अथ द्विपञ्चाशः पटलः ।
कलिप्रसङ्गकटुकामित्यादौ दर्शितो यतः ।
कलिर्युद्धमतो युद्धे जयोपायो निगद्यते ॥ ५२-१ ॥
सृष्ट्यादिपञ्चकृत्यार्थं पञ्चमूर्तिर्यतः शिवः ।
ततस्तु पञ्चधा पञ्चत्रिंशत्तत्त्वमयं जगत् ॥ ५२-२ ॥
तत्रापि पञ्च भूतानि वायवश्चेति तन्मयः ।
सुपर्णः पक्षिराट् तेन निर्मिताः पञ्च पक्षिणः ॥ ५२-३ ॥
ते पञ्चभूतादिमया लिप्यर्णमयविग्रहाः ।
प्राग्याम्याप्योत्तराशासु मध्यकोष्ठं च पञ्चधा ॥ ५२-४ ॥
पञ्चभूतात्मकं चक्रं तत्र पञ्चापि पक्षिणः ।
चरन्ति पञ्चधा भावैः पञ्चभिश्च क्रमोत्क्रमात् ॥ ५२-५ ॥
कण्टकः पिङ्गला चाथ कारण्डवकसारसौ ।
बर्ही च पञ्च विहगाः पूर्वाद्यासु च मध्यतः ॥ ५२-६ ॥
अ-आकडा वछभधा इ-ईखमजाः शढौ ।
उ-ऊगपा झषणया ए-ऐतरसघाः फथौ ॥ ५२-७ ॥
ओ-औ चठा दलबहाः पक्षिणां कण्टकादिनाम् ।
अष्टावष्टौ पृथग्वर्णा विज्ञेयाः क्रमशो बुधैः ॥ ५२-८ ॥
श्रीकण्ठानन्तविधयो दारुकाम्भोद्विरण्डकाः ।
मीनैकनेत्रावित्यष्टौ कण्टकस्याक्षराणि हि ॥ ५२-९ ॥
सूक्ष्मस्त्रिमूर्तिचण्डेशौ विषमेषचतुर्मुखाः ।
बकश्चैवार्धनारिशः पिङ्गलार्णाः प्रकीर्तिताः ॥ ५२-१० ॥
कर्णौ पाई बाहुमध्यं पार्श्वाजेशौ च मज्जया ।
उमाकान्तश्च कथिता वर्णाः कारण्डवस्य हि ॥ ५२-११ ॥
ओष्ठे चाषढिरक्ते च शिवोत्तमशिखी तथा ।
डिण्डी शुक्लं च वर्णाः स्युरष्टौ सारसपक्षिणः ॥ ५२-१२ ॥
दन्तस्थौ लाङ्गलीकूर्मावत्रिमासं ततो नभः ।
छगलण्डश्च वर्णाः स्युरष्टावेव तु बर्हिणः ॥ ५२-१३ ॥
ऋ-ॠ ऌ-ॡचतुष्कं च स्वरान्त्यौ टङञान्तिमाः ।
पक्षिचारविहीनानि तान्यनामादिकानि हि ॥ ५२-१४ ॥
प्रतिपत्पूर्वास्तिथयो नन्दा भद्रा जया च रिक्ताख्या ।
पूर्णा च पञ्चमी स्यात् पञ्च क्रमतस्तु कण्ठकादीनाम् ॥ ५२-१५ ॥
स्वतिथौ नाडीषट्कं प्रथमं भोक्ष्यन्ति कण्टकाद्यास्ते ।
शेषाः क्रमेण विहगाः नाडीषट्काणि भुञ्जते क्रमशः ॥ ५२-१६ ॥
बालः कुमारो राजा च वृद्धः स्वर्गत एव च ।
भुक्तिर्यानं च राज्यं च कर्म सुप्तिस्तथा मृतिः ॥ ५२-१७ ॥
नन्दादिष्वादिषट्काद्यमवस्थैवं तु पक्षिणाम् ।
पञ्चस्वपि च षट्केषु तिथिपूर्वापरार्धयोः ॥ ५२-१८ ॥
नन्दाद्यनाडिषट्के बालकुमारावनीशवृद्धमृताः ।
श्येनः कारण्डवसारशशिखिनो यथाक्रमं कथिता(?) ॥ ५२-१९ ॥
पिङ्गलाकारण्डवकौ सारसशिखिनौ च कण्टकः क्रमशः ।
बालाद्या विज्ञेया द्वितीयषट्के तु पञ्चके विहगाः ॥ ५२-२० ॥
कारण्डवसारसकौः शिखिकण्टकपिङ्गलास्तृतीये स्युः ।
षट्के बालकुमारकनृपवृद्धमृताः क्रमेण विज्ञेयाः ॥ ५२-२१ ॥
सारसकेकिश्येनाः पिङ्गलकारण्डकौ चतुर्थे स्युः ।
षट्के बालकयौवननरपतिवृद्धा मृतश्च विहगवराः ॥ ५२-२२ ॥
शिखिकण्टकशिशुलूकाः कारण्डवसारसौ च पञ्चैते ।
बालकुमारकनरपतिजरठातीताश्च पञ्चमे षट्के ॥ ५२-२३ ॥
अशनं यानं राज्यं सुप्तिर्मरणं च पञ्चकर्मैषाम् ।
स्वस्याशाद्यं ज्ञेयं चक्रे शरकोष्ठके विहङ्गानाम् ॥ ५२-२४ ॥
नन्दायां परभागे कारण्डोलूककण्टकाः केकी ।
सारस्योऽपि च भुङ्क्ते याति च राज्ये स्वपत्यपि प्रमृतः ॥ ५२-२५ ॥
प्रथमषट्के ।
पश्चाद् द्वितीयषट्के लूकश्येनौ च केकिसारसकौ ।
कारण्डवश्च बालो युवा नृपो वार्धकी च मरणगतः ॥ ५२-२६ ॥
पश्चात् तृतीयषट्के श्येनो बर्ही च सारसध्वाङ्क्षौ ।
लूकश्च बालयौवननृपवृद्धमृताः क्रमेण ते विहगाः ॥ ५२-२७ ॥
पश्चाच्चतुर्थषट्के बर्ही बालो युवा तु सारसकः ।
कारण्डवस्तु नृपतिर्लूको वृद्धश्च कण्टकः प्रमृतः ॥ ५२-२८ ॥
पश्चात् पञ्चमषटके सारसबालो युवा तु कारण्डः ।
राजा पिङ्गलसञ्ज्ञः श्येनो वृद्धो मृतो मयूरः स्यात् ॥ ५२-२९ ॥
भद्राद्ये पिङ्गलध्वाङ्क्षौ सारसः केकिकण्टकौ ।
बालो युवा नृपो वृद्धो मृतश्चैव प्रदक्षिणम् ॥ ५२-३० ॥
तेषां कर्माण्यपि प्राग्वद् भुक्तिर्यानं च राजता ।
सुप्तिश्च मरणं चैवमन्येषां च समूहयेत् ॥ ५२-३१ ॥
कारण्डाद्यं द्वितीये तु सारसाद्यं तृतीयके ।
मयूराद्यं चतुर्थे तु कण्टकाद्यं तु पञ्चमे ॥ ५२-३२ ॥
भद्रायां नाडिषट्कायामित्यर्थः ।
भद्रापराद्यषट्के तु सारसध्वाङ्क्षपिङ्गलाः ।
श्येनश्च बर्हिणो ज्ञेया बालाद्यास्तु यथाक्रमम् ॥ ५२-३३ ॥
द्वितीये जलकाकाद्यं तृतीये पिङ्गलादिकम् ।
चतुर्थे कण्टकाद्यं च मयूराद्यं च पञ्चमे ॥ ५२-३४ ॥
अपरार्धषट्केष्वित्यर्थः ॥ ५२-३५ ॥
जयाद्यषट्के कारण्डः सारसो बर्हिकण्टकौ ।
उलूकश्चैव बालाद्या भुक्तियानादिकर्मभिः ॥ ५२-३५ ॥
जयाद्वितीयषट्के तु सारसो बर्हिकण्टकौ ।
पिङ्गला जलकाकश्च बालाद्यास्ते स्वकर्मभिः ॥ ५२-३६ ॥
बर्हिणाद्यं तृतीयं तु चतुर्थं कण्टकादिकम् ।
पञ्चमं पिङ्गलाद्यं स्याज्जयायाः पृथगीरितम् ॥ ५२-३७ ॥
जयापूर्वार्धस्य ।
जयापरार्धाद्यषट्के बर्हिसारसवायसाः ।
पिङ्गलाकण्टकौ चापि बालाद्याः कर्मभिः स्वकैः ॥ ५२-३८ ॥
जयापरद्वितीयस्य सारसध्वाङ्क्षपिङ्गलाः ।
कण्टकश्च मयूरश्च बालाद्याः स्वस्वकर्मभिः ॥ ५२-३९ ॥
जयापरतृतीयस्य कारण्डोलूककण्टकाः ।
बर्हिसारसकौ चापि बालाद्याः कर्मभिः स्वकैः ॥ ५२-४० ॥
जयापरचतुर्थस्य पिङ्गलश्येनबर्हिणः ।
सारसश्चाथ कारण्डो बालाद्या भुक्तिपूर्वकैः ॥ ५२-४१ ॥
जयापरशरांशस्य श्येनबर्हिणसारसाः ।
तद्वत् कारण्डकोलूकौ बालाद्याः प्रोक्तकर्मभिः ॥ ५२-४२ ॥
रिक्तायाः पूर्वषट्कस्य सारसः केकिकण्टकौ ।
उलूककाकौ बालाद्या भुक्तियानादिकर्मभिः ॥ ५२-४३ ॥
मयूराद्यं द्वितीयं तु कण्टकाद्यं तृतीयकम् ।
लूककारण्डवाद्यौ तु रिक्तायाः शिष्टभागयोः ॥ ५२-४४ ॥
बालाद्या इति यावत् ।
रिक्तापरार्धषट्कस्य श्येनबर्हिणसारसाः ।
ध्वाङ्क्षोलूकौ च विज्ञेयाः प्राग्वद् बालादिकर्मभिः ॥ ५२-४५ ॥
रिक्तापरद्वितीयादिषट्कानां बर्हिसारसौ ।
कारण्डपिङ्गलाश्येना बालाद्या भुक्तिपूर्वकैः ॥ ५२-४६ ॥
रिक्तापरार्धस्येति यावत् ।
पूर्णाप्रथमषट्कस्य बर्हिकण्टकपिङ्गलाः ।
जलकाकः सारसश्च बालाद्यास्ते प्रदक्षिणम् ॥ ५२-४७ ॥
तद्द्वितीयादिषड्कानां कण्टकोलूकवायसाः ।
सारसश्चैव पूर्णाया बालाद्याः प्रोक्तकर्मभिः ॥ ५२-४८ ॥
पूर्णापरार्धाद्यषट्के पिङ्गलाश्येनबर्हिणः ।
सारसो जलकाकश्च बालाद्या व्युत्क्रमेण हि ॥ ५२-४९ ॥
द्वितीयषट्कादिकानां पूर्णायाः कण्टकः शिखी ।
सारसो वायसश्चाद्या ज्ञेया बालादयः क्रमात् ॥ ५२-५० ॥
यस्याभिधानाद्यर्णस्य पक्षी राज्यं करोति चेत् ।
विजयो युधि वादे वा कुमारो मध्यमं फलम् ॥ ५२-५१ ॥
बाले फलं स्यादधमं वृद्धे नाशो मृते मृतिः ।
राज्ये श्रेष्ठफलं याने मध्यं भुक्तौ तथाधमम् ॥ ५२-५२ ॥
स्वापे क्षयो मृते मृत्युरेवं ज्ञेयं विचक्षणैः ।
सारसो बलवान् काकात् तस्माल्लूकस्ततः शिखी ॥ ५२-५३ ॥
मयूराद् बलवान् श्येनस्त्वेवं विद्याद् बलाबलम् ।
मयूरश्येनकारण्डसारसा बलिनो दिवा ॥ ५२-५४ ॥
उलूकस्तु बली रात्रौ सर्वे सन्ध्याबलाश्च ते ।
तिथीनां पूर्वभागस्तु दिवा रात्रिश्च पश्चिमः ॥ ५२-५५ ॥
तत्तत्कालबलं ज्ञात्वा धीरो युद्धे प्रवर्तयेत् ।
पक्षिचारेण विज्ञेयं जीवितं मरणं रुजा ॥ ५२-५६ ॥
लाभालाभागमापायकार्याकार्यं शुभाशुभम् ।
राजा राज्यं च सर्वत्र श्रेष्ठं यानकुमारकौ ॥ ५२-५७ ॥
मध्यमौ भुक्तिबालौ चेदधमं प्रस्तुतं फलम् ।
स्वापे वृद्धे च तन्नाशो मृतौ च मरणे वधः ॥ ५२-५८ ॥
तत्तत्कार्यानुकूल्येन फलं चैवं समूहयेत् ।
गरुडश्चौतुसिंहौ श्वा सर्पमूषिकदन्तिनः ॥ ५२-५९ ॥
शशश्चैन्द्रादिक्संस्थास्तेषां विद्याद् बलाबलम् ।
अकाराद्यष्टवर्गा ये दिक्षु तार्क्ष्यादिरूपिणः ॥ ५२-६० ॥
तत्तदक्षरपूर्वाख्या येषां तेऽपि तदात्मकाः ।
तार्क्ष्यसर्पौ मिथः शत्रू तथा मार्जारमुषिकौ ॥ ५२-६१ ॥
गजसिंहौ शशश्वानौ परस्परविरोधिनौ ।
तार्क्ष्यः सर्पं जयेत् सर्पो न तार्क्ष्यं तार्क्ष्यभागतः ॥ ५२-६२ ॥
सर्पोऽपि तार्क्ष्यं जयति प्रायं सर्पदिशि स्थितम् ।
एवन्तु सिंहगजयोरोतुमूषिकयोरपि ॥ ५२-६३ ॥
शशकुक्कुरयोश्चापि विद्याद् भूमेर्बलाबलम् ।
तार्क्ष्योतुसिंहश्वानस्तु बलिनः शत्रुयायिनः ॥ ५२-६४ ॥
शिष्टाः सर्पादयः स्थाने प्राप्नुवन्ति पराभवम् ।
स्थानव्यत्यस्तं फलमिति केचित् ।
नामाद्यर्णेषु दीर्घास्तु कला येषां बलाधिकाः ॥ ५२-६५ ॥
ह्रस्वाः कलास्तु यन्नाम्नामादौ हीनबलास्तु ते ।
तार्क्ष्यादिवर्गवर्णानि येषां नामादिकानि तु ॥ ५२-६६ ॥
ते ते तार्क्ष्यादिका ज्ञेयास्तैस्तैर्विद्याद् बलाबलम् ।
द्वन्द्वयुद्धेऽथवा ययोर्वा नृपयोर्द्वयोः ॥ ५२-६७ ॥
तार्क्ष्यादिजातिं च दिशो ज्ञात्वा युद्धानि कारयेत् ।
शुक्ले चतुर्थ्यामष्टम्यामेकादश्यां च पर्वणि ॥ ५२-६८ ॥
इन्द्वग्निमुनिवेदानां विष्टिर्यामेषु दिक्षु च ।
कृष्णे तृतीये सप्तम्यां दशम्यां भौतिके दिने ॥ ५२-६९ ॥
ऋतुवेदाग्निचन्द्राणां यामदिक्षूदयः स्मृतः ।
पुनर्नयो नरो नागो नृपो नारी नगं पुनः ॥ ५२-७० ॥
तत्कालविष्टिनाडी स्याद् वर्ज्याः शुक्लादितः क्रमात् ।
यस्यां तिथौ च यामे च विष्टिर्भानोर्दिशि स्थिता ॥ ५२-७१ ॥
तस्यां तस्यां तिथौ विष्ट्यां चण्डराहुः समः स्थितः ।
अर्कोदयादि नित्यं तु प्रागाद्यासु प्रदक्षिणम् ॥ ५२-७२ ॥
अर्कारगुरुसौम्यानां सितसौरीन्दुभोगिनाम् ।
उदयः सैंहिकेयस्य प्रातरैशे स्थितिः स्मृता ॥ ५२-७३ ॥
अर्धार्धयाममष्टासु दिक्षु तस्याप्रदक्षिणम् ।
स्थितिरास्तमयाद् रात्रावपि राहोर्गतिः समा ॥ ५२-७४ ॥
अपि सांवत्सरो राहुर्दिक्षु मासेषु तिष्ठति ।
प्राच्यां सिंहाजचापेषु याम्ये स्त्रीनक्रगोस्थितिः ॥ ५२-७५ ॥
यमतौलिघटेण्वाप्ये सौम्ये कर्किझषालिषु ।
यस्मिन् राशौ स्थितः सूर्यो मासराहुश्च तत्स्थितः ॥ ५२-७६ ॥
तस्माज्जयार्थी वृष्ट्याश्च राहोर्नाभिमुखं व्रजेत् ।
राहोरपरभागस्थो युध्यन् विजयते रिपून् ॥ ५२-७७ ॥
ब्रह्माण्याद्यास्तु योगिन्यः पार्थरम्भाम्बुशान्तिदैः ।
क्रमात् प्रागादिरव्यादिवह्निदुर्गातिथिक्रमात् ॥ ५२-७८ ॥
स्थिता इति यावत् ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराह्यैन्द्री च चामुण्डी महालक्ष्मीश्च मातरः ॥ ५२-७९ ॥
असिताङ्गो रुरुश्चण्डो (भी?रो)षणोन्मत्तकौ तथा ।
कपाली भीषणस्तद्वत् संहारश्चाष्ट भैरवाः ॥ ५२-८० ॥
ते चाष्टमातृभिः सार्धं तिथिवारवशात् क्रमात् ।
तिष्ठन्ति भीषणाकाराः सत्रिशूलकपालकाः ॥ ५२-८१ ॥
युद्धयात्रादिकृत्येषु मातृभैरवसम्मुखम् ।
गच्छन् विनश्यति क्षिप्रं तच्छूलाभिमुखं तथा ॥ ५२-८२ ॥
तस्माद् राहोश्च योगिन्या भैरवस्य च सम्मुखम् ।
आयुषोऽर्थी जयार्थी वा न युद्धाय व्रजेद् बुधः ॥ ५२-८३ ॥
रुद्राणां योगिनीनं च भुजे शूलं तु दक्षिणे ।
वामे कपालं युद्धाय शूलभागं विवर्जयेत् ॥ ५२-८४ ॥
वामभागकपाले तु युद्धाय जयदा गतिः ।
शरीरेषु मनुष्याणां नक्षत्रेषु ग्रहाः स्थिताः ॥ ५२-८५ ॥
ग्रहेष्वपि च भौमस्य विज्ञेया विग्रहे स्थितिः ।
जन्मादितो मुखे त्रीणि दृशोश्चत्वार्यथो गले ॥ ५२-८६ ॥
चतुष्कं भुजयोः षट्कं पार्श्वे द्वावष्ट पादयोः ।
कुजास्थितर्क्षमङ्गं यत् तत्र शस्त्रक्षतं ध्रुवम् ॥ ५२-८७ ॥
तस्मात् कुजाश्रिताङ्गं यत् तत् प्रयत्नेन गोपयेत् ।
षड्व्योमनामसंयुक्तमष्टपत्राम्बुजोदरे ॥ ५२-८८ ॥
तारश्च लिद्धिकाफुण्डे ठद्वयान्तं दलेष्वपि ।
भूमण्डलं बाह्यतोऽग्नेः षट्कोणेषु षडायतान् ॥ ५२-८९ ॥
साध्यार्णान्तरितानग्नेर्वर्णा ठारा(ङा?)दिकान् लिखेत् ।
इन्दुबिन्दुद्वयस्याग्निः साग्निः सर्गं वियल्लिखेत् ॥ ५२-९० ॥
संवर्तैः सर्गिभिर्बाह्ये वेष्टयेच्चन्तरालयोः ।
वाह्ये लिप्यावृतं त्वेतद् बिन्दुमण्डलवेष्टितम् ॥ ५२-९१ ॥
पूजितं गन्धपुष्पाद्यैवर्रिपट्टमिदं धृतम् ।
क वा ललाटे रक्षेत् तं युद्धे शत्रुं च मोहयेत् ॥ ५२-९२ ॥
एतद् युद्धक्षितौ न्यस्तं स्तम्भयेत् परवाहिनीम् ।
सञ्जीवनाख्यं चक्रं च नारसिंहं सुदर्शनम् ॥ ५२-९३ ॥
धृतं शिरसि शस्त्रेभ्यो रक्षेच्च विजयावहम् ।
निहतारिः शरो यः स्यात् तं गृहीत्वा सुनिश्चितम् ॥ ५२-९४ ॥
कृष्णाङ्गारचतुर्दश्यां वलयं तेन कारयेत् ।
तद् दक्षिणप्रकोष्ठस्थं शस्त्रवारणमुत्तमम् ॥ ५२-९५ ॥
वज्री लाङ्गलिका दन्ती त्रिशूली श्रीश्च मोहिनी ।
राजमोहिनिका काकभक्ष्या प्रतिपदादिषु ॥ ५२-९६ ॥
ब्रह्माण्यादिक्रमादात्ता पृथक् पिष्टा हिमाम्भसा ।
समस्ता वा तनौ लिम्पेद् युद्धकालेऽस्त्रवरिणी ॥ ५२-९७ ॥
नमो भगवद्भ्यः सर्वास्त्रविसर्गेभ्यो मां रक्षन्तु भगवन्तः! ठठ ।
लक्षजाप्येन मन्त्रोऽयं साधितः शस्त्रवारणः ।
चन्दनेन्दुजपाराजीविदारीकुष्ठकागरून् ॥ ५२-९८ ॥
हिमाम्भसा समालिप्य तत्काले शस्त्रवारणम् ।
नागकेऽस्त्रि(?) शिखासूतं (जिंवि?नीवा)राद्भिश्च वारयेत् ॥ ५२-९९ ॥
नागो भूनागः ।
श्रीपर्णिमूलं प्राचीनं कृत्तिकात्तं शिरःस्थितम् ।
भुजबद्धं च शस्त्राणि वारयेन्नात्र संशयः ॥ ५२-१०० ॥
इन्द्रवल्लीशिफाशुङ्गे पिबेत् क्षीरेण मस्तके ।
करे धृतं मृणालं वाश्वेतं क्षीरेऽस्त्रवारणम् ॥ ५२-१०१ ॥
पीतमिति यावत् ।
सितापराजितामूलं नन्द्यावर्तं मृणालकम् ।
भूतवृक्षस्य च शिफाः सर्वं बस्ताम्बुपेषितम् ॥ ५२-१०२ ॥
तत्कालेऽङ्गप्रलेपेन सर्वशस्त्राणि वारयेत् ।
श्वेतपुङ्खाशिफास्यस्था बाणपातं निवारयेत् ॥ ५२-१०३ ॥
सम्मोहिनीशिफा तद्वत् खट्गपातं निवारयेत् ।
माबीजं दण्डभृच्चण्डो डान्तः सोष्ठोऽथ दंसनम् ॥ ५२-१०४ ॥
वाग्बीजमग्निजायान्तं रक्तसूतिनिवर्तकम् ।
जपित्वा वाणिशब्देन पानाच्च जपिताम्भसाम् ॥ ५२-१०५ ॥
रुधिरं निवर्तयेत् ।
हस्तर्क्षे लाङ्गलीमूलं गृहीत्वालिप्तविग्रहः ।
द्वन्द्वयुद्धे जयेच्छत्रुं परेण स्वयमक्षतः ॥ ५२-१०६ ॥
शिफया चेन्द्रवारुण्या वरुणस्य च पिष्टया ।
लिप्ताङ्गः कुक्कुटं युद्धे कुक्कुटो जयति स्फुटम् ॥ ५२-१०७ ॥
मार्जारस्नेहतच्चर्मधूपितः कुक्कुटो जयेत् ।
शिफा शिखिशिखायाः स्यात् पादे जैत्री मुखे स्थिता ॥ ५२-१०८ ॥
शस्त्रवारणकृन्मूलमहिंस्राया मुखे स्थितम् ।
तदेव तण्डुलाम्भोभिः पीतं यावन्न जीर्यते ॥ ५२-१०९ ॥
शस्त्राणि वारयतीति यावत् ।
पुष्योद्धृतं च पाठाया मूलं वक्त्रेऽस्त्रवारणम् ।
श्मशानचैत्यवल्मीकमार्गदेवालयादिषु ॥ ५२-११० ॥
अशुद्धदेशे चोत्पन्ना ग्राह्या नौषधयो बुधैः ।
श्वेतापराजिताश्वेतपुङ्खामूले * * * * ॥ ५२-१११ ॥
लोष्टस्योभयतो बद्धे शस्त्रस्तम्भकरे (करे) ।
करो दक्षिणः ।
सस्त्रीशलभखद्योतचूर्णगर्भितवर्तितः ॥ ५२-११२ ॥
कृष्णगोराज्यमष्याक्तनेत्रो रम्भायते रिपुम् ।
काकतुम्बिनिकामूलं पुष्ये तु भुजयोर्द्वयोः ॥ ५२-११३ ॥
बन्धनाच्छरपातांश्च शस्त्राणि च निवारयेत् ।
एकरात्रोषितः शुद्धः सायं पूर्वेद्युरोषधिम् ॥ ५२-११४ ॥
सम्प्राप्य रक्षां कृत्वा तु प्रातर्गृह्णातु मन्त्रतः ।
एष राजा वलीवर्दश्चित्रवीर्यो महाबलः ॥ ५२-११५ ॥
।
ठठ ।
इति रक्तसूत्रेण बन्धयेत् । सुप्रभे ठठ । तण्डुलधान्यमुष्टिं प्रक्षिप्य ।
ॐ
श्वेतपुष्पे! महानीले! शुभे! चन्दनगन्धिनि! ॥ ५२-११६ ॥
त्वामोषधिं प्रपद्येऽहं त्राहि मां महतो भयात् ।
मा उ(प?त्प)तेर्मा निपतेर्मा च तेजो व्यतिक्रमेत् ॥ ५२-११७ ॥
अत्रैव तिष्ठ कल्याणि! मम कार्यकरी भव ।
मम कार्ये कृते पश्चात् स्वर्गलोकं गमिष्यसि ॥ ५२-११८ ॥
राक्षसानां पिशाचानां गन्धर्वाणां महौजसाम् ।
तेषां बध्नामि चक्षूंषि ये चान्ये परिपन्थिनः ॥ ५२-११९ ॥
गण्डे मुरिते मालिनि चण्डिके गदापाणिनि स्तम्भिनि मोहिनि नमोऽस्तु ते ठठ ।
एवं तामोषधिं मन्त्रैरुपस्थाय ततः खनेत् ।
अमुकोपरि ठठ ।
अनेन निखनेद् भूमिम्
ॐ नमः सर्वौषधीभ्यः ।
ऊर्जावन्तो भविष्यथ ॥ ५२-१२० ॥
स्ववीर्यैः कृत्स्नीकुरुध्वं दुरितानि हन दह पच मारय (स?) नमस्तुभ्यं नमः इति गृह्णीयात् ।
अनेन तु विधानेन गृह्णीयादोषधिं बुधः ।
तच्छक्तिरन्यथा स्वल्पा भवेद् दैत्यादिभिर्हृते ॥ ५२-१२१ ॥
एका वाप्योषधिः सम्यग् गृहीता मिश्रीता परैः ।
औषधैर्यच्छति बलमन्तरायाच्च रक्षति ॥ ५२-१२२ ॥
शस्त्रवारणाधिकारः ।
युयुत्सुर्नृपतिर्वान्यः सेनानीस्तु भटोऽथवा ।
परीक्ष्यायुः स्वकं सम्यगायुष्मांश्चेत् प्रयत्नतः ॥ ५२-१२३ ॥
सुगुप्तदेहः कवची ससहायो युयुत्सतु ।
हीनायुश्चेत् कलत्रादीन् सविभज्य धनादिभिः ॥ ५२-१२४ ॥
कृत्वा दानं यथावित्तं पुण्यानि च समाहितः ।
स्नातः कृतस्वस्त्ययनः सम्पूज्याभीष्टदेवताम् ॥ ५२-१२५ ॥
प्रसन्नः सङ्गरं गच्छेत् स्वर्गलोकजिगीषया ।
श्वासचारादिभिर्यावदायुष्कं ज्ञायते स्फुटम् ॥ ५२-१२६ ॥
पुष्यमासे तु पुष्यर्क्षे पूर्वेद्युः समुपोषितः ।
उत्थायापररात्रे तु कृतावश्यक्रियादिकः ॥ ५२-१२७ ॥
सूपविष्टः शुचिर्मौनी ऋजुकायशिरोगलः ।
मकरोदयवेलायां परीक्षेच्छ्वासमात्मनः ॥ ५२-१२८ ॥
पारवादसमान् यामान् वायुरेकपुटे स्थितः ।
निमिशूरखरानीकसङ्ख्यमायुः प्रयच्छति ॥ ५२-१२९ ॥
एतेषामक्षराणां तुल्यसङ्ख्यसंवत्सरान् जीवतीति यावत् ।
प्रलोभसङ्ख्यदिवसानेकनासापुटे चरन् ।
दीक्षा वा वत्सरान् जीवेन्मनोमयनयैर्दिनैः ॥ ५२-१३० ॥
गौरीया वर्षसङ्ख्या स्यादायुस्तस्येति निर्दिशेत् ।
नरस्मरशरासारदिनान्येकचरोऽनिलः ॥ ५२-१३१ ॥
तैलप्रियसमान् मासान् तस्यायुः सम्प्रयच्छति ।
हरधारानलकलिरागभागदिनं चरन् ॥ ५२-१३२ ॥
तिथिदिक्शरकामाश्विचन्द्राहान्यायुरादिशेत् ।
उक्तावान्तरकालेषु वायुचारो यदा तदा ॥ ५२-१३३ ॥
आयुषोऽस्यानुसारेण परिमाणं समूहयेत् ।
ध्रुवं चारुन्धतीं व्योमनदीं वा यो न पश्यति ॥ ५२-१३४ ॥
बाह्यमाभ्यन्तरं वाथवा षण्मासाद् विपद्यते ।
अरुन्धती स्वजिह्वाग्रं नासाग्रं तु ध्रुवो भवेत् ॥ ५२-१३५ ॥
सुवर्णरूप्यरक्ताभं विण्मूत्रच्छर्दितानि वा ।
पश्येद् गन्धर्वनगरं तस्यायुर्वत्सरादधः ॥ ५२-१३६ ॥
अनभ्रे विद्युतं पश्येत् सलिले चे(न्न?न्द्र)कार्मुकम् ।
प्रेतान् वा दिवसे पश्येत् तस्यार्वाग् वत्सरान्मृतिः ॥ ५२-१३७ ॥
स्वप्ने हेममयान् वृक्षान् दृष्ट्वा मासं स जीवति ।
स्वं रूपं दर्पणे वाप्सु विकृतं शवगन्धि वा ॥ ५२-१३८ ॥
अकारणं वा प्रपतेन्मासार्धं तस्य जीवितम् ।
स्वच्छायागलदेशे तु न्यस्य दृष्टिं चिरं ततः ॥ ५२-१३९ ॥
व्योम्नि छायानरं दृष्ट्वा सम्पूर्णाङ्गं सुखी नरः ।
शिरोहीनं तु षण्मासाद्धस्तहीनं तु वत्सरात् ॥ ५२-१४० ॥
कृतमण्डलके पात्रे गोमयाम्भोभिपूरिते ।
दृष्ट्वार्कबिम्बे याम्याप्ये सौम्येन्द्राशासु खण्डिते ॥ ५२-१४१ ॥
षड्द्वित्रिमासैर्मरणं मध्यच्छिद्रे दशाहतः ।
धूम्रायिते तद्दिवसे निरूप्यैतद् विचक्षणः ॥ ५२-१४२ ॥
सुयुद्धं वाथवा गङ्गां पुण्यक्षेत्रं तु वा विशेत् ।
पिधाय कर्णौ सुदृढं तद्घोषं न शृणोति यः ॥ ५२-१४३ ॥
प्रनष्टदीपगन्धं च न जानाति यदा नरः ।
कनीनिकावमर्दोत्थां खद्योताभां तनुप्रभाम् ॥ ५२-१४४ ॥
न पश्यति यदा तस्य मासमात्रं हि जीवितम् ।
ज्ञात्वैवमायुषो मानं पुत्रादिभ्यो विभज्य तु ॥ ५२-१४५ ॥
दानादि दत्त्वा सन्न्यस्य महाप्रस्थानिकोऽथवा ।
सर्वथा दानधर्माद्यं कृत्वा सुगतिमश्नुते ॥ ५२-१४६ ॥
स्वल्पं यदायुर्मर्त्यानामायुषो वृद्धये बुधः ।
प्रयतेत यतो जीवंश्चिरं भद्राणि पश्यति ॥ ५२-१४७ ॥
वायुधारणया योगैर्मन्त्राभ्यासैर्यथोदितैः ।
रसायनक्रियाभिर्वा दीर्घमायुरवाप्नुयात् ॥ ५२-१४८ ॥
अत्र नारदीये�
पादचारी सहस्रायुरयुतायुर्नभश्चरः ।
लक्षायुरपि वा जीवेत् जपस्यातिशये सति ॥ ५२-१४९ ॥
इति ।
पूर्वमेव महामन्त्रविधानेष्वत्र दर्शिताः ।
आयुषो वर्धनोपायाः किञ्चिच्छिष्टं प्रदर्श्यते ॥ ५२-१५० ॥
लोणाम्लक्षारतैलानि विरिच्य क्वथितौषधैः ।
शुद्धकायो निवातस्थो विदधातु रसायनम् ॥ ५२-१५१ ॥
विधिवन्मूलमादाय वाराह्या मन्त्रविच्छुचिः ।
त्रिनिष्कमात्रं गोक्षीरे पिष्टं प्रातः पिबेदपि ॥ ५२-१५२ ॥
तन्मूलक्वाथदुग्धेन भुञ्जीयात् षाष्टिकौदनम् ।
निरम्लक्षारलवणं ब्रह्मचारी त्रिवत्सरम् ॥ ५२-१५३ ॥
सहस्रवत्सरं जीवेज्जरापलितवर्जितः ।
शाकं दधि च निष्पावान् कुलस्थांस्तैलमाहिषे ॥ ५२-१५४ ॥
अतिशीतातपोष्णानि वर्जयीत रसायनी ।
ऊर्ध्वहस्तनरायाम मूले कोमलशल्मलेः ॥ ५२-१५५ ॥
खात्वा शिखाग्रं छित्वास्यच्छेदे कुम्भं निधापयेत् ।
ऊर्ध्वं पुरुषमात्रे तु छित्त्वा तं शल्मलीं मृदा ॥ ५२-१५६ ॥
अष्टाङ्गुलं समालिप्य गोकरीषेन्धनैर्दहेत् ।
षट्सप्तदिवसादूर्ध्वं कुम्भमुद्धृत्य तद्रसम् ॥ ५२-१५७ ॥
छायाशुष्कं विधायाथ भृङ्गामलकवारिणा ।
सम्मर्द्य शुद्धकायस्तु विलालपदमात्रकम् ॥ ५२-१५८ ॥
भक्षयेत् प्रातरुत्थाय निरम्लक्षारलोणभुक् ।
क्षीरान्नाशी दिवारात्रं जरां मृत्युं जयेन्नरः ॥ ५२-१५९ ॥
सिन्धूत्थाभ्रकमाक्षिकाणि कटुकैः पथ्याक्षधात्रीशिला-
भृङ्गाद्भिः शतशः पुटेषु विहितः कान्तस्तथोषामृदा ।
एते तुल्यविभागिकास्तु भसितं सौतस्य मानद्वयं
पिष्टं भृङ्गरसेन मासमदतो मर्त्यस्य मृत्युः कुतः ॥ ५२-१६० ॥
वन्ध्याक्षामलनीलिकामधुकरीवाराहिमुण्ड्योऽमृता
ब्रह्मीगारुडचित्रकासनतुटीस्तुल्यांशचूर्णीकृताः ।
कान्तो भृङ्गरसा(दि?र्द्रि)तः शतपुटो भागद्वयं शर्करा-
क्षौद्रालोलितमश्नतोऽब्दमजरं तस्यामरं तद् वपुः ॥ ५२-१६१ ॥
अङ्कोलत्रिफलाजगोमयनदीक्षेत्रादिमृद्भिः समैः
पूर्णायामसिताननेन विहितद्रोण्यां सुवर्णालिपाम्(?) ।
संस्थाप्य त्रिफलाम्बुभिः प्रतिदिनं संसिच्य निष्कत्रयं
तच्छुङ्गानि सुपेषितानि पयसा पानेन मृत्युं जयेत् ॥ ५२-१६२ ॥
एवं शक्तिविजृम्भितेन विसरल्लिप्यर्णशब्दात्मकं
विश्वं युक्तविधानदैवतमया मन्त्राः स्वतन्त्रोदिताः ।
रक्षार्थञ्जगतां गरग्रहरुजां ध्वंसो रिपूणां क्रमा-
दत्रेशानशिवेन नर्म च युधां जैत्रं च सन्दर्शितम् ॥ ५२-१६३ ॥
इति शीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे मन्त्रपादे युद्धजैत्रकर्मादिविधिपटलो द्विपञ्चाशः ॥ ५२ ॥
इति मन्त्रपादो द्वितीयः समाप्तः ।
समाप्तं च पूर्वार्धम् ।
शुभं भूयात् ।