अथ पञ्चाशः पटलः ।
चोरकुष्ठमुराग्रन्थिमांसीपूतीश्च ते समाः ।
धात्रीफलं तत्त्रिगुणं गन्धतोयेन पेषयेत् ॥ ५०-१ ॥
गन्धेन धूपितं पुष्पैः सुगन्धैरपि वासितम् ।
गन्धामलकमेतत्तु राजयोग्यमुदीरितम् ॥ ५०-२ ॥
एलातगरपत्राब्जग्रन्थिरुक्पूचोरकाः ।
समास्तद्द्विगुणा धात्री सुपिष्टा गन्धवारिणा ॥ ५०-३ ॥
गुलागरुभ्यां सर्जेन भूयो भूयश्च धूपितम् ।
पुष्पाधिवासितं त्वेतत् सुगन्धामलकं भवेत् ॥ ५०-४ ॥
ग्रन्थिर्मांसी मरुवकं शैलेयं दामनं दलम् ।
चोरगं तगरं सर्वं समं तेभ्यो द्विभागकम् ॥ ५०-५ ॥
प्राग्वदामलकं प्रोक्तं संस्कारोऽपि च पूर्ववत् ।
टङ्कणं हस्तिकुसुमं देवदालीमृणालके ॥ ५०-६ ॥
चूर्णीकृतैः समधुकैः किञ्चिन्मधुसमन्वितैः ।
आकुण्ठितानि पुष्पाणि द्रुतिं मुञ्चन्ति युक्तितः ॥ ५०-७ ॥
मधुनालिप्य परशुं तच्छिन्नतरुचूर्णकैः ।
छुरितानि द्रवन्त्येव मल्लिकाचम्पकानि वै ॥ ५०-८ ॥
शङ्खचूर्णसालेपात् केतकीद्रुतिसम्भवः ।
मञ्जिष्ठानवपत्तङ्गकुसुम्भारक्तचन्दनैः ॥ ५०-९ ॥
क्रमवृद्धैस्तु लाक्षाम्भोलुलितैर्वस्त्रगालितैः ।
सम्प्लक्षात्तण्डुलक्षौद्रयुक्तैः सम्यग् विभावितैः ॥ ५०-१० ॥
पिण्डीकृतैस्तु भवति जातिलिङ्गं सुशोभनम् ।
विश्वैकभागा गुलनिम्बहिङ्गुबीजद्विभागैरथ गुग्गुलोः षट् ।
एरण्डबीजस्य तथाजदुग्धे पिष्टा पुरोबद् भवतीह हिङ्गुः ॥ ५०-११ ॥
धान्यराशिस्थमिति यावत् ।
बिल्वफलनिम्बविश्वामाषा लशुनं च हिङ्गुरेते स्युः ।
ऋत्वब्धिनेत्रभागद्वयवेदमिता यथापुरं हिङ्गुः ॥ ५०-१२ ॥
पूर्ववदजादुग्धपेषणादिक्रियया हिङ्गुर्भवति ।
विकारनागश्रुतिनेत्रैश्चन्द्रेन्दुनागैर्मितबिल्वमाषाः ।
नैम्बैर्गुडाजाह्वयहिङ्गुविश्वारसोनकाः पूर्ववदेष हिङ्गुः ॥ ५०-१३ ॥
अजाक्षीरपेषणधान्यराशिस्थापनयेत्यर्थः ।
क्वाथस्य शिग्रुमूलस्यच्छागमूत्रं तथा मधु ॥ ५०-१४ ॥
पृथक् चतुष्पलं ग्राह्यं तत् त्रिभागावशेषितम् ।
जातीतक्कोलकस्तूरीचन्द्रकाश्मीरचन्दनाः ॥ ५०-१५ ॥
पृथक् पलानि कर्षं चाप्यगरोः श्लक्ष्णपेषितम् ।
गन्धभाण्डे सुविहितं मण्डलं व्रीहिराशिभिः ॥ ५०-१६ ॥
उद्धृत्य निकरीकृत्यच्छायाशुष्कं निधाय तु ।
निकरादेकमेकं वा योजितं तुल्यमृत्स्नया ॥ ५०-१७ ॥
जलक्लिन्नं तु तत् साक्षाद् भवेत् कस्तूरिका शुभा ।
कुमूलं शक्रमोचायाश्छित्वा किञ्चित्तु वैणवीम् ॥ ५०-१८ ॥
नालिकां योजयेद् द्वित्रिनिशां तत्तद्रसस्य तु ।
प्रस्थद्वयमितं तस्य कणोशीरकचोरकान् ॥ ५०-१९ ॥
कर्षमात्रं तु सञ्चूर्ण्य पलार्धं घनसारकम् ।
चूर्णितं योजयेत् सर्वं नालिकाकदलीजले ॥ ५०-२० ॥
अन्धीकृत्य समावेष्ट्य रज्ज्वालिप्य मृदा बहिः ।
दग्ध्वा तुषकरीषागौ शीतमुद्धृत्य तत् पुनः ॥ ५०-२१ ॥
सप्ताहं धान्यराशिस्थं कर्पूरं जायते स्फुटम् ।
प्ररोहतोये केतक्त्याश्चोष्णाम्भःशालिमण्डयोः ॥ ५०-२२ ॥
क्षीरे च टङ्कणं धौतं याममात्रं स्थितं पृथक् ।
चूर्णयित्वा चतुर्थांशं घनसारेण योजितम् ॥ ५०-२३ ॥
क्षीरे निष्क्वाथ्य कदलीपत्रे निक्षिप्य शोषयेत् ।
तच्चारु घनसारं भवति ।
पक्वबिल्वफलान्तःस्थमर्धतैलेन योजितम् ॥ ५०-२४ ॥
विशोष्य धर्मे सङ्क्षुद्य खच्छाद्भिः क्वथितं पुनः ।
निष्पीड्य तैलं सङ्गृह्य कर्षकर्पूरयोजितम् ॥ ५०-२५ ॥
कर्पूरतैलं भवति ।
सिक्थच्छादितवृन्तानि घृतक्षौद्रस्थितानि तु ।
बीजापूराणि तिष्ठन्ति रसवर्णयुतानि हि ॥ ५०-२६ ॥
आम्राणि स्ववतीर्णानि किञ्चिद्वृन्तयुतानि तु ।
तैले क्षिपानि सगुले चिरं तिष्ठन्त्यसंशयम् ॥ ५०-२७ ॥
अन्यान्यपि फलानि तथा चिरं तिष्ठन्ति ।
सल्लोणवज्रिक्षीराभ्यां ताम्रपत्राणि लेपयेत् ।
अग्नौ प्रताप्य निर्गुण्डीरसे निर्वाप्य यत्नतः ॥ ५०-२८ ॥
त्रिःसप्तकृत्वो रूप्यादिकरणे विनियोजयेत् ।
गन्धकेन हतं ताम्रं टङ्कणेनोत्थितं पुनः ॥ ५०-२९ ॥
सप्तकृत्वो जहात्येव स्वगन्धं कालिकामपि ।
एवं विशुद्धशुल्बस्य पत्राण्यच्छानि कारयेत् ॥ ५०-३० ॥
शुद्धनागशिलासूतान् सर्पाक्षीतोयपेषितान् ।
आलिप्यालिप्य धर्मे तु शुष्कान् प्रकृतिवासरम् ॥ ५०-३१ ॥
ततः प्रकाशे विद्राव्य गोमयोन्मिश्रकाञ्चिके ।
निषिञ्चेत् सप्तवारं वा तारं भवति योजितैः ॥ ५०-३२ ॥
मासमात्रं नृतोयस्थं सूतं भल्लाततैलतः ।
गृहधूमेन तैलेन गुलेनापि च खल्वके ॥ ५०-३३ ॥
पेषयेत् तेन तारस्य पत्राण्यच्छानि लेपयेत् ।
दत्त्वा पुटत्रयं हेम्ना समं स्यात् काञ्चनं द्रुतम् ॥ ५०-३४ ॥
मुनिपुष्पसलिलपिष्टः सूरणकन्दोदरस्थितो गोष्ठे ।
खातो मासाद् द्रवति श्वेतः कृष्णोऽथवाभ्रको हेम्ना ॥ ५०-३५ ॥
धान्यकृताभ्रं वज्रक्षीरे पिष्टं चं भावितं तस्मिन् ।
सप्ताहादतिधर्मे पात्रे ताम्रेऽथवापि मृत्कॢप्ते ॥ ५०-३६ ॥
रक्तोत्पलस्य नालाद्भिः श्लक्ष्णपिष्टः पयोधरः ।
पश्चात् कुसुम्भतैलेन पिष्टो युक्त्या द्रवत्यसौ ॥ ५०-३७ ॥
क्षीरकाञ्चीरसे पिष्टो द्रवत्यभ्रः सुपेषितः ।
लोहजातं तथा सर्वं द्रवत्येवातपे स्थितम् ॥ ५०-३८ ॥
द्राक् पक्वः खण्डहाल्यास्तु रसे चूर्णीकृतानि तु ।
द्रवन्ति सर्वलोहानि युक्त्या धर्मस्थितानि तु ॥ ५०-३९ ॥
हेमतारारतीक्ष्णानि द्वि(कु?गु)ञ्जासार्धरक्तितः ।
तदर्धपादमानास्तु द्रुता वङ्गे नियोजयेत् ॥ ५०-४० ॥
मुनिपुष्परसे वङ्गं द्रुत प्रकृतिवारकम् ।
निषिञ्चेत् तु शिलाचूर्णं प्रतिवापं विशुद्धये ॥ ५०-४१ ॥
हेमादिकानुक्ताभागान् शुद्धवङ्गोपले क्षिपेत् ।
अन्धीकृत्य द्रुतं स्तम्भयत्येव ।
सूर्यनन्दाश्विभागाः स्युस्तारताम्रत्रपूंषि च ॥ ५०-४२ ॥
आरस्य टङ्कणस्यापि प्रकाशे द्रवयेत् सह ।
निक्षिप्य गोमयाप्सु स्यात् तारं प्रकृतिवारकम् ॥ ५०-४३ ॥
क्षोणीबदरिकामूलं लवणं लघुसिक्थकम् ।
तिलक्षीरिणिकाकृष्णवलयं च पृथक् पृथक् ॥ ५०-४४ ॥
किंशुकाम्भःकुडुबके गोघृतार्धविमिश्रिते ।
सङ्कोचबन्धगुलिकां सहेमां मूकतागताम् ॥ ५०-४५ ॥
अन्धीकृत्य क्रमार्धां तामुद्धृयोक्तरसे क्षिपेत् ।
एवं निर्वाप्य बहुशो जीर्णं भवति वै यदा ॥ ५०-४६ ॥
गुलिकासमरुक्मं तु ततो रात्रिरसे द्रुतम् ।
नागं निषिच्य त्रिष्कृत्वो गुलिकामानमात्रकम् ॥ ५०-४७ ॥
अष्टनिष्के तु तन्नागे क्षिप्तं ताम्रं तु वेधयेत् ।
कर्णिकारप्रसूनानां रसप्रस्थे तु नूतने ॥ ५०-४८ ॥
कांसाख्यं विमलाचूर्णं निष्कमात्रं तु निक्षिपेत् ।
मृद्वग्निना तदग्निस्थं घनतां गते ॥ ५०-४९ ॥
तत्तुल्यं तु शिलाचूर्णं मिश्रीकृत्य तु मर्दयेत् ।
तदवस्थाप्य पात्रे तु सप्तरङ्गादिहेमसु ॥ ५०-५० ॥
निष्कस्य गुञ्जमानेन क्रामणासहितं धमेत् ।
तद् द्राव्यमाणं त्वथ कृष्णलार्धात् सञ्चालयेच्छीतलमुद्धरेच्च ।
तदेकवर्णाधिकतां प्रयाति प्रयत्नहीनं कनकं सुखेन ॥ ५०-५१� ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे मन्त्रपादे नानाद्रव्यपटलः पञ्चाशः ॥ ५० ॥