अथाष्टचत्वारिंशः पटलः ।
अथ संवननाकृष्टिविषये किञ्चिदुच्यते ।
दीर्घं कूर्मं कर्णिविषं सोष्ठोमाकान्तदारुकः ॥ ४८-१ ॥
अमुकं दहवीप्सान्तं पचशब्दो ममेति च ।
वशमानय चाग्नेऽष्टौ विकृत्यर्णो मनुः स्मृतः ॥ ४८-२ ॥
त्रिसङ्ख्यं गुरुसङ्ख्यं तु जपेद् गुरुदिनानि तु ।
सन्ध्यायां शुक्तलवणं सक्षौद्रं वशकृद्धुतम् ॥ ४८-३ ॥
काफुण्डेणिषिणि काफुण्डालि अमुकं दह पच शीघ्रं वशमानय ठठ ।
सकार्पासास्थिलवणदन्तकाष्थाङ्घ्रिपांसुभिः ।
अनेन सन्ध्याहोमेन सप्तरात्राद् वशीकरम् ॥ ४८-४ ॥
नमः कृष्णाय यक्षाय णाविरि णाविरि चल विचले चित्ते रेतो मोचय ठठ ।
अश्वारिकुसुमं रक्तं सप्तवारजपात् पुरः ।
यस्यास्तु भ्रमयेत् सास्य वश्या स्यात् क्षरति ध्रुवम् ॥ ४८-५ ॥
यक्षाणां नमः । असमे कुसुमे ठठ ।
एतत्सप्तजपात् पुष्पं दत्तं वश्याय वा फलम् ।
चौष्पत्राम्बुजं भूर्जे रोचनाचन्दनार्पितम् ॥ ४८-६ ॥
सनामकर्णिकं पत्रचतुष्कलिखिताङ्कुशम् ।
आज्यस्थमर्चयेत् पुंस्त्रीवश्यमाकर्षयेदपि ॥ ४८-७ ॥
साग्निः साख्योऽर्धनारीशः साङ्घ्रिदण्डी तु वाससी ।
चिताङ्गारेण लिखितं योनिस्थः साध्यवश्यकृत् ॥ ४८-८ ॥
वृषमेषौ दृशा युक्तौ दीर्घस्य ब्राह्मणोऽन्तगौ ।
मनोरञ्जनि ठद्वन्द्वं दशार्णो वश्यकृन्मनुः ॥ ४८-९ ॥
लिखेद् वामतले लाक्षारसेनाष्टदलाम्बुजे ।
पत्रस्थमन्त्रं वश्याय दर्शयेद्धृदि वा न्यसेत् ॥ ४८-१० ॥
मन्त्रं लिखित्वा वश्यादौ जपेदायाति काङ्क्षिता ।
जपित्वानेन दधिजं योनौ विन्यस्य तज्जपात् ॥ ४८-११ ॥
तेनाज्येन मषी कॢप्ता नेत्रस्था भर्तृरञ्जिनी ।
अथात्र सर्ववश्यानां मुख्यो लवणसञ्ज्ञितः ॥ ४८-१२ ॥
मन्त्रो ह्याथवणोऽम्यर्षिर्वरुणो लवणोऽङ्गिराः ।
छन्दोऽनुष्टुब् महारात्रिर्भद्रकाली च देवता ॥ ४८-१३ ॥
अग्निरित्यपरे प्राहुर्ध्यानं च द्विविधं स्मृतम् ।
काली कालघनोपमा त्रिणयना शूलासिखट्वाङ्गकान्
नागं दक्षिणतोऽन्यतो डमरुकं मुण्डं च खेटं करैः ।
बिभ्राणास्रकपालकं विलसन्द्दंष्ट्राहिभूषोज्ज्वला
ध्येया पिङ्गकपर्दसद्भटशिरोमाला सुनीलाम्बरा ॥ ४८-१४ ॥
अग्निश्च,
त्रिलोचनो मेषगतः कपर्दी स्रुवं च शक्तिं वरदाभये च ।
भुजैर्दधत् कुङ्कुमपिङ्गवर्णो विभूषितोऽग्निर्धवलाम्बराद्यैः ॥ ४८-१५ ॥
मांसकुम्भावुमाकान्तो दीर्घोऽनुस्वारभूषितः ॥ ४८-१६ ॥
भसि तीक्ष्णोऽस्युग्रोऽपि हृदयं तव लवणस्य पृथिवी माता लवणस्य वरुणः पिता ।
लवणे हूयमाने तु कुतो निद्रा कुतो रतिः ।
लवणं पचति पाचयति लवणं छिन्दति भिन्दति ।
अमुक्तं दह गात्राणि दह मांसं दह त्वचम् ॥ ४८-१७ ॥
दह त्वचास्थिमज्जानि अस्थिभ्यो मज्जकां दह ।
यदि वसति योजनशतं नदीनां वसतेऽन्तरे ॥ ४८-१८ ॥
नगरे लोहप्राकारे कृष्णसर्पशतार्गले ।
स दग्ध्वानयते शीघ्रमग्नेर्लवणस्य तेजसा ॥ ४८-१९ ॥
अत्रैव वशमायाति लोणमन्त्रपुरस्कृतम् ।
या रात्रिः शल्यमुद्धृत्य शूलाग्रारोपितस्य च ॥ ४८-२० ॥
या ते रात्रिर्महारात्रिः सा ते रात्रिर्महानिशा ।
चिटि! चण्डालि! महाचण्डालि! अमुकं वशमानय ठठ ।
ध्यायन् जपेत् सहस्रं यस्तस्य विश्वं वशे भवेत् ॥ ४८-२१ ॥
जानुमात्रजले रात्रौ भद्रकालीं स्मरन् जपेत् ।
यमुद्दिश्य स वश्यः स्यात् सहस्रमथ वा शतम् ॥ ४८-२२ ॥
रक्तस्रग्गन्धकुसुमैर्देवीमग्निं च पूजयेत् ।
साध्यनामविदर्भं तु तालपत्रे लिखेज्जपेत् ॥ ४८-२३ ॥
सहस्रं तत्तु निखनेद् भद्रकालीगृहे यदि ।
साध्यो वश्यो भवेत् तस्य यावज्जीवमसंशयः ॥ ४८-२४ ॥
साध्यर्क्षवृक्षफलके समासीनस्तु वाग्यतः ।
कृष्णाष्टम्यां निशायां तु यामादूर्ध्वमुदङ्मुखः ॥ ४८-२५ ॥
रक्तगन्धाम्बरधरः कुण्डे वा स्थण्डिलेऽथवा ।
इष्ट्वाग्निमग्नेः प्राग्भागे भद्रकाली तु पूजयेत् ॥ ४८-२६ ॥
रक्तवस्त्रेऽच्छलवणनिर्मितां साध्यपुत्तलीम् ।
सजीवनामहृदयां सप्राणेन्दियसन्निधिम् ॥ ४८-२७ ॥
क्षौद्रसिक्तामग्निमुखाद् व्यागृत्या जुहुयात् परम् ।
आवाह्याग्नौ भद्रकालीमाराध्य ध्यानमास्थितः ॥ ४८-२८ ॥
वामपादं समारभ्य यावद्वामकरान्तकम् ।
विभज्य तां तु जुहुयाद् यावदाहुतिसप्तकम् ॥ ४८-२९ ॥
आज्यं व्याहृतिभिर्हुत्वा भूतक्रूरेण वै बलिम् ।
तिलराजिनिशासक्तुदधिमिश्रौदनं क्षिपेत् ॥ ४८-३० ॥
णफो णफो कालरात्रिगणेभ्यः सर्ववश्यकरेभ्यः सर्वशान्तिकरेभ्यः । प्रतिगृह्णन्तु सर्ववश्याय सर्वशान्तये बलिमिमं ठठ ।
पश्चात् साध्यस्य हृदयं मन्त्रेण स्वहृदि न्यसेत् ।
स एवाहमिति स्मृत्वा जपेत् सप्तत्रिवारकम् ॥ ४८-३१ ॥
अग्निं चैव महारात्रिनुद्वास्य तु समापयेत् ।
कृष्णाष्टमीं समारभ्य यावत् कृष्णचतुर्दशी ॥ ४८-३२ ॥
तावल्लवणहोमं तु कृत्वा सर्वं वशं नयेत् ।
साध्यो दद्याच्च सर्वस्वं दासवन्नात्र संशयः ॥ ४८-३३ ॥
आस्यदघ्नजले स्थित्वा सहस्रावृत्ति कर्षणम् ।
मुक्तपुष्पसहस्रेण प्रत्येकं तत्पदे क्षिपेत् ॥ ४८-३४ ॥
जपित्वा भद्रकालास्तु साध्याकृष्टिकरं परम् ।
तालपत्रे लिखेन्मन्त्रं साध्यनामविदर्भितम् ॥ ४८-३५ ॥
साज्यक्षीराम्भसि क्वाथ्य जपन्नाकर्षयेज्जनम् ।
नास्यास्ति हि पुरश्चर्या नोपवासादिकाः क्रियाः ॥ ४८-३६ ॥
गृहीत एव फलति जपध्यानादियोगतः ।
लवणमन्त्राधिकारः ।
पाषढी सदृग्वल्कौ क्लिन्ने भान्तोऽत्रिणा द्रवे ॥ ४८-३७ ॥
हृदयं च सदाक्लिन्ना जपाद्यैः सर्ववश्यकृत् ।
नित्य यै हुम्फट् । नित्यायै ठठ । नित्यक्लिन्ने हुम् । नित्यक्लिन्ने नमः ठठ ।
यमालोक्य जपेद् विद्यां सा क्षरेद् वशगा तथा ॥ ४८-३८ ॥
तज्जापजलपानेन गन्धाद्यालेपनेन च ।
कुसुमादिप्रदानेन वशयेदखिलं जनम् ॥ ४८-३९ ॥
देवश्रीमुखश्रीयक्षि! पद्मावति! अमुक्तं मे वशमानय ठठ ।
नक्षत्रफलकायुग्मं माहेन्द्रमनुनामयुक् ।
स्वीयं परोपरि न्यस्तं गुप्तं सम्यग् वशीकरम् ॥ ४८-४० ॥
नमो मातङ्गानाम् । नमो मातङ्गीनाम् । नमो मातङ्गकुमारिकाणाम् । तद्यथा कुरु चुरु ठठ ।
वाल्मीकपुत्तलीं साख्याशिरस प्राणसंयुताम् ।
जपेदाक्रम्य पादेन त्रिसन्ध्यं तद्वशीकरम् ॥ ४८-४१ ॥
दक्षिणेतरपादाभ्यां पुंस्त्रीवशकरं क्रमात् ।
सप्तदिनमिति यावत् ।
पाशशक्त्यङ्कुशाद्युक्तां जपेत् स्वैक्यमुमां स्मरन् ॥ ४८-४२ ॥
नियुतं स वशे विश्वं जपाद्यैः कुरुते स्फुटम् ।
हृद्दीर्घवेधा कालश्च धेहा शलर्व गणध प्रियाय सर्वजनसम्मोहनाय ज्वल प्रज्वल सर्वजनस्य हृदयं मम वशं कुरु ठठ ।
अयं मन्मथमन्त्रस्तु स्वैक्यं ध्यात्वा तु मन्मथम् ॥ ४८-४३ ॥
रक्ताकल्पं सुरक्ताङ्गं मनसेष्ट्वा जपेन्मनुम् ।
सर्वसंवननो ह्येष जपहोमादिसाधितः ॥ ४८-४४ ॥
सगन्धपुष्पैरपरेद्युरायसं निधाय चालोहिततन्तुवेष्टितम् ।
सितार्कमर्काभ्युदये तु तच्छिफा हृता तया स्यात् तिलकं वशीकरम् ॥ ४८-४५ ॥
हेमपञ्चाङ्गचूर्णाढ्यवर्त्त्या साधितकज्जलम् ।
नेत्राधिभियुक्तं वशयेत् पूरुषानपि योषिता ॥ ४८-४६ ॥
चन्दनागरुकर्पूरकाश्मीरोत्पलकेसराः ।
मासीलवङ्केभमदयष्टिभिः समभागिकैः ॥ ४८-४७ ॥
आलक्तके कृष्णपशोर्मष्याद्यैरखिलवश्यदा (?) ।
रोचनातालकशिलापद्माद्यरुणचन्दनम् ॥ ४८-४८ ॥
कर्णिकारस्य निर्यासं क्रौञ्चपारावतीशकृत् ।
किराततिक्तभृङ्गेन्द्रभीता वटशिफाङ्कुराः ॥ ४८-४९ ॥
दुग्धस्नुहित्वक् शशविट् पुराण तिन्त्रिणीफलम् ।
करञ्जबीजं लशुनं समान्येतानि चूर्णयेत् ॥ ४८-५० ॥
अलक्तके विश्ववृक्षफलतोयविभाजिते ।
पञ्चगव्येन तच्चूर्णं सिक्तं मूर्ध्निं विनिक्षिपेत् ॥ ४८-५१ ॥
कृत्वा वर्ति तु मध्वाज्यनिम्बतैले कृता मषी ।
मदेनेभस्य संलिप्ते शरावे लोकरञ्जनी ॥ ४८-५२ ॥
आत्मपञ्चाङ्गसम्मिश्रं पञ्चाङ्गं कनकस्य तु ।
मधुना पेषितं दद्यादुपयुक्तं वशीकरम् ॥ ४८-५३ ॥
सैन्धवं मातुलुङ्गाम्ले क्षिप्त्वा कायाम्बुसेचितम् ।
सप्ताहं तन्निशायां तु सम्पुटे तु शरावयोः ॥ ४८-५४ ॥
चतुष्पथे दिग्वसनः काष्ठैर्धूर्धूरकैः पचेत् ।
येभ्यस्तद् दीयते लोणं ते वश्या यावदायुषम् ॥ ४८-५५ ॥
कुष्ठं पुन्नागनिर्यासं सिंहीमूलं मधुप्लुतम् ।
पिष्ट्वालिप्य व्रजेद् योषां भार्गवस्तम्भनं स्मृतम् ॥ ४८-५६ ॥
गव्याजस्नुहिदुग्धानां तत्स्तम्भः पादलेपनात् ।
श्वेतपुङ्खेक्षुमूले तु मुखे विन्यस्य काञ्चिके ॥ ४८-५७ ॥
तत् पिष्ट्वा मेढ्रमालिप्य काव्यस्तम्भनमुत्तमम् ।
लम्बितध्वजयोरश्वगजयोर्मुखरोमभिः ॥ ४८-५८ ॥
तथा वृषस्य लाङ्गूलं मुखरोमणि चाहरेत् ।
रज्जुं तैर्वलयाकारां कृत्वा मन्त्रेण मन्त्रितम् ॥ ४८-५९ ॥
प्रकोष्ठे दक्षिणे क्षिप्त्वा रतिः काव्यनिवारणा ।
गजाश्वप्रवराणां रोमबन्धनाय ।
दन्तीमूलं स्नुहिक्षीरे पिष्ट्वा पादौ प्रलेपयेत् ॥ ४८-६० ॥
पादलेपेन काव्यस्य स्तम्भः स्यात् क्षालने पतेत् ।
उष्णाम्भसेति यावत् ।
मत्स्यपित्तं तुरङ्गस्य केसरः करिणो मदः ॥ ४८-६१ ॥
मधुना ध्वजमालिप्य योषासंवननं परम् ।
विलङ्गं तिलपुष्पाणि गुलं कर्पूरचन्दने ॥ ४८-६२ ॥
स्वभार्गवेण लेपोऽयं योषासंवननं परम् ।
मांसी वचाश्वगन्धा च कुन्दं च वकुलं तथा ॥ ४८-६३ ॥
अम्भःपिष्टं तदुद्वर्त्य स्थौल्यं प्रजननो व्रजेत् ।
जातिपुष्पैः पचेत् तैलं तल्लेपात् सुभगो भवेत् ॥ ४८-६४ ॥
धुर्धूरबृहतीपत्रे गात्रमुद्वर्त्य वश्यदम् ।
धुर्धूरपत्ररात्रिभ्यां वश्यमुद्वर्तनं तथा ॥ ४८-६५ ॥
निर्यासं कर्णिकारस्य कर्पूरं केतकीरजः ।
सिन्धूत्थक्षौद्रयुग्लेपो ध्वजस्य मरणान्तिकः ॥ ४८-६६ ॥
बैल्वं च पुष्पं सघृतं च पद्मं जातिप्रियङ्गुं पशुरोचनाभिः ।
तद्वर्तिगव्याज्यमषीं दृशोऽञ्जेद् यं यं जनं पश्यति सोऽस्य दासः ॥ ४८-६७ ॥
कुष्ठं कुरण्डं मधुकागरू द्वे कस्तूरिकाचन्दनमिन्दुयुक्तम् ।
आलेपितं गोमयवारिपिष्टं स्पृष्टं कराभ्यां वशयेत् समस्तम् ॥ ४८-६८ ॥
तैलं वार्ताकतोयं च वृषस्नेहेन संयुतम् ।
पिष्टं कृत्वा समालिप्य पुनः कन्या भविष्यति ॥ ४८-६९ ॥
आरवारादि कारञ्जं दन्तकाष्ठं तु भक्षयेत् ।
सप्ताहं लीढमादाय खाने दद्याद् वशीकरम्(?) ॥ ४८-७० ॥
पारावतशकृच्छुण्ठीकुष्ठोग्राञ्जनरोचनाः ।
मधुना पेषिता लिप्ता ध्वजे योषिद्वशीकराः ॥ ४८-७१ ॥
तारं च देवि! मातङ्गि! रुद्रभोगसुभगधारिणि! नमस्ते ठठ । लेपमन्त्रोऽयमीरितः ।
पद्मपत्राणि सञ्चूर्ण्य कपिलामूत्रतो गुलीम् ।
विशोष्यालिप्य गात्रं स्त्री पतिं दासं करिष्यति ॥ ४८-७२ ॥
द्राक्षां च यष्टिमधुकमपुष्पा पयसा पिबेत् ।
पुष्पिता स्यात् तथा चूतत्वग्रसस्य च नावनात् ॥ ४८-७३ ॥
कृष्णरम्भामूलचूर्णं यष्टिचूर्णं च गोपयः ।
प्रातः पीतं तु नारीणां रक्तस्रावं विनश्यति ॥ ४८-७४ ॥
अक्षमात्रं तु पयसा गैरिकं त्रिदिनं पिबेत् ।
रक्तस्रुतिं हरेत् क्षौद्रं तथोदुम्बरपल्लवैः ॥ ४८-७५ ॥
मृणालं चन्दनं छिन्ना भीरुचिल्लीसुधामधु ।
उदुम्बराङ्कुरैः पीतमसृग्दरनिवारणम् ॥ ४८-७६ ॥
रक्तशुक्लजपापुष्पं रक्तशुक्लस्रुतौ पिबेत् ।
क्षीरेण काल्यं तन्मूलं तत्क्वाथं पयसा निशि ॥ ४८-७७ ॥
नालिकेरस्य कुसुमं मृदावेष्यग्निना दहेत् ।
तद्रसः पयसा पीतं शुक्लस्रावनिवारणः ॥ ४८-७८ ॥
पुष्पाणि शल्मलीक्षीरे ऋतौ पीत्वा चतुर्दिनम् ।
वन्ध्या स्यादभयाव्योषे पीत्वावन्ध्यैव जायते ॥ ४८-७९ ॥
दुग्धे नाकुलिपुष्पाणां पानं स्त्रीपुष्पनाशनम् ।
कुक्कुटाण्डं द्विकाण्डं च ब्रह्मी पारावतस्य विट् ॥ ४८-८० ॥
लक्ष्मीं च तुल्यं सञ्चुर्ण्य दद्याद् दासः पतिर्भवेत् ।
हेमोन्मत्तस्य पञ्चाङ्गक्वाथे क्षीरोदधीकृते ॥ ४८-८१ ॥
तत्सारेणाङ्गमालिप्य माषैरुद्वर्त्य तत् पुनः ।
पक्षिप्य तत् फलस्यान्तः खनित्वा तत्र मेहयेत् ॥ ४८-८२ ॥
सप्ताहादुद्धृतं पञ्चमलैः संयोज्य दापयेत् ।
एतत् संवननं श्रेष्ठं मन्मथाङ्कुशमीरितम् ॥ ४८-८३ ॥
स्वरक्तं काव्यकिट्टानि श्वेतभानुशिफा मधु ।
वचाकुष्ठयुतं दत्तं पुम्भिर्योषावशीकरम् ॥ ४८-८४ ॥
पीत्वोद्गीर्णेन दुग्धेन कूश्माण्डधि तत् पुनः ।
मथित्वा नवनीतं च व्यञ्जनं च वशीकरम् ॥ ४८-८५ ॥
भूकदम्बरसं क्षौद्रं शर्करां च प्रलेपयेत् ।
योषावराङ्गं तस्यास्तु पतिर्दासो भविष्यति ॥ ४८-८६ ॥
कक्षाङ्गश्रोत्रनासादृग्दन्तजिह्वोद्भवानि च ।
स्वेदात्मतोययुक्तानि द्वयोर्भुक्त्वा वशीकरम् ॥ ४८-८७ ॥
कस्तूरिकाचन्दनचन्द्रकुष्ठकाश्मीरकालागरुनक्तमालान् ।
कामाह्वयं गोमयवारिपिष्टान् स्वाङ्गं समालिप्य समस्तवश्यम् ॥ ४८-८८ ॥
कस्तूरिकाचन्दनयोः क्रमात् द्वे दानलाश्विनाम् (?) ।
इन्दोश्च भागा नीहारपिष्टा लिप्ता वशीकराः ॥ ४८-८९ ॥
सप्तधा गोमयाम्भोभिः सिक्ताः वर्तिर्वटाङ्कुरैः ।
चूर्णीकृतैः कलाज्येन कज्जलं सर्ववश्यकृत्(?) ॥ ४८-९० ॥
काश्मीरामयरोचनाञ्जनमदैः पाद्मं रजः पद्मकं
कर्पूरागरुलोहचन्दनयुगं सर्वं समं चूर्णितम् ।
क्षीरे क्षीरमहीरुहां स्नपितयालक्त * वर्त्त्या वृतं
कृष्णायाः सुरभेर्घृते कृतमषी त्रैलोक्यवश्यप्रदा ॥ ४८-९१ ॥
लक्ष्मीः श्रीः कुमुदं देवी हेम पारावतस्य विट् ।
गुलीकृता मलयजपङ्कोन्मिश्रा वशङ्करी ॥ ४८-९२ ॥
कुष्ठश्चेतार्कमञ्जिष्ठातगरारुणचन्दनैः ।
पुण्ड्रक्रिया जगद् वश्यं करोत्यखिलमोहिनी ॥ ४८-९३ ॥
मांसी चन्दनरोचना करिमदो नीलोत्पलस्पृक्कया
जातित्वक्सुरदारुपत्रतगराण्येला शिला कुङ्कुमम् ।
पद्मं केसरपद्मकृष्णतुलसीसिद्धार्थकैः सम्मितैः
पुष्येन्दावुदये विधोर्हिमजलैः सत्कन्यया पेषयेत् ॥ ४८-९४ ॥
तेन स्यात् तिलकालेपः श्रीकरं च वशीकरम् ।
कुष्ठकेसरसिन्धूत्थनतायश्चन्दनेन्दवः ॥ ४८-९५ ॥
एलाश्च कुङ्कुमं त्वेतैस्तुल्यं वशकृदञ्जनम् ।
पौर्णमास्यां तु सन्ध्यायां प्राचीनं मण्डलत्रयम् ॥ ४८-९६ ॥
वृत्तं कृत्वाष्यबिम्बे तु सूपविष्टस्तु वाग्यतः ।
पूजाद्रव्याणि मध्यस्थे बिम्बे विन्यस्य पूर्वतः ॥ ४८-९७ ॥
पूजयेत् पद्ममध्यस्थं शुक्लाकल्पविभूषितम् ।
कन्यकाङ्कगतं सौम्यं कुमुदद्वयपाणिनम् ॥ ४८-९८ ॥
ससद्यदण्डं शुक्लं तु सोमाय नम इत्यपि ।
मन्त्रोऽनेन यजेत् सोमं गन्धाद्यरुपचारकैः ॥ ४८-९९ ॥
रोहिणीं रेवतीं रात्रिं ज्योत्स्नां दिग्दलगाः क्रमात् ।
कृत्तिकां भरणीमार्द्रां कलां चाग्न्यादिकोणगाः ॥ ४८-१०० ॥
नैवेद्यान्तं समाराध्य क्षीरमापूर्य राजतम् ।
विद्यामन्त्रेण चषकं चन्द्रायार्घ्यं निवेदयेत् ॥ ४८-१०१ ॥
ॐ विद्ये! विद्यामालिनि! चन्द्रिणि! चन्द्रमुखि! स्वाहा इत्ययं विद्यामन्त्रः ।
इत्थं मासत्रयं दद्यादर्घ्यं कन्या प्रदीयते ।
काफुण्डे चालि चालि कुमार्गे भगं मे प्रयच्छ ठठ ।
कृष्णाष्टम्यादितो मन्त्रमयुतं प्रतिवासरम् ॥ ४८-१०२ ॥
चतुर्दश्यन्तमभ्यस्य सिद्धमन्त्रस्ततो निशि ।
सदधिव्यञ्जनान्नस्य पिण्डं प्रकृतिजापतः ।
दद्यान्मासं विवाहार्थमिष्टां कन्यां स विन्दति ॥ ४८-१०३ ॥
कुष्ठं बृहत्यपामार्गं सिद्धार्थांस्तगरं क्षणात् ।
व्योषं समानीक्षीरेण लिम्पेत् कुचविवर्धनम् ॥ ४८-१०४ ॥
कर्णपाल्योश्च ।
एवम्प्रकारा बहुतन्त्रसिद्धाः प्रर्शिताः संवननाधिकाराः ।
तत्तत्प्रयोगा निपुणैर्यथावदतन्द्रितैरादरतः प्रयोज्याः ॥ ४८-१०५ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे मन्त्रपादे संवननपटलोऽष्टचत्वारि।शः ॥ ४८ ॥