अथ षट्चत्वारिंशः पटलः ।
आम्रास्थिलाजलवणैर्लाजसैन्धवशर्कराः ।
दाडिमीलाजसिन्धूत्थं हिक्कावमनहृच्छिशोः ॥ ४६-१ ॥
प्रयागास्त्रयो मधुनेति यावत् ।
लाजोत्पलं वा स्तन्येन प्रियङ्गुलोध्रकं लिहेत् ।
कृष्णां समङ्गां वालोड्य ज्वरातीसारशान्तये ॥ ४६-२ ॥
निशे द्वे तत्सकं सिंही यष्टिस्तत्क्वाथसेवनात् ।
शुशूनामतिसारघ्नं तत् पिष्टं पाययेन्मनाक् ॥ ४६-३ ॥
मधुनातिविषा लिह्या छर्दिज्वरहरं शिशोः ।
फलत्रयसहाशिग्रुदारुमेघशृतं जलम् ॥ ४६-४ ॥
सद्राक्षामागधीकल्कं शिशुक्रिमिहरं भवेत् ।
त्रिफलाशारिबामेघनिशातापिञ्जपत्रयुक् ॥ ४६-५ ॥
क्वाथो मधुयुतः सेकान्नेत्ररोगाणि संहरेत् ।
खदिरः कुटजो निम्बत्रिकटुत्रिफलावचाः ॥ ४६-६ ॥
गोमूत्रपिष्टाः पीताश्चेद्धन्युर्जठरजान् कृमीन् ।
प्रातः पूर्णाम्बुवदनो जलैराश्च्योतनं दृशोः ॥ ४६-७ ॥
इन्दोर्वीक्षणमष्ट्यन्ते पाण्योर्माथाम्बु हितम् ।
तुत्थं त्रिभागमक्षान्तर्बीजमामलकस्य च ॥ ४६-८ ॥
द्व्येमागं जले पिष्ट्वा गुली नेत्रमयान् हेरेत् ।
तुत्थं ताम्रमयोरजस्त्रिकटुकं नागं तथा चन्दनं
सिन्धूत्थं त्रिफला च यष्टिमधुकं दार्वी च तुत्थाञ्जनम् ।
कर्पूरं स्फटिकं च टङ्कणमथो तिल्वं करञ्जाम्भसा
पिष्टं तद्गुलिका निहन्ति तिमिरं सर्वांश्च नेत्रमयान् ॥ ४६-९ ॥
नक्तमालफलं चैकं धाव्रीराजिरसैः समैः ॥ ४६-१० ॥
पिष्टं छायाविशुष्कं तन्निहन्ति तिमिराम्बुदान् ।
त्रिफलालियष्टिशुण्ठीरसेषु मधुसर्पिषोरजाक्षीरे ॥ ४६-११ ॥
गोमूत्रे मुनिसङ्ख्यं तुत्थं नागं तु नेत्रयोरमृतम् ।
तुत्थनागरसौ तुल्यौ तुल्यं नीलाञ्जनं तयोः ॥ ४६-१२ ॥
विकारांशेन्दुमिलितं तच्चूर्णं नयनामृतम् ।
कटुत्रयकरञ्जास्थिनागरं सिन्धुजं निशे ॥ ४६-१३ ॥
शङ्खबिल्वफले पिष्ट्वा वर्तिर्नेत्रामयापहा ।
समुद्रैरण्डजक्षीरं स्तन्ये पुष्पं दृशो हरेत् ॥ ४६-१४ ॥
द्रोणपुष्पाम्बु सस्तन्यं सफेनं नेत्रपुष्पहृत् ।
सिन्धुरात्रिकणाजातिताम्रकांस्यवराटकाः ॥ ४६-१५ ॥
कुनटी च क्षौद्रपिष्टा नेत्रपिल्लं हरन्त्यमी ।
शुक्तपिष्टं तु सिन्धूत्थं वस्त्रस्थं शच्योतयेद् दृशोः ॥ ४६-१६ ॥
अभिष्यन्दहरं लोध्रमाज्यभ्रष्टं च तत् तथा ।
कृष्णाशकृद्रसौ कर्णमलं वा मधुनाञ्जनात् ॥ ४६-१७ ॥
द्रोणपुष्पाम्बु तैलेन निशान्ध्यं घ्नन्त्यमी त्रयः ।
नासिकासृक्स्रवं हन्यात् स्तन्यदूर्वाम्बुनस्यतः ॥ ४६-१८ ॥
रम्भागृञ्जनयोर्मूलं रसो वार्द्रकजः पृथक् ।
पूरणात् कर्णशूलघ्ना किञ्चित्सैन्धवयोजिता ॥ ४६-१९ ॥
अजामूत्रेण दघ्ना च बिक्ष्वान्तःफलसाधितम् ।
तैलं कर्णस्य बाधिर्यपूयस्रावादिकं हरेत् ॥ ४६-२० ॥
वचालशुनलोणानि शिग्रुमूलं च सत्वचम् ।
पाण्ड्वर्कस्नुहिपत्राप्सु तैलं कर्णार्तिहृत् पचेत् ॥ ४६-२१ ॥
सूर्यावर्तस्य शिग्रोर्मधुपदिनकृतोः सिन्धुवारस्य जात्या
रम्भायाः कारवल्ल्याः सुरसलशुनयोः स्वे रसे तुल्यभागे ।
तैलं पक्वं यथावच्छ्रुतिपुटनिहितं कर्णशूलं च पूयं
बाधिर्यं तद्ब्रणं च प्रशमयति यथा भारतं पापजातम् ॥ ४६-२२ ॥
विल्वस्य देवदारोर्वा काष्ठं क्षौमेण वेष्टितम् ।
तैलसिक्तं समादिप्य तत्तैलं कर्णशूलहृत् ॥ ४६-२३ ॥
बृहतीफलपिष्टेन धूपो योज्यो द्विजार्तिजित् ।
समूलतूलं पुङ्खायाः क्वाथे तैलं पचेद् भिषक् ॥ ४६-२४ ॥
पथ्याकल्कस्य गण्डूषाद् द्विजार्तिशमनं परम् ।
श्यामश्च क्रमुकं धान्याम्लनालिकेराम्बुमूत्रयुक् ॥ ४६-२५ ॥
क्वाथः कबलितो हन्यादधिजिह्वादिकं मुखे ।
सिन्धुवाररसे तैलं लाङ्गलीकल्कसाधितम् ॥ ४६-२६ ॥
गलगण्डं गण्डमालां नस्यादेव विनाशयेत् ।
वन्ध्यकार्कोटकीमूलं पीतं तण्डुलवारिणा ॥ ४६-२७ ॥
गण्डमालाहरो लेपो गोपीतुरगगन्धियुक् ।
गोमूत्रामलकल्कं तु पयस्तैलघृतैर्युतम् ॥ ४६-२८ ॥
अनुष्णो बहलो लेप्यस्तत् पक्वं बिद्रथिं हरेत् ।
वय(स्य?स्था)चन्दनोशीरैर्लेपो वा क्षीरपेषितैः ॥ ४६-२९ ॥
लिम्पेदपक्वग्रन्थीस्तु सिन्धुनाकुलिनागरैः ।
निर्गुण्डी कटुतुम्बिनी किणिहरी तिक्ता निशा तूलकं
भृङ्गी लाङ्गलिपद्ममूलसुरसानिर्यासकास्फोटिकाः ।
गुञ्जाभिर्महिषीमयेन च समं तत्सर्पिषा वै समं
तैलं ग्रन्थिगणान् निहन्ति सकलानालेपनाश्च्योतनैः ॥ ४६-३० ॥
करवीरास्थिकुटचभल्लातास्थिविलङ्गकैः ॥ ४६-३१ ॥
कुष्ठं च तगरं लिप्तं गोमूत्रेणापचिं हरेत् ।
विश्वाविलङ्ककुष्ठानि सैन्धवं च सुपेषितम् ॥ ४६-३२ ॥
गोमूत्रेणापचिं हन्याद् ग्रन्थिं चालेपमात्रतः ।
दन्तीहरिद्रामलकान् पिष्ट्वा तोयेन लेपयेत् ॥ ४६-३३ ॥
त्रिफलानां कषाये तु सितमूलासकल्कके ।
तैलं पचे तत्सेकेन नाशमेति भगन्दरम् ॥ ४६-३४ ॥
लाङ्गलीशेलुकुम्भास्थिसर्जाज्योतिष्मतीवचाः ।
पाठामृतार्कक्वाथे तु तत्कल्के तिलकं पचेत् ॥ ४६-३५ ॥
तेनाभ्यञ्जनसेकस्तु भगन्दरविनाशनः ।
पुनर्नवामृते विश्वावटपत्रेष्टकाः समाः ॥ ४६-३६ ॥
तक्रेण पिष्ट्वा लेपेन भगन्दरविनाशनाः ।
व्याघातस्नुहिपूतीकशिरीषाककजातिजैः ॥ ४६-३७ ॥
गोमूत्रपिष्टैस्त्वग्दोषान् प्रलेपेनाखिलाञ् जयेत् ।
असितैस्तु तिलैस्तुल्यं वाकुचीबीजभक्षणात् ॥ ४६-३८ ॥
युक्ताहारविहारस्य कुष्ठमब्दाद् विनश्यति ।
जलखण्डनिकाबीजभक्षणं कुष्ठनाशनम् ॥ ४६-३९ ॥
करञ्जास्थिकणाचित्रगृहधूमाश्च वाकुची ।
कुटुतुम्बिनिकातैलप्रलेपः कुष्ठनाशनः ॥ ४६-४० ॥
कासघ्नं मूलश्वारेस्तमालस्य वचाङ्कुराः ।
प्रपुन्नाटकबीनानि निशा पथ्या च पेषिताः ॥ ४६-४१ ॥
गवां तक्रेण लेपेन वत्सरात् कुष्ठनाशनम् ।
त्रिफलावह्निपूतीकचित्ररात्रितिलैः समम् ॥ ४६-४२ ॥
चूर्णीकृतैस्तु तक्रेण पीत्वा मूलाङ्कुरान् हरेत् ।
वाराहीचित्रपूतीकवन्ध्याकुटचसूरणैः ॥ ४६-४३ ॥
पिष्टैस्तक्रयवाग्वोस्तु पानं मूलगदापहम् ।
शिला लाङ्गलिकामूलं गुञ्जासारं समं पृथक् ॥ ४६-४४ ॥
पिष्ट्वार्कदुग्धे गोमूत्रे क्षारके तद् विपाचयेत् ।
कृत्वाङ्गुष्ठमितां वर्तिं स्थौल्यादायामतश्च ताम् ॥ ४६-४५ ॥
पायौ दद्याद् भिषक् तज्ज्ञो निपतन्त्यर्शसोऽङ्कुराः ।
पूतीकत्रिफलारात्रिकरञ्जत्वक्फलाः समाः ॥ ४६-४६ ॥
चूर्णिताश्चापि तत्क्वाथो हरेन्मेहं मधुप्लुतः ।
सूताभ्यां माकुलं बीजमेकैकं स्यान्मनःशिला ॥ ४६-४७ ॥
लाजशैलकटाः कृष्णनिम्बमूलत्वचा शिफा ।
द्वौ द्वौ भागौ पृथग् ग्राह्यौ तथैव रसगुग्गुलोः ॥ ४६-४८ ॥
खदिरस्य कपित्थस्य श्वेतकृणारिमेदयोः ।
पलाशस्य च निर्यासं(?) दार्वीकुटचबीजयोः ॥ ४६-४९ ॥
भागास्त्रयस्त्रयो ग्राह्यास्त्वथ कान्तं च चन्दनम् ।
कृष्णमूलासुमूलं च मुसल्याकुलिकाशिफे ॥ ४६-५० ॥
धात्री च नागकुसुमं पृथगेते चतुर्गुणाः ।
कार्पासस्यानुधावन्त्या मूले कृष्णार्जुनत्वचः ॥ ४६-५१ ॥
पृथक् पृथक् पञ्चभागाः सर्वमेकत्र चूर्णयेत् ।
चच्चूर्णं मधुना प्रातर्लेह्यं तक्रेण वा पिबेत् ॥ ४६-५२ ॥
कषायं च पिबेद् रात्रौ वक्ष्यमाणौषधैः शृतम् ।
त्रिफला च निशायुग्मं जम्ब्वारग्वधयोस्त्वचौ ॥ ४६-५३ ॥
पाठामृताब्दतकरशक्तिपत्रपुनर्नवाः ।
सर्वाणि समभागानि निष्क्वाथ्याष्टावशेषितम् ॥ ४६-५४ ॥
शीतलं मधुना मिश्रं पीतं विंशतिमेहहृत् ।
निष्टेरकाकुलीबीजे बद्धवल्लिदलानि च ॥ ४६-५५ ॥
अद्वैताद्वैतकद्वैतभागांस्तक्रेण पेषयेत् ।
त्रिचतुःपञ्चदिवसैर्मेहान् प्रातः पिबन् जयेत् ॥ ४६-५६ ॥
शक्रबल्लिशिफांशाः षट् करञ्जस्याङ्कुरास्तथा ।
तत्क्वाथस्तु हरेद् वृद्धिं पीतस्तद्बीजचूर्णयुक् ॥ ४६-५७ ॥
कोकिलाक्षाङ्कुरान् पिष्ट्वा विश्वासिन्धूत्थदीप्यकैः ।
पिबेत् तक्रेण गव्येन बीजवृद्धिर्विनश्यति ॥ ४६-५८ ॥
करब्जऽम् गृञ्जनीपथ्याकाननाग्रशृते जले ।
शुक्ते तक्रादिना पेया बीजवृद्धिक्षयापहाः ॥ ४६-५९ ॥
दूर्वायाः स्वरसाढके मलयजं ह्नीबेरकं शारिबा
मुस्ताब्जोत्पलतूलकुष्ठतगरैः शुङ्गानि च क्षीरिणाम् ।
कल्कीकृत्य पचेद् घृतं तदथवा तैलद्वयं वा समं
पीतं विश्वविसर्पकान् हरति तत्सेकेन चाभ्यङ्गतः ॥ ४६-६० ॥
अमृतविषपटोलीनिम्बधात्रीदलानां
खदिरसमकषाये तत्पृथङ्निष्ककल्के ।
कृतिपलमितमाज्यं पाचितं काल्यलीढं
हरति खलु विसर्पांस्तत्कषायश्च पीतः ॥ ४६-६१ ॥
कल्कं शिग्रोश्च विश्वायाः क्षीरैकद्वयसम्मितम् ।
क्वथितं पिबतः प्रातः शोभो नश्यति पक्षतः ॥ ४६-६२ ॥
दशमूलशृतं दुग्धं कुडुपं मधिनिष्कयुक् ।
सार्धं निष्कं घृतं चाज्याद् द्विगुणं स्यात् तु शर्करा ॥ ४६-६३ ॥
गुलं सार्धचतुष्कं तु निष्कं कृष्णारजोयुतम् ।
काल्यं मथित्वा क्वथितं वातशोणितनाशनम् ॥ ४६-६४ ॥
द्राक्षाब्दरात्रिक्वाथं तु कफरक्तोद्गमे पिबेत् ।
गुलान्वितं द्विकालं तु भक्षयेत् कफरक्तहृत् ॥ ४६-६५ ॥
कोकिलाक्षस्य निर्यासं तच्छाकाशी पिबेत् तदा ।
वातशोणितं नश्यति ।
व्याघातवाशाच्छिन्नानां क्वाथमेरण्डतैलयुक् ॥ ४६-६६ ॥
पीतं वातासृजं हन्यात् कृष्णोष्णाम्भः प्लिहां हरेत् ।
विश्वाबिल्वाग्निमन्थैर्मगधजसहितैस्त्रिनिष्कैः शृताद्भि-
स्तुल्ये क्षीरे तु विश्वं क्षिपतु पचतु तत्क्षीरमन्नेन भुक्त्वा ।
तां शुण्ठीं भक्षयेच्च प्रतिदिनमिति यो वर्तते मासमात्रं
यक्ष्मना यान्ति नाशं वपुरपि च दृढं पुष्टिमिष्टां ददाति ॥ ४६-६७ ॥
वाशाभृङ्गेन्द्रकासघ्नीबृहतीनागरामृतैः ॥ ४६-६८ ॥
क्वथितैः सुशृतं क्षीरं कटुहृत् क्षयकृत् पिबेत् ।
भार्"गीगोक्षुरकासवैरिबृहतीबिल्वा(ध?द्रि)रुढाः समा-
स्तेषां क्वाथसमासमानमनले क्षीरं पुनः क्वाथयेत् ।
कृष्णाचूर्णमधुप्लुतं पिबतु तत् स्याद् यक्ष्मरोगापहं
कासश्वासकफांश्च कायमधिकं मुष्णाति पुष्णाति च ॥ ४६-६९ ॥
माहिषक्षीरमथ तन्नवनीतं निशाम्बुदैः ॥ ४६-७० ॥
पारावतस्य विट् दुग्धं वटजं वातभेदहृत् ।
चिरिबिल्वकषाये तु राजितत्कल्कयोजिते ॥ ४६-७१ ॥
सिद्धं तैलं हरेद् वातमभ्यङ्गाच्चोपनाहतः ।
महाजमारकोले तु रात्रितद्बीजकल्कयुक् ॥ ४६-७२ ॥
तैलं पाचितमभ्यङ्गाद् वातरोगापहं परम् ।
प्रसारिण्यर्कजम्बीरशिग्रुचिञ्चारसो दधि ॥ ४६-७३ ॥
राजिनागरशिग्रूणां कल्केन तिलजं पचेत् ।
शिग्रुपञ्चाम्लसरणिद्विकरञ्जबलार्ककैः ॥ ४६-७४ ॥
वरणैर्दशमूलैश्च चिञ्चापत्रैश्च कुट्टितैः ।
काञ्चिकं क्वथितं चैतैः सेचयेत् प्रथमं ततः ॥ ४६-७५ ॥
तैलेनान्नेन चाभ्यङ्गाद् वातरोगो विनश्यति ।
अस्मिन्नेव कषाये तु कदुष्णे चावगाहयेत् ॥ ४६-७६ ॥
छिन्नाबलाभ्यां धान्याम्लक्वाथसेकश्च वातजित् ।
केवले वातरोगे तु तैलसेकोऽपि केवलः ॥ ४६-७७ ॥
भद्रामातुलबीजानि रास्नादारुमहौषधैः ।
साग्निमन्थैः शुक्तपिष्टैः प्रलेपो वातशोफहा ॥ ४६-७८ ॥
कार्पासाङ्कोलबीजानि शिग्रुत्वग् विश्वभेषजम् ।
शुक्तपिष्टं कदुष्णं तदालेपाद् वातरोगजित् ॥ ४६-७९ ॥
पुन्नागैरण्डनिम्बैर्वकुलधनददृङ्नालिकेरैः करञ्जैः
कार्पासैः शिग्रुडोलाफलमुनिशरणैर्मूलकैः सर्षपैश्च ।
कोलाङ्कोलैः कुलस्थैः स(ह)लशुनवचारात्रि देवद्रुदार्वी-
पुष्पाम्लस्नेहयुक्तं सकलपटुयुतं पोट्टलं वातभञ्जि ॥ ४६-८० ॥
(डोलाङ्कोल * सर्वाम्लास * * * * * * * ।
स(र्व?)स्नेहसैन्धवालेपो वातजिच्छुष्कपेषितः ॥ ४६-८१ ॥
त्रिफलात्रिवृताक्वाथो गुलयुक्तो विरेचकः ।
सत्रिवृद्गुलयुक्तस्तु द्राक्षाक्वाथो विरेचकः ॥ ४६-८२ ॥
अर्धभागस्त्रिवृत् खण्डं षड्भागं सिन्धुजं द्वयम् ।
चूर्णमेषां मधुयुतं साम्बुपानाद् विरेचकम् ॥ ४६-८३ ॥
फलं तु धात्रीशुङ्गानां निष्क्वाथ्याथ निपीड्य तत् ।
रसो गुलयुतः पीतः सद्य एव विरेचकः ॥ ४६-८४ ॥
चतुस्त्रिद्व्येकभागास्तु पथ्याक्रमुकनागराः ।
सिन्धुजं चोष्णतोयेन साशुपानं(?) तु रेचकम् ॥ ४६-८५ ॥
कोकिलाक्षः स्वयङ्गुप्ताबीजमाषसितातिलाः ।
समभागाः पयःपीता वृष्याः स्त्रीशतगामिनाम् ॥ ४६-८६ ॥
त्रिफला ससिता क्षीरे स्वयङ्गुप्ताशिफा तथा ।
तद्बीजमाषचूर्णं च वृष्यं क्षीरे सशर्करम् ॥ ४६-८७ ॥
तिलतण्डुलमाषाणां चूर्णं गुप्ताफलस्य च ।
कृष्णारम्भाफलं चाज्ये सिद्धं वृष्यं प्रमोदकम् ॥ ४६-८८ ॥
क्षीरानुपानमिति यावत् ।
गुप्तावरीगोक्षुरमूलमालैस्तिलैः समैः श्लेष्मलकस्य बीजैः ।
चूर्णीकृतैः शर्करया च दुग्धे पिबेन्निशायां वनिता सुतार्थिनी ॥ ४६-८९ ॥
शिफामशोकस्य धनेशदिग्गतां प्रजार्थिनी रक्तवटाङ्कुरैः समम् ।
जले स्थिता नाभिमिते पिबेदृतौ प्रियेण गर्भं लभते समागता ॥ ४६-९० ॥
दूर्वाखिला(?) श्रीसहदेवमूलेनाश्वत्थदर्भाङ्कुरवंशशुङ्गम् ।
क्षीरेण पिष्ट्वा तु पिबेद्दृतौ स्त्री सम्प्राप्य गर्भं लभते कुमारम् ॥ ४६-९१ ॥
श्रियश्च मूलं वटशुङ्गसप्तकं पिबेत् तु दुग्धेऽथ तयोस्तथाङ्कुरौ ।
सहाङ्कुराश्चापि निपीड्य तद्रसैः करोतु नासास्थमृतौ सुतार्थिनी ॥ ४६-९२ ॥
स्नाता चतुर्थदिवसे कृतमङ्गला स्त्री पीतौषधा वसुमतीं न पदा स्पृशेत् सा ।
तिष्ठेन्न चाह्नि जरिते त्वगदे सदुग्धं भुक्त्वाज्यवन्निजपतेः शयनं समेयात् ॥ ४६-९३ ॥
नारी पिबेद् यदगदं तु तदेव नस्यं कुर्यात् तु दक्षिणपुटे सुतकामिनी चेत् ।
कन्यार्थिनी तदितरे शयनं च कुर्यात् पार्श्वेन तेन विधिनैवमृतुत्रयान्तम् ॥ ४६-९४ ॥
गर्भस्य दोषशमनं तगरास्थि दुग्धे पेयं तु गर्भचलने दधिसम्प्रयुक्तम् ।
बन्ध्यारजो लिकुचचन्दनयष्टिलोध्रगोप्युत्पलं पिबतु तण्डुलतोयपिष्टम् ॥ ४६-९५ ॥
धात्रीरसालोलितशङ्खपुष्पीं तथामलक्यास्तु कुरण्डमूलम् ।
घृतेन दध्ना सहितं पिबेद् वा नारी पटोलस्य शिफां सुतार्थम् ॥ ४६-९६ ॥
काकमाच्याः शिफां पुष्ये प्रातरुद्धृत्य वाग्यतः ।
पयसा पाययेन्नारीं गर्भं सा लभतेऽचिरात् ॥ ४६-९७ ॥
चन्दनगोपीद्राक्षालोध्रक्वाथं पयोयुतं ससितम् ।
गर्भस्रावनिवारं मुस्ताक्षीरेण शीतलं पिबतु ॥ ४६-९८ ॥
गर्भरक्षार्थम् ।
पृथङ्मासेषु गर्भस्य चलनेऽगदमुच्यते ।
पद्मकोशीरतगरमजाक्षीरेण पाययेत् ॥ ४६-९९ ॥
कशेलुविश्वाशेलूकनीलाब्जानि द्वितीयके ।
तृतीये पाटलोशीरं मुस्ताक्षीरेण पाययेत् ॥ ४६-१०० ॥
कदलीकन्दनीलाब्जकन्दोशीरश्चतुर्थके ।
पञ्चमे क्षीरकाकोलीक्षीरकाञ्च्युत्पलाम्बुजम् ॥ ४६-१०१ ॥
द्राक्षोत्पले केसरं च षष्ठे क्षीरेण पाययेत् ।
कपित्थत्वक्फले मूलसितालाजांश्च सप्तमे ॥ ४६-१०२ ॥
अष्टमे क्वथितं पेयं धान्यकोत्पलकेसरैः ।
एरण्डमूलं काकोलीं नवमे मोदकं चरेत् ॥ ४६-१०३ ॥
दशमे कुङ्कुमं यष्टिमधुकं च सितोत्पलम् ।
सितां च तण्डुलाम्भोभिः क्षीरयुक्तं तु पाययेत् ॥ ४६-१०४ ॥
वाशाशिफा वापि च पप्पणस्य(?) पत्राणि पिष्टानि जलेन नाभेः ।
अधः प्रलेपेन सुखप्रसूतिस्तच्छाखिकाधोमुखलम्बनाच्च ॥ ४६-१०५ ॥
प्रसूतिगेहोपरि सूतिकाले करङ्गमो(?) मूर्धनिवेशनाच्च ।
विलोममृत्युञ्जयजापतैलालेपेनं गर्भस्य सुखप्रसूतिः ॥ ४६-१०६ ॥
द्राक्षाव्याघातरजनीचूर्णमध्वाज्यगर्भिणी ।
पटच्चरकृता वर्तिर्व्रणे योन्या विशोधनी ॥ ४६-१०७ ॥
शारिवोत्पलपत्रैर्वा लोध्रचन्दनयष्टिभिः ।
कल्के क्षीरेण तिलजं पचेत् तद् व्रणरोपणम् ॥ ४६-१०८ ॥
मनाङ्मरिचसिन्धुयुक् ।
कल्कं तैले पचेत् तद्वद् वयस्याश्च (?) व्रणापहम् ॥ ४६-१०९ ॥
तदेव नालिकेराज्यसिकं वह्निव्रणापहम् ।
हस्तपिष्टैरपामार्गपत्रैर्वा कारवल्लिजैः ॥ ४६-११० ॥
किञ्चिल्लोणान्वितैर्बद्धं सद्यः क्षतविरोपणम् ।
तालाङ्कुरस्थचूर्णं च बद्धं सद्यं क्षतापहम् ॥ ४६-१११ ॥
षट्सप्ताष्टकनिष्कमात्रविधृतैः पथ्याक्षधात्रीफलै-
र्धर्मे प्रस्थजले विशोष्य कुडुबं तैलत्रयं प्रक्षिपेत् ।
गोपीचूर्णमपि क्षिपेत् सुविहितं तन्निष्कमात्रं स्थितं
धान्यानां निचये त्रिसप्तदिवसं कालमर्शो हरेत् ॥ ४६-११२ ॥
विश्वामित्रनिष्कं माजिल्लताया(?) वल्लि च पत्रैर्वसुनिष्कमात्रम् ।
निष्क्राथ्य पीतं निशि तत् प्रभाते जरां(?) महोष्णं शमयेच्च दाहम् ॥ ४६-११३ ॥
राजीनां कुडुबं पिष्ट्वा द्विप्रस्थं मथिते स्थितम् ।
ऊर्ध्वं दिनत्रयात् पीतं शीतिकाः सकलाः हरेत् ॥ ४६-११४ ॥
रक्तगोक्षुरमूलानां त्रिनिष्कं क्षीरपेषितम् ।
क्षीरे सशर्करं पीतं शर्कराश्मनिपातनम् ॥ ४६-११५ ॥
चूर्णं रसेनोत्तमकन्यकायाः समुद्रलोणाक्षत्तनालिकेरम् ।
तन्मूलवक्त्रं तु मृदा परीतं श्वासान् हरेत् सम्मुखदग्धमन्तः ॥ ४६-११६ ॥
सिन्धूत्थाभ्रकमाक्षिकाणि कुटुकैः पथ्यर्क्षधात्रीशिला-
भृङ्गाद्भिः शतशः पुटेषु विहितः कान्तः सहोषामृदा ।
एते तुल्याविभागिकास्तु सहितं सौतं ततोऽर्धांशकं
भृङ्गीमर्दितमात्रमानमदतो(?) मर्तुअसुअ मृत्युः कुतः ॥ ४६-११७ ॥
शाखापुरुषमात्र तु मूले कोमलशल्मलेः ।
शिफां प्रधानां छित्त्वास्यच्छेदे कुम्भं निधापयेत् ॥ ४६-११८ ॥
ऊर्ध्वं पुरुषमात्रे तु छित्त्वा तं शल्मलिं मृदा ।
अष्टाङ्गुलं समालिप्य गोकरीषेन्धनैर्दहेत् ॥ ४६-११९ ॥
षट्सप्तदिवसादूर्ध्वं कुम्भमुद्धृत्य तद्रसम् ।
छायाशुष्कं विधायैतं भृङ्गामलकवारिणा ॥ ४६-१२० ॥
सम्मर्द्य शुद्धकायस्तु विलालपदमात्रकम् ।
भक्षयेत् प्रातरुत्थाय प्लीहोदरविनाशनम् ॥ ४६-१२१ ॥
विशालामूलमादाय खादेदन्तः प्लीहां क्षणात् ।
विनाशयति हित्वा तं द्विधा पास्येत् प्लिहां हरेत् (?) ॥ ४६-१२२ ॥
सप्तार्कपत्रैः सिन्धूत्थं पुटदग्धं तु मस्तुना ।
पिबेत् प्लिहाहरं चैतद् धन्वन्तरिमतं यथा ॥ ४६-१२३ ॥
पुनर्नवस्य शुक्तस्य पाठायाश्च शिफां पिबेत् ।
तण्डुलोदकपिष्टे द्वे विद्रधिघ्ने च लेपयेत् ॥ ४६-१२४ ॥
ताम्रकिट्टं तु तक्रेण पिष्ट्वा लिप्तं तु कुष्ठजित् ।
वाकुचीपिष्टलब्धं तु भाण्डे क्षीरं दधीकृतम् ॥ ४६-१२५ ॥
तत् तक्रं नवनीतं च पीतं लीढं च कुष्ठजित् ।
तत्र मधुना सह नवनीतं लीढ्वा पश्चात् तक्रं पिबेत् । श्वेतकुष्ठं नश्यतीति यावत् ।
श्वेतापराजितामूलं विलिम्पेत् कुष्ठनाशनम् ॥ ४६-१२६ ॥
जलपिष्टशुण्ठिसहितं क्षीरक्वाथत्रिभागतः ।
गोमयाम्भोयुतं पीतं विषमज्वरनाशनम् ॥ ४६-१२७ ॥
तिक्तामुस्तापटोलानि लूकपिञ्छं(?) च गुग्गुलु ।
कृष्णवाससि बद्ध्वा तद्धूपश्चातुर्थिकापहः ॥ ४६-१२८ ॥
क्षीरेण वा बलामूलं मेघनादशिफा तथा ।
तण्डुलोदकपीता स्यादसृग्दरनिवारणम् ॥ ४६-१२९ ॥
रक्तशुक्लजपापुष्पं रक्तशुक्लस्रुतौ पिबेत् ।
क्षीरेण काल्यं तन्मूलं तत्क्वाथं पयसा निशि ॥ ४६-१३० ॥
नालिकेरस्य कुसुमं मृदावेष्ट्याग्निना दहेत् ।
तद्रसं पयसा पीतं शुक्लस्रावनिवारणम् ॥ ४६-१३१ ॥
पुष्पाणि शल्मले क्षीरे ऋतौ पीत्वा चतुर्दिनम् ।
वन्ध्या स्यादभयाव्योषे पीत्वाबन्ध्यैव जायते ॥ ४६-१३२ ॥
मञ्जिष्ठाञ्जनशारिबाब्दकटुकं नक्तैलजातीफला-
श्री(कण्ठ?खण्ड)त्रिफलाजटातगररुग्यष्टीचतुर्जातकैः ।
सोशीरागरुचोरयुग्ममृगनाभिः * पलाम्भोबिसै-
स्तैलं नेत्रशिरार्तिहन्तृ सपयः सिद्धं कुमारीरसे ॥ ४६-१३३ ॥
समेभदन्तामल(कं) पुटदाह्यमुषी(?) रसैः ।
भृङ्गस्य पिष्ट्वा तत्कल्कं ग्राह्यमष्टपलं पुनः ॥ ४६-१३४ ॥
द्वात्रिंशत्पलभृङ्गाद्भिस्तदर्धं तिलजं पचेत् ।
कलतेरपि जायन्ते केशास्तत्तैलम्रक्षणात् ॥ ४६-१३५ ॥
रसाञ्जनमजाक्षीरं पुटदग्धेभदन्तयुक् ।
तत पिष्टमायसगतं लिप्तं केशोद्भवप्रदम् ॥ ४६-१३६ ॥
खलतेरपीति यावत् ।
कृष्णगोमूत्रपिष्टं तु जपापुष्पं विलेपयेत् ।
इन्द्रलुप्तं हरेद् गुञ्जामूलं सा बृहतीरसे ॥ ४६-१३७ ॥
लघुबृहतीफलान्तर्वर्ती रस इति यावत् ।
धात्रीं कुष्ठं च मांसीं च मूलं नीलोत्पलस्य च ।
बलां जलेन सम्पेष्य लेपान्निविडकेशता ॥ ४६-१३८ ॥
सगन्धामलमात्रास्थि लिप्तं केशच्युतिं हरेत् ।
नीलोत्पलशिफायष्टिकेसरास्तु समास्त्रयः ॥ ४६-१३९ ॥
तैस्तुल्यामलकं लिप्तं कपालार्शोहरं परम् ।
आरग्वधदलं धात्री लाक्षापुन्नागबीजयुक् ॥ ४६-१४० ॥
सुखाम्बुपिष्टमालिप्तं कपालार्शोहरं परम् ।
बीजानि त्रिफलानां च शस्त्रचूर्णं तु भृङ्गराट् ॥ ४६-१४१ ॥
रक्ताश्वमारकुसुमं नीलीचूर्णं च पेषितम् ।
गुलेन धूपितं लिप्तं कृष्णतां पलितं नयेत् ॥ ४६-१४२ ॥
सर्वत्र काञ्चिकेनैव पेषयेत् ।
काकतुण्ड्याश्च पीलोश्च बीजतैलमयोमये ।
भाण्डे धर्मस्थमभ्यक्तं नस्याच्च पलितं हरेत् ॥ ४६-१४३ ॥
अन्तर्धूमं दहेन्मेहानर्कक्षीरे तु तद्रजः ।
कटुतैलयुतं लिप्तं शिरोरोगं व्यपोहति ॥ ४६-१४४ ॥
धात्रीपुन्नागबीजानि लाक्षारग्वधपल्लवाः ।
शु(प्त ? क्त) पिष्टा विलिप्तास्तु शिरोरोगहराः स्मृताः ॥ ४६-१४५ ॥
काकोडुम्बरमूलं तु तण्डुलोदकपेषितम् ।
दन्तस्य रुधिरास्रावं पीतमेव निवारयेत् ॥ ४६-१४६ ॥
पथ्याक्षामलनीलिका मधुकरीवाराहिमुण्ड्योऽमृता
ब्रह्मागश्च पुनर्नवा सतुरगा रक्तं तथा पीतकम् ।
चूर्णीकृत्य समांशकं शतपुटं कान्तं तदर्धांशतः
क्षौद्रालोलितमश्नतोऽब्दमजरं स्याच्चामरं तद्वपुः ॥ ४६-१४७ ॥
पथ्याक्षामलकाग्निकीटरिपवः स्याद् वाकुची भृङ्गिका
भल्लातश्च तथासनं शतपुटं कान्तं क्रमाद् वर्धितम् ।
तत्पात्रे मधुशर्कराज्यमृदितं लेह्यं तु संवत्सरात् ।
सिद्धिं प्राप्य जरां विजित्य शरदां जीवेत् सहस्रं सुखी ॥ ४६-१४८ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे मन्त्रपादे नानारोगपटलः षट्चत्वारिंशः ॥ ४६ ॥