अथ त्रिचत्वारिंशः पटलः ।
हृदयं भगवच्छब्दो षुद्राशगता फचुत मन्दरकुसुमषट्पदवज्रतुण्ड नीलाञ्जनसमप्रभ इदं भूतं हन विलिपन्तं ख ख हुं फट् ठठ ।
अनेन माषकृसरैर्जपित्वा ग्रस्तताडनात् ।
तं मुञ्चन्ति ग्रहाः स्वैक्यं रुद्रध्यानेन तत्क्षणात् ॥ ४३-१ ॥
हृदयान्ते भगवते फवेश्चाषाश नमः कासश महेश्वराय भ्रमरि भ्रामय सूकरि भक्षय ठठ ।
माषाननेन सम्मन्त्र्य भक्षणान्मुञ्चति ग्रहः ।
नमो भगवते षुद्राश महाभैरव देवाय नर्तय मोटय वल्गय क्रोडय भ्रूं ग्रह चण्ड हुं फट् ठठ ।
भूतप्रेतपिशाचादिञ् जपाद्यैर्मोचयेन्मनुः ॥ ४३-२ ॥
तारं हृच्चण्डशब्दश्च क्रोधरुद्राय टुषु पुषु भूतसमये तिष्ठ ठठ ।
सप्तवारं जपित्वेमं शिखां ग्रस्तस्य बन्धयेत् ।
ग्रहस्तु समये तिष्ठेद् वह्निवायुपुरं पुनः ॥ ४३-३ ॥
लिखित्वा भस्मना तस्मिन् ग्रस्तं संस्थाप्य मन्त्रतः ।
अनेनाष्टोत्तरशतं जपित्वाम्भो मुखेऽस्य वै ॥ ४३-४ ॥
प्रक्षिपेच्च जपन् क्रुद्धो ग्रह आविश्य मुञ्चति ।
रज्ज्वा जपितयानेन स्तम्भं बद्ध्वा स बध्यते ॥ ४३-५ ॥
पिष्टप्रतिकृतिं कृत्वा तत्रावाह्य तु तं ग्रहम् ।
प्राणप्रतिष्ठां कृत्वा तु क्षुरेणैनं विदारयेत् ॥ ४३-६ ॥
छेदयेच्च त्रिशूलेन मर्मसु क्षतजं स्रवेत् ।
एतावता ग्रहग्रस्तान् न मुञ्चति यदा यदा ॥ ४३-७ ॥
छिन्नां प्रतिकृतिं राजियुक्तां कुण्डे जुहोतु च ।
सहस्रं स ग्रहो दग्धः परित्यज्य पलायति ॥ ४३-८ ॥
मन्त्रेणानेन जपितैः समाषतिलसर्षपैः ।
वह्निभूतैस्तु शतशस्ताडितो मुञ्चति ग्रहः ॥ ४३-९ ॥
सिद्धार्थैः सप्तजपितैर्ग्रस्तं सम्भ्राम्य वाञ्छिते ।
सङ्क्रामयति तद् भूतं सद्य एव न संशयः ॥ ४३-१० ॥
हृच्चण्डासिपदं धारा वायुः किलिपदद्वयम् ।
गच्छद्वयं नमःशब्दो महाकायाग्निजायया ॥ ४३-११ ॥
अनेन तिलपिष्टेन लेपाद् भीतो भवेद् ग्रहः ।
हृदयान्ते भगवति षुद्रशालिफ वाचालि भवेश्चष चालि नन्दीश्वर कालि इन्द्रकालि ब्रह्मकालि परेतकालि भद्रकालि वज्रकालि वर पुर हर तुरु धर आवेशय खर्ज गर्ज ग्रह फण फालेश्वरि! श्रवणधारिणि! ॐ क्रों प्रोम् अदः चामुण्डेश्वरि! ठठ ।
प्रणवस्थितशूलग्रमध्ये नृहरिबीजयुक् ॥ ४३-१२ ॥
पार्श्वे शूलाग्रयोः शक्तिमिष्ट्वा ग्रस्तं च तत्स्थितम् ।
दह्यन्तमग्निना ध्यायन् जपेदाविश्य मुञ्चति ॥ ४३-१३ ॥
लिखेद् ग्रहं क्षितौ मन्त्री विषाङ्गाङ्गारकेण तम् ।
जपितैर्निम्बकीलैस्तु मर्मदेशेषु वेधयेत् ॥ ४३-१४ ॥
म्रियते वा ग्रहः क्रोशान् मुक्त्वा वा व्रजति क्षणात् ।
हृदयं चण्डशब्दश्च क्रोधयुक्तश्चतुर्थियुक् ॥ ४३-१५ ॥
किलि मिलि भूतपतिराज्ञापयति ठठ ।
हृदयान्ते भगवते रुद्राय चिमियुग्मकम् ।
विले भूताधिपतिराज्ञापयति ठठ ।
भूतक्रूरान्धसा रात्रौ मन्त्राभ्यां तु बलिं हरेत् ॥ ४३-१६ ॥
दोषारजोन्नलाजाश्च सक्तवश्च तिला दधि ।
भूतक्रूरान्नमुद्दिष्टं भूतानां प्रियकारकम् ॥ ४३-१७ ॥
ॐ
पूटाणि शाणविहलन्तिशाणि बलिं गृहीत्वा विधिवत् प्रयुक्तम् ।
अन्यत्र वासं परिकल्पयन्तु रक्षन्तु तान्यद्य नमोऽस्तु तेभ्यः ॥ ४३-१८ ॥
अनेन च बलिं दद्यात् कुडुबत्रितयान्धसा ।
सभूतक्रूरभक्ष्येण प्रागुदीच्यां समाहितः ॥ ४३-१९ ॥
गृहारम्भादिकेऽप्येवं शान्त्यर्थं प्रक्षिपेद् बलिम् ।
साप्तपर्णं गृहं कृत्वा शुद्धे देशे त्रिभूमिकम् ॥ ४३-२० ॥
रक्तमालाभिरावेष्ट्य चतुर्द्वारमलङ्कृतम् ।
व्रीहिश्यामाकजैश्चैव प्रियङ्गूनां च तण्डुलैः ॥ ४३-२१ ॥
पृथक् त्रिकुडुबैर्दध्ना क्षीररक्तोदकैः क्रमात् ।
श्रपयित्वा चरून् सम्यङ् नीराज्योर्ध्वादिभूमिषु ॥ ४३-२२ ॥
क्रमाद् विन्यस्य तु पुनः सक्तून् व्रीह्यादिसाधितान् ।
लाजांश्च तत्र व्रैहेयान् नीराज्याथो गृहे न्यसेत् ॥ ४३-२३ ॥
ऐशे ब्रीहियवान् सक्तून् श्यामाकान् नैर्-ऋतेऽनले ।
प्रियङ्गुसक्तून् लाजांश्च ततश्चूर्णनिशाजलैः ॥ ४३-२४ ॥
रक्तोदकं तु सम्पाद्य कुडुबाष्टशतोदकैः ।
तिलान् मुद्गांस्तण्डुलांश्च माषान् द्रोणप्रसूनकैः ॥ ४३-२५ ॥
नीराज्य सर्वं वायव्ये विन्यसेत् प्रोक्तमार्गतः ।
भूतान्यथ समावाह्य त्रितलेषु यथाक्रमम् ॥ ४३-२६ ॥
भूतानि यानीत्याद्यं तु जपन् भूतानि पूजयेत् ।
सुगन्धपुष्पधूपैश्च दीपनैवेद्यविस्तरैः ॥ ४३-२७ ॥
तिलमुद्गादिवस्तूनि सक्तून् लाजान् क्रमेण तु ।
एकैकशो रक्ततोये क्षिप्त्वा तेन ग्रहेण च ॥ ४३-२८ ॥
ग्रस्तं नीराज्य नीराज्य तेन रक्ताम्भसा ततः ।
तद् गृहं रक्ततोयं च नीत्वा न्यस्येत् तु चत्वरे ॥ ४३-२९ ॥
तद् गेहमध्ये रक्तोदं न्यस्येद् दिक्षु बलिं हरेत् ।
चरुशेषान्धसा युक्तं भूतक्रूरान्धसा तथा ॥ ४३-३० ॥
ॐ नियाकषा षौद्राः सन्तोऽसन्तः सदसन्तो विरूपा विश्वरूपा घोररूपा मृगास्या विहगाननाः पुष्टिकृतोऽपुष्टिकृतः कामदाश्च बलिमिच्छन्ति, तेभ्यो द्रुतेभ्यः सगणेभ्यः सर्वेभ्यो भूतेभ्यो नमो नमः ।
इत्यनेन बलिं दिक्षु विकिरेत् सर्वशान्तये ।
सर्वग्रहगृहीतानां मोक्षस्त्वेवं भविष्यति ॥ ४३-३१ ॥
वह्निगेहं लिखेद् भूमौ रक्तेन रजसास्य तु ।
कोणेषु बीजमाग्नेय्यां मध्ये तु प्रणवं लिखेत् ॥ ४३-३२ ॥
नवं शरावं तन्मध्ये कपिलाज्यप्रपूरितम् ।
सपद्मसूत्रवर्त्त्या तु दीपं प्रज्वाल्य तत् पुनः ॥ ४३-३३ ॥
घटेनाच्छाद्य तत्पृष्ठे यन्त्रं चिन्तामणिं लिखेत् ।
जपापुष्पो न(?) तत्रस्थे ग्रस्ते चिन्तामणिं लिखेत् ॥ ४३-३४ ॥
वैकङ्कतस्य दण्डानि त्रीणि ग्रस्तायतानि तु ।
हस्तस्थूलानि गर्तस्य त्रिकोणेषु निवेश्य तु ॥ ४३-३५ ॥
ग्रस्तं संस्थाप्य तन्मध्ये रक्तस्रग्भिस्तु वेष्टयेत् ।
तेषामुपर्यक्षतरुकारस्करमयं शुभम् ॥ ४३-३६ ॥
प्रासादं तु विनिर्माय तस्योपरि शरावके ।
प्रस्थत्रयाज्यसम्पूर्णे दीपानां तु सहस्रकम् ॥ ४३-३७ ॥
प्रज्वाल्य भूतक्रूरेण ग्रस्तं नीराज्य तेन तु ।
वक्ष्यमाणेन मन्त्रेण दशदिक्षु बलिं हरेत् ॥ ४३-३८ ॥
नमः भ्यो नमः पूटकृद्भयः सर्वेभ्योऽरिष्टकृद्भ्यः सद्भ्योऽसद्भ्यः सदसद्भ्यः सतगणेभ्यो नमो नमः ।
अनेन दद्यात् तु बलिं जुहुयादपि चानले ।
जपाकिंशुकपुष्पाभ्यां जपादण्डत्रिकोणके ॥ ४३-३९ ॥
कुण्डे तयोश्च वन्दाकैरपामार्गैः सहस्रशः ।
तद्भस्मना ताडयेच्च ग्रह आविश्य मुञ्चति ॥ ४३-४० ॥
अपामार्गसमिद्भिश्च राजीभिः सर्षपैस्तिलैः ।
हुत्वा ग्रहाणां मोक्षः स्यान्मिश्रितैर्वनदुर्गया ॥ ४३-४१ ॥
भानुवारे तु मध्याह्ने प्राङ्गणे वृत्तमण्डले ।
रक्तपीतनिशाचूर्णैः कृते ज्वालासमावृते ॥ ४३-४२ ॥
दर्भमुष्टिपरिस्तीर्णे शरखड्गपरिस्तृते ।
विध्युक्तवह्नौ विधिना दुर्गामावाह्य चार्चयेत् ॥ ४३-४३ ॥
आज्यं तिलं सर्षपांश्च हुत्वैकैकं शतं शतम् ।
आदित्यसमिधामष्टसहस्रं गव्यसेचितम् ॥ ४३-४४ ॥
ग्रस्तं नीराज्य जुहुयादाज्याद्यैश्चरुणा तथा ।
संरक्तैरन्नपिण्डैस्तु प्रक्षिपेद् दशदिग्बलिम् ॥ ४३-४५ ॥
ग्रस्तं मुक्त्वा ग्रहा यान्ति क्षुद्ररोगादयस्तथा ।
परसैन्यादयश्चान्ये पलायन्ति भयातुराः ॥ ४३-४६ ॥
सितगुञ्जास्तथालब्धा जपिताः सैन्यचाटनाः ।
दुर्गास्थाने निराहारश्चादित्यसमिधां हुतात् ॥ ४३-४७ ॥
जपित्वाम्भसि तत्क्षेपाद् ग्रहः सेना च गच्छति ।
भूराद्या व्याहृतीस्तिस्रः षेश्वस प्रज्वस ज्वासा पासिणी सर्वभूतसंहारिके वरदे जातवेदसि ज्वल हुं फट् ठठ ।
कार्पासबीजैः सिद्धार्थैः खण्डनैर्लवणोषणैः ॥ ४३-४८ ॥
वकुलारिष्टपत्रैर्वा समिद्भिः क्षीरवृक्षजैः ।
समिद्भिर्वाज्यसंयुक्तैः पृथग्धोमाद् ग्रहार्तिजित् ॥ ४३-४९ ॥
शेलुस्रुवेण तैलेन हुत्वानेन ग्रहापहः ।
कूश्माण्डाद्भिस्तु पुष्यर्क्षे दार्वी पिष्टा गुलीकृता ॥ ४३-५० ॥
छायाशुष्काञ्जिता त्वक्ष्णोः सर्वग्रहनिवारिणी ।
मरीचं सैन्धवं कृष्णा गोपी त्वक् च मधुप्लुतम् ॥ ४३-५१ ॥
तदञ्जनाद् ग्रहाः सर्वे नश्यन्त्याविश्य तत्क्षणात् ।
नमो भगवते रत्नत्रयाय नमश्चण्डवज्रपाणये महासत्त्वसेनापतये नमश्चण्डशृङ्खलाय प्रदीप्ताय प्रज्वलितार्पितदीप्तकेशाय नीलकण्ठाय चिन्तिताय रूपाय(?) लम्बोदराय महाज्ञानवक्त्राय भ्रुकुटिकामाय चतुर्दंष्ट्राय करालाय महाविकृतरूपाय वज्रगर्भाय एह्येहि कायमनुप्रविश्य शिरसि गृह्ण चक्षुषी चालय हरि किं चिरायसि सिद्धदेवदानवगन्धर्वयक्षराक्षसप्रेतनागपिशाचांस्त्रासय कम्पय समयमनुस्मर हन जह पच मथ विध्वंसय चण्डासिधाराधिपतिराज्ञापयति हुं फट् ठठ ।
चण्डासिधारामन्त्रोऽयं जपाद्यैर्नाशयेद् ग्रहान् ॥ ४३-५२ ॥
ॐ नमः खड्गरावणाय विद्महे । चण्डेश्वराय धीमहि । तन्नो देवः प्रचोदयात् ।
तोये स्थित्वायुतजपात् सिद्धोऽयं ग्रहमोक्षकृत् ।
हृदये पशुपतये नमो भूताधिपतये नमो रुद्राय खड्गरावणाय ललदि ना विहर सर नृत्य श्मशानार्पितशरीर घण्टाकपालमालाधराय व्याघ्रचर्मपरिधानाय शशाङ्ककृतशेखराय कृष्णसर्पयज्ञोपवीतिने चल बिले बिलेकस वल्ग अतिवर्तय कपालिन् हन भूतान् त्रासय मण्डलमध्ये कड्ड रुद्राङ्कुशेन समयं प्रवेशय आवाहय चण्डासिधारापतिरुद्रो ज्ञापयति ठठ ।
खड्गरावणमन्त्रोऽयं सर्वभूतग्रहापहः ॥ ४३-५३ ॥
पूज्यः शिवः पीठपद्मे
ॐ पूट भदि ठठ ।
अनेनावाहयेच्च तम् ।
ॐ नमः पशुपतये स्वाहा हृदयाय नमः । ॐ नमो भूताधिपतये स्वाहा शिरसे स्वाहा । ॐ नमो रुद्राय स्वाहा शिखायै वषट् । ॐ अलब्धखड्गरावण लल हर सर नृत्य स्फोटय स्वाहा कवचाय हुम् । श्मशानभस्माञ्चितशरीराय घण्टाकपालमालाधराय व्याघ्रचर्मपरिधानाय शशाङ्ककृतशेखराय
कृष्णयज्ञोपवीतिने स्वाहा अस्त्राय फट् । ॐ वल किल तस खड्ग अनुवर्तितकपालिन् । हन भूतान् त्रासय मण्डलमध्ये कड्ड रुद्राङ्कुशेन समयं प्रवेशय आवाहय चण्डाशिधाराधिपतिरुद्रो ज्ञापयति स्वाहा नेत्रत्रयाय वौषट् ।
खट्वाङ्गशूलडमराङ्कुशखड्गचर्मघण्टाकपालवरदाभय-मुण्डहस्तः ।
दक्षादिकं दशभुजो मणिकुण्डलो वः पायात् सपञ्चमुखपञ्चशिरास्त्रिणेत्रः ॥
घण्टाजालविराविमेखललसद्व्याघ्राजिनात्ताम्बरो
घण्टास्थिस्रगहीन्द्रभूषणधरो नागोपवीतोज्ज्वलः ।
विद्युत्पुञ्जरुचिर्विभूतिधवलो ज्वालाकरालाननो
युष्मान् रक्षतु खड्गरावणशिवश्चन्द्रं कपर्दे दधत् ॥ ४३-५५ ॥
स्नात्वा यथावदाचम्य कृतनित्यस्तु वाग्यतः ॥ ४३-५६ ॥
द्वाराद्यमिष्ट्वोपविष्टः पञ्चशुद्धीर्विधाय तु ।
हस्ते शिरसि देहे च सद्योजातादिकान् न्यसेत् ॥ ४३-५७ ॥
अङ्गानि च शिवो भूत्वा कृत्वा भस्म त्रियायुषम् ।
इष्ट्वा गणेशं च गुरुमापूर्यार्घ्यं शिवोदितम् ॥ ४३-५८ ॥
आधारशक्त्यनन्तादिधर्माद्यर्कादिमण्डलैः ।
सत्त्वादीनपि वामाद्याः सम्पूज्य च ततोपरि ॥ ४३-५९ ॥
पुष्पाञ्जलिगतां मूर्तिं खड्गरावणसञ्ज्ञिताम् ।
ॐ भूतपतिः स्वाहा ।
अनेनावाह्य हृत्पद्माच्छैवं ज्योतिः खपङ्कजात् ॥ ४३-६० ॥
आनीय बिन्दुं तन्मूर्तौ हृत्पद्मस्थापनादिभिः ।
द्व्यष्टोपचारैः सम्पूज्य परिवारांस्तु पूजयेत् ॥ ४३-६१ ॥
खिङ्खिणीं चुलुकुण्डां च ततो वै कृष्णपिङ्गलाम् ।
टिरिटिल्लां च सौम्यादिदलाग्रेष्वप्रदक्षिणम् ॥ ४३-६२ ॥
ऐशान्यां मत्तवाणीं च चन्द्राङ्कितजटामपि ।
प्रस्खलिन्या फल्गुनीं च पूजयेत् तु प्रदक्षिणम् ॥ ४३-६३ ॥
ऐन्द्रीं ब्राह्मीं वैष्णवीं च चामुण्डां चैन्द्रदिक्क्रमात् ।
माहेश्वरीं च कौमारीं वाराहीं च विनायकम् ॥ ४३-६४ ॥
ईशादिकोणेष्वथ च लोकेशानायुधानि च ।
मातॄः स्वदिक्षु चण्डेशं क्षेत्रेशं च यजेत् क्रमात् ॥ ४३-६५ ॥
ततो मन्त्रं यथाशक्ति जपित्वेशं प्रवाहयेत् ।
चण्डोऽनुग्रहवान् दण्डी बीजं स्यात् खड्गरावणम् ॥ ४३-६६ ॥
दीर्घस्वरैस्तदङ्गानि षडस्त्रान्तानि जातिभिः ।
ह्रस्वैः सद्यादिमूर्तीश्च कल्पयेत् प्राग्वदर्चयेत् ॥ ४३-६७ ॥
चतुःषष्ट्या पदानां तु भद्रं पूर्वोक्तमार्गतः
तत्रावाह्य यजेत् प्राग्वद् भूतेशं खड्गरावणम् ॥ ४३-६८ ॥
खड्गाङ्कुशाभयवरप्रदमुग्रदंष्ट्रं हेमाद्रिकूटवपुषं ज्वलदग्निजिह्वम् ।
त्र्यक्ष स्मरेत् कनककुण्डलचित्रहारं घण्टावलीघटितमेखलमूर्ध्वकेशम् ॥ ४३-६९ ॥
खड्गरावणमूर्तेश्च स्वैक्यध्यानजपादिना ।
भूतग्रहादयः सर्वे ग्रस्तं मुक्त्वा प्रयान्ति हि ॥ ४३-७० ॥
शूलिनी वनदुर्गा चाप्यघोरास्त्रं सुदर्शनम् ।
नृसिंहमनवश्चैव मन्त्रराजापराजितौ ॥ ४३-७१ ॥
व्योमव्यापी च तन्त्रेऽस्मिन् पूर्वमेव प्रदर्शिताः ।
तत्तत्कल्पोक्तमार्गेण मन्त्रा एते ग्रहापहाः ॥ ४३-७२ ॥
ॐ रष्टिदेहिं चोक्तजिकाध ओङ्कारों कात्यायनो नैर्-ऋत्यां कालीं महाकालीं वज्रकालीं यशस्विनीं सुकालीमाग्नेय्यां वायव्यां कालिकां पङ्क्तिशक्तिं शान्ताक्षीमिन्द्राणीं यक्षकौबेरीं माहेश्वरीं वैष्णवीं चामुण्डीं रौद्रीं वाराहीं कौबेरीं याश्चान्या मम समये तिष्ठन्ति तन्नामावर्तयिष्यामि । शीघ्रं गृह्ण, ॐ लल चुलु पूरय धर आनय सुभगे! आविश भगवति! महावज्रगान्धारि! सिद्धचन्द्रवज्रपाणिराज्ञापयति ह्रीं हः हां हां हां हुं फट् स्वाहा ।
मन्त्रोऽयं वज्रगान्धारी ऋषिर्दीर्घतमा मतः ।
अतिच्छन्द(?)स्तथा विष्णुर्दुर्गा चास्याधिदैवतम् ॥ ४३-७३ ॥
शुक्लप्रतिपदारभ्य विष्णुं दुर्गां च पूजयेत् ।
नक्ताशी तु जपेन्नित्यमष्टोत्तरसहस्रकम् ॥ ४३-७४ ॥
पुरश्चर्या भवेन्मासाद् दशांशतिलहोमतः ।
गुग्गुलं दशवारं तु जपित्वा ग्रस्तधूपनात् ॥ ४३-७५ ॥
पिशाचेभ्यो ग्रहेभ्यश्च ज्वरेभ्यश्च विमुच्यते ।
त्रिर्जपित्वा शिखाबन्धात् सर्वा रक्षा कृता भवेत् ॥ ४३-७६ ॥
आत्मनो वान्यस्येति यावत् ।
त्रिवारं लूतिकाः पञ्चजपाद् वृश्चिकजं गरम् ।
सप्तभिर्मूषिकाणां च सर्पाणां नवभिस्तथा ॥ ४३-७७ ॥
एकादशजपात् सर्वविषजातं विनश्यति ।
स्थावराणां पञ्चदशविषं हन्याज्ज्वरानपि ॥ ४३-७८ ॥
अष्टाधिकशतालब्धैः सिद्धार्थैः स्पर्शनेन च ।
तिलान् पुष्पाणि वा दद्याद् यस्मै स स्ववशो भवेत् ॥ ४३-७९ ॥
युद्धं गच्छन् सप्तजपाच्छिखां बद्ध्वा जयेद् रिपून् ।
अश्वत्थपत्रशङ्कुं च निखनेत् क्षेत्ररक्षणे ॥ ४३-८० ॥
तुषैर्हुतैस्तु विद्वेषः स्यादक्षैर्मारणादिकम् ।
त्रिलक्षैरथवाश्वत्थसमिद्भिर्विन्दति श्रियम् ॥ ४३-८१ ॥
सप्तालब्धाञ्जनं वश्यं गन्धाद्यैस्तिलकं तथा ।
ॐ,
उमापतिं नमस्कृत्य देवं त्रिभुवनेश्वरम् ॥ ४३-८२ ॥
अथातो महापाशुपतमावर्तयिष्यामि । स्वयं पशुपतिनाम्ना तत् त्र्यम्बकेन महात्मना महाशास्त्रं तं यज्ञमिव योजितमान्त्रमेदोस्थिरुधिरवसासम्पूर्णोदरं
रुद्रस्यानन्दकरं तिस्रः कोट्योऽर्धकोटीश्च परमन्त्राणां वा संहरणमात्ममन्त्राणां सिद्धिकरमाप्यायनमतिमात्रपदाश्रयमग्निहोत्रपरायणं भस्मचूर्णेन विद्याधराणां नियमनम् अङ्गारचूर्णेन लोहचूर्णेन वा राक्षसानां निपातनं, दैत्यानां नागानां च सादनं, विद्याधराणां त्रासनं महास्त्रमन्त्रविदारणम् । एकपादाय महादंष्ट्राय सहस्रशिरसोदराय सहस्रभुजजिह्वास्याय ब्रह्मनारायणोत्कृष्टतेजाय हुं फट् आकड्ड । बलदेवं महेश्वरं गरुडं विष्णुं कुमारं ब्रह्माणमिन्द्रं चन्द्रमसमादित्यं यक्षं राक्षसं भूतं प्रेतं पिशाचं कूश्माण्डमग्निं यमं निर्-ऋतिं वरुणं वायुं कुबेरं धृतराष्ट्रं विरूपं विरूपाक्षं शङ्कुकर्णं बृहत्कर्णं घण्टाकर्णं द्रोणकर्ण गोकर्णं स्थूलकर्णं नन्दिकेश्वरं भृङ्किरिटिं नायकं विनायकं पाञ्चिकं दामकं लोहकं यष्टिदेवीमोङ्कारां कोट्टगिरिकां दुर्गां कात्यायनीं कालीं यशस्विनीं सुकालीं भद्रकालीं चुल्लकालीमाग्नेयीं वायव्यां शालिकावर्तीं रात्रिं शक्तिं शान्तिं शताक्षीं महाशान्ताक्षीमिन्द्राणीं ब्रह्माणीं कौमारीं महामारीं माहेश्वरीं वैष्णवीं सुभगां चामुण्डीं वाराहीं कौबेरीमैशानीं गुलु मुलु चुलु जुलु मुलु धं हुं फट् । ॐ काल फट् । ॐ कालरूपाय फट् । ॐ कालपाश हस्त! फट् । ॐ कालरूप फट् । ॐ कलविकरण फट् । ॐ बल फट् । ॐ बलप्रमथन फट् । ॐ विश्वरूप फट् । ॐ छिन्द फट् । ॐ भिन्द फट् । ॐ हन फट् । ॐ हनत फट् । ॐ घातय फट् । ॐ मोहय फट् । ॐ उच्चाटय फट् । ॐ संहर फट् । ॐ सङ्क्षिप फट् । ॐ पातय फट् । ॐ निपातय फट् । ॐ यथा तत्त्वं पशुपतिना समन्वितं तथा निपातय स्वाहा फट् । खा त्र्यम्बकेन त्वङ्कार हुङ्कार ॐ त्सं ॐ हिं भक्षय हुं फट् स्वाहा । ॐ अं हृदयाय नमः । ॐ ईं शिरसे स्वाहा । ॐ एं शिखायै वषट् । ॐ ऐं कवचाय हुम् । ॐ औं नेत्रत्रयाय वौषट् । ॐ अः अस्त्राय फट् । ॐ । अस्य ध्यानं च �
उद्यत्प्रद्योतविद्युत्ततिहसितजपापुञ्जपिञ्जारुणाङ्गो
रक्ताकल्पो मुखानां दशशतशिरसां चोग्रदंष्ट्रोज्ज्वलानाम् ।
बिभ्रद् दोष्णां सहस्रं प्रतिवदनवमद्वह्निरात्तायुधानां
नागैराभूषितो वः पशुपतिरवताज्जाटजूटाहितेन्दुः ॥ ४३-८३ ॥
पाठमात्रेण मन्त्रोऽयं दृढभक्तेस्तु सिध्यति ।
कृष्णाष्टम्यादितो नित्यं हविष्याशी जितेन्द्रियः ॥ ४३-८४ ॥
नित्यमष्टोत्तरशतं जपेत् स्थित्वा नदीजले ।
यावच्चतुर्दशी कृष्णा ततः सिध्यत्ययं मनुः ॥ ४३-८५ ॥
पूजयेद्धृदये वाप्सु प्रासादोक्तविधानतः ।
एकावरणमार्गेण पूजयेत् परमेश्वरम् ॥ ४३-८६ ॥
यथाशक्ति जपन् ध्यायेत् त्रिसन्ध्यं नियतः शुचिः ।
मन्त्रिणो दर्शनादेव पलायन्ति ग्रहादयः ॥ ४३-८७ ॥
त्रिवारजपमात्रेण रोगान् सर्वान् विनाशयेत् ।
स्वैक्यं ध्यानजपाद् ग्रस्तं पश्यन् भूत्या तु ताडयेत् ॥ ४३-८८ ॥
निर्माल्यैर्धूपनात् सद्यो मुक्त्वा यान्त्यखिलग्रहाः ।
श्रीवासं देवदारुं च मार्जारमलमिश्रितम् ॥ ४३-८९ ॥
प्रियङ्गुकुष्ठगोसर्पिर्वटत्वग्रसपेषितम् ।
साजमूत्रं गुलीकृत्यच्छायाशुष्कं तदञ्जनात् ॥ ४३-९० ॥
सर्वत्र ग्रहमोक्षः ।
इति निगदितमेतन्नैकतन्त्रेषु दृष्टं हितमिति मनुजानां भूतबाधातुराणाम् ।
उपशमनविधानं भीषणानां ग्रहाणां शुचिभिरिह विधेयं मन्त्रिभिः सिद्धमन्त्रैः ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे मन्त्रपादे भूततन्त्रपटलस्त्रिचत्वारिंशः ॥ ४३ ॥