अथ द्विचत्वारिंशः पटलः ।
निस्तेजदेवासुरनागयक्षगन्धर्वरक्षःपितृहेढ्रभस्माः ।
योन्युद्भवाः कश्मलकाः प्रलापा विघ्नाः कुशान्त्याश्च पिशाचभूताः ॥ ४२-१ ॥
अष्टादशविधास्त्वेवं ग्रहा गृह्णन्ति मानवान् ।
उन्मादाश्चाप्यपस्मारास्तथान्ये ब्रह्मराक्षसाः ॥ ४२-२ ॥
सर्वे ग्रहास्ते गृह्णन्ति बलिकामास्तु मानुषान् ।
रतिकामा हन्तुकामाः सौम्याग्नेयाश्च ते द्विधा ॥ ४२-३ ॥
शून्यालयसरोवापीशैलोद्याननदीषु च ।
एकवृक्षश्मशानेषु चैत्यदेवालयादिषु ॥ ४२-४ ॥
निवसन्ति ग्रहास्त्वेते पीडयन्ति च मानवान् ।
क्रुद्धं हृष्टं हासिनं च भीतमेकाकिनं निशि ॥ ४२-५ ॥
उच्छिष्टं भूषितं रात्रौ नष्टालब्धधनं तथा ।
वियोगिनं मुमूर्षुं च स्त्रियं नग्नां च गर्भिणीम् ॥ ४२-६ ॥
दुराचारामृतुस्नातां नवसूतां रजस्वलाम् ।
कामार्तां मद्यपां मुक्तां रथ्याचत्वरयोः स्थिताम् ॥ ४२-७ ॥
सन्ध्यासु प्रथमाभोग्यामभ्यक्तामवमानिताम् ।
ग्रहा गृह्णन्तीति यावत् ।
देवताविप्रमहतां निन्दया पूर्ववैरतः ॥ ४२-८ ॥
ऋणात् कर्मविपाकाच्च ग्रहा गृह्णन्ति नान्यथा ।
दुर्बलो निर्निमीलाक्षो निस्तेजो बहुभाषिता ॥ ४२-९ ॥
स्नातः सुगन्धस्रग्वस्त्रः सौम्यो हृष्टः सुरग्रही ।
दुष्टात्मा निर्भयो दृप्तो धर्मदेवद्विजान् द्विषन् ॥ ४२-१० ॥
बह्वाशी प्रहसन् सर्वान् सकम्पाङ्गोऽसुरग्रही ।
गुलपानीयदुग्धादिवाञ्छया सृक्विणी लिहन् ॥ ४२-११ ॥
भूमौ प्रसर्पन् रक्ताक्षः क्रोडी नागग्रहातुरः ।
रक्तमाल्यादिगन्धेच्छुः संरक्तनयनातुरः ॥ ४२-१२ ॥
अक्रोधनस्तूर्णगामी गम्भीरो यक्षपीडितः ।
स्रग्गन्धगीतवाद्येच्छुः क्रीडन् गन्धर्वपीडितः ॥ ४२-१३ ॥
निर्लज्जो मद्यमांसासृक्प्रियोऽशौचश्च राक्षसः ।
पिण्डोदकक्रियां कुर्वन् मांसेच्छुश्च पितृग्रही ॥ ४२-१४ ॥
जानुस्थाधोमुखः स्मेरः समुष्टिर्हेढ्रगो ग्रही ।
असङ्गतं ब्रुवन् वेपन् शीताङ्गस्तिर्यगीक्षणः ॥ ४२-१५ ॥
शुद्धाङ्गो बहुभुक् शुद्धो भस्मग्रहनिपीडितः ।
स्विन्नाङ्गो मेषगन्धी च निर्मर्यादश्चलेक्षणः ॥ ४२-१६ ॥
बह्वाशी चिन्तितं जानन् मांसार्थी योनिजग्रही ।
निश्शौचो मलपङ्काढ्यो भस्मशायी हसन् रुदन् ॥ ४२-१७ ॥
स्त्रीद्विडश्नन् सदैवान्यान् भीषयन् कश्मलग्रही ।
नृत्यन् हसंश्च शुष्काङ्गो बह्वाशी स्वाङ्गभञ्जनः ॥ ४२-१८ ॥
बहुप्रलापो विज्ञेयः प्रलापग्रहपीडितः ।
शूत्कारवान् वमन् दन्तान् कषन् वैनायकग्रही ॥ ४२-१९ ॥
विविक्तवासी शुक्लाङ्गो धावन् दारुणनिस्वनः ।
अतृप्तिर्भोजने पृष्टो न ब्रूते यः कुशग्रही ॥ ४२-२० ॥
विट्पङ्कलेपौ रक्ताक्षस्तर्जयन् रक्तलोचनः ।
बह्वाशी दीनवाग् लुब्धः साङ्गकम्पोऽन्त्यजग्रही ॥ ४२-२१ ॥
दुर्गन्धश्चाशुचिर्लोलः पिशाचोऽत्यन्तरूक्षवाक् ।
सर्वानुकारी प्रहरन् जनानुच्चैः प्रभाषिता ॥ ४२-२२ ॥
आरोहविकृतो वृक्षान् भूतग्रहनिपीडितः ।
आस्फोटयन् हसन् गायन् रुदंश्चाङ्गानि विक्षिपन् ॥ ४२-२३ ॥
आताम्रकृशदेहश्च वातोन्मादी भृशातुरः ।
गर्जनं धावनं कोपः शीतच्छायान्नगृध्नुता ॥ ४२-२४ ॥
पीतोष्णदेहता छर्दिरुन्मादैः श्लेष्मपित्तजैः ।
विवृत्तनेत्रः पतितो विसञ्ज्ञः फेनं वमन् सङ्कुचिताङ्घ्रिहस्तः ।
क्रन्दन् सुभिमं विदशंश्च दन्तान् मत्तस्त्वपस्मारयुतः सुखी (?) च ॥ ४२-२५ ॥
पठन् वेदान् कुशान् धत्ते द्विजानुष्ठानकृत् सदा ।
देवान् यजति विप्रांश्च ग्रहश्च ब्रह्मराक्षसः ॥ ४२-२६ ॥
धावन् वल्गन् हसन् क्षत्रचेष्टितः क्षत्रियग्रही ॥ ४२-२७ ॥
ऊज्जृम्भंश्च हसन् क्रन्दन् कषन् क्रोशन् वणिग्ग्रही ।
अवाच्यं प्रवदन् नृत्यन् क्रुध्यन् विण्मूत्रभक्षितः ॥ ४२-२८ ॥
मेढ्रादिस्पृग् हसन् विप्रान् प्रद्विषन् वृषलग्रही ।
केशान् विधून्वन् हर्षेण वदन् पश्यति मन्त्रिणम् ॥ ४२-२९ ॥
वृक्षादेर्निपतंस्तोयमग्निं वा प्रविशन् रुदन् ।
हन्तुकामस्तु मन्त्राद्यैरसाध्यं तं विवर्जयेत् ॥ ४२-३० ॥
उद्विग्नः सर्वतः पश्यन् ज्वरशूलादिपीडितः ।
क्षुत्तृट्परिगतो ब्रूते देहीति बलिकामुकः ॥ ४२-३१ ॥
स्त्रीभिः क्रीडन् समुद्विग्नः सुस्नातः प्रियभाषितः ।
गन्धमाल्यप्रियः शुद्धो रतिकामस्तु स स्मृतः ॥ ४२-३२ ॥
साध्यावेतौ ग्रहौ विद्याद् बलिकामरतिप्रियौ ।
महापातकलेपैश्च स्त्रीगोगुरुवधादिभिः ॥ ४२-३३ ॥
श्रीनीलकण्ठपादाब्जे शप्तः सत्यं वदेद् ग्रहः ।
ग्रहं ग्रहेप्सितं चापि ज्ञात्वा तदनुरूपतः ॥ ४२-३४ ॥
कृतात्मरक्षणो मन्त्री कुर्याद् ग्रहचिकित्सितम् ।
पूर्वं ग्रहाणामभिवाञ्छितार्थैर्बलिप्रदानैस्तनुताच्चिकित्साम् ।
यदा न मुञ्चेन्मृदुभिः प्रयोगैस्ततश्चिकित्सां विदधातु रौद्रीम् ॥ ४२-३५ ॥
आलेपनैर्धूपविशेषबद्धैः क्रूरैस्तथा भर्त्सनताडनैश्च ।
तत्पुत्तलीच्छेदनवेधहोमैः कुर्याद् विमोक्षं क्रमशो ग्रहाणाम् ॥ ४२-३६� ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे मन्त्रपादे ग्रहचेष्टापटलो द्विचत्वारिंशः ॥ ४२ ॥