अथैकोनपञ्चाशः पटलः ।
आरग्वधत्वचा रात्रिं लोणं चिञ्चाफलं तथा ।
शुक्ते पिष्ट्वा हरेत् पीतं गवामुदरबृंहणम् ॥ ४९-१ ॥
क्षीरे पिष्ट्वा तिलान् पाटामूलं कार्पासपत्रयुक् ।
पाययेद् गां तु गोतक्रे गोविषूचीं हरेत् क्षणात् ॥ ४९-२ ॥
नालिकेरजलं क्षीरं काञ्चिकं च बलारसम् ।
पीतं हन्यात् सरुधिरमतिसारकृतं गवाम् ॥ ४९-३ ॥
फणीतकं च निर्गूण्दीं दीप्यकं लशुनं वचाम् ।
काञ्चिके पाययेत् पूयश्लेष्माभेऽतिसृतौ तु गाम् ॥ ४९-४ ॥
सहस्ररश्मिरादित्योऽग्निः ठठ ।
मन्त्रं पत्रे लिखित्वा गो रक्षायै कलयेद् गले ।
अष्ट फणा हरिः पालयति ठठ ।
अश्विनीवृक्षघण्टान्तर्लिखितोऽयं तु गोगले ॥ ४९-५ ॥
बद्धस्तु धातकीरज्ज्वा पीडां गोमारिजां हरेत् ।
नमो भगवते वज्रमुकारदर्शनाय ॐ विल मिलि मेलि सिद्धि
गोमारि! वज्रिणि! हुम्फट् । अस्मिन् ग्रामे गोकुलस्य रक्षां कुरु शान्तिं कुरु ठठ । अयं च मन्त्रः �
घण्टाकर्णरवो येन गणं प्रोक्तो महाबलम् ॥ ४९-६ ॥
मारीनिर्णाशनकरः स नः पातु जगत्पतिः ।
ठठ । अयं च गोमारिहरो मन्त्रः �
अश्विनीवृक्षघण्टान्तः पृथगेतौ बिलिख्य तु ॥ ४९-७ ॥
बद्धौ मारिहरौ (स्यातां) गोद्वयस्य गलद्वये ।
गवामशनयज्ञेन यष्टः कुररवः पुरा ॥ ४९-८ ॥
अनन्या देवदेवस्य वचनानि वटोः स्मर ।
ठठ ।
यत्किञ्चित् सप्तकृत्वस्तु जपितं गां तदाशयेत् ॥ ४९-९ ॥
दुष्टापि वशगा सा स्यात् गिरिकर्णीविशेषतः ।
नमो विष्णवे पुराणाधिपतये ठठ ।
तर्जनीज्येष्ठकाभ्यां तु गृहीत्वा नासिकां तु गोः ॥ ४९-१० ॥
नामयेन्मनुनानेन वश्याः स्युश्च तुरङ्गमाः ।
क्षीरगोपवगोयक्षीरक्षमाक्षक्ऽमाक्षर ॥ ४९-११ ॥
नोमानोगगनोमागोपक्षगत्यत्यगक्षपः ।
रेखाग्रतत्पशुलाढ्ये चतुष्षष्टिपदे त्विमम् ॥ ४९-१२ ॥
विलोमप्रतिलोमाभ्यां सर्वभद्रमनुं लिखेत् ।
खादिरे वापि फलके भूर्जे वा पूजितं ततः ॥ ४९-१३ ॥
गोशालाद्वारदेशे तु बध्नीयाद् गोगलेऽथवा ।
इदमपि गोरक्षाकरं भवति ।
सञ्ज्ञां गोरपि गोमतः सकलशं वृत्तत्रयं बाह्यतः
कुम्भावेष्टितमष्टपत्रकमले वेत्स्यादिमन्त्रं लिखेत् ।
स्वाहान्तं त्वथ वर्तुलं जलभृशूदण्डान्वितौ सान्तरा-
वावेष्ट्याकलयेद् विलोममखिलं तैलादिकं गोगले ॥ ४९-१४ ॥
तैलाभ्यक्तैकवेणीत्रपुमयविलसत्कर्णिकाकान्तकर्णा
लोहेनैकेन कृत्वा चरणनिगलनेनात्मनः पादशोभाम् ।
दिग्वासा रासभेन भ्रमति जगदिदं या जपाकर्णपूरा
मार्जन्यूर्ध्वप्रबद्ध्वजविततभुजा वेत्सि देवि! त्वमेव ॥ ४९-१५ ॥
गोष्ठद्वारे वा निहितं गोरक्षाकरमिति यावत् ।
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे मन्त्रपादे गोरक्षापटल एकोनपञ्चाशः ॥ ४९ ॥