत्रादिपञ्चेन्द्रियाणि शब्दादीनामनुक्रमात् ।
आधारत्वेन तन्मात्रव्यञ्जकानि भवन्ति हि ॥ १-१०६ ॥
उक्तिर्गतिरुपादानं सर्गश्चानन्द एव च ।
कर्मेन्द्रियाणां कर्माणि नियतानि पृथक् पृथक् ॥ १-१०७ ॥
परस्परानुप्रविष्टैर्महाभूतैश्चतुर्विधैः ।
व्याप्ताकाशैर्जगत् कार्यं दृश्यं निष्पाद्यतेऽखिलम् ॥ १-१०८ ॥
अत्र साङ्ख्यादयो ब्रूयुः पञ्चविंशतिसङ्ख्यया ।
तत्त्वानि वा चतुर्विंशन्नास्ति तत्त्वमतः परम् ॥ १-१०९ ॥
एतावता जगत्सिद्धेः कस्मात् तत्त्वान्तराश्रयः ।
इत्यादिकः प्रलापोऽयं तेषामर्थं न साधयेत् ॥ १-११० ॥
कथमित्यत्र तद् ब्रूमस्तत्त्वैरन्यैः प्रयोजनम् ।
तद्यथा –
न भूतेन्द्रियतन्मात्रैर्नैवान्तःकरणैः पुमान् ।
रज्यते विषयार्थेषु रागतत्त्वं हि रञ्जकम् ॥
रागकामावित्यनर्थान्तरम् ।
रागाद्धि कामयत्यर्था (?) प्रवृत्तिः कामतो भवेत् ।
तस्माद् रागाह्वयं तत्त्वमस्तीत्येवावगम्यताम् ॥
तद्वद् रागादिभूम्यन्ततत्त्वानां विषयादिषु ।
परोपलम्भशक्तेर्यन्नाभिव्यञ्जकता भवेत् (?) ॥
परोपलम्भशक्तेर्यद् व्यञ्जकं तत् प्रचक्षते ।
विद्यातत्त्वं हि रूपादिबोधे नेत्रादिकं यथा ॥
इति तत्त्वसिद्धौ ।
तस्माद् विद्याह्वयं तत्त्वमस्तीत्येवावधार्यताम् ॥ १-१११ ॥
स्प्। १५) तथा विद्यादिभूम्यन्ततत्त्वप्रच्छादकं मलम् ।
अनादिविश्वगं भेत्तुं कलातत्त्वमृतेऽन्यथा (?) ॥ १-११२ ॥
अनादिसिद्धमलतिरोहिते पुंसि भगवतः प्रजापतेरस्य मोहपङ्कादुत्तितीर्षोः कारुण्यान्मायाप्रकृत्युपादानं मलभेदनक्षमं कलातत्त्वमुत्पद्यते इति तत्त्वसिद्धौ ।
तथैव हि कलाद्यैर्यत् तत्त्वैः क्षित्यन्तकैः क्वचित् ।
दिग्देशद्रव्यजात्यादौ नियमो नैव सिध्यति ॥
नियमोऽप्यन्य एवैषां नियन्त्री नियतिर्यतः ।
तस्मान्नियतिसञ्ज्ञं स्यात् तत्त्वमित्यधिगम्यते ॥
यन्नियत्यादिपृथ्व्यन्ततस्वैः कालो न सिध्यति ।
तेभ्योऽन्य एव कालोऽस्तीत्यभ्युपेयः परीक्षकैः ॥
तथा कालादिभूम्यन्तैः स्वस्वोपादानगोचरैः ।
अनाश्रयैरशक्यं हि जगत्कार्यप्रवर्तनम् ॥
तस्मात् तदाश्रयीभूता मायास्त्येव दुरन्वया ।
विचित्रचित्रस्फूर्तीनां भित्तिराश्रयणी यथा ॥
इत्थं मायादिपृथ्व्यन्तैर्मिथो नातिविलक्षणैः ।
अशुद्धाध्वनि निष्पन्नमिन्द्रजालोपमं जगत् ॥
मायाकार्येन्द्रजालस्य जडत्वात् स्यान्न कर्तृता ।
भित्त्यादेश्चित्रजालस्य क्रियाकर्तान्य एव हि ॥
तथा मायादिसम्भूतेर्विद्यातत्त्वादिमाञ्छिवः ।
कर्तान्य एव मन्त्रात्मा शब्दवर्णादिकारणम् ॥
तस्मिञ्छिवादौ विद्यान्ते शुद्धाध्वनि सुनिर्मले ।
शब्दविद्याः सविद्येशा दृश्यन्ते व्योमगोचराः ॥
शिवशक्त्योः सान्निकर्षाद् बिन्दुर्नादात्मकोऽभवत् ।
चन्द्रचन्द्रिकयोर्यद्वदाह्लादगुणसम्भवः ॥
जायतेऽध्वा यतः शुद्धो वर्तते यत्र लीयते ।
स बिन्दुः परनादाख्यो नादबिन्द्वणुकारकम् ॥
इति रत्नत्रये ।
नादाख्यं यत् परं बीजं सर्वभूतेष्ववस्थितम् ।
मुक्तिदं परमं दिव्यं सर्वसिद्धिप्रदायकम् ॥
सान्तं सर्वगतं शून्यं मात्राद्वादशकस्थितम् ।
ह्रस्वा ब्रह्म समाख्याता दीर्घा ह्यङ्गानि षण्मुखे ! ॥
इति कालोत्तरे ।
अथादावभवच्छब्दः कारणादक्षरं ततः ।
अक्षरान्मोक्षदं ब्रह्मन् ! ब्रह्म ब्रह्मविदो विदुः ॥
इति स्वायम्भुवे । रत्नत्रयेऽपि –
स तु शब्दश्चतुर्धा वाग्वैखर्यादिविभेदतः ।
जायते बिन्दुसङ्क्षोभादनन्तस्यार्थसिद्धये ॥
चत्वारि वाक्परिमितापदानि इति श्रुतिश्चम् ।
शक्तिर्नादो महामाया व्योमेति च चतुर्विधः ।
बिन्दुरेवास्य तु पुनश्चतस्रो वृत्तयः स्मृताः ॥ १-११३ ॥
वैखरी मध्यमा चैव पश्यन्ती चापि सूक्ष्मया ।
व्युत्क्रमेण भवन्त्येताः कुण्डलिन्यादितः क्रमात् ॥ १-११४ ॥
सूक्ष्मा कुण्डलिनी मध्ये ज्योतिर्मात्रात्यणीयसी ।
अश्रोत्रविषया तस्मादुद्गच्छन्त्यूर्ध्वगामिनी ॥ १-११५ ॥
स्वयम्प्रकाशा पश्यन्तीं सुषुम्नामाश्रिता भवेत् ।
सैव हृत्पङ्कजं प्राप्य मध्यमा नादरूपिणी ॥ १-११६ ॥
अन्तःसञ्जल्पमात्रास्यादविभक्तोर्ध्वगामिनी ।
सैवोरःकण्ठतालुस्था शिरोघ्राणद्विजोपगा ॥ १-११७ ॥
जिह्वामूलोष्ठनिष्ठ्यूता कृतवर्णपरिग्रहा ।
शब्दप्रपञ्चजननी श्रोत्रग्राह्या तु वैखरी ॥ १-११८ ॥
हकारः साविकारोऽथ रेफेण समयुज्यत ॥ १-११९ ॥
ईकारमभजत् तस्माद् बिन्दुनादविभूषितम् ॥ १-१२० ॥
शक्तिबीजं तु तद्योगादखिलोत्पत्तिकारणम् ॥ १-१२१ ॥
हरत्वाच्च हरित्वाच्च शिवशक्त्योस्तु युक्तयोः ॥ १-१२२ ॥
श्लिष्टोचारितयोः शाब्दं रूपं तद् बीजमीरितम् ।
हकारस्तु भवेद् ब्रह्मा ईकारो विष्णुरिष्यते ॥ १-१२३ ॥
रेफो रुद्रोऽग्निरेव स्याद् बिन्दुरीश्वर उच्यते ।
नादः सदाशिवो ज्ञेयो नादान्तस्तु शिवः स्वयम् ॥ १-१२४ ॥
हकारो व्यक्तिमापन्नो हार्दघोषविवर्जितः ।
अकारतां गतस्तस्य भेदो ह्यक्षरसन्ततिः ॥ १-१२५ ॥
ऊकारान्तान्यकारादीन्यक्षराणि षडस्य तु ।
विकृतिः स्याद् विशेषेण रेफस्य तु ऋ ॠ ऌ ॡ ॥ १-१२६ ॥
ईकारभेदतस्त्वासन्नेकाराद्यक्षराणि षट् ।
इत्थं षोडशधोत्पन्नाः स्वराख्याः शक्तिबीजतः ॥ १-१२७ ॥
ॠऋऌॡवियुक्तास्ते द्वादशेत्यपरे जगुः ।
ह्रस्वस्वरा बिन्दुयुताः पुमांसो ह्यर्करूपिणः ॥ १-१२८ ॥
दीर्घस्वरा विसर्गान्ताः स्त्रीलिङ्गाः सोमरूपिणः ।
ऋ ॠऌॡचतुष्कं तु सौम्याग्नेयं नपुंसकम् ॥ १-१२९ ॥
हकारः शब्दगुणवानाकाशमसृजत् पुरः ।
व्योम्नः स्पर्शगुणो वायुः स्पर्शाख्याः कादयोऽभवन् ॥ १-१३० ॥
पञ्चपञ्चाक्षरास्ते तु पञ्चवर्गास्त्विनात्मकाः ।
याद्यक्षरचतुष्कं तु वाय्वग्निक्ष्माम्भसां तनुः ॥ १-१३१ ॥
स्पर्शो रूपं तथा गन्धो रसाख्यस्तद्गुणाः क्रमात् ।
शेषास्तु व्यापकाः शाद्याः साग्नीषोमाः स्वरस्पृशः ॥ १-१३२ ॥
इत्थं पञ्चाशदुत्पन्ना वर्णाः शक्तिप्रभेदतः ।
कादयः पञ्चविंशार्णा यादयः शादयस्तथा ॥ १-१३३ ॥
स्थानप्रयत्नभेदेन जायन्ते स्वल्वकारतः ।
अकारादिस्वरैर्युक्तहलां योगान्मिथोऽपि च ॥ १-१३४ ॥
शब्दप्रपञ्चः सर्वोऽपि विचित्रं जायते स्फुटम् ।
इयं हि मातृका ख्याता पञ्चाशद्वर्णसंहतिः ॥ १-१३५ ॥
अस्यास्तु विकृतिर्विश्वं शब्दजातमिति स्फुटम् ।
सेयं वाग्देवता स्वार्णमूर्तिर्विद्या शिवात्मिका ॥ १-१३६ ॥
सामान्यपादे प्रागेव सविशेषं प्रदर्शिता ।
तत्त्वमातृकाधिकारः ।
बिन्दोर्नादात्मकात् तस्माच्छिवेच्छातः प्रवर्तिताः ॥ १-१३७ ॥
कलाः पञ्च निवृत्त्याद्या यासु विश्वं प्रतिष्ठितम् ।
क्षकारः क्षितितत्त्वं च निवृत्तौ व्याप्य संस्थितम् ॥ १-१३८ ॥
तथाहाद्याष्टकारान्तास्त्रयोविंशतिरक्षराः ।
प्रकृत्यन्तं प्रतिष्ठायां स्यात् कलायां प्रतिष्ठितम् ॥ १-१३९ ॥
ञादिघान्ताः सप्त वर्णाः पुंसो मायान्तमेव च ।
सप्ततत्त्वानि विद्याख्यकलायां संस्थितानि वै ॥ १-१४० ॥
गखकास्तु त्रयो वर्णाः शुद्धविद्येश्वरा अपि ।
स्यात् सदाशिवतत्त्वं च शान्त्याख्यायां प्रतिष्ठितम् ॥ १-१४१ ॥
अकाराद्यास्त्वकारान्ता विलोमं षोडश स्वराः ।
शक्तितत्त्वं शिवश्चापि शान्त्यतीतकलोपगाः ॥ १-१४२ ॥
इत्युक्ता वर्णतत्त्वानां कलाव्याप्तिः समासतः ।
तत्त्वानां च मिथो व्याप्तिर्देवतानां च कथ्यते ॥ १-१४३ ॥
शक्तिः शिवादिभूम्यन्तं व्याप्य विश्वमवस्थिता ।
सदाशिवेश्वरौ चापि बिन्द्वादिक्षान्तगोचरौ ॥ १-१४४ ॥
सदाशिवादिभूम्यन्तं विद्यातत्त्वं व्यवस्थितम् ।
मायाकालादिपृथ्व्यन्तं कलातत्त्वं तु सर्वगम् ॥ १-१४५ ॥
अतः परं स्यात् तत्त्वानां यथाक्रममवस्थितिः ।
मायादिक्ष्मान्तकं रुद्रो विष्णुर्मायाधरावधिः ॥ १-१४६ ॥
ब्रह्मा पुमादिभूम्यन्तं व्याप्य तत्त्वेष्ववस्थितः ।
विद्येश्वरास्त्वनन्ताद्या विद्यातत्त्वं व्यवस्थिताः ॥ १-१४७ ॥
विघ्नेश्वरसरस्वत्यौ स्यातां तत्त्वे सदाशिवे ।
नन्द्यादयोऽपि विद्यायां प्रकृतौ चण्डिका स्थिताः ॥ १-१४८ ॥
लक्ष्मीरीश्वरतत्त्वस्था बुद्धौ चान्यास्तु शक्तयः ।
शब्दतत्त्वे च सोमार्कौ यजमानोऽपि पूरुषे ॥ १-१४९ ॥
स्वस्य कारणसंस्थानि भूताक्षाणि भवन्ति हि ।
देवयोन्यष्टकं चापि पुर्यष्टकगतं स्मृतम् ॥ १-१५० ॥
जरायुजाण्डजस्वेदजोद्भिज्जान्यखिलान्यपि ।
पृथ्वीतत्त्वगतान्येव शिवशक्तिकलाबलात् ॥ १-१५१ ॥
इत्थं सङ्क्षेपतस्तत्त्वव्याप्तिरत्र प्रदर्शिता ।
एषैव परतो ज्ञेया विस्तरेणाध्वनिर्णये ॥ १-१५२ ॥
षट्त्रिंशदेव तत्त्वानीत्येवं केन नियम्यते ।
तस्य भावः स्मृतस्तत्त्वं तद् घटादौ च दृश्यते ॥ १-१५३ ॥
कश्चिदेवं यदि ब्रूयात् तत्र तत्त्वं निरुच्यते ।
तच्छब्दः प्रकृतार्थे स्यात् त्वम्पदं तस्य भावगम् ॥ १-१५४ ॥
सन्ततं यत् ततं तत्त्वं स्थितमाप्रलयादपि ।
यथा तत्त्वसिद्धौ –
ततत्वात् सन्ततत्वाच्च तत्त्वानीति ततो विदुः ।
ततत्वं देशतो व्याप्तिः सन्ततत्वं च कालतः ॥
इति । अपि च,
लक्षादि व्योम च व्यापि तत्त्वमाप्रलयात् स्थितम् ।
अन्यथा स्तम्भकुम्भाद्यमपि तत्त्वं प्रसज्यते ॥
इति । तत्त्वप्रकाशे च –
आप्रलयं यत् तिष्ठति सर्वेषां भोगदायि भुवनानाम् ।
तत् तत्त्वनामधेयं न शरीरघटादिकं तत्त्वम् ॥
इति ।
षट्त्रिशदित्थं तत्त्वानि ज्ञेयानि प्रविभागतः ॥ १-१५५ ॥
तत्त्वज्ञानं हि तज्ज्ञानमतत्त्वज्ञानमन्यथा ।
षट्त्रिंशदेव तत्त्वानि विश्वसिद्धेर्यथार्थतः ॥ १-१५६ ॥
तत्त्वान्तरस्य चाभावात् परतत्त्वानपेक्षया ।
यावता प्रकृतं कार्यं कारणेन प्रसिद्ध्यति ॥ १-१५७ ॥
नास्त्यत्र कारणं चान्यत् तत्रालं तावतैव हि ।
कुलालचक्रदण्डाम्भोमृत्पिण्डाद्यं घटोदये ॥ १-१५८ ॥
कारणं चाप्यपेक्ष्यं च नान्यदस्ति यथा तथा ।
तस्मादिदमिह प्रोक्तं साध्यमेव विपश्चिताम् ॥ १-१५९ ॥
तात्त्विकोऽध्वायमेवं स्याद् विज्ञेयः परतोऽपि यः ।
इत्ययं वस्तुनिर्देशस्तन्त्रेऽस्मिन् प्रतिपादितः ॥ १-१६० ॥
क्रियादीक्षाप्रतिष्ठादेः साफल्यार्थसिद्धये ।
मुख्ये श्रेयसि भोगमोक्षफलदो विश्वस्य कर्ता सुधीः
स्वास्योदीर्णपरापरागमपरज्ञानाणुसन्तारणः ।
योऽनादिर्विमलो विलक्षणतयान्येभ्यः स्वतन्त्रो विभु –
स्तत्त्वैर्वर्णकलादिभिः स विदुषां वेद्यश्च सिद्धः शिवः ॥ १-१६१– ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे वस्तुनिर्देशाख्यः प्रथमः पटलः ॥ १ ॥