अथ पञ्चचत्वारिंशः पटलः ।
अथामयानां भैषज्यं लिख्यते पूर्वसंस्कृतम् ।
नक्षत्रतिथिवारेषु दुष्टादुष्टेषु या रुजः ॥ ४५-१ ॥
साध्यासाध्यास्तु विज्ञेया भिषग्भिर्वाथ मन्त्रिभिः ।
सर्पेन्द्रवायुयमरुद्रशतोडुपूर्वा भौमासितार्कदिनविघ्नगुहा नवम्या ।
नक्षत्रवारतिथयः कथिता निषिद्धा रोगोद्भवे फलति नैषु चिकित्सिताद्यम् ॥
कृत्तिकायां रुजोत्पत्तौ पञ्चरात्रावधिर्भवेत् ॥ ४५-३ ॥
तद्देवताग्निर्दध्यन्नं तस्मै तन्मन्त्रतः क्षिपेत् ।
तत्तन्नक्षत्रदेवाय बलिद्रव्यैर्यथोदितैः ॥ ४५-४ ॥
ताराद्येन स्वनाम्ना तु नमोन्तं प्रक्षिपेद् बलिम् ।
रोहिण्यामपि पञ्चाहाद् व्याधेर्मोक्षः प्रजापतिः ॥ ४५-५ ॥
देवतास्मै प्रदातव्यो गन्धमाल्यौदनैर्बलिः ।
मृगशीर्षे तथा व्याधिरष्टरात्रं प्रवर्तते ॥ ४५-६ ॥
सोमाय मुद्गमाषाभ्यामन्नेन च बलिं हरेत् ।
आर्द्रायां दशरात्रं तु रुद्रार्थं पायसं बलिः ॥ ४५-७ ॥
पुनर्वसावष्टरात्रं व्याधिस्तद्देवतादितिः ।
पयोन्नं रक्तगन्धस्रगाज्ययुक्तं बलिं हरेत् ॥ ४५-८ ॥
पुष्ये पञ्चदिनं व्याधिर्देवतास्य बृहस्पतिः ।
गन्धमाल्यैश्च गन्धान्नं बलिं तस्मै तु निक्षिपेत् ॥ ४५-९ ॥
आश्लेषा सर्पदेवत्या तस्यां व्याधिस्तु मृत्युदः ।
तथापि होमदानाद्यैर्भिक्षान्नेन(?) बलिं हरेत् ॥ ४५-१० ॥
मखा पित्र्याष्टरात्रं तु तिलमिश्रान्नतो बलिः ।
पूर्वायास्त्वर्यमा दैवं गन्धमाल्यान्नतो बलिः ॥ ४५-११ ॥
सप्ताहमुत्तरे व्याधिर्बलिः प्राग्वद् भगाय तु ।
हस्ते सवितृदेवत्ये सप्ताहाद् वा त्रिसप्तभिः ॥ ४५-१२ ॥
व्याधेर्मोक्षो हविष्यान्नं गन्धमाल्ययुतं बलिः ।
चित्रा तु त्वष्ट्टदेवत्या साज्यान्नैः षड्दिनं बलिः ॥ ४५-१३ ॥
पञ्चपञ्चदिनैः स्वातौ व्याधिमोक्षोऽथ वा मृतिः ।
शुक्लान्नगन्धमाल्यैस्तु वायवे प्रक्षिपेद् बलिम् ॥ ४५-१४ ॥
प्ं ३१५) विशाखासूनविंशत्या त्विन्द्राग्न्योः पूर्ववद् बलिः ।
मैत्रे पक्षाद् घृतान्नाद्यं बलिः स्याद् रोगमुक्तये ॥ ४५-१५ ॥
ज्येष्ठायामर्धमासाद् वा मोक्षः प्रायेण वा मृतिः ।
दानाद्यैस्तु हविष्यान्नं बलिमिन्द्राय दापयेत् ॥ ४५-१६ ॥
मूलायां वा नवाहोभिः प्राग्वन्निर्-ऋतये बलिः ।
पूर्वाषाढेऽष्टदिवसैर्मासैर्मोक्षोऽथ वा मृतिः ॥ ४५-१७ ॥
आपो वै देवतास्ताभ्यो धानाद्यैः कृसरं बलिः ।
वैश्वदेवे सप्तरात्रान्मोक्षः स्यात् पायसं बलिः ॥ ४५-१८ ॥
वैष्णवे वत्सरान्मोक्षो गन्धमाल्यान्नतो बलिः ।
मासांस्त्रयोदश व्याधिर्धनिष्ठासु न मुञ्चति ॥ ४५-१९ ॥
वसुभ्यो देवताभ्यस्तु घृतमुद्गौदनैर्बलिः ।
शतभे पक्षतो मोक्षो मृतिर्वा दानहोमतः ॥ ४५-२० ॥
देवतेज्या जलेशाय बलिं दद्यात् तु पायसम् ।
पूर्वभाद्रपदे मोक्षो नास्ति दैवमजैकपात् ॥ ४५-२१ ॥
दानाद्यैर्धातकीपुष्पै रक्तान्नेन बलिं हरेत् ।
अष्टाविंशत्यहोरात्रैरुत्तराभाद्रभे रुजाः ॥ ४५-२२ ॥
मोक्षस्तु गन्धमाल्यान्नैः स्यादहिर्बुध्नये बलिः ।
मासान्मोक्षस्तु रेवत्यां पूष्णे गन्धादिभिर्बलिः ॥ ४५-२३ ॥
अश्विन्यां पञ्चविंशाहादश्विन्योर्बलिरोदनम् ।
भरणी यमदेवत्या तस्यां जीवति वा नवा ॥ ४५-२४ ॥
तथापि होमदानाद्यैर्गन्धान्नाद्यैर्बलिं हरेत् ।
अनिष्टवारनक्षत्रतिथियोगो मृतिप्रदः ॥ ४५-२५ ॥
अभीष्टवारतिथिभिरिष्टभे विरुजोद्गमः ।
देवद्विजेज्याहोमाद्यैर्जीवेन्मन्त्रजपादिभिः ॥ ४५-२६ ॥
ज्वरभेदास्त्वष्टभिदां वातात् पित्तात् कफादपि ।
सन्निपाताद् वातपित्ताद् वातश्लेष्मविमिश्रणात् ॥ ४५-२७ ॥
श्लेष्मपित्ताच्चाभिघातादित्युक्तोऽष्टविधो ज्वरः ।
जृम्भिकाशीतकम्पाश्च कट्यूर्वादिशिरोरुजा ॥ ४५-२८ ॥
तिक्तास्यता तृषा कासो नेत्राश्रूणि च वातिके ।
दाहमूर्छाप्रलापाश्च छर्द्यतीसारकभ्रमाः ॥ ४५-२९ ॥
अतिदाहो ज्वरस्तृष्णा पैत्तिकज्वरलक्षणम् ।
शीतोद्गमश्च विष्टम्भः स्तैमित्यं मधुरास्यता ॥ ४५-३० ॥
हृल्लासमोहौ शीतं च कफज्वरगुणास्त्वमी ।
असङ्गतप्रलापित्वं तृण्मूर्छाकूजनभ्रमाः ॥ ४५-३१ ॥
पित्तास्रवमनं जिह्वाकार्कश्यं सान्निपातिके ।
शिरोरुग्वमनं दाहो मोहः कण्ठस्य शुष्कता ॥ ४५-३२ ॥
जृम्भरोमाञ्चतोदाश्च सन्धीनां वातपित्तजे ।
कासपीनसविड्बन्धा भ्रमसन्धिशिरोरुजाः ॥ ४५-३३ ॥
वमनं श्लेष्मणो जाड्यं लिङ्गानि श्लेष्मवातजे ।
स्तम्भोऽङ्गानां तथा स्वेदो वमनं श्लेष्मपित्तयोः ॥ ४५-३४ ॥
तिक्तास्यता च लिङ्गानि कफपित्तज्वरस्य वै ।
अर्थपुत्रादिनाशाद् वा मन्त्रदेवादिशापतः ॥ ४५-३५ ॥
अजीर्णादथवा क्षुद्रादभिघातज्वरो भवेत् ।
स एव वातसंश्लेषादन्यो वा विषमज्वरः ॥ ४५-३६ ॥
स सर्वदा वा रात्रौ वा दिवा वा विषमज्वरः ।
कालातिपातेनार्वाग् वा नियमो नास्य विद्यते ॥ ४५-३७ ॥
एकाहो नित्यनियमाद् द्वैहिको नियमान्तरः ।
दिनद्वयमतीत्यायं ज्वरश्चातुर्थिको(?) मतः ॥ ४५-३८ ॥
विषमज्वर एवैभिर्नामभिः पृथगीरितः ।
वातिकाद्याश्चिकित्साभिर्दानैर्देवद्विजार्चनात् ॥ ४५-३९ ॥
मन्त्रयन्त्रजपैर्होमैर्गच्छन्ति विषमज्वराः ।
शीतज्वरा वैष्णवाः स्युरुष्णा माहेश्वरज्वराः ॥ ४५-४० ॥
तेषामादौ तु रोगाणां दानैर्मन्त्रैस्तथा हुतैः ।
बलिभिर्देवतेज्याभिः प्रतीकारो विधीयते ॥ ४५-४१ ॥
उग्रं त्रिणेत्रं भसितावदातं भस्मायुधं वामवरप्रदानम् ।
आताम्रमाल्यादिकमेकदंष्ट्रं ध्यायेज्ज्वरं पिङ्गजटाकिरीटम् ॥ ४५-४२ ॥
ॐ लर्वज्वषपूटाश नमः ।
अस्याङ्गानि स्वयं पञ्च देवता च ज्वरः स्वयम् ।
पङ्क्तिश्छन्दो मुनिर्व्यासः कुर्याच्चानेन तर्पणम् ॥ ४५-४३ ॥
ॐ ज्वरं तर्पयामि । ॐ शीतज्वरं तर्पयामि । ॐ वातज्वरं तर्पयामि । ॐ पित्तज्वरं तर्पयामि । ॐ श्लेष्मज्वरं तर्पयामि । ॐ सान्निपातज्वरं तर्पयामि । ॐ शिरोरोगज्वरं तर्पयामि । ॐ महाज्वरं तर्पयामि । ॐ सर्वज्वरं तर्पयामि । ॐ सर्वज्वरपार्षदांस्तर्पयामि ।
इक्षुमूले पद्मपीठे ध्यात्वा सन्तं ज्वरं विभुम् ।
लाजसक्तुविमिश्राद्भिः सन्ध्यारात्रिषु तर्पयेत् ॥ ४५-४४ ॥
क्षिप्त्वा शूलबलिं चैव तर्पणाम्भश्च पात्रगम् ।
आम्रमूले तु विसृजेत् त्रिदिनज्वरशान्तये ॥ ४५-४५ ॥
ॐ हृदयान्ते भगवते त्रियूसाशां प्रतिहताय हुं फट् खे क्ष । पिशाचमध्या विश हुं फट् ठठ ।
प्रस्थान्नपिण्डं कांस्ये तु निधायाज्यदधिप्लुतम् ।
तस्मिन् मन्त्रेण शूलाख्यमावाह्येष्ट्वा शतं जपेत् ॥ ४५-४६ ॥
दीपिकात्रितयं पिण्डे शूलाकारं तु विन्यसेत् ।
तेन नीराजयेत् साध्यं रोगक्षुद्रग्रहापहम् ॥ ४५-४७ ॥
शूलबलिप्रसङ्गेन कपालबलिश्च कथ्यते ।
नवं शरावमापूर्य रक्तोदेनाढकोचितम् ।
तन्मध्ये पिष्टजे दीपे ज्वालयेद् द्वादशाङ्गुले ॥ ४५-४८ ॥
ध्यात्वा कपालं तं चेष्ट्वा जपित्वाष्टशतं मनुम् ।
ॐ
हृद् ब्रह्मा पार्श्वभूबीजो दीर्घो वायुर्विषं च हा ॥ ४५-४९ ॥
मुद्रा य प्रें क्ष पालय हुं फट् ठठ ।
अनेन साध्यं नीराज्य स्थापयेत् तच्चतुष्पथे ।
कुबेराद्येन मन्त्रेण प्रोक्ताङ्गैः क्षीरसेचितैः ॥ ४५-५० ॥
आम्रपर्णैर्दशशतैर्जुहुयाज्ज्वरशान्तये ।
ॐ
कुबेरं ते मुखं रुद्रं नन्दीमानन्दिमावह ॥ ४५-५१ ॥
ज्वरं मृत्युं भयं घोरं ज्वरं जाशयते ज्वरम् ।
ॐ स्वाहा । कुबेरादिमन्त्रः ।
इक्षोर्मूले श्वेतपद्मे निविष्टः पद्मं बिभ्रच्छूलटङ्कौ कपालम् ।
शुक्लाकल्पः स त्रिणेत्रः कृशाङ्गो भूतिश्वेतः सत्कपर्दो ज्वरः स्यात् ॥ ४५-५२ ॥
एवंविधं महेश्वरज्वरं ध्वात्वेष्ट्वामुं मन्त्रं जपेत् । तारं च हृद्भगवते षुद्राश रुद्रज्वर कृतान्तरूपाय ह्रां ह्रीं ह्रूं फट् ।
रुद्रोऽस्य देवताङ्गानि स्वार्णैर्जातिविभाजितैः ॥ ४५-५३ ॥
शुद्धो निशि जपेल्लक्षं ज्वरं ध्यात्वा तु सिध्यति ।
साध्यं क्षीरार्णवे पद्मे चन्द्रमण्डलमध्यगम् ॥ ४५-५४ ॥
अन्वारभ्य जपेद् ध्यात्वा ज्वरमोक्षो भविष्यति ।
ॐ भस्मा(शुढाश ? युधाय) विद्महे । एकदंष्ट्राय धीमहे । तन्नो ज्वरः प्रचोदयात् । इयं ज्वरगायत्री ।
अनया जपितं भस्म विकिरेज्ज्वरशान्तये ॥ ४५-५५ ॥
नमो षरत्नत्र शाशं हृदयमावर्तयिष्यामि । भो भो ज्वर शृणु हन गर्द छर्द सर्वज्वर चट वज्रपाणिराज्ञापयति । शिरो मुञ्च कण्ठं मुञ्च उरो मुञ्च हृदयं मुञ्च उदरं मुञ्च कटिं मुञ्च जङ्घे मुञ्च पादौ मुञ्च चण्डपाणिराज्ञापयति हुं फट् ठठ ।
बुद्धाधिदैवतो मन्त्रो ह्यस्य प्रकृतिजापतः ।
पृथग् गुल्गुलुदाहेन ज्वरो नश्यति धूपतः ॥ ४५-५६ ॥
वृत्ते स्वरावृते कुम्भो भूगृहे ज्वरहा धृतः ।
साध्यनामयुक्तः ।
योऽसौ सरस्वतीतीरे अपुत्रो ब्राह्मणो मृतः ॥ ४५-५७ ॥
तस्मै तिलोदकं दद्यान्मुञ्चेदैकाहिको ज्वरः ।
प्रातरञ्जलिनानेन सकुशेन तिलोदकैः ॥ ४५-५८ ॥
सरक्तपुष्पं सन्तर्प्य निर्यात्यैकाहिको ज्वरः ।
सप्तकर्कटवेश्मोत्थमृदा शौचावशिष्टया ॥ ४५-५९ ॥
कुर्यात् त्रिवासरं पुण्ड्रमेकान्तरविनाशनम् ।
प्राचीना वसुरेखाः स्युः षड्रेखाश्चाप्युदङ्मुखाः ॥ ४५-६० ॥
बाह्यविंशतिकोष्ठेऽन्त्यराजिष्वन्तर्भुवोऽक्षरम् ।
साध्यनामावशिष्टेषु रेखाग्रेषु त्रिशूलयुक् ॥ ४५-६१ ॥
यन्त्रं लिखित्वा सम्पूज्य पञ्चवर्णौदनैर्बलिम् ।
बध्येच्चातुर्थिकश्चैव ज्वराभासश्च नश्यति ॥ ४५-६२ ॥
ताराग्नियुक्तं पार्श्वभ्रूमध्यहृन्नाभिसन्धिषु ।
विन्यस्य साध्यं शार्दूलं स्मृत्वा स्पृष्ट्वा च तत्त्वचः ॥ ४५-६३ ॥
त्रिष्कृत्वस्तु हरेच्छुक्लमवर्माङ्गं च तं स्मरेत् ।
ज्वरागमनवारेषु चातुर्थ्यज्वरशान्तये ॥ ४५-६४ ॥
दक्षिणोदङ्मुखं लेख्यं षट्कोणं मध्यतारकम् ।
तारस्य पार्श्वयोर्मांसं कोणेष्वग्निं च तद्बहिः ॥ ४५-६५ ॥
कोणसन्धिष्वङ्कुशान् षड् लिखित्वाभ्यर्च्य तारकम् ।
पाशाङ्कुशौ च प्रजपेत् सर्वज्वरहरं धृतम् ॥ ४५-६६ ॥
हृदयान्ते भगवते षुद्राशबन्ध ज्वर हुं फट् ठठ ।
अनेन सप्तकृत्वस्तु शिखाबन्धाज्ज्वरक्षयः ।
ज्वरो बद्धो भवति ।
तिन्त्रिणीवेष्टितं चूडाफलं शिरसि धारयेत् ॥ ४५-६७ ॥
चातुर्थिकं हरेन्नो चेद् भृङ्गगुञ्जाभ्रकैः समैः ।
सतैलं धूपयेद् वस्त्रच्छन्नं नश्यति स ज्वरः ॥ ४५-६८ ॥
तक्रे घृते वा पिबतु वन्दाकं बिल्वसम्भवम् ।
विषमज्वरनाशाय दानादीनपि कारयेत् ॥ ४५-६९ ॥
प्राचीनोदीच्यरेखाभिर्नवभिर्विषकोष्ठके ।
रेखाग्रतत्त्वशूले तु कोष्ठेषु वृतिषु क्षितौ ॥ ४५-७० ॥
हारनीरप्रियाभानुसङ्ख्येषु क्रमशो लिखेत् ।
वाय्वाद्यर्णान् कृष्णरक्तपीतशुक्लान् सबिन्दुकान् ॥ ४५-७१ ॥
इष्ट्वा जपित्वा तस्मिंस्तु शयीत ज्वरशान्तये ।
आख्याविदर्भं खं कुम्भे लिखेन्मध्ये तु तद्बलिः ॥ ४५-७२ ॥
सार्काशाष्टदलाम्भोजं बाह्ये त्रिंशद्दलाम्बुजम् ।
काद्यैः शान्ताक्षरैर्युक्तं तद्बाह्ये जलमण्डलम् ॥ ४५-७३ ॥
यन्त्रं सञ्जीवनमिदं सर्वरक्षोज्वरापहम् ।
मृत्युञ्जयपुटस्थं स्यान्नामजीवविदर्भितम् ॥ ४५-७४ ॥
अन्त्यावृतं ततो वृत्तमाच्छाद्याष्टदलेष्वपि ।
मृत्युञ्जयपुटं बाह्ये षोडशच्छदनाम्बुजे ॥ ४५-७५ ॥
मृत्युञ्जयपुटेष्वाख्या बाह्येऽब्जं रागपत्रकम् ।
काद्याः सदलगाः सान्ता बहिः शक्त्या वृतं तमः ॥ ४५-७६ ॥
माबीजेन त्रिधावेष्ट्य यन्त्रं मृत्युञ्जयाह्वयम् ।
विश्वरोगग्रहार्तीनां शमनं शिरसा धृतम् ॥ ४५-७७ ॥
चतुरश्रस्य कोणेषु तारं शक्तिश्च मध्यगा ।
शक्तौ नाम तद् यन्त्रं ज्वराभासविनाशनम् ॥ ४५-७८ ॥
शक्तौ नाम लिखेद् बाह्ये वसुपत्राम्बुजस्य तु ।
केसरेषु स्वरान् कादिवर्गान् सप्तदलेष्वपि ॥ ४५-७९ ॥
अष्टमेऽन्त्यद्वयं बाह्ये त्रिधा पाशेन वेष्टयेत् ।
अङ्कुशेन निरुध्येदं यन्त्रं सर्वार्थसाधकम् ॥ ४५-८० ॥
ज्वरेष्वासप्तमादह्नो न चिकित्सा विधीयते ।
यावद्बलं तूपवसेन्निषिद्धौ गोरसौदनौ ॥ ४५-८१ ॥
पेयां निरन्नां पिबतु विश्वापर्पटसाधिताम् ।
श्रेष्ठः पञ्चशिफाक्वाथः पाचनीयो मरुज्ज्वरे ॥ ४५-८२ ॥
अमृतापिप्पलीमूलशुण्ठीक्वाथस्तु पैत्तिके ।
बृहत्यौ वर्तियुग्मं च शुण्ठीभूनिम्बगोक्षुरैः ॥ ४५-८३ ॥
कफज्वरे कषायस्तु पातव्यः पिप्पलीयुतः ।
छिन्नागोक्षुरमुस्ताभिर्बृहत्यौ कण्टकारिका ॥ ४५-८४ ॥
विश्वाह्रीबेरकट्फलापर्प्पटक्वाथपानतः ।
वातज्वरः साङ्गकम्पः सद्य एव व्यपोहति ॥ ४५-८५ ॥
बिल्वादिपञ्चविश्वाभिर्विश्वाच्छिन्नाब्ददुःस्पृशाः ।
प्रशस्तौ वातिके क्वाथौ कम्पाङ्गव्यथने ज्वरे ॥ ४५-८६ ॥
छिन्नाविश्वापञ्चमूलपिप्पलीमूलकैः शृतम् ।
सर्वाङ्गसन्ध्यस्थिशिरस्तोदे वातज्वरे पिबेत् ॥ ४५-८७ ॥
कुस्तुम्बुरुद्विभागाभ्यां भागं विश्वाशृतं जलम् ।
दाहमोहौ त्रिदोषोत्थान् पीतं हन्याज्ज्वरान् क्षणात् ॥ ४५-८८ ॥
मुस्तापर्पटदुःस्पर्शापाठोशीराम्बुभिः शृतः ।
पित्तज्वरापहो योगः किञ्चिच्छर्करया युतः ॥ ४५-८९ ॥
तिक्तां सशर्करां तोये पिबेत् पित्तज्वरापहाम् ।
विश्वोशीरगुलूच्यम्बुपाठादुःस्पर्शधान्यकैः ॥ ४५-९० ॥
क्वाथः पित्तज्वरे पेयो भ्रमतृष्णाविधातनुत् ।
कुस्तुम्बुरुर्देवदारुर्नागरं बृहतीद्वयम् ॥ ४५-९१ ॥
क्वथितं पाचकं पेयं प्रथमज्वरनाशनम् ।
वाशाविश्वाब्दमरिचैः क्वाथः श्लेष्मज्वरापहः ॥ ४५-९२ ॥
विलङ्गविश्वाबिल्वाब्दसुरदारुशृतं तु वा ।
किञ्चिन्मधूत्तरमिति यावत् ।
निशाब्दस्त्रिफला तिक्ता पटोलीपिचुमन्दकौ ॥ ४५-९३ ॥
देवदारुः कण्टकारीपिप्पलीमूलकैः शृतः ।
डुण्डुकद्वयसंयुक्तः सन्निपातज्वरापहः ॥ ४५-९४ ॥
तिक्ताश्लेष्माब्दमरिचभूनिम्बारिष्टवत्सकैः ।
छिन्नापटोलपाठाभिः क्वाथः सर्वज्वरापहः ॥ ४५-९५ ॥
श्वासातुरो निपतितो नातिशीतोष्णवान् ज्वरी ।
भ्रान्तदृष्टिः प्रलापी चाप्यभिन्यासातुरो नरः ॥ ४५-९६ ॥
सिन्धूत्थहस्तिपिप्पल्यौ मधुकास्थिवचोषणैः ।
पाननस्याञ्जनैर्हन्यादभिन्यासं तु सन्ध्ययोः ॥ ४५-९७ ॥
व्याघ्रीमृणालभूनिम्बभार्गीदुःस्पर्शसाधितः ।
कषायो हन्त्यभिन्यासं व्योषोग्राभार्गिकैः शृतः ॥ ४५-९८ ॥
धात्रीकुस्तुम्बुरुच्छिन्नाचन्दनैः क्वथितं जलम् ।
सिताक्षौद्रयुतं पेयं कफवातज्वरापहम् ॥ ४५-९९ ॥
हिक्काश्वासकासगलग्रहशोषप्रमोहांश्च हरति ।
छिन्नापथ्यानागरांशैस्त्रिद्व्येकैस्तु शृतं जलम् ।
सगुलं वायुसङ्गं च ज्वराजीर्णे च नाशयेत् ॥ ४५-१०० ॥
छिन्नापटोलत्रिफलाघनैर्निम्बशलाकया ।
धाम्याकैश्च समैः क्वाथः सर्वज्वरविनाशनः ॥ ४५-१०१ ॥
वाशा देवद्रुमो धात्री पथ्यावर्ती च नागरम् ।
सितामधुयुतः क्वाथो ज्वरं चातुर्थिकं हरेत् ॥ ४५-१०२ ॥
गुले वदरमात्रे तु क्षिप्त्वैकं मक्कुणं ग्रसेत् ।
ज्वरश्चातुर्थिकश्चापि द्व्यैहिकश्च विनश्यति ॥ ४५-१०३ ॥
सहदेवां वचोपेतां धूपयेद् विषमज्वरे ।
कपिलाज्यसहाधूपान्नाशयेद् विषमज्वरम् ॥ ४५-१०४ ॥
छिन्नानिदिग्धिकाविश्वाक्वाथं कृष्णान्वितं पिबेत् ।
पीनसार्दितकश्चासारुच्यजीर्णज्वरान् हरेत् ॥ ४५-१०५ ॥
छिन्नाकषाये तत्कल्के सिद्धमाज्यं ज्वरं जयेत् ।
भ्रूबिम्बस्य त्रिभिर्भागै रेखे प्रागुत्तरायते ॥ ४५-१०६ ॥
मध्ये पञ्चदलाब्जेऽन्त्ये नामयुक्ताक्षिबाह्यतः ।
बिम्बाद् बहिश्चतुर्दिक्षु श्रीकण्ठं चान्तराश्रिषु ॥ ४५-१०७ ॥
साक्षमन्त्यं चितामष्या लिखित्वार्कैस्तदर्चयेत् ।
बलिं च दत्त्वा सन्ध्यायां कलयेच्छ्वासशान्तये ॥ ४५-१०८ ॥
किन्नरकिम्पुरुषगरुडगन्धर्वयक्षराक्षसनिःश्वासोपद्रवं हर पितृपिशाचाय ठठ ।
भूगृहावस्थवज्रस्य मध्ये नाम लिखेन्मनुम् ।
वज्रस्य परितोऽभ्यर्च्य घृतं श्वासविनाशनम् ॥ ४५-१०९ ॥
भुक्तोच्छिष्टान्नममुना दद्याच्छ्वासहृदश्नतः ।
कृष्णारम्भाफलं मूत्रे गवां संशृत्य भक्षयेत् ॥ ४५-११० ॥
श्वासवान् भार्गिकां यष्टिं क्षौद्रे लीढ्वा तु तं हरेत् ।
कुसुमं साप्तपर्णं तु मस्तुना श्वासहृत् पिबेत् ॥ ४५-१११ ॥
बदरफलमात्रमेव ।
विश्वापथ्याब्दचूर्णं तु गुलेन गुलुकीकृतम् ।
धारयेद् वदने तीक्ष्णकासश्वासहरं परम् ॥ ४५-११२ ॥
विश्वाकृष्णानिशाव्योषचूर्णं तैले गुलान्वितम् ।
प्रातः प्रातर्लिहेत् सद्यः कासश्वासहरम् ॥ ४५-११३ ॥
विश्वैलागैरिकाव्योषचूर्णं मध्वाज्यमिश्रितम् ।
लिहेछ्वासहरं प्रातः पटस्य वचनं यथा ॥ ४५-११४ ॥
कृष्णा पथ्या शृङ्गिबेरराजा कर्कटशृङ्गिका ।
साञ्जना मधुना लीढाः पञ्चहिक्काहराः स्मृताः ॥ ४५-११५ ॥
हिङ्गु कर्कटशृङ्ग्येला गैरिक मरिचं मधु ।
श्वासहिक्काहरं लेहान्मलयेन्द्रवचो यथा ॥ ४५-११६ ॥
मध्वाज्ये शाललं भस्म हिक्काश्वासविनाशनम् ।
शललीकण्टकस्य भस्म ।
कृष्णा विश्वा सिता धात्री पिञ्छभूतिर्मधुप्लुता ॥ ४५-११७ ॥
हिक्कां हरति कृष्णाब्दखर्जूरं मधुना तथा ।
वै वेदिषु बन्ध हा त शभातश निरुद्ध पूर्णमणि ठठ ।
कण्ठे भूमण्डलं स्मृत्वा तेन तोयं जपन् पिबेत् ॥ ४५-११८ ॥
छर्दिं हरति ।
उत्पलं चन्दनं लोध्रं केसरं मधुकं मधु ।
पित्तच्छर्दिहरं लीढमथ त्रिकटु सैन्धवम् ॥ ४५-११९ ॥
सूक्ष्मैला त्रिफला क्षौद्रे श्लेष्मच्छर्दिहराः स्मृताः ।
चातुर्जाते च पिप्पल्यश्चाश्वलण्डरसो मधु ॥ ४५-१२० ॥
लाजासितायुतं लेह्यं सर्वच्छर्दिविनाशनम् ।
शुण्ठीफलत्रयं लाजा लोध्राङ्कोलाञ्जनत्वचः ॥ ४५-१२१ ॥
छर्दिघ्ना मधुना लीढाः पृथक् पादोदितास्तु वा(?) ।
चाफसे ब्रह्मण्येलत्यहाडिणि न भविष्यसि । देवि ते विरूपे अवतर कामं कामिष्ठ फु ठठ ।
अनेन मन्त्रिताम्भोभिः स्नानपानानि कामिलाः ॥ ४५-१२२ ॥
मण्डूकपर्णीस्वरसं धात्रीरात्रिमधुप्लुतम् ।
धारोष्णपयसा पीतं नाशयेत् पञ्च कामिलाः ॥ ४५-१२३ ॥
महिषीमलतोयेन समानं महिषीदधि ।
किञ्चिद् यवानीचूर्णं तु शमयेत् पञ्च कामिलाः ॥ ४५-१२४ ॥
विशेषेण कुम्भकामिलाम् ।
प्रातर्नागबलातोयं महिषीतक्रमिश्रितम् ।
मथित्वा तद्धनं त्यक्त्वा पीतं तत् कामिलां हरेत् ॥ ४५-१२५ ॥
रक्तापामार्गशिफया तक्रे नागबलां पिबेत् ।
शृङ्गाम्भसा शिरोऽभ्यज्य जिघ्रेच्चाप्यज्झटां सदा ॥ ४५-१२६ ॥
कामिला गच्छति ।
छिन्नामधूकत्रिफलानिम्बैः क्वाथं मधुप्लुतम् ।
पीतं तत्कामिलां हन्यादनम्ललवणाशनात् ॥ ४५-१२७ ॥
लवणाम्लं च घर्मोष्णं वर्जयेत् कामिलातुरः ।
शिलाजतु पशोर्मूत्रैः कुम्भकामिलकाहरम् ॥ ४५-१२८ ॥
यदा चिकित्सा न कृता कामिला पाण्डुरोगताम् ।
प्रयाति तत्प्रतीकारः किञ्चिदत्र प्रदृश्यते ॥ ४५-१२९ ॥
तिक्ता फलत्रयं वाशा छिन्ना भूनिम्बनिम्बयुक् ।
क्वाथो मधुप्लुतो हन्ति पाण्डुरोगं च कामिलाम् ॥ ४५-१३० ॥
विश्वादीप्यकसिन्धूत्थभृङ्गपथ्याश्च चित्रकम् ।
भूकदम्बं च तक्रेण पाययेत् पाण्डुरोगहृत् ॥ ४५-१३१ ॥
पुनर्नवशिफापथ्याभृङ्गनागरदीप्यकाः ।
बलातिबलचित्रं च बदरी चन्दनं समाः ॥ ४५-१३२ ॥
तैर्भावितं समं किट्टमायसं मथिते पिबेत् ।
अनम्ललवणं प्राश्नन् पञ्च पाण्डुगदान् हरेत् ॥ ४५-१३३ ॥
विश्वाबलाभृङ्गतिलचित्रकिट्टानि वा पिबेत् ।
भृङ्गाणि तिलतक्राणि पिबेद् वा पाण्डुरोगजित् ॥ ४५-१३४ ॥
बन्धूकवाशाछिन्नानां कषायो मधुना जयेत् ।
रक्तपित्तं समधु वा छिन्नया साधितं जलम् ॥ ४५-१३५ ॥
समूलमुत्पलं द्राक्षा कदली पद्मकेसरम् ।
वटप्ररोहशुङ्गानि काष्मरीसारयष्टयः ॥ ४५-१३६ ॥
एतेषां समभागानां क्वाथं समधुशर्करम् ।
निद्रोत्थितः पिबेत् काल्यं रक्तपित्तं विनश्यति ॥ ४५-१३७ ॥
प्रमेहश्च ।
प्राचीनं चाप्युदीचीनं लिखेद् रेखाद्वयं द्वयम् ।
रेखाग्रेष्वष्ट वज्राणि मध्ये तारं च तद्बहिः ॥ ४५-१३८ ॥
तारं तत्कोष्ठके लेख्यमेवं हस्ततलेऽर्पितम् ।
दर्शितं चामृतध्यानाच्छिरोरोगं विनाशयेत् ॥ ४५-१३९ ॥
तारभान्तौ विना त्वस्मिन् चक्रे कोष्ठचतुष्टये ।
कोष्ठेषु यान्तसार्धेन्दुं सूर्यग्रहविषं लिखेत् ॥ ४५-१४० ॥
मध्ये सुपाशं क्रोडीशं चक्रस्य परितो मनुम् ।
अनन्तं च णिकारं च वीप्सितौ तौ पिनाकिनम् ॥ ४५-१४१ ॥
सोमेशं द्विगुणं दीर्घं णिकारं चापि वीप्सयेत् ।
ठठ णेमि ठठान्तोऽयं मन्त्रो लेख्यः प्रदक्षिणम् ॥ ४५-१४२ ॥
इष्ट्वा दत्त्वा बलिं बद्धं शिरोरोगं विनाशयेत् ।
वाताच्छिरोरुङ् नात्युष्णात् पित्तादत्युष्णकोपनात् ॥ ४५-१४३ ॥
कफाद् गुरुत्वं शिरसस्तत् सर्वं सान्निपातिके ।
सूर्यावर्तशिरोरोगः पूर्वाह्ने चातिवर्धते ॥ ४५-१४४ ॥
क्षयं यात्यपराह्णे तु कफवातभवस्तु सः ।
अर्धावभेदः शिर्ष्णोऽर्धे शङ्खकः शङ्खवेदनः ॥ ४५-१४५ ॥
तौ च वाताश्रयौ ।
कुलस्थमाषमुद्गांस्तु पिबेदाज्येन वातिके ।
शिरोरोगे शङ्खके च लिम्पेदाज्येन तत्त्रयम् ॥ ४५-१४६ ॥
धात्रीवचामलयजं च बलार्जलाजकर्पूरयष्टिहिरिबेरमुशीरकं च ।
सर्वं समं दृषदि तण्डुलतोयपिष्टं लिम्पेच्छिरस्यखिलशिर्षरुजां शमार्थम् ॥ ४५-१४७ ॥
चिञ्चाफलं पुराणं तु शर्करानागरान्वितम् ।
तण्डुलाम्बुयुतं नस्यान्नश्येदेव शिरोरुजा ॥ ४५-१४८ ॥
दूर्वामूलनिशोशीरयष्टीमधुकचन्दनैः ।
नन्द्यावर्ताङ्कुरसमैः पिष्ट्वा तोयेन तद्रसः ॥ ४५-१४९ ॥
सशर्करः प्रलिप्तस्तु सूर्यावर्तविनाशनः ।
सिन्धूत्थं नागरं कुष्ठं कार्पांसस्य शिफा तथा ॥ ४५-१५० ॥
साज्यं कोष्णं शिरोरोगान् हन्यादेव हि नस्यतः ।
कुश्माण्डैरण्डयोर्मूले पिष्ट्वा शुक्तेन लेपयेत् ॥ ४५-१५१ ॥
पारिभद्रत्वचं वापि शिरोरोगप्रशान्तये ।
निशामरिचविश्वानां चूर्णवर्त्यः पृथक् पृथक् ॥ ४५-१५२ ॥
धूपनस्योपयुक्तास्तु शिरोरोगबिनाशनाः ।
यत्रागतासि भद्रं ते तं विन्ध्यं गच्छ सुव्रते ॥ ४५-१५३ ॥
ठठ ।
दृक्पुष्पहृदयः प्रोक्तो मन्त्रस्तोयादिसेकतः ।
लिखित्वा भूगृहे रेखाः साष्टिस्वरकसंयुताः ॥ ४५-१५४ ॥
लम्बयित्वापरेणेह दृष्टास्ताः कुञ्चितापहाः ।
उपानत्(?)पाठयोः पानान्न जायेत मसूरिका ॥ ४५-१५५ ॥
हिरिबेरकजीवन्तीछिन्ना वाशा च शारिबा ।
दार्वीचन्दननिम्बाश्च त्रिफलोशीरतोयदैः ॥ ४५-१५६ ॥
क्वाथः समाक्षिकगुलो मसूरिकनिवारणः ।
पटोलनिम्बयोः क्वाथं पिबेद् यदि सशर्करम् ॥ ४५-१५७ ॥
मसूरिकोद्गमात् पूर्वं नोत्पद्यन्ते मसूरिकाः ।
महिषीमलजं वारि सचन्दनरसं पिबेत् ॥ ४५-१५८ ॥
धात्रीशल्कफलप्रस्थं नृतोये दिवसोषितम् ।
निष्पीड्य पीतं यद्यस्य नोत्पद्यन्ते मसूरिकाः ॥ ४५-१५९ ॥
सिन्धूत्थपथ्याविश्वाख्याः समं पिष्ट्वोष्णवारिणा ।
पिबेदानाहविष्टम्भावामदोषं च नाशयेत् ॥ ४५-१६० ॥
पथ्यादीप्यकसिन्धूत्थकणाविश्वानि मस्तुना ।
तक्रेण क्वथितं प्रातः पिबेदग्निप्रदीपनम् ॥ ४५-१६१ ॥
पथ्याकणादीप्रसिन्धून् षट्चतुर्द्व्येकभागिकान् ।
तक्रेण क्वथितान् प्रातः पिबतामरुचिः कुतः ॥ ४५-१६२ ॥
अग्निप्रदीपनं च ।
द्रोणमूलसमं विश्वासैन्धवं तक्रपाचितम् ।
क्रोधाग्निं जनयेत् प्रातः पीतं चारुचिनाशनम् ॥ ४५-१६३ ॥
हिङ्गुसिन्धुकणाविश्वास्त्वेकैकं द्विगुणाभया ।
उष्णोदकेन पीताः स्युर्नॄणां स्रंसनदीपनाः ॥ ४५-१६४ ॥
गुलूचीं सैन्धवं पथ्यां नागरं च समांशकम् ।
मथिते क्वथितं पीतं कायाग्निबलवर्धनम् ॥ ४५-१६५ ॥
भल्लातभार्गीलघुमूलपथ्यां चैवाग्निराजीमरिचं यवानीम् ।
सिन्धूत्थदीप्यैः क्वथितं कदुष्णं वायोर्विकारं च कफं च हन्यात् ॥ ४५-१६६ ॥
सितासिन्धूत्थकृणाख्याः समांशाः श्लक्ष्णचूर्णिताः ।
सुकोष्णसलिले पीताः सद्यो हृद्रोगशान्तिदाः ॥ ४५-१६७ ॥
वाराहीचित्रवाशाभिस्तण्डुलैस्तैलसाधितः ।
अपूपो भक्षितः सद्यो हृद्रोगशमनप्रदः ॥ ४५-१६८ ॥
दुःस्पर्शनागरबलाकषायः सैन्धवोत्तरः ।
पार्श्वशूलं च हृद्रोगमुदावर्तं च नाशयेत् ॥ ४५-१६९ ॥
क्वाथः सपिप्पलीचूर्णः पिप्पलीमूलविश्वयोः ।
पीतः सर्वग्रहणिकां हरेदग्निं च दीपयेत् ॥ ४५-१७० ॥
रजन्यौ मरिचं कुष्ठं शुण्ठिं चोष्णोदके पिबेत् ।
संहरेद् ग्रहणीः सर्वा दृष्टिदोषादिकं तथा ॥ ४५-१७१ ॥
पाण्योर्दाहो विलोणाम्भःपानं चापि विषूचिजित् ।
मुस्तोशीरकणामूलकलशीविश्वसाधितम् ॥ ४५-१७२ ॥
जम्ब्वाम्रपल्लवाभ्यां च विषूचिघ्नं पिबेज्जलम् ।
कटूनि पञ्चलवणं किञ्चित् स्नुहिपयोयुतम् ॥ ४५-१७३ ॥
सुकोष्णाम्भसि पीतं चेज्जयेद् घोरां विषूचिकाम् ।
पथ्या पिण्डाख्यलवणं हिङ्गुश्चातिविषा वचा ॥ ४५-१७४ ॥
पीताः सुखोदके हन्युः सहमूला विषूचिकाम् ।
चित्रवत्सकविश्वाम्बुरामठातिविषां पिबेत् ॥ ४५-१७५ ॥
पाठा ज्योतिष्मती कर्णीवत्सकुस्तुम्बुरुणि वा ।
वचाब्दातिविषाशुण्ठीबिल्ववत्सकरामठाः ॥ ४५-१७६ ॥
तक्रकाञ्चिकयोरुष्णं पीतातीसारशान्तिदाः ।
मुस्ताक्वाथस्तु समधुः पक्वातीसारशान्तिदः ॥ ४५-१७७ ॥
अभयातिविषाविश्वादेवदारुवचाम्बुदाः ।
उष्णाम्भःपेषिताः पीताः सर्वातीसारशान्तिदाः ॥ ४५-१७८ ॥
सिन्धूत्थहिङ्गुमरिचा लशुनी च शुण्ठी कारञ्जवल्कमजमोजकजीरकाणि । एला सनागरकणा मथितेन मण्डं सामातिसाररुधिरं हरतीह पीतम् ॥ ४५-१७९ ॥
अम्रांस्थि दिप्यकं विश्वासमङ्गाशालिशुङ्गकैः ।
साभयैर्मथितं पक्वं साङ्ग्रहिग्रहणीहरम् ॥ ४५-१८० ॥
यष्टिवत्सकभूनिम्बपाठारात्रिद्वयान्वितम् ।
तक्रक्वाथं पिबेत् सद्यः पीतां चातिसृतिं हरेत् ॥ ४५-१८१ ॥
भृङ्गीसमङ्गाकलशीसाब्दातिविषदारुभिः ।
पिष्टं वा क्वथितं गुप्ते वातातीसारनाशनम् ॥ ४५-१८२ ॥
मूलानि शक्रवल्ल्यास्तु पिष्ट्वा तक्रं मधुप्लुतम् ।
पीतं हन्यादतीसारं मस्तुना काञ्चिकेन वा ॥ ४५-१८३ ॥
छिन्नापाठाब्दभूनिम्बविश्ववत्सकसाधितः ।
पीतः कषायस्तु हरेत् सज्वरातिसृतिं क्षणात् ॥ ४५-१८४ ॥
कृष्णांस्तिलान् वयस्यां च लोध्रयष्टिसितोत्पलान् ।
अजाक्षीरे पिबेत् काल्यं रक्तातीसारशान्तये ॥ ४५-१८५ ॥
शुलाद् वाताद् भवेद् वस्तौ नाभौ दाही च पैत्ति(के?कः) ।
कफजो हृदि हृल्लासस्त्वसाध्यः सर्वगो यदि ॥ ४५-१८६ ॥
एरण्डपत्रषट्काम्भः किञ्चित् सैन्धवमाश्रितम् ।
तन्नस्यं वातशूलघ्नं विश्वाचिञ्चादलाम्बु च ॥ ४५-१८७ ॥
हिङ्गुत्रिकटुसिन्धूत्थकुष्ठोग्राशैलचूर्णिकाः ।
उष्णोदके समं पीताः सद्यः शूलं हरन्ति हि ॥ ४५-१८८ ॥
लध्वेरण्डस्य पत्राप्सु हिङ्गुसैन्धवकल्कयुक् ।
तैलं पचेत् तन्नस्येन शूलो नश्यति तत्क्षणात् ॥ ४५-१८९ ॥
कुबेराक्षिफलं कर्षं नागरं लशुनं तथा ।
तत्क्वाथो हिङ्गुसुन्धूत्थचूर्णयुक् सर्वशूलहा ॥ ४५-१९० ॥
हिङ्गोस्तु सैन्धवं तस्मात् तैलमेरण्डजं क्रमात् ।
त्रिगुणं तैः समं चाम्भो लाशुनं सर्वशूलजित् ॥ ४५-९१ ॥
विलङ्गस्य तु सर्वाङ्गक्वाथः सद्धिङ्गुसैन्धवः ।
पीतः स्यात् सर्वशूलघ्नो न प्रकाश्यो दुरात्मनाम् ॥ ४५-१९२ ॥
नालिकेरमुख छित्त्वा मृदाच्छाद्य तु तद् दहेत् ।
एरण्डबीजनिष्कं तु पिष्ट्वालोड्य तु तज्जले ॥ ४५-१९३ ॥
सोष्णमेव पिबेत् सद्यो निपतत्यश्मरी क्षणात् ।
रक्तापद्मार्कमूलं तु पीतमुष्णेन वारिणा ॥ ४५-१९४ ॥
पातयेदश्मरीं सद्यो मूत्रकृच्छ्रं तु नाशयेत् ।
मत्स्याक्षिमूलं तत्क्रेण शर्करापातनं पिबेत् ॥ ४५-१९५ ॥
सर्पाक्षी वनमल्लिका च वरणापामार्गशिग्रुद्वयी
भद्रागोक्षुरकाशमर्दसुभगाश्वेतच्छदाब्जैः समैः ।
तुल्यैः कृष्णकुलस्थकैः शृतजलं यन्नालिकेराम्बुमत्
कृष्णैलासहितं पिबेत् सहरुजा भिन्ना पतेदश्मरी ॥ ४५-१९६ ॥
जम्बूप्रवालकल्काढ्यं क्षौद्रं पीतं तु कृच्छ्रजित् ।
एलाकृष्णाश्वदंष्ट्राभिर्मधूकारेणुपूतिकैः ॥ ४५-१९७ ॥
अश्मभेदिपृथक्क्वाथे शिलाजतुयुतं पचेत् ।
तत् पिबेदश्मरीमूत्रकृच्छ्रहृच्छर्करापहम् ॥ ४५-१९८ ॥
नालिकेराम्बु सगुलं सकुस्तुम्बुरु कृच्छ्रजित् ।
छिन्नाकल्कं च ससितं गवां क्षीरेण कृच्छ्रजित् ॥ ४५-१९९ ॥
पारिभद्रत्वचो भस्म सर्वापामार्गजं तथा ।
एरण्डतैलमालोड्य पिबेद् गुल्मविनाशनम् ॥ ४५-२०० ॥
क्वाथं बिल्वशिफायास्तु सोष्णं सैन्धवयोजितम् ।
गुल्मशूलहरं पीतं क्वाथश्च वनशिग्रुजः ॥ ४५-२०१ ॥
पयसा मधुकं द्राक्षा पद्मकं चन्दनं मधु ।
पीतं तण्डुलतोयेन पित्तगुल्महरं परम् ॥ ४५-२०२ ॥
स्नुहिखण्डं तुलाभाण्डे तुल्यलोणविमिश्रितम् ।
विधायालिप्य च मृदा करीषाग्नौ दहेत् ततः ॥ ४५-२०३ ॥
शीतीभूते तथोद्धृत्य क्वथितं काञ्चिके पिबेत् ।
पञ्च गुल्मानि नश्यन्ति कायाग्नेर्दीपनं च तत् ॥ ४५-२०४ ॥
चिरिबिल्वत्वचा शुण्ठीकुलस्थैरसितैः समैः ।
क्वाथः कणाहिङ्गुयुतः श्लेष्मगुल्मोपशान्तिदः ॥ ४५-२०५ ॥
अर्ज्नुनस्य फलैस्तुल्यमपामार्गं च दाहयेत् ।
तद्भस्मलोलिताम्भस्तु पचेत् कृष्णकुलस्थकान् ॥ ४५-२०६ ॥
तज्जलं त्रिकटून्मिश्रं पञ्चगुल्महरं पिबेत् ।
समूल विलङ्गं च भल्लातबीजं पचेद् द्रोणतोये चतुर्थावशेषम् ।
स्वकल्केन चाप्यूषणैः साधितं तत् समक्षौद्रमिश्रं हरेच्छूलगुल्मान् ॥ ४५-२०७ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे मन्त्रपादे ज्वरादिचिकित्सापटलः पञ्चचत्वारिंशः ॥ ४५ ॥