४१

अथैकचत्वारिंशः पटलः ।

अथ ग्रहचिकित्सात्र लिख्यते नातिविस्तृता ।
तत्र बालचिकित्सायाः प्रकारा बहुधा स्मृताः ॥ ४१-१ ॥

तेष्वादौ मतमाश्रित्य खड्गरावणचोदितम् ।
नारायणीयोदितं च मार्गद्वयमिहोच्यते ॥ ४१-२ ॥

लिख्यते प्रथमे वाह्नि मासे तु प्रथमे पुनः ।
संवत्सरे तु प्रथमे नन्दा गृह्णाति मातृका ॥ ४१-३ ॥

चेष्टा तस्य ज्वरः कम्पो रोदनाशनवर्जनम् ।
नद्याः कूलद्वयमृदा शिशुमानात् तु पुत्तलीम् ॥ ४१-४ ॥

संवेष्ट्य पीतसूत्रेण शुक्लान्नं प्रस्थतण्डुलैः ।
मत्स्यमांसासवं पुष्पैर्दधिक्षीरतिलान्वितैः ॥ ४१-५ ॥

त्रयोदश स्वस्तिकांश्च पैष्टाश्चाष्ट प्रदीपिकाः ।
विलिप्य भूमिं रम्भाद्यैः कृत्वा पात्रं भुजायतम् ॥ ४१-६ ॥

तन्मध्ये पुत्तलीं न्यस्य दीपाद्यं परितो न्यसेत् ।
तत्रापरायां सन्ध्यायां गन्धाद्यैर्विघ्ननायकम् ॥ ४१-७ ॥

इष्ट्वा प्राग्याम्यवारुण्यसौम्ये ब्राह्म्यादिमातृकाः ।
वाराह्याद्याश्च वह्न्यादिकोणेष्वैशे तु चण्डिकाम् ॥ ४१-८ ॥

अवाह्याभ्यर्च्य मध्ये तु वीरभद्रं गणेश्वरम् ।
यथोद्दिष्टबलिद्रव्यचतुर्भागाद्विभागतः ॥ ४१-९ ॥

वीरभद्रादिमातृभ्यो बोधिपत्रेषु वै बलिम् ।
पृथक् पृथक् तारपूर्वं नमोन्तं स्वाख्यया क्षिपेत् ॥ ४१-१० ॥

वक्ष्यमाणेन मन्त्रेण तत्रेष्ट्वा खड्गरावणम् ।
नन्दां च स्वाख्यया शान्तां तयोरपि बलिं क्षिपेत् ॥ ४१-११ ॥

ॐ नमो भगवते खड्गरावणाय दीर्घदर्शनाय हन गृह्ण मुञ्च बालकं ठठ ।

इति क्षेप्यो बलिस्तेन शिशुं नीराज्य निर्हरेत् ।
नन्दायै तु स्वनाम्नैव प्रणवादिनमोन्तकम् ॥ ४१-१२ ॥

पूर्वस्यां दिशि पश्चात् तु शिवनिर्माल्यसर्षपैः ।
निम्बपत्राज्यमिलितं धूपयेच्च शिशोस्तनुम् ॥ ४१-१३ ॥

न्यग्रोधोदुम्बराश्वत्थबिल्वपालाशपल्लवैः ।
कुम्भोदरस्थितैस्तैस्तु स्नपयेत् प्रोक्षयीत वा ॥ ४१-१४ ॥

एवं दिनत्रयं कृत्वा चतुर्थे स्नपयेत् तथा ।
द्वितीयत्रितये बालं सुनन्दा नाम बाधते ॥ ४१-१५ ॥

चेष्टा तस्याक्षिरोगश्च सङ्कोचो हस्तपादयोः ।
प्राग्वत् पुत्तलिकाद्यं तु कृत्वा द्रव्यैः पुरोदितैः ॥ ४१-१६ ॥

वीरभद्रादिमातृभ्यः खड्गरावणविघ्नयोः ।
दिनादिमातृकायै च सर्वत्रायं बलिक्रमः ॥ ४१-१७ ॥

सूर्यास्तमयवेलायामुदीच्यां निर्हरेद् बलिम् ।

ॐ नमो भगवते खड्गरावणाय दीर्घदर्शनाय हन गृह्ण मुञ्च बालकं ठठ ।

तृतीयत्रितये बालं ग्रही गृह्णाति पूतना ॥ ४१-१८ ॥

ज्वरश्च गात्रभङ्गश्च गलभङ्गोर्ध्ववीक्षणम् ।
प्राग्वत् पुत्तलिकां कृत्वा तिलचूर्णौदनौ दधि ॥ ४१-१९ ॥

मत्स्यमांससुरापूपगन्धधूपध्वजादिभिः ।
वीरभद्रादिमातृभ्यः पूतनायै च पूर्ववत् ॥ ४१-२० ॥

ॐ नमो भगवते खड्गरावणायातिशौर्याय हन गृह्ण मुञ्च बालकं ठठ ।

अनेन तु बलिं क्षिप्त्वा पश्चिमायां तु निर्हरेत् ।
सिद्धार्थशिवनिर्माल्यनिम्बपत्रं घृतान्वितम् ॥ ४१-२१ ॥

अजशृङ्गेण धूप्यैनं स्नपयेच्छान्तिवारिभिः ।
चतुर्थत्रितये बालं गृह्णाति मुखमण्डिका ॥ ४१-२२ ॥

गात्रस्वेदो ज्वरः श्वासो मुष्टिबन्धोऽन्नवर्जनम् ।
प्राग्वत् पुत्तलिकादीनि द्रव्याण्यत्रापि कल्पयेत् ॥ ४१-२३ ॥

वीरभद्रादिमातृभ्यः पूर्ववन्निक्षिपेद् बलिम् ।

ॐ नमो भगवते खड्गरावणाय दीर्घभुजाय हन गृह्ण मुञ्च बालकं ठठ ।

अनेन चापि मन्त्रेण क्षिप्त्वा याम्यां बलिं नयेत् ॥ ४१-२४ ॥

पञ्चमे तु विलालाख्या ग्रही गृह्णाति बालकम् ।
ज्वराक्षिरोगौ तच्चेष्टा मुष्टिबन्धश्च पूर्ववत् ॥ ४१-२५ ॥

पुत्तल्यादीनि सर्वाणि प्राग्वद् बलिनिवेदनम् ।
वीरभद्रादिमातृभ्यः पूर्ववन्निक्षिपेद् बलिम् ॥ ४१-२६ ॥

ॐ नमो भगवते खड्गरावणाय पूर्णाय नमः ठठ ।

क्षिप्त्वानेन बलिं तं चाप्यैशान्यां निर्हरेद् बलिम् ॥ ४१-२७ ॥

धूपयेन्निम्बपत्रैस्तु घृतगुग्गुलुमिश्रितैः ।
षष्ठत्रये शकुनिका चेष्टोर्ध्वालोकनं ज्वरः ॥ ४१-२८ ॥

प्राग्वत् पुत्तलिकादीनि विशेषो मधुशोणिते ।
मन्त्रस्तु पञ्चमः प्रोक्तो धूपश्चापि पुरोदितः ॥ ४१-२९ ॥

वायव्ये बलिमुद्वास्य स्ननपयेच्छान्तिवारिभिः ।
सप्तमे त्वथ शुष्काङ्गी चेष्टा कम्पश्च रोदनम् ॥ ४१-३० ॥

प्राग्वत् पुत्तलिकादीनि द्रव्याण्यत्रापि कल्पयेत् ।

ॐ नमो भगवते खड्गरावणाय त्रैलोक्यविद्रावणाय हन गृह्ण मुञ्च बालकं ठठ ।

अनेन तु बलिं क्षिप्त्वा हरेददितिगोचरे ॥ ४१-३१ ॥

शान्त्युदकेन स्नपयेच्च ।

अष्टमत्रितये बालं ग्रही गृह्णाति जृम्भिकाम् ।
मुष्टिबन्धो ज्वरः स्वेदश्चेष्टा गगनवीक्षणम् ॥ ४१-३२ ॥

द्रव्याणि पुत्तल्यादीनि चतुर्वर्णं चतुर्ध्वजम् ।

ॐ नमो भगवते खड्गरावणाय दीप्तप्रज्वलितहस्ताय हन दह मुञ्च बालकं ठठ ।

दत्त्वानेन बलिं प्राग्वद् धूपयेत् स्नपयेच्च तम् ॥ ४१-३३ ॥

अञ्जिका नाम नवमत्रये चेष्टा ज्वरस्तथा ।
मुष्टिबन्धोऽक्षिरोगश्च पुत्तल्यादीनि पूर्ववत् ॥ ४१-३४ ॥

शष्कुलीपर्पटीयुक्तं सन्ध्याकाले तु पश्चिमे ।

ॐ नमो भगवते खड्गरावणाय ज्यलितहस्ताय हन गृह्ण मुञ्च बालकं ठठ ।

रेवती नाम दशमत्रये कम्पज्वरोद्गमौ ॥ ४१-३५ ॥

रोदनं पुत्तलीकाद्यैर्वृक्षमूले बलिं हरेत् ।

ॐ नमो भगवते खड्गरावणाय दीर्घदर्शनाय हन गृह्ण मुञ्च बालकं ठठ ।

निर्माल्यराज्या सन्धूप्य स्नपयेच्चापि पूर्ववत् ॥ ४१-३६ ॥

एकादशत्रये तद्वच्छिलाख्या तु ज्वरागमः ।
गात्रोद्वेगो मुष्टिबधः प्राग्वत् पुत्तलिकादिभिः ॥ ४१-३७ ॥

ॐ नमो भगवते खड्गरावणाय हन गृह्ण मुञ्च बालकं ठठ ।

उत्तरस्यां यथापूर्वं बलिं निर्हृत्य धूपयेत् ।

स्नपयेच्च ।

द्वादशत्रितये तद्वत् पाकदाहज्वरोऽपि च ॥ ४१-३८ ॥

मुष्टिबन्धोऽतिसारश्च चेष्टा पुत्तलिकादिभिः ।
पायसक्षीरमुद्गान्नैर्दधिभक्तैः पुरोदितैः ॥ ४१-३९ ॥

ॐ नमो भगवते खड्गरावणाय बलिं गृह्ण मुञ्च बालकं ठठ ।

अनेन तु बलिं दत्त्वा दक्षिणे निर्हरेच्च तम् ।
निर्माल्याद्यैश्च सन्धूप्य स्नपयेच्छान्तिवारिभिः ॥ ४१-४० ॥

एवमा द्वादशाद् वर्षाद् ग्रहा गृह्णन्ति बालकान् ।
आ षोडशात् परे प्राहुरा सप्तदशकात् तथा ॥ ४१-४१ ॥

इति खड्गरावणबालचिकित्सा ।

अथ जातं दिने बालं बाधते पापिनी ग्रही ।
ग्रीवाविवर्तनं चेष्टा लालास्रावश्च तत्र तु ॥ ४१-४२ ॥

वंशाद्यैर्बलिपीठं च सङ्कल्य चतुरश्रकम् ।
तन्मध्ये वीरभद्रं च मातॄः कोणेषु दिक्ष्वपि ॥ ४१-४३ ॥

विनायकं च चामुण्डामैशान्यां दिशि पूजयेत् ।
अपूपमत्स्यमांसान्नतिलचूर्णासवादिभिः ॥ ४१-४४ ॥

प्रणवादिनमोन्तैः स्वैर्नामभिः प्रक्षिपेद् बलिम् ।
तत्रैशकोणे तामिष्ट्वा ध्वजदीपाष्टकान्वितम् ॥ ४१-४५ ॥

अर्धास्तमयकाले तं शिशुं नीराज्य मन्त्रतः ।
विन्यसेच्चत्वरे वाथ दिशायाममरप्रभोः ॥ ४१-४६ ॥

सिद्धार्थपुरनिर्माल्यनिम्बपत्रैर्धृताप्लुतैः ।
सन्धूप्योशीरमार्गाग्रबोधिपल्लवचन्दनैः ॥ ४१-४७ ॥

संस्नाप्य युक्तसलिलैः कुम्भस्थैः प्रोक्षयेच्च वा ।
लोध्रचन्दनमञ्जिष्ठावातकीभिः प्रलेपयेत् ॥ ४१-४८ ॥

एवं दिनत्रयं कृत्वा चतुर्थे वासरे पुनः ।
बिल्वक्षीरागमार्गाणां पत्राढ्यैः शान्तिवारिभिः ॥ ४१-४९ ॥

संस्नाप्य शक्त्या विप्रेन्द्रान् वस्त्राद्यैरभिपूजयेत् ।
आसप्तदशवर्षान्तमारभ्य प्रथमं दिनम् ॥ ४१-५० ॥

समानोऽयं विधिः प्रोक्तो भिन्नास्तद्देवताः क्रमात् ।
द्वितीये दिवसे तत्र भीषणी सा ग्रही मता ॥ ४१-५१ ॥

गात्रसङ्कोचनं कासश्वासौ चेष्टा प्रलक्ष्यते ।
चन्दनोशीरमायूरैरजामूत्राभिपेषितैः ॥ ४१-५२ ॥

शिशुमालिप्य गोदन्तशृङ्गरोमैः प्रधूपयेत् ।
झण्टाली दिवसे प्रोक्ता तृतीये जृम्भणादिकम् ॥ ४१-५३ ॥

चेष्टा गोहस्तिदन्ताद्यैरजाक्षीरेण लेपनम् ।
राजिनिम्बदलैर्धूपश्चतुर्थे वासरे ग्रही ॥ ४१-५४ ॥

काकोली फेनवमनं प्रक्षोभो नयनस्य च ।
राजिमातङ्गदन्तैस्तु लेपनं निम्बपत्रकैः ॥ ४१-५५ ॥

अहिनिर्मोकसंयुक्तैर्धूपः पञ्चमवासरे ।
सिंहिका मुष्टिबन्धाद्यं चेष्टा लोध्रवचादिभिः ॥ ४१-५६ ॥

आलेपनं स्याद् धूपोऽपि तन्निर्माल्यादिभिर्मतः ।
फट्कारी षष्ठदिवसे तच्चेष्टा रोदनादिका ॥ ४१-५७ ॥

पुरकुष्ठघृतैर्लेपो धूपस्तैरेव सम्मतः ।
सप्तमे मुक्तकेशी तु वासरे जायेत् तदा ॥ ४१-५८ ॥

चेष्टा रोदनदुर्गन्धकासजृम्भणपूर्विका ।
साजमूत्रवचाकुष्ठैर्लेपो व्याघ्रनखैरपि ॥ ४१-५९ ॥

धूपोऽष्टमे हि कथिता दण्डिनी कासपूर्विका ।
चेष्टा रसोनकवचाहिङ्गुसिद्धार्थकैर्मतौ ॥ ४१-६० ॥

लेपधूपौ च नवमे महामहिषिसञ्ज्ञिता ।
मुष्टिखादनकासाद्या चेष्टा तगरचन्दनैः ॥ ४१-६१ ॥

कुष्ठसर्षपसंयुक्तैर्लेपस्तत्र प्रशस्यते ।
कपिरोमनखैर्धूपो दशमे रोदनी ग्रही ॥ ४१-६२ ॥

गृह्णाति बालकं तत्र तच्चेष्टा नीलवर्णता ।
निम्बपत्रदलैर्धूपलेपौ प्राग्वद् बलिर्मतः ॥ ४१-६३ ॥

पूतना नाम गृह्णाति मासिकं बालकं ग्रही ।
ग्रन्थिश्च चेष्टा तत्र स्यात् काकवद् रोदनं तथा ॥ ४१-६४ ॥

द्वितीये मासि मकुटा शीतलत्वादिकं तनोः ।
चेष्टा धूपोऽपि नैम्बैः स्यात् पत्रैर्लशुनसंयुतैः ॥ ४१-६५ ॥

तृतीये गोमुखी मासे तच्चेष्टा रोदनादिकम् ।
क्षीरागबिल्वपत्राद्भिः संस्नाप्याथ प्रधूपयेत् ॥ ४१-६६ ॥

सिद्धार्थैघृतसंयुक्तैश्चतुर्थे मासि पिङ्गला ।
तच्चेष्टा गात्रशोषाद्यं स्नानधूपौ च पूर्ववत् ॥ ४१-६७ ॥

सराजिगजदन्तेन लेपो धूपश्च तत्परः ।
निम्बच्छदाहिनिर्मोकैः साज्यनिर्माल्यकैरपि ॥ ४१-६८ ॥

हंसिका पञ्चमे मुष्टिबन्धोर्ध्वालोकनादिकम् ।
श्वासश्च जृम्भणं चेति चेष्टा लेपेऽपि तत् पुनः ॥ ४१-६९ ॥

मेषशृङ्गशिलाताललोध्रेण वचया पुनः ।
निर्माल्याद्यैश्च सन्धूप्य रक्षेच्छिशुमतन्द्रितः ॥ ४१-७० ॥

सष्ठे मासि च गृह्णाति पङ्कजा कुक्षितोदनम् ।
चेष्टा निम्बच्छदैर्धूपो भवेत् सर्षपसंयुतैः ॥ ४१-७१ ॥

शीतला सप्तमे मासि शीतलत्वादि चेष्टितम् ।
अष्टमे मासि यमुना मुखसोषणपूर्विका ॥ ४१-७२ ॥

चेष्टा चिकित्सा नैवात्र नवमे मासि बालकम् ।
बाधते कुम्भकर्णी च तच्चेष्टा मू(र्ति ? र्छि)का वमिः ॥ ४१-७३ ॥

कुल्माषमत्स्यमांसान्नगन्धाद्यैरीशतो बलिः ।
तापसी दशमे मासि निराहारोऽक्षिमीलनम् ॥ ४१-७४ ॥

चेष्टा च पीतरक्तान्नमत्स्यमांसैरुदग्बलिः ।
अथ चैकादशे मासे राक्षसी नाम बालकम् ॥ ४१-७५ ॥

गृह्णाति नेत्रयोरान्ध्यं नास्ति तत्र प्रतिक्रिया ।
द्वादशे मासि चपला चच्चेष्टा श्वासपूर्विका ॥ ४१-७६ ॥

द्वितीये वत्सरे तद्वद् यातना पतनादिकम् ।
चेष्टितं केशगोदन्तधूपः पञ्चदलाम्बुभि ॥ ४१-७७ ॥

स्नानं तृतीयवर्षे तु रोदिनी रोदनादिकम् ।
चेष्टा चतुर्थे वर्षे तु चटका वेदनादिकम् ॥ ४१-७८ ॥

चेष्टितं पिञ्छरोमाद्यैर्धूपस्तत्र विधीयते ।
पञ्चमे चञ्चला वर्षे गात्रभङ्गादिरूपिणी ॥ ४१-७९ ॥

चेष्टात्र धावनी वर्षे षष्ठे चेष्टातिमूत्रता ।
राजीलशुनकैर्धूपः स्नानं पञ्चदलाम्बुभिः ॥ ४१-८० ॥

यमुना सप्तमे वर्षे निराहारत्वकारिणी ।
अष्टमे हानये बालं बाधते जातवेदसी ॥ ४१-८१ ॥

नवमे कालिनी वर्षे करस्फोटादिकारिणी ।

ॐ मुञ्च पच दह आगच्छ बालिके ठठ ।

तिलैरनेन मन्त्रेण हुत्वा तद् धूपयेदपि ॥ ४१-८२ ॥

कलहंसी च दशमे वत्सरे ज्वरकारिणी ।
सिद्धार्थकुष्ठलशुनैर्लेपो गोरोमसंयुतैः ॥ ४१-८३ ॥

पिचुमन्ददलैर्धूपः स्यादेकादशवर्षके ।
देवदूती सदा भूरिक्षुत्पिपासादिकारिणी ॥ ४१-८४ ॥

पलिता द्वादशे वर्षे नेत्ररोगादिकारिका ।
तथा त्रयोदशे वर्षे वायवी तत्र चेष्टितम् ॥ ४१-८५ ॥

अङ्गसादादिकं तत्र यक्षिणी बाधते शिशुम् ।
ग्रही चतुर्दशे वर्षे ज्वरशूलादिकारिणी ॥ ४१-८६ ॥

ग्रही च मुञ्जकमुखी वर्षे पञ्चदशे मता ।
चिकित्सा नासि वर्षे तु षोडशे वानरी स्मृता ॥ ४१-८७ ॥

तथा सप्तदशे वर्षे ग्रही बन्धवती सदा ।
गात्रतोदमनोमोहप्रलापादिकरी मता ॥ ४१-८८ ॥

वर्षे चाष्टादशे बालं कुमारी नाम बाधते ।
एवं बालग्रहाः प्रोक्ताः सर्वा देव्यस्तु मातरः ॥ ४१-८९ ॥

कुमारीशब्दपूर्वं तु नमोन्तं स्वस्वनामभिः ।
सर्वासां च बलिः क्षेप्यो मन्त्रांश्चैतान् जपेदपि ॥ ४१-९० ॥

ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणस्तथा ।
रक्षन्तु त्वरिता बालं मुञ्चन्तु च कुमारकम् ॥ ४१-९१ ॥

ठठ ।

प्रक्षिप्तबलिनानेन त्रिधा नीराजयेच्छिशुम् ।
बलिप्रदानस्यान्ते तु जपेन्मन्त्रं स्पृशन् शिशुम् ॥ ४१-९२ ॥

नमं सर्वमातॄणां हृदयमोटक भञ्ज कढ्ढ स्फोटय स्फुर गृह्ण आकर्षय त्रोटय एवं सिद्धिं ज्ञापयति हर निर्दोषं कुरु बालकं ठठ ।

बलिप्रदानस्यान्ते तु मन्त्रमेनमुदीरयेत् ।

कूश्माण्डि यक्षि भगवति चामुण्डे मुञ्च दह बालाद् गच्छ ठठ ।

तिलराजिघृतैर्होमं कुर्यात् तद्ग्रहमुक्तये ॥ ४१-९३ ॥

ॐ चामुण्डे नमो विद्ये हुं ह्रीं दुष्टग्रहा हुं तत्र गच्छन्तु गुह्यका यत्र स्थानं कुरु रुद्रो ज्ञापयति ठठ । अनेन प्रथमदिनादिसप्तदशवर्षान्तं बलिप्रक्षेपस्यान्तेऽश्वत्थोदुम्बरवटबिल्वपलाशपल्लवान् कुम्भजले प्रक्षिप्यानेन मन्त्रेण स्नापयेत् । क्ष्रूं रक्ष महादेव! नीलग्रीव! जटाधर! ग्रहैस्तु सहितो रक्ष मुञ्च कुमारकम् ।

अनेन राजिकालेपो धूपश्चैव ग्रहापहः ।
आख्याविदर्भिते भूर्जे बन्धो बालग्रहार्तिजित् ॥ ४१-९४ ॥

हस्तो माकान्तकौ साक्षौ वीप्सितौ तारपूर्वकौ ।

हि चिनि भूचनि भूततटि विचणि बिरज नारायणि! उमे! दण्डहस्ते! रौद्रि! महेश्वरि! महामुखि! व्यालमुखि! शङ्कुकर्णे! शुष्कजङ्घे! अलम्बुपे! हन सर्वग्रहनाशिनि! खल सर्वाङ्गशोणितं यन्निरीक्षसि मनसा देवि! मम मोहनं मोहय ।

रुद्रस्य हृदये जाता रुद्रस्य हृदये स्थिता ।
रुद्रे रौद्रेण रूपेण त्वं देवि! एहि रक्ष माम् ॥ ४१-९५ ॥

हुं फट् ठठ ।

शिखायां वा गले कट्यां धारयेत् स्कन्दमेखलाम् ।
बालो बालग्रहैर्वापि सर्पाद्यैर्वा न बाध्यते ॥ ४१-९६ ॥

विष्णुस्ते पूर्वतः पातु रुद्रो रक्षतु दक्षिणम् ।
ब्रह्मा तु पश्चिमे पायात् स्कन्दो रक्षत्वथोत्तरम् ॥ ४१-९७ ॥

उपरिष्टात् तथा सूर्यः पातु त्वाधश्च वासुकिः ।
पायाच्च त्वामधो वत्स! शिष्टाः काष्ठाः समीरणः ॥ ४१-९८ ॥

स्वस्तिं करोतु भगवान् पिनाकी वृषभध्वजः ।
गावो रक्षन्तु सर्वत्र भूमिः पातु सदा शिवा ॥ ४१-९९ ॥

रक्षतु त्वामशेषाणां भूतानां प्रभवो हरिः ।
यस्य नाभिसमुद्भूतपङ्कजादभवज्जगत् ॥ ४१-१०० ॥

एकदंष्ट्राग्रविधृता धारयत्यवनी जगत् ।
वराहरूपधृग् देवः स त्वां रक्षतु केशवः ॥ ४१-१०१ ॥

नखाङ्कुरविनिर्भिन्नवैरिवक्षःस्थलो विभुः ।
नृसिंहरूपी सर्वत्र रक्षतु त्वां जनार्दनः ॥ ४१-१०२ ॥

वामनो रक्षतु सदा भवन्तं यः क्षणादभूत् ।
त्रिविक्रमः क्रमक्रान्तत्रैलोक्यः स्फुरदायुधः ॥ ४१-१०३ ॥

शिरस्ते पातु गोविन्दः कण्ठं रक्षतु केशवः ।
गुह्यं सजठरं विष्णुर्जङ्घे पादौ जनार्दनः ॥ ४१-१०४ ॥

मुखं बाहू प्रबाहू च मनः सर्वेन्द्रियाणि च ।
रक्षत्वव्याहतैश्वर्यस्तव नारायणोऽव्ययः ॥ ४१-१०५ ॥

शङ्खचक्रगदाखड्गशार्ङ्गनादहताः क्षयम् ।
गच्छन्तु प्रेतकुश्माण्डा राक्षसा ये तवाहिताः ॥ ४१-१०६ ॥

त्वां पातु दिक्षु वैकुण्ठो विदिक्षु मधुसूदनः ।
हृषीकेशोऽम्बरे भूमौ रक्षतु त्वा महीधरः ॥ ४१-१०७ ॥

अनेन तु सदा रक्षां नन्दगोपस्तदाकरोत् ।
कृष्णस्यैतज्जपन् स्पर्शाद् रक्षां स्यादक्षता शिशोः ॥ ४१-१०८ ॥

शक्तिमध्ये शिशोर्नाम तारं लुयुगलं जलम् ।
स्वाहान्तोऽनेन परितो वेष्टयेद् बाह्यतः शशी ॥ ४१-१०९ ॥

खण्डेन्दुभिरधोवक्त्रैर्बहिः संवेष्टयेत् पुनः ।
शिशुरोदनहृच्चक्रं सम्पूज्य कलितं त्विदम् ॥ ४१-११० ॥

आज्यं निम्बदलं रसोनकजतूवंशत्वचा संयुतं
सिद्धार्थाज्यभुजङ्गचर्मनृकचैर्निर्माल्ययुक्तं तथा ।
वेणुत्वग्जतुनिम्बपल्लव(कृ ? घृ)तैः सिधार्थयुक्तं त्विमे
धूपा बालहितास्त्रयोऽपि कथिता बालग्रहार्तिच्छिदः ॥ ४१-१११ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे मन्त्रपादे बालचिकित्सापटलः एकचत्वारिंशः ॥ ४१ ॥