५१

अथैकपञ्चाशः पटलः ।

महेन्द्रजालविज्ञानप्रसङ्गात् पूर्वचोदितात् ।
नर्मप्रकाराः सङ्क्षिप्य लिख्यन्ते विस्मयप्रदाः ॥ ५१-१ ॥

चूर्णं वराङ्गे निहितं सद्भूनागेन्द्रगोपयोः ।
येन तेनैव भोग्या स्यानान्येषां मासमात्रकम् ॥ ५१-२ ॥

यन्मुखोद्गीर्णताम्बूलं कृकलासस्य चर्मणि ।
भल्लातकसमुद्गस्थं मुखरोगकरं भवेत् ॥ ५१-३ ॥

उद्धृते मोक्षः ।

शुक्तिसम्पुटचूर्णस्य लेपो भगनिरोधकृत् ।
कपर्दचूर्णगोतक्रक्षालनात् पूर्ववद् भवेत् ॥ ५१-४ ॥

पिष्टाधोमुखगोशृङ्गलेपो योनिनिरोधकृत् ।

ऊर्ध्वमुखशृङ्गलेपाद् भोग्या भविष्यति ।

रक्तेन कृकलासस्य सिक्तसूत्रस्य लङ्घनात् ॥ ५१-५ ॥

रक्तस्रावो भवेत् स्त्रीणां द्विमुखाहेश्च शोणितात् ।

तत्सूत्रं प्रक्षाल्य लङ्घितं निवर्तयति ।

कृष्णकाकासृजा चूतपत्रे यन्नाम योजितम् ॥ ५१-६ ॥

तस्यैव वर्चसि क्षिप्तं तं तुदन्ति मुहुर्द्विकाः ।

उद्धृत्य दग्धे मोक्षः ।

यस्याः स्वमोदकं मोदायुक्तो वृश्चिककण्टकः ॥ ५१-७ ॥

मदनस्य फलस्थोऽस्या वराङ्गे तोदमावहेत् ।

उद्धृते मोक्षः ।

मयूरमलदुर्धूरविषत्वग्लाङ्गलीयुतम् ॥ ५१-८ ॥

महिषासृजि पिष्टं तद्धूमः सर्वांस्तु मोहयेत् ।

डुण्डुकतैलेनालक्तकवर्तिदीपोऽपि तत्प्रभावलोकिनं जनं सर्वं मोहयति ।

काकोलूकासृजा नाम ययोर्निम्बदलस्थितम् ॥ ५१-९ ॥

तत्कोटरे तन्निहितं तयोर्वैरकरं भवेत् ।

महिषाश्वरक्तेनापि तथा ।

पुच्छचूर्णं ब्रह्मसूनोर्जलाहेर्वाप्यलक्तके ॥ ५१-१० ॥

वर्तीः कृत्वा कृता दीपाः सर्वान् कुर्याद् दिगम्बरान् ।

धूपप्रदीपप्रयोगो रात्रावेव फलति ।

गोघृतेनात्मरक्षार्थं स्वनासान्तर्विरोपयेत् ॥ ५१-११ ॥

नेत्रयोरञ्जयेद्वापि स्वयमन्यान् विमोहयेत् ।
वज्रीक्षीरेण बहुशस्तिलान् सम्भाव्य शोषितान् ॥ ५१- १२ ॥

तत्तैललेपात् कृष्णा ये केशाः शुक्ला भवन्ति ते ।
बहुशः पिप्पलीचूर्णं वज्रीक्षीरेण भावितम् ॥ ५१-१३ ॥

पिष्ट्वा सामलकं क्षिप्तं केशनाशनमुत्तमम् ।
राजपुत्रीरजोश्वानां नासान्तःस्थं तु पातयेत् ॥ ५१-१४ ॥

तानश्वान् पातयतीति यावत् । चन्दनस्य पानात् प्रत्यायनम् ।

सुरतारब्धखरयोः कटकं पुच्छरोमभिः ।
आरोपितं प्रकोष्ठे तु लग्नं लिङ्गोन्नतिं वहेत् ॥ ५१-१५ ॥

क्षपणके शेफोत्थानमिति यावत् । अधो नीतं पातयति ।

सृगालभुक्तबदरीबीजानि सुरतस्थयोः ।
प्रारोपितानि(बालैः?) स्त्रीवस्त्रं पातयन्ति प्रकोष्ठके ॥ ५१-१६ ॥

प्रकोष्ठस्थिता वदरीमाला योषित्सन्निधौ ऊर्ध्वं नीता पातयतीति यावत् ।

राजीतैलेऽर्कतूलेन दीपो मत्कुणकान् हरेत् ।

रात्रौ ।

स्थलकुम्भिशिफा शय्यागता मत्कुणकान् हरेत् ॥ ५१-१७ ॥

कुलीरस्य कपोले तु दीपस्तत्स्नेहसाधितः ।
गृहस्थान् मुत्कुणान् सर्वानाकर्षयति च ध्रुवम् ॥ ५१-१८ ॥

अलक्तकार्कतूलाभ्यां वर्त्या राजीघृते कृतम् ।
मत्कुणोच्चाटकृद् रात्रौ करीराम्भस्तु यूकहृत् ॥ ५१-१९ ॥

सितापराजितामूल फलपुष्पेऽर्जुनस्य च ।
विलङ्गसर्जकं लाक्षा श्रीवासारुष्करैः पुरम् ॥ ५१-२० ॥

तुल्यैरेतैः कृतो धूपो मशकान् मत्कुणानहीन् ।
मूषकांश्च घुणान् लूतानुत्सारयति वै गृहात् ॥ ५१-२१ ॥

कोकिलाक्षस्य बीजानां श्लक्ष्णचूर्णान्वितं जलम् ।
दृढं स्याद् बद्धवल्ल्या चेद् युक्तं मांसाकृतिर्भवेत् ॥ ५१-२२ ॥

तीक्ष्णघर्मस्थितं कांस्यं निर्मूले तदधः स्थिते ।
तूले केरीषे शुष्के वा स्यादग्निः सूर्यकान्तवत् ॥ ५१-२३ ॥

भेकस्नेहेन लिप्तं तु स्वरमूत्रयुतेन चेत् ।
हस्तयोः पादतस्तत्तदग्निना नैव दह्यते ॥ ५१-२४ ॥

समङ्गामूलपिष्टेन भेकस्नेहेन वा तथा ।

आलेपादग्निं स्तम्भयतीति यावत् ।

तुलारोहणकाले चेद् रुद्धश्वासो लघुर्भवेत् ॥ ५१-२५ ॥

गुरुः स्याद् रेचयेद् वायुं निर्दोषोऽपीह मानवः ।
वायुवेश्मनि वायुस्थं नामबाह्येष्टवायुयुक् ॥ ५१-२६ ॥

तुलामूले निखातं चेद् ब्रह्मघ्नोऽपि लघुर्भवेत् ।
भुवेश्मस्थितवज्रस्थं नामबाह्येष्टमांसयुक् ॥ ५१-२७ ॥

निखनेत् तत् तुलामूले शुद्धोऽपि स्याद् गुरुर्नरः ।
तद्दिने जातगोवत्सपुरीषतगराचिताम् ॥ ५१-२८ ॥

गुलिकां प्रथमं जग्धा विषं भक्षयतो न तत् ।

विषप्रत्ययमेवं कुर्वन् जयति ।

सव्योषककणां विष्टां गुलीं पूर्वं तु चर्वयेत् ॥ ५१-२९ ॥

तण्डुलप्रत्ययं पश्चात् कुर्याद् विजयते नरः ।
जलाहिदन्तमास्यस्थं जलं दिव्यं जयप्रदम् ॥ ५१-३० ॥

जलप्रत्ययजयकरम् ।

चूर्णं तु कोकिलाक्षाणां रक्तगोघृतमिश्रितम् ।
आलिप्य सर्ववदनं घ्राणकर्णजलं विशेत् ॥ ५१-३१ ॥

जलप्रत्ययं कुर्वन् सदोषोऽपि जयति ।

शिंशुमारमलालिप्तं मुष्ट्या चित्रं न दृश्यते ।

मुष्टिमोक्षाद् दृश्यते ।

स्योनाकबीजैरन्तस्स्थैस्तद्दारुकृतपादुके ॥ ५१-३२ ॥

आक्रम्य पर्यटेत् तोये निश्शङ्कस्तु यथासुखम् ।
निश्चलं चित्तमावेश्य सभ्रूमध्ये ललाटके ॥ ५१-३३ ॥

सकुम्भकोत्तानतनुर्जले प्लवति नौरिव ।

बद्धपद्मासनश्च प्रसारितसर्वाङ्गो वा ।

तैलस्निग्धा यदा वर्तिः सर्जचूर्णविरूषिता ॥ ५१-३४ ॥

अन्तर्बहिश्च तोयाढ्ये पात्रे ज्वलति दीपिका ।
स्नुक्क्षीरभाविता वर्ती तैलार्द्रा चाब्धिफेनवत् ॥ ५१-३५ ॥

आपूर्यायसपात्रे तु सूतं तस्योपरि क्षिपेत् ।
दीप्ताङ्गारं तु तत्पात्रमाकाशे तिष्ठति स्फुटम् ॥ ५१-३६ ॥

पिञ्छनालं तु सारं वा सूतापूर्णं विधाय तत् ।
तद्गर्भवर्तिस्तैलाक्ता ज्वलिता खे व्रजेत् स्वयम् ॥ ५१-३७ ॥

ऋतुस्त्रीयोनिगर्भस्थं सौवीरं सप्तवासरम् ।
अग्निमध्ये क्षिपेत् तस्मिन् पुरुषो दृश्यते स्फुटम् ॥ ५१-३८ ॥

बीजपूरकतैलं तु ताम्रपात्रे निधाय तु ।
धर्मे निधाय मध्याह्ने रथी सूर्योऽत्र दृश्यते ॥ ५१-३९ ॥

अगस्तिपुष्पतोये तु भावितं बहुशोऽञ्जनम् ।
स्रोताख्यमञ्जितं नेत्रे दिवा नक्षत्रदर्शकम् ॥ ५१-४० ॥

विद्युद्धततरोः कीलं क्षिप्तं खे तत्र तिष्ठति ।
किञ्चिच्चूर्णजलोपेतं भावि तैलं घृतं यथा ॥ ५१-४१ ॥

लघुलूताज्यसंसिक्तपाणौ लोणजलं स्थितम् ।
विसृष्टं तत् पलालादौ दहत्यग्निश्च तद् दहेत् ॥ ५१-४२ ॥

स्त्रीजरायुकृताद् धूपादालेख्यानि रुदन्ति हि ।

गुग्गुलुधूपस्तु निवर्तयति ।

चुच्छुन्दरीमदनतालकलाङ्गलिकसाश्वारिकुम्भकरवीरकृतस्तु धूपः ।
चित्राणि रोदयति तालकसंयुतानि धूपे पुरेण बिहिते प्रकृतिं प्रयान्ति ॥ ५१-४३ ॥

मयूरपित्तेनादर्शे विलिप्यार्धाधिकं न्यसेत् ॥ ५१-४४ ॥

सूर्यस्य सम्मुखं गुप्तं ग्रहणं दृश्यते स्फुटम् ।
भल्लाततैलसिक्ता ये शफरा गतजीविताः ॥ ५१-४५ ॥

प्रसरन्ति जले क्षिप्ता जिवन्त इव च क्षणम् ।
मत्स्याण्डचूर्णं तत्पित्तदिग्धं तं जनयेज्जले ॥ ५१-४६ ॥

मत्स्यशिशुं जनयति ।

नदीशैववलचूर्णं तु माहिषे मथिते क्षिपेत् ।
विलोड्य यामात् परतो भेकास्तत्र भवन्ति हि ॥ ५१-४७ ॥

आलिप्य शिखिपित्तेन पाणौ निम्बदलानि तु ।
दृढं गृहीत्वा मुक्तानि वृश्चिकाः सम्भवन्ति हि ॥ ५१-४८ ॥

अङ्कोलतैलेनापि निर्गुण्डीनिम्बपत्राणि तथा ।

वात्यानीतं तरोः पर्णं * * * कोलदंष्ट्रयुक् ।
कट्यां बद्धं भोजयति दशानां भोजनं नृणाम् ॥ ५१-४९ ॥

सायं निमन्त्रितोऽसीति आमन्त्र्याक्षं ततः प्रगे ।
तदग्रपत्राण्यादाय बहु भोज्यं यदा भवेत् ॥ ५१-५० ॥

तानि दक्षिणपादेन क्रान्त्वाश्नात्योदनं बहु ।
खरीजरायुत्रिकटुचूर्णदिग्धपदेन तु ॥ ५१-५१ ॥

वामेन ताडितो वृक्षः शीर्णपुष्पफलो भवेत् ।
शिलातालान्वितं सप्तदिनमन्नं तु भोजयेत् ॥ ५१-५२ ॥

शिखिनं तन्मलालिप्तपाणिस्थं नैव दृश्यते ।
कुरण्डपत्राण्याचर्व्य चिरमोष्ठं तु वेधयेत् ॥ ५१-५३ ॥

कपोलं वापि सूच्या वा वेदना नैव जायते ।
शुण्ठीं चोलं च सञ्चर्व्य तप्तलोहं लिहेत् सुखम् ॥ ५१-५४ ॥

न दह्यत इत्यर्थः ।

कोशातकीतैलदीपो वायुना न विहन्यते ।
यावकारक्तसूत्रेण तैलार्द्रेण तु भाजनम् ॥ ५१-५५ ॥

कांस्यमावेष्ट्य तु पचेत् पायसं नैव दह्यते ।

सूत्रं न दह्यते ।

तत्पायसोपयोगस्तु प्लिहाकामिलकापहः ॥ ५१-५६ ॥

जयत्यन्यगजान् हस्ती पार्ष्णेर्निजमदाञ्जनात् ।
चुच्छुन्दरीचूर्णलिप्तपाणिं दृष्ट्वा गजो भयात् ॥ ५१-५७ ॥

पलायति तदालाने लेपात् तस्माच्च धावति ।
तिल्वोपरि प्ररूढान्यवृक्षस्य फलका यदा ॥ ५१-५८ ॥

महानसस्था तत्रस्थं भोज्यं तिक्तं करिष्यति ।

उद्धृते मोक्षः ।

जलकाकास्थियुगलमथनेऽग्निर्ज्वलत्यपि ॥ ५१-५९ ॥

जले च तिल्वक्षीराक्तं गन्धचूर्णं जलोषितम् ।

पलालपूलगृहादिष्विति यावत् ।

कुक्कुटस्य च विट् तावत् पारावतमयूरयोः ॥ ५१-६० ॥

हेमपञ्चाङ्गचूर्णं च शिरस्युन्मत्तकृद् भवेत् ।

यस्य शिरसि क्षिप्तं, तमुन्मत्तं करोति । केशमुण्डनात् स्वस्थः ।

स्नुक्क्षीरतिलचूर्णाभ्यां पिष्टमर्कदले स्थितम् ॥ ५१-६१ ॥

तत्पोलिकां वा जग्ध्वा तद्गृहाद् गच्छन्ति मूषिकाः ।
तालं च मार्जारमलं छागमूत्रेण पेषयेत् ॥ ५१-६२ ॥

तेनैव मुषिकालेपात् सर्वे गच्छन्ति मुषिकाः ।
गन्धकाङ्कोलतैलाभ्यां सिक्ते निस्सारकेन्धने ॥ ५१-६३ ॥

अतितप्ताज्यहोमेन स्वयं ज्वलति पावकः ।
सदाभद्राशिफावक्त्राश्चर्वयेद् धवलां शिलाम् ॥ ५१-६४ ॥

इन्द्रवल्ल्या बलाया वा वदने रसभाविते ।
कण्डूतिर्न भवेदामश्येनाशाकुटभक्षणे(?) ॥ ५१-६५ ॥

हस्तस्थवृषवन्दाको द्यूतेषु विजयी भवेत् ।

भाण्डानने सूक्ष्मकपित्वचा वाप्याच्छादितेऽन्तर्महिषीघृतेन ।
प्रज्वाल्य दीपं विनिधाय तूच्चैर्ज्योत्स्नां च पूर्णं शशिनं च पश्येत् ॥ ५१-६६ ॥

अमावास्यायामुपरिरात्राविति यावत् ।

सहस्रपादश्च कृताञ्जलिश्च कूर्माङ्घ्रिशीर्षे जननीधरस्य ।
शिरश्च तच्चूर्णविलिप्तपाणिस्पर्शाददृश्यौ युवतिस्तनौ स्ताम् ॥ ५१-६७ ॥

करञ्जबीजेन्द्रगोपशिखिपितानि काञ्चिके ॥ ५१-६८ ॥

कृकलासपदं चैभिर्गुली दूराध्वयानकृत् ।

कट्यां बद्धा । लर्वथात्र गृहे द्वारं स्तम्भय ठठ ।

कपेरस्थि खनेन्मूत्रे यस्य तु स्तम्भनं भवेत् ॥ ५१-६९ ॥

षण्डो भवति यन्मूत्रे लाङ्गलीं निखनेद् यदि ।

तदुद्धृते मोक्सः ।

भुक्तः शिरीषनिर्यासो बाधिर्यं जनयेन्नृणाम् ॥ ५१-७० ॥

हेमद्रवयुतश्चान्ध्यं निर्यासः शल्मलीभवः ।
शर्करामहिषीक्षीरपानात् स्वास्थ्यं तयोर्भवेत् ॥ ५१-७१ ॥

सार्जं कीलं कुलालस्य गृहे तद्भाण्डनाशकृत् ।

एष षल षड अनेन निखलल प्रज्वल सङ्गकरि! हुं सर्वप्रसादिनि! ठठ ।

अनेनायुतसिद्धेन सप्तजापाच्छिरीषजम् ॥ ५१-७२ ॥

कीलं प्रदक्षिणं नीत्वा केदारे मध्यतः खनेत् ।
निश्यूनविंशघटिकां चोरस्तम्भकरं तु तत् ॥ ५१-७३ ॥

भल्लातकरसे गुञ्जागोलीं मण्डलकारिका ।
विषं च चूर्णितं गात्रे प्रक्षिप्तं कुष्ठकारकम् ॥ ५१-७४ ॥

निम्बाम्भःशर्कराक्षौद्रपाननस्यात् सुखी भवेत् ।

प्रलेपाच्च ।

कर्माणि विस्मापनकानि येषां नर्मादियुक्तान्यभिवाञ्छितानि ।
शर्माणि तेषां मनसो विधातुं मर्माणि जाप्यस्य विनिर्मितानि ॥ ५१-७५� ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे मन्त्रपादे नर्मपटल एकपञ्चाशः ॥ ५१ ॥