४७

अथ सप्तचत्वारिंशः पटलः ।

अथाभिचाराः शत्रूणां धर्मवेदद्रुहां स्मृताः ।
ते च सप्तविधाः स्तम्भविद्वेषोच्चाटमारणैः ॥ ४७-१ ॥

भ्रान्त्युत्सादनयोगश्च यन्त्रमन्त्रहुतादिभिः ।
सिध्यन्त्यौषधयोगैश्च तत्तत्तन्त्रनिदर्शनात् ॥ ४७-२ ॥

प्रागेव कथितास्त्वस्मिन् ग्रन्थे गाणपतादिषु ।
त्रिष्टुवादिषु दौर्गेषु शक्त्यघोरास्त्रयोरपि ॥ ४७-३ ॥

वैष्णवेषु नृसिंहादिकल्पेषु पृथगीरिताः ।
ते चाभिचर्याविषये विनियोज्या विजानता ॥ ४७-४ ॥

धर्मसंरक्षणार्थाय लिख्यन्ते ये न दर्शिताः ।
वैभीतफलकामध्ये क्रोधं गैरिकया लिखेत् ॥ ४७-५ ॥

मध्ये भान्तविदर्भाख्यां क्षेऽथ मांसाष्टकं बहिः ।
बाह्येष्टवज्रं माहेन्द्रं लिखेद् वासुकिना ततः ॥ ४७-६ ॥

शङ्खपालेन चावेष्ट्य नाम वक्त्रे तयोर्लिखेत् ।
निर्माल्ये निखनेत् तां तु शिलां चोपरि निक्षिपेत् ॥ ४७-७ ॥

परसैन्यादिकानां तु स्तम्भनं तदुदाहृतम् ।
मध्येऽब्जस्याह्वयं वर्म कवचं दिग्दलेष्वपि ॥ ४७-८ ॥

कोणे च भूमिं पञ्चान्तः साष्टदिग्वज्रभूगृहम् ।
तत्सूचिषु लिखेद् वर्म बहिर्वारुणमण्डलम् ॥ ४७-९ ॥

हरिद्राविघ्नक्रोडस्थं पीतद्रव्यार्चितं न्यसेत् ।
प्राग्वत् संस्तम्भनमिदं परचक्रादिविद्विषाम् ॥ ४७-१० ॥

यमराजसदोमेययमोयोरुणयोदय ।
दययोनिरयक्षेययक्षेशश्च निरामयः ॥ ४७-११ ॥

ॐ ह्रीं विकृताननाय हुम्फट् स्वाहा ।

मन्त्रो द्वादशवर्णोऽयं यमस्य समुदीरितः ।

ॐ ह्रीं कृष्णवर्णाय ॐ विकृताननाय ॐ नववक्त्राय पिङ्गलजटामकुटधारिणे ॐ हुं सहस्रादित्योदय प्रभाय ॐ ह्रीं त्रिणेत्राय नेत्रत्रयाय वौषट् । ॐ ह्रीं विकृताननाय हुम्फट् । अस्त्रम् ।

यमान्तकस्य मन्त्रस्य षडङ्गानि स्वजातिभिः ॥ ४७-१२ ॥

ॐ धूमान्धकाराय ठठ । इति यममन्त्रः । स्वयमेवाङ्गानि ।

वर्तुलत्रितये मध्ये दक्षिणोत्तरसंस्थितम् ।
रेखाद्वयं विलिख्याथ पूर्वपश्चिमतस्तथा ॥ ४७-१३ ॥

दक्षिणोत्तरयोर्लेख्यं शिरसी महिषाश्वयोः ।
कोणेषु रेखा चैकैका शूलान्यग्रेषु वै लिखेत् ॥ ४७-१४ ॥

रेखाग्रेष्विति यावत् ।

चिताङ्गाराक्षनिम्बाद्भिर्विलिखेच्छवकर्पटे ।
प्रथमे वर्तुले तत्र लिखेदक्षरपञ्चकम् ॥ ४७-१५ ॥

मध्यप्रागाप्ययाम्योदक्कोष्ठेष्वक्षरपञ्चकम् ।
क्रमेण यममेदक्षे नामकर्म च मध्यगम् ॥ ४७-१६ ॥

द्वितीये वर्तुले पूर्वयाम्याप्योत्तरकोष्ठगान् ।
रादोयोयेति संलिख्य ततः कोष्ठचतुष्टये ॥ ४७-१७ ॥

कोष्ठद्वयेषु विलिखेज्जङ्घारुण निरावर ।
निरकरणानिदनिरक्षोऽनिलेशगान् (?) ॥ ४७-१८ ॥

पुनरन्तःस्थशूलानां पार्श्वकोष्ठाष्टकेषु वै ।
यमाष्टाक्षरमालिख्य पुनस्तद्द्वादशाक्षरम् ॥ ४७-१९ ॥

अन्तर्बहिःस्थशूलाग्रसूचिकासु लिखेदपि ।
यमान्तकं दलाग्रेषु नेमिबाह्ये दलेषु तत् ॥ ४७-२० ॥

एतदारभ्य यन्त्रं तु सम्पुटे तु शरावयोः ।
स्निग्धयोर्मध्यतो गच्छेत् श्मशानादौ खनेच्च तत् ॥ ४७-२१ ॥

बलिं च निक्षिपेत् पूर्वं द्रव्यैरेतैर्यमाय तु ।
पयोदध्योदनै रात्रिर्मध्वाज्यं मुद्गमाषकौ ॥ ४७-२२ ॥

मोदकं सक्तुलाजांश्च सर्वान् प्रागीशगोचरे ।

द्वादशाक्षरेण यमान्तकवक्त्रेषु नवकृत्वः क्षिपेत् ।

लोकेशेभ्यश्च कौबेर्यां यक्षेभ्यश्चाथ नैर्-ऋते ॥ ४७-२३ ॥

राक्षसेभ्यश्च सर्वासु भूतेभ्यो दिक्षु निक्षिपेत् ।
चक्रस्य दक्षिणे स्वीयैर्नामभिः प्रक्षिपेद् बलिम् ॥ ४७-२४ ॥

यमराजश्च कालश्च यमो वैवस्वतस्तथा ।
शान्तश्च प्रेतराजश्च मृत्युरन्तक एव च ॥ ४७-२५ ॥

कृतान्तो धर्मराजश्च यमनामानि वै दश ।
एभिर्नमोन्तैः स्वार्णाद्यं यममन्त्रैर्बलिं हरेत् ॥ ४७-२६ ॥

ततो विघ्नादिमातृभ्यो वीरभद्राय च क्षिपेत् ।
लोकैशेभ्यश्च कौबेर्यां यक्षेभ्यश्चाथ नैर्-ऋते ॥ ४७-२७ ॥

राक्षसेभ्यश्च सर्वासु भूतेभ्यो दिक्षु निक्षिपेत् ।
ह्रस्वा शक्तिश्च खं साग्निर्बिन्दुसर्गयुतो मनुः ॥ ४७-२८ ॥

शरावयोर्लिखेदेतत् साध्याख्याभ्यां विदर्भितः ।
इष्टमेकं लिखेत् स्वर्णलेखिन्या रोचनारसैः ॥ ४७-२९ ॥

श्मशानमषिसिक्तेन काकपक्षेण चापरम् ।
वद्यास्तु तीरयोस्तौ तु निखनेद् द्वेषकृन्मिथः ॥ ४७-३० ॥

धर्मटिके धर्मटिके घोरे विद्वेषिणि विद्वेषकारिणि घोराघोरयोरमुकामुकयोः काकोलूकादिकृतपुंसोलूकपक्षाभ्यां पाणिभ्यां तर्पयेदपि । विद्वेषणम् ।

साध्याख्यां च विदर्भां च धर्मवायुगृहे लिखेत् ।
अष्टदिक्ष्वनिलः सर्गी स्यादक्षफलके ततः ॥ ४७-३१ ॥

पुनः पुनर्धर्मटिकया लिखित्वा मार्जयेच्च तत् ।
तच्चूर्णं (शत्रु?) शिरसि न्यस्तं शत्रोरुच्चाटकारकम् ॥ ४७-३२ ॥

धुर्धूराम्भोमषियुतं श्मशानध्वजकर्पटे ।
पूर्वोक्तयन्त्रमालिख्य कृष्णसूत्राभिवेष्टितम् ॥ ४७-३३ ॥

काकानने तन्निक्षिप्य शत्रुसैन्ये विसर्जयेत् ।

सेनोच्चाटनं भवति ।

श्मशान वस्त्रे तद्भस्म काकपक्षाहिचर्मयुक् ॥ ४७-३४ ॥

रक्ततन्तुर्वृतं न्यस्तमुच्चाटनकरं परम् ।
चिताभस्म नरस्यास्थि ब्रह्मदण्डीयुतं खनेत् ॥ ४७-३५ ॥

काकपक्षं नरस्यास्थि राजीवोच्चाटनं द्वयम् ।
अश्विकीलं त्रियश्रं तु दुर्गाबीजयुतं खनेत् ॥ ४७-३६ ॥

शत्रुपादे गृहे वापि भवेदुत्सादनं रिपोः ।
परिद्वन्द्वं च वर्मान्ते स्वाहान्तं मनुनामुना ॥ ४७-३७ ॥

निम्बकीलं विशाखायां स्वनेदुत्सादनं गृहे ।
निम्बस्थवायसगृहं दग्ध्वा तु चितिकानले ॥ ४७-३८ ॥

तद्भस्म द्वारि विन्यस्तं गृहोत्सादनमावहेत् ।
तदेव शिरसि क्षिप्तं विद्वेषोच्चाटकारकम् ॥ ४७-३९ ॥

नमो भगवतोन्मत्त षुद्राश। भ्रम भ्रमय अमुकं वित्रासय उद्भ्रमय रुद्र! रौद्रेण रूपेण हुम्फट् ठठ ।

ऋषिः स्यादस्य कैवर्तः ककुप् छन्दोऽस्य देवता ।
रुद्रः कृष्णाष्टमीम्पूर्वं जपेद् यावच्चतुर्दशी ॥ ४७-४० ॥

रात्रौ त्रिलक्षं सञ्जप्य श्मशाने तत्र होमतः ।
धुर्धूरसमिधां शत्रून् भ्रमत्येवाष्टभिर्दिनैः ॥ ४७-४१ ॥

हेमगैरिकजां शत्रोः पुत्तलीं हेमसूचिभिः ।
मध्ये प्रतिष्ठितप्राणां सद्यः शत्रुर्मरिष्यति ॥ ४७-४२ ॥

कालदष्टे भयकारि दर मर्द संहर हुम्फट् ठठ । कालदष्टे ठठ । भयकारि ठठ । दर मर्द ठठ । संहर ठठ । हुम्फट् ठठ ।

कुचकोऽस्य ऋषिश्छन्दो निचृद् दैवं यमः स्वयम् ।
कृष्णाष्टम्यां चतुर्दश्यां शिवमिष्ट्वा पयोव्रतः ॥ ४७-४३ ॥

पञ्चलक्षं जपित्वा तु सिद्धमन्त्रो भवेत् ततः ।
नाभिमात्रे जले स्थित्वा पटेनार्द्रेण विग्रहम् ॥ ४७-४४ ॥

विधाय सशिरोजापात् पक्षाच्छत्रुर्मरिष्यति ।
दृढकण्ठि! विरूपाक्षि! सङ्क्षाणि! स्वं महोदरि ॥ ४७-४५ ॥

हन शत्रुं त्रिशूलेन क्रुद्धस्य पिब शोणितम् ।

दह पच मथ मारय शोषय उत्सादय नाशय हुम्फट् ठठ । अस्याङ्गानि । सञ्जीवनि ! ऊर्ध्वकेशिनि! प्रज्वलितशिखे! मायात्रैलोक्यस्वरूपिणि! सहस्रपरिवर्तिनि! तारकाक्षिमारिणि ! ।

एतानि जातियुक्तानि षडङ्गानि यथाक्रमम् ॥ ४७-४६ ॥

ऋषिस्तु पिप्पलादोऽस्य निवृच्छन्दस्तु देवता ।
भद्रकाली समाख्याता लक्षजापेन सिध्यति ॥ ४७-४७ ॥

शुष्कान्त्रमांसजठरा कृशदीर्घकाया दंष्ट्राकरालवदना सकपालशूला ।
वृत्तोग्रपिङ्गनयना ज्वलितोर्ध्वकेशी व्यादीर्घघोणविकटावतु गृध्रकर्णी ॥ ४७-४८ ॥

कर्णिकायां गृध्रकर्णीं कोणेष्वङ्गानि दिक्ष्वपि ।
अस्त्रं नेत्रं तथैवाभ्यां बहिर्मातॄंश्च पूजयेत् ॥ ४७-४९ ॥

कपालान्तस्तु विलिखेत् साध्याख्यान्तरितं मनुम् ।
एकलिङ्गे जपेन्मन्त्रं याम्यवक्त्रस्तदासमः ॥ ४७-५० ॥

मासान्तर्मारणादीनि सिध्यन्त्येवास्य रात्रिषु ।
निम्बपत्राम्रतद्बीजपिष्टेनालिप्य विग्रहम् ॥ ४७-५१ ॥

स्निग्धयोर्मध्यतो गच्छेज्जपंस्तौ द्विषतो मिथः ।
कणैस्तत्पादरजसां गर्ते पैप्पलिके हुतात् ॥ ४७-५२ ॥

उत्सादकृद्वोर्ध्वबाहुर्जपेद्वाभिमुखो रवेः ।
अश्विकीलं खनेत् पादे स्यादुच्चाटस्तु दक्षिणे ॥ ४७-५३ ॥

वामे व्याधिर्मृतिर्वा स्यात्समन्त्रं तु गुणाश्रकम् ।
ह्रीं ष्ट्रीं ह्रीं प्रटधनतहुं शत्रुं नाशय हुम्फट् ठठ ।

ससाध्याख्यं जपेन्मन्त्रं शत्रुश्चातुर्थिकज्वरी ॥ ४७-५४ ॥

शूली वा स्यादस्थिविद्धां गैरिकप्रतिमां लिखेत् ।
प्राणप्रतिष्ठां कृत्वैव पुत्तलीषु ततः क्रियाः ॥ ४७-५५ ॥

सिध्यन्त्यष्टोत्तरशतं जपेन्मन्भ्रमिमं क्रमात् ।
सजीवनामहृत्साध्यपुत्तली द्वादशाङ्गुला ॥ ४७-५६ ॥

अमुष्य प्राणा इह प्राणा अमुष्य जीव इह स्थितः । अमुष्य सर्वेन्द्रियाणि वाङ्मनःप्राणा इहायान्तु ठठ ।

यत्रामुष्य पदं तत्र साध्यनाम नियोजयेत् ।
वामकर्णाढ्यमीनस्तु त्रिगुणोऽनन्तयुग् विषम् ॥ ४७-५७ ॥

कुम्भोषढीनेत्रयुतष्टौ चेत्यष्टाक्षरो मनुः ।
धूमावती देवतास्य ज्येष्ठा या चातिभीषणा ॥ ४७-५८ ॥

ऋषिस्तु पिप्पलादोऽस्य निवृच्छन्दोऽङ्गकल्पना ।
स्वयमेवाभिचारे तु विनियोगोऽस्य तु स्मृतः ॥ ४७-५९ ॥

रात्रौ कृष्णचतुर्दश्यां मुक्तकेशो दिगम्बरः ।
लक्षं जपेत् नक्ताशी श्मशाने विपिनेऽपि वा ॥ ४७-६० ॥

दीर्घाकारातिकृष्णा कृशविकटतमुर्मुक्तकेशी विरूपा
वक्रोतुङ्गाग्रनासा प्रविरलदशाना वृत्तपिङ्गत्रिणेत्रा ।
स्त्रीभूषा रोमशाङ्गी मलचितवसना काकवाहध्वजाढ्या
पायाद् धूमावती वः प्रतिनवविधवा धूतशूर्पाग्रहस्ता ॥ ४७-६१ ॥

अष्टम्यां वाथ भूतायां काकं रात्रौ चितानले ।
दग्ध्वा तद्भस्म जपितं क्षिप्तमुत्सादनं रिपोः ॥ ४७-६२ ॥

नपुंसकानि कोणेषु मकारस्य विलिख्य तु ।
मध्ये नामद्वयं लेख्यं षट्कोणे विषलेपितम् ॥ ४७-६३ ॥

कार्पासयष्ट्या सन्ताड्य जपेद् विद्वेषणं द्वयोः ।
चिताकाष्ठैश्चितावह्नौ भस्महोमेन मारणम् ॥ ४७-६४ ॥

उन्मत्तवह्नौ भसितं तत्पादरजसा युतम् ।
जुह्वतो मासमात्रेण शत्रोरुन्मत्तता भवेत् ॥ ४७-६५ ॥

साध्याख्यालिखितैर्नैम्बैः पत्रैर्हुत्वा तु मारयेत् ।
राजीघृतेन लेख्यं तत् कालेषु गुलिकादिषु ॥ ४७-६६ ॥

गुरुमन्दांशकर्क्षेषु तयोर्वारे तदंशके ।
सरिक्ते स्थविरो नाम योगः क्षुद्रेषु शस्यते ॥ ४७-६७ ॥

वैनाशिकं वधर्क्षं च कुजो राशिस्तथाष्टमः ।
क्षुद्रकर्मसु शस्ताः स्युरर्धरात्रं विशेषतः ॥ ४७-६८ ॥

मार्गबीजैः समरिचैरालिप्य प्रतिमां रिपोः ।
नक्षत्रवृक्षजां रात्रौ क्वथयेत् स्याज्ज्वरी रिपुः ॥ ४७-६९ ॥

कर्णीदर्व्या भ्रामयेच्च आनः प्रादेशपत्रकैः ।

एथोभिरश्विजं होमाद् दुनाति त्रितये रिपुम् ।
कुण्डे शूलाधिरूढां तां संस्थाप्य भवनान्मृतम् ॥ ४७-७१ ॥

सैकतीं प्रतिमां वास्मिन् (ऊमुड्ढि अ?) मारयेत् ।

अश्विसमिद्भिर्होमादिति यावत् ।

अयःकीलैस्तु तां विद्धामधोवक्त्रां तुं तां खनेत् ॥ ४७-७२ ॥

निर्माल्ये तत्र जपतो रिपुर्मृत्युपदं व्रजेत् ।
मन्त्राक्षरद्वयादूर्ध्वं नाम योज्यं जपादिषु ॥ ४७-७३ ॥

मन्त्राभिधानसंयुक्तं षट्कोणे तालपत्रकम् ।
विषलिप्तं तु निर्भिद्य नद्यास्तीरद्वये खनेत् ॥ ४७-७४ ॥

विद्वेषो भवति ।

हेमाम्भोभिश्चित्रकं लोणपिण्डं गेहे धूमं त्रीणि चाप्यूषणामि ।
पिष्ट्वावश्यं सूरणं तद्विषाख्यं यद् विद्वेषे मारणे तत् प्रयोज्यम् ॥ ४७-७५ ॥

ग्रामसप्तकवल्मीकमृदश्च खरवालकम् ।
एकाश्वित्वक्काकमूलपक्षे भस्म श्मशानकम् ॥ ४७-७६ ॥

वह्निमन्थस्थवन्दाकमर्कटीब्रह्मदण्डिकाः ।
ब्रह्मदण्डिचिताभस्म केशौ चण्डालविप्रयोः ॥ ४७-७७ ॥

चिताग्निदग्धानिम्बस्थवायसायतनं तथा ।
शुनकास्थीशनिर्माल्यं खरवालेन चास्थि च ॥ ४७-७८ ॥

मर्कटी गुलिके युक्ता दशचूर्णमिदं भवेत् ।
एते तु गुलिके लब्ध्वां समांशा कालिकागृहे ॥ ४७-७९ ॥

मन्त्रेण चूर्णिता लक्षत्रयजापेन साधिता ।
दशचूर्णमिदं न्यस्तं शत्रुवह्निमठादिषु ॥ ४७-८० ॥

सर्वोत्सदनकृद् गुह्यं पिप्पलादेन भाषितम् ।
एकाश्विकीलायसाख्यं * * सप्ताङ्गुलं रिपोः ॥ ४७-८१ ॥

समन्त्रकं खनेत् पादे तस्योच्चाटनकृद् भवेत् ।
वनस्थानेषु दुर्गायाः काल्याया वाथ शर्कराः ॥ ४७-८२ ॥

अश्विकीलत्रयधृते कपाले शुक्तलोणवत् ।
तद्यष्ट्या भर्जिता जप्या विकीर्णाः सर्वचाटनाः ॥ ४७-८३ ॥

सन्ध्यायां शिवमन्दिरेषु नवसु प्राप्योत्थिताः शर्करा

नग्नो * * * * * * * * * याः शर्करोच्चाटनका विसृष्टाः ॥ ४७-८५ ॥

मध्यादिविद्यां विलिखेत् षडश्रे रक्त * * वा * पुरः महच्च ।
अग्नेश्च वायोर्नृकपालमध्ये प्रेताहितघ्नं निखनेत् श्मशाने ॥ ४७-८६ ॥

क्षुद्रप्रतीकारविधिः सुदर्शनमन्नूदितम् ।
वक्रहोमाभिषेकाद्यैर्नश्यन्ति क्षुद्रजातयः ॥ ४७-८७ ॥

दौर्गैश्च नारसिंहाद्यैरघोरास्त्रापराजितैः ।
क्षुद्राभिचारशान्त्यर्थः प्रयोगाः सम्प्रदर्शिताः ॥ ४७-८८ ॥

तथापीह प्रतीकाराः प्रत्याङ्गिरसचोदिताः ।
लिख्यन्तेऽत्र समासेन जनानां हितकाम्यया ॥ ४७-८९ ॥

प्रत्याङ्गिरससूक्तेन पञ्चत्रिंशदृचा स्मृताः ।
पादाधिका खिले दृष्टा ऋषिणाङ्गासा पुरा ॥ ४७-९० ॥

प्रत्याङ्गिरस एवासामृषिः सामान्यतः स्मृतः ।
छन्दोऽनुष्टुप् स्मृता कृत्या देवता मातरस्तु ताः ॥ ४७-९१ ॥

ऋचां यत्र तु बह्नीनां समवायस्तु सूक्तके ।
आचार्यौ यास्कशाण्डिल्यौ वैश्वदेवं तथा हुतम् ॥ ४७-९२ ॥

ऋचा याङ्कल्पयन्त्या तु जपहोमादिकर्मभि ।
क्षुद्रभिचारा नश्यन्ति तानेव प्रतियान्ति हि ॥ ४७-९३ ॥

कुम्भं संस्थाप्य विधिवत् कुण्डं कृत्वास्य दक्षिणे ।
स्वशाखोक्तान्तिमाधाय मान्त्रिकं वा विधानतः ॥ ४७-९४ ॥

खड्गैः संवेष्य तौ वह्निं कपाले स्थापयेदपि ।
कृष्णाष्टम्यादि सन्ध्यायां रक्तगन्धाम्बरादिक ॥ ४७-९५ ॥

गोमूत्रसिक्तापामार्गसमिद्भिश्च घृतेन च ।
सिद्धार्थैः सर्षपैश्चैव चरुणा च पृथक् पृथम् ॥ ४७-९६ ॥

नवाहुतीः कपालाग्नौ जुहुयात् तु समाहितः ।
याङ्कल्पयन्त्या नैर्-ऋत्यादीशान्तं दिनसप्तकम् ॥ ४७-९७ ॥

क्षुद्राणि चाभिचाराश्च नश्यन्ति व्याधयोऽपि च ॥ ४७-९८ ॥

यथा विद्युद्धतेत्याद्यात् समिधः कुरवोद्भवाः ।
जुहुयात् क्षुद्रनाशाय गव्यैः प्रतिसरादिना ॥ ४७-९९ ॥

त्रैलोहीं करमुद्रां च होमे सम्पात्य धारयेत् ।
गोमूत्राद्यैः क्षिप्रया वाप्यपामार्गसमिच्छतैः ॥ ४७-१०० ॥

गुग्गुलं पञ्चगव्याक्तं जुहुयाद् वा सपत्नया ॥ ४७-१०१ ॥

प्र्त्येकमेते होमाः स्युराभिचारकशान्तिदोः ।
ऋग्भिः शिष्टाभिरपि च प्रोक्तद्रव्यैः पृथक् पृथक् ॥ ४७-१०२ ॥

जुहुयात् क्षुद्रकृत्यानां रक्षायै रोगशान्तये ।

शालींश्च गोधूमकबिल्वमाषान् ।
तिलाब्जबीजानि च पद्मपत्रे ताम्रे निखन्याद् भुवि नागयोगे ॥ ४७-१०३ ॥

ताम्रसमुद्गके निधाय सुदर्शनेनायुतमन्त्रितमिति यावत् ।
अमावास्यान्त्ययामार्धे प्रथमा घटिका स हि ॥ ४७-१०४ ॥

सार्पे मुहूर्ते सार्पर्क्षे सार्पे तु करणे तथा ।

अयं च नागयोगः ।

मूलानि पञ्चापि मृदश्च पञ्च सर्वाणि बीजानि च पञ्चगव्यैः ।
मृत्पात्रगर्भे तु नृसिंहबीजं जपन् निखन्याद् भुवि नागयोगे ॥ ४७-१०५ ॥

क्षुद्राणि नश्यन्ति श्रियश्च वर्धन्ते ।

चतुःशरावेषु सिताब्जवर्त्त्या प्रज्वाल्य दीपान् कपिलाघृतेन ।
निधाय भाण्डे निखनेन्निशायां विवादभूः सास्य भवेत् समृद्धा ॥ ४७-१०६ ॥

नग्नो भूत्वा स्वयं नागः क्षेत्रं कृत्वा प्रदक्षिणम् ॥ ४७-१०७ ॥

ग्रहणे नागवक्त्रेण दर्शेद् भूमिः स्वसाद् भवेत् ।
पञ्चाब्जपत्राणि पृथक् तु गव्यैरापूर्य चैकीकृतनालबद्धम् ।
क्षुद्रापहं पत्रगतं निखन्यात् स्मृत्वा तु शेषं भुवि नागयोगे ॥ ४७-१०८ ॥

क्रोधाग्नेः कलः कटः हुम्फट् ठठ । अर्चिषे ठठ । ज्वालाधूम्राय ठठ । पातालरुद्राय ठठ । उत्तिष्ठ पुरुषाय ठठ । धनुर्धराय ठठ ।

एतानि जातियुक्तानि षडङ्गान्यस्त्रमन्त्रतः ॥ ४७-१०९ ॥

ऋषिस्तु पिप्पलादोऽस्यच्छन्दोऽनुष्टुप् समीरितम् ।
क्रोधाग्निर्देवता रुद्रो दशबाहुस्तु भैरवः ॥ ४७-११० ॥

पाशाङ्कुशौ खड्गखेटं शरं चैव शरासनम् ।
खट्वाङ्गभुजगाभीतिवरदान् दधतं क्रमात् ॥ ४७-१११ ॥

नीलजीमूतसङ्काशं पिशङ्गोर्ध्वशिरोरुहम् ।
व्याघ्रचर्माम्बरधरं नानानागैश्च भूषितम् ॥ ४७-११२ ॥

सर्वाभिचारहृन्मन्त्रः साङ्गः क्रोधाग्निरीरितः ।
रौद्रस्थाने भैरवं तु पूजयेत् पश्चिमामुखम् ॥ ४७-११३ ॥

पयोव्रतो लक्षजापी सिद्धमन्त्रस्ततो भवेत् ।
सन्ध्यासु रुद्रपञ्चम्यां कृष्णाष्टम्यां शिवानले ॥ ४७-११४ ॥

त्रिकोणकुण्डेऽश्विसमित्सहस्रैरष्टकोत्तरैः ।
जुहुयात् क्षुद्रशान्त्यर्थमष्टम्याद्यष्टवासरम् ॥ ४७-११५ ॥

कारस्करैर्निशावक्त्रे तं नीराज्य जुहोतु च ।
चत्वरे तं विसृज्यान्गिं हुत्वा क्षेप्यो बलिस्तथा ॥ ४७-११६ ॥

ॐ नमो रुद्रगणेभ्यः सर्वशान्तिकरेभ्यः प्रक्षिपामि बलिम् । प्रतिगृह्णन्तु शान्तये ठठ ।

सुक्तुरक्तौदनेनाष्टदिक्ष्वनेन बलिं क्षिपेत् ।
लोकेशक्षेत्रपालेभ्यो बलिं निर्हृत्य वै पुनः ॥ ४७-११७ ॥

पूटाणि शाणी व। वसन्ति तानि बलिं गृहीत्वा विधिवत् प्रयुक्तम् ।
अन्यत्र वासं परिकल्पयन्तु रक्षन्तु तान्यद्य नमोऽस्तु तेभ्यः ॥ ४७-११८ ॥

णियाकषा षौद्राः सन्तोऽसन्तः सदसन्तो विरूपा विश्वरूपा घोररूपा मृगास्या विहगाननाः पुष्टिकृतोऽपुष्टिकृतः कामदाश्च बलिमिच्छन्तस्तेभ्यः सर्वेभ्यो भूतेभ्यः सगणेभ्यो नमो नमः ।

अयं होमबलिश्चैव विश्वक्षुद्रविनाशनः ।
पालाशनिम्बापामार्गास्तथा कुरवकैधसः ॥ ४७-११९ ॥

चतुःक्षीरद्रुमाणां च सिद्धार्था गुग्गुलुस्तिलाः ।
पञ्चगव्याज्यदुग्धानि चरुं चेति क्रमेण तु ॥ ४७-१२० ॥

साष्टाधिकं सहस्राणि हुत्वा क्षुद्राणि नाशयेत् ।
ग्रहभूतादिमोक्षश्च रोगशान्तिश्च जायते ॥ ४७-१२१ ॥

अपामार्गाश्विसमिधां क्षीरस्य च हुतं तथा ।
प्राह्णे कृष्णचतुर्दश्यां क्षीरं हुत्वा घटोदके ॥ ४७-१२२ ॥

तत् सम्पात्याभिषेकात् स्याद् ग्रहग्रस्तस्य मोक्षणम् ।
अङ्गारेणाश्विवृक्षस्य तस्यैव फलकोपरि ॥ ४७-१२३ ॥

यमराजाह्वयं चक्रं लिखित्वाराध्य भूतिदम् ।
तत्र स्थाप्याश्विसमिधां हुत्वा गोमूत्रसेचितम् ॥ ४७-१२४ ॥

अयुतं ग्रहमोक्षः स्यात् कुर्याच्च द्विजभोजनम् ।
चण्डीशमहेश्वराय अमुकस्य शीघ्रं विनाशय ग्रह ठठ ॥ ४७-१२५ ॥

तत् कर्पटे निबध्याथ मन्त्रमेनं जपेत् स्पृशन् ।
अग्निध्वजवति क्वापि पृथग् भानुसहस्रकम् ॥ ४७-१२६ ॥

तद्भस्म शत्रोः शिरसि गृहे ग्रामेऽथवा पुरे ।
क्षिप्तमुत्सादनोच्चाटे करोति नचिरादिव ॥ ४७-१२७ ॥

तस्य शान्त्यै तु तद्भूमिं खनित्वोत्सृज्य तां मृदम् ।
प्रतीकारविधानेन हुत्वा शान्तिर्भविष्यति ॥ ४७-१२८ ॥

क्षुद्रकृत्यमिति यत् प्रदर्शितं तन्न विप्रनृपयोः प्रयोजयेत् ।
आततायिषु च पापकारिषु श्रेयसोऽवनकृते प्रयोजयेत् ॥ ४७-१२९ ॥

प्रागात्मनः कारयितुश्च रक्षां कृत्वा तु कुर्यादरिनिग्रहाद्यम् ।
सिद्धेऽथ कृत्ये कृतनिष्कृतिः सन् प्राज्ञः प्रतीकारविधिं विदध्यात् ॥ ४७-१३० ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे मन्त्रपादे क्षुद्रतत्प्रतीकारपटलः सप्तचत्वारिंशः ॥ ४७ ॥