अथ चतुश्चत्वारिंशः पटलः ।
अथोन्मादस्य शमनमपस्मारस्य चोच्यते ।
शतावरी च मधुकं विदारी पिप्पली मधु ॥ ४४-१ ॥
कर्जूरशर्करासर्पिः सर्वोन्मादहरं पिबेत् ।
उन्मत्तमूलचूर्णं तु चुक्रतैलान्वितं भुवि ॥ ४४-२ ॥
सप्ताहं न्यस्तमुद्घृत्य लिप्तमुन्मादशान्तिकृत् ।
मधूकं च कणा यष्टिमृद्वीकामुस्तशारिबाः ॥ ४४-३ ॥
कर्पूरचन्दनं सर्पिः स्तन्येक्षुरसशर्कराः ।
पिष्टा नसि कृता हन्युरुन्मादानि नवान्यमी ॥ ४४-४ ॥
कुष्ठहिङ्गुवचायष्टिशिरीषलशुनेन तैः ।
नस्याञ्जनं साजमूत्रैः पानं च भ्रान्तिनाशनम् ॥ ४४-५ ॥
शिवस्कन्दार्यनिर्माल्यनिर्माल्याज्यं च गुग्गुलु ।
वचाजरोमगोपुच्छरोमनिम्बाश्विपुत्रयुक् ॥ ४४-६ ॥
राजीहिङ्गुयुतं धूपास्त्रिसन्ध्यं ग्रहनाशनाः ।
मयूरपित्तगोशृङ्गकुक्कुटाण्डविलालविट् ॥ ४४-७ ॥
वचाजरोमोन्मत्तानि मातुलास्थि कटुत्रयम् ।
राजीनिम्बदलैर्हिङ्गुयुक्तैर्धूपो ग्रहापहः ॥ ४४-८ ॥
गोमूत्रोषणसिन्धूत्थकपित्थशिफया कणा ।
ग्रस्ताक्ष्णोरञ्जनाद्धन्यादुन्मादांश्च ग्रहानपि ॥ ४४-९ ॥
वन्ध्यकार्कोटकीमूलं हिङ्गु च नृजलोक्षितम् ।
शुष्कं गुलीकृतं हन्यादञ्जनाद् सविषग्रहान् ॥ ४४-१० ॥
रसोननिम्बपत्रास्थिलेपान्मुञ्चति तद्ग्रहः ।
मातृहाभूतवृक्षाभ्यां तस्यालेपौ ग्रहापहौ ॥ ४४-११ ॥
शिरीषहिङ्गुलशुनमञ्जिष्ठाबकयष्टिभिः ।
वचाकुष्ठगुलीनस्यादञ्जनाच्च ग्रहान् हरेत् ॥ ४४-१२ ॥
व्योषहिङ्गुनिशादारुशिरीषलशुनैर्वचा ।
करञ्जबीजमञ्जिष्ठाकदलीमूलकल्कतः १३ ॥
रम्भाम्भसा च गोमूत्रक्वथिताज्यं ग्रहापहम् ।
पानादिनेति यावत् ।
ब्रह्मदण्डीं च मुण्डीं च कुमारीमिन्द्रवारुणीम् ॥ ४४-१४ ॥
पिष्ट्वा नृमूत्रे नस्येन ग्रहोन्मादविनाशनम् ।
भार्गीलवणकुष्ठानि वृश्चिकाली च पिप्पली ॥ ४४-१५ ॥
चूर्णीकृतान्यपस्मारं हन्ति नस्यप्रयोगतः ।
पुष्याहृतं शुनः पित्तं हन्त्यपस्मारमञ्जितम् ॥ ४४-१६ ॥
तेन गोघृतयुक्तेन धूपोऽपस्मारनाशनः ।
शुना वैभीतफलके खादितास्तत्तिलाः पुनः ॥ ४४-१७ ॥
याताः शकृत्त्वं तत्तैलं नस्याद्धन्यादपस्मृतिम् ।
वृकविड्रसनस्यं च धूपं चापस्मृतिं हरेत् ॥ ४४-१८ ॥
वृकभक्षितमांसास्थि पाननस्याच्च तद्धरेत् ।
भूनिम्बामृतपूतीका निर्यासो वनशिग्रुजः ॥ ४४-१९ ॥
वन्ध्यकार्कोटकीव्योषां (?) कोलक्वाथं पिबेद् यदि ।
दिनत्रयं वा सप्ताहमपस्मारग्रहापहः ॥ ४४-२० ॥
वचाश्वगन्धाकुष्ठानि निशे द्वे शङ्खपुष्पिका ।
कटूनि धात्री सिन्धूत्थं कल्कमेषां तु नित्यशः ॥ ४४-२१ ॥
एषां पृथक्पलक्वाथः प्रस्थद्वयमितो भवेत् ।
ब्रह्मीरसस्य प्रस्थे द्वे घृतप्रस्थे तु पाचयेत् ॥ ४४-२२ ॥
तत्पानाद्धन्त्यपस्मारमुन्मादांश्च ग्रहानपि ।
प्रत्येकं कुडुबं तु यष्टिमधुकं हिङ्गोश्च सिन्धोः पृथग्
विंशत्या कुडुबैर्गजेन्द्रसलिलं पञ्चांशकं गोघृतम् ।
कूश्माण्डस्य रसो भवेत् द्विगुणितो मूत्राज्ययोः पाचितं
तत् पीतं च घृतं तथा नसिकृतं हन्यादपस्मारकान् ॥ ४४-२३ ॥
शतफलकशङ्खकुसुमे द्रोणद्वयवारियोजिते क्वथिते ।
तैलाज्यकुडुबषट्के सिद्धं पीतं जयेदपस्मारम् ॥ ४४-२४� ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे मन्त्रपादे अपस्मारोन्मादपटलश्चतुश्चत्वारिंशः ॥ ४४ ॥