अथ चत्वारिंशः पटलः ।
ध्यानानां चलचित्तत्वान्मन्त्राणां साधनस्य च ।
वैषम्यं चाधिका (री?रा)णामौषधैः साध्यमिष्यते ॥ ४०-१ ॥
दंशकाहेस्तु सन्देहे करञ्जत्वचि भक्षिते ।
मधुरे तु फणी तिक्ते राजिलो घोणसङ्कटौ ॥ ४०-२ ॥
काकाण्डा(न्ता?न्तः) क्षिपेद्धिङ्गु धर्मे शुष्कं गुलीकृतम् ।
मूत्रेण नसि निक्षिप्य फणिदष्टः सुखी भवेत् ॥ ४०-३ ॥
मातृघातीरजो हिङ्गुश्चुछुन्दर्युदरे स्थितः ।
साधारश्चूर्णितः शुष्को नस्यात् फणिविषापहः ॥ ४०-४ ॥
शुण्ठीरामठकारवेल्लिलशुनैः स्वर्णं वचा तुम्बिनी
नक्तस्रग्वकुलास्थिशिग्रुफलजं कोशातकीबीजयुक् ।
क्षोणीपूर्वशिरीषकस्य च शिफा स्यात् सर्पगन्धा समं
सर्वं पिष्टमजाम्भसा कृतगुली नस्यादिनाहीन् जयेत् ॥ ४०-५ ॥
षडङ्गीमूलपिष्टस्य नस्यालेपाद् विषं हरेत् ।
तदालिप्तकरः क्रीडन् सर्पैरिह न बाध्यते ॥ ४०-६ ॥
गोघृतं लोणमरिचे हिङ्गु मातृरिपोः करम् ।
पिष्टं श्रोत्राक्षिनासासु सिक्तं फणिविषापहम् ॥ ४०-७ ॥
पुनर्नवं च वाराहीं पीत्वा क्षीरेण निर्विषः ।
शङ्खतालकचूर्णाभ्यामधोङ्गानां च मार्जनात् ॥ ४०-८ ॥
चूर्णयित्वा वचाहिङ्गुमरिचांस्तु समोद्धृतान् ।
कारवेल्लिरसैर्नस्यं दष्टमुत्थापयेत् क्षणात् ॥ ४०-९ ॥
पत्राणि देवदाल्यास्तु सबीजाबीजकौशिका (?) ।
सौवीरपिष्टा पानाद्यैः सद्यः फणिविषापहा ॥ ४०-१० ॥
गुञ्जावकुलबीजानि मरिचं च नृवारिणा ।
पिष्ट्वा तन्नस्यपानेन नष्टसञ्ज्ञोऽपि जीवति ॥ ४०-११ ॥
भूनागं नरतोयेन पिष्ट्वा पीत्वा प्रलेपयेत् ।
नस्याञ्जने तथा कृत्वा फणिनां गरलं हरेत् ॥ ४०-१२ ॥
जननीरिपुहस्तं च रामठं च नराम्भसा ।
पाननस्याञ्जनैर्हन्यादपि वासुकिजं विषम् ॥ ४०-१३ ॥
बीजं तु वाकुलं मूत्रे पानाद्यैर्विषनाशनम् ।
कोशातकीजातिफले नक्तमालकरञ्जयोः ॥ ४०-१४ ॥
बीजे पिष्ट्वा तु तन्नस्यं सद्यो नागविषं जयेत् ।
अगारधूमो दार्वी च मेघनादो हरिद्रया ॥ ४०-१५ ॥
दध्याज्यपेषितः पीतो मुख्याहिगरलापहः ।
त्रिःसप्तकृत्वः सम्भाव्यः सूर्यक्षीरेण नागरम् ॥ ४०-१६ ॥
भक्षितं गरलं हन्ति पाननस्याञ्जनेन च ।
हिङ्गु त्रिकटुकं सिन्धुं रसोनं चोग्रगन्धिकाम् ॥ ४०-१७ ॥
स्नुक्श्रेष्ठकन्यास्नुह्यर्कश्वेतार्काजापयस्सु च ।
सम्भाव्य वेणुपात्रस्थं तेन नस्यं तथाञ्जनम् ॥ ४०-१८ ॥
मैत्रस्थाने च निहितं दष्टमुत्थापयेन्मृतम् ।
कतकस्यार्द्रवीजैस्तु सप्तकृत्वः पटच्चरम् ॥ ४०-१९ ॥
भावयित्वाञ्जयेन्नेत्रे तैलेनात्मोदकेन वा ।
नस्यं च कुर्यात् सद्यः स्यात् फणिनां विषनाशनम् ॥ ४०-२० ॥
निशा कृष्णा नागरं च मरिचं गृहधूमकम् ।
सिन्धुवारस्य पत्राणि श्लक्ष्णं पिष्ट्वा तुषाम्भसा ॥ ४०-२१ ॥
आलेपनाद् विषं हन्ति रक्तास्रावश्च तिष्ठति ।
हरिद्रागृहधूमं च मेघनादं घृतं दधि ॥ ४०-२२ ॥
पीतं फणिविषं हन्यात् तक्रेणाप्यहिजं विषम् ।
अहिगन्धा मुखे क्षिप्ता लिप्ता सप्तविषं जयेत् ॥ ४०-२३ ॥
इति फणिचिकित्सा ।
लवस्रनेत्र! उल्कामुख! विषदहन! विषभोजन! वज्रहस्त! हन हुं मुष्टिबन्धेन विषं यरलव पक्षि हुं फट् फो ठठ ।
यदङ्गं मण्डलीदष्टं ध्यात्वा मण्डलिविग्रहम् ।
स्वयं वराहहस्तं च खादन् जाप्याद् विषं हरेत् ॥ ४०-२४ ॥
सानन्तं दण्डिखं शक्तिरल्पपक्षिदेहा अरविमरविमत्तवान् ठठ(?) ।
जपन् खादंश्च ताम्बूलं मण्डलीनां विषं हरेत् ।
अधोमुखं दंशकाहिं वमन् धूमविषं स्मरन् ॥ ४०-२५ ॥
दष्टाङ्गमर्दनाच्छोफाक्ष्वेलस्य तु विनाशनम् ।
तद्विषी श्वेततोलाभ्यां मूर्धाद्यं भक्षितं स्मरेत् ॥ ४०-२६ ॥
मण्डलिविषं नश्यति ।
मूत्रविस्तम्भनेऽधस्तान्नाभेर्लेप्या वृषस्य विट् ।
तण्डुलाद्भिः समं भेकवसालेपादपि स्रवेत् ॥ ४०-२७ ॥
बृहत्कदलिकामूलं विण्मूत्रस्तम्भनेऽम्भसा ।
नाभेरधः समालिप्य सर्वं स्रवति तत्क्षणात् ॥ ४०-२८ ॥
मण्डलिक्ष्वेलहृन्नस्यं पानं च लवणाम्भसाम् ।
स्त्रीस्तन्ये वाकुलं बीजं नसि दत्तं तु मोहहृत् ॥ ४०-२९ ॥
शतावर्यक्षवाराहिवेगामूलानि पेषयेत् ।
पुराणमेषीतक्रेण तल्लेपो घोणसापहः ॥ ४०-३० ॥
सैन्धवं नालिकेराज्यं लिप्तं मण्डलिजं हरेत् ।
गुञ्जानील्योस्तथा मूलं नस्याद्यैर्मण्डलीं जयेत् ॥ ४०-३१ ॥
चूर्णं भृङ्गी च ताम्बूलं दधि लोणं च पेषितम् ।
योगद्वयं पृथग्लिप्तं विषं मण्डलिजं हरेत् ॥ ४०-३२ ॥
कृष्णाजमोदाकार्पासतिलापूपा गरापहाः ।
मयूरपिञ्ज(मै?रै)णत्वक्कोलविड्धूपतो हरेत् ॥ ४०-३३ ॥
मण्डलिविषमिति यावत् ।
अजाम्भसा पोत्रिशकृदालेपो घोणसापहः ।
वज्रवल्लिं च तन्मूलं गोक्षीरेण तु पेषयेत् ॥ ४०-३४ ॥
सतैलं पाययेत् तेन मण्डलीनां विषं हरेत् ।
क्षीरेण स्नुहिमूलं च जलेनार्कशिफा तथा ॥ ४०-३५ ॥
योगद्वयं पृथक् पीतं मण्डलीनां विषापहम् ।
मूलं पुनर्नवस्यापि गिरिकर्णीद्वयस्य च ॥ ४०-३६ ॥
शुक्तेन नस्यपानाभ्यामञ्जनेन च तद्धरेत् ।
कटुत्रयं दधि क्षौद्रं नवनीतं च सैन्धवम् ॥ ४०-३७ ॥
पिबेन्मण्डलिजं क्ष्वेलवेगं रक्तं च नाशयेत् ।
त्रिफला च त्रिकटुकं सैन्धवं मधुमाहिषे ॥ ४०-३८ ॥
तक्रे पिष्टं प्रलिप्तं चेन्नश्येन्मण्डलिनां विषम् ।
स्नुग्गव्यपयसोः प्रस्थे कुष्ठचन्दनकल्कके ॥ ४०-३९ ॥
घृतं पक्वं हरेद् गव्यं सेकान्मण्डलिजं विषम् ।
फलत्रयनिशायष्टित्रिवृत्कल्कं घृतं पचेत् ॥ ४०-४० ॥
स्नुक्क्षीरशिष्टगव्याढ्यं ब्रह्मीरसचतुर्गुणम् ।
तदालेपनपानाद्यैर्मण्डलीनां विषापहम् ॥ ४०-४१ ॥
द्विमुखाहिं हतं मृत्सावेष्टितं चिरशोषितम् ।
मृद्भूतं सास्थि सञ्चूर्ण्य तच्चूर्णेनाम्भसा सह ॥ ४०-४२ ॥
मण्डलीनां क्षतालेपाद्विषं सद्यो विनाशयेत् ।
गुञ्जामूलं काञ्चिकेन मण्डलीनां विषं हरेत् ॥ ४०-४३ ॥
पानालेपननस्यैरिति यावत् ।
नीलीमूलं घोणसानां विषघ्नं पानलेपतः ।
काञ्चिकेनेति यावत् ।
इति मण्डलिचिकित्सा ।
ह्रीं हुं फट् ठठ । ह्रूं हुं फट् ठठ । झ्रों हुं फट् ठठ ।
मन्त्रास्त्रयो राजिलानां जपेन विषनाशनाः ॥ ४०-४४ ॥
कान्तारकारवेल्ल्यास्तु शिफां दुग्धेन पाययेत् ।
मूत्रेण सारिबायाश्च पानाद्यै राजिलापहः ॥ ४०-४५ ॥
वर्षाभूचिर्भटवचाः काञ्चिकेन पिबेद् विषम् ।
हन्याद् राजिमतां नस्यात् तैलं च गृहधूमयुक् ॥ ४०-४६ ॥
कणा क्षौद्रं च सिन्धूत्थं पीतं गोमयवारिणा ।
राजिलानां गरहरं गुह्यमेतदुदाहृतम् ॥ ४०-४७ ॥
गोशकृद्रससिन्धूत्थं कणाज्यक्षौद्रपानतः ।
राजिलानां विषं हन्यच्छ्वेतपुङ्खशिफा तथा ॥ ४०-४८ ॥
स्वरसेनेति यावत् ।
सतैलद्रोणपुष्पाम्बुनस्यं राजिविषापहम् ।
सतैलतिन्त्रिणीपक्वनस्यं राजिविषं हरेत् ॥ ४०-४९ ॥
टङ्कणं सैन्धवं व्योषं नरमूत्रेण पेषितम् ।
प्रलिप्य राजिलादीनां क्षुद्राणां च विषं हरेत् ॥ ४०-५० ॥
नन्द्यावर्तशिफापाननस्यं राजिविषापहम् ।
इति राजिलचिकित्सा ।
अग्निकोत्तमकन्ये द्वे पिष्ट्वा हस्तेन तद्रसैः ॥ ४०-५१ ॥
सर्वाङ्गाभ्यञ्जनं हन्याद् राजिकामण्डलीविषम् ।
मधूकजं यत् पिण्याकं तगुरं च नृमूत्रयुक् ॥ ४०-५२ ॥
घ्राणस्थं राजिलानां च मण्डलीनां विषं हरेत् ।
पिशाचोदुम्बरदलैर्गिरिकर्णीशिफा समम् ॥ ४०-५३ ॥
गव्याज्यपिष्टा नस्याद्यैः फणिराजिविषं हरेत् ।
त्वक्चूर्णमर्कमूलस्य शीताम्भोलोलितं पिबेत् ॥ ४०-५४ ॥
फणिघोणसयोश्चापि विषं चाश्वारिजं हरेत् ।
टङ्कणश्लक्ष्णचूर्णं तु स्वच्छाम्भोलोलितं पिबेत् ॥ ४०-५५ ॥
नस्यं च लेपनं कुर्यात् सर्वाहिविषनाशनम् ।
पुनर्नवरसे पिष्ट्वा रामठं नसि योजितम् ॥ ४०-५६ ॥
मार्कवं काकमाचीं च वह्निकं कटुगन्धिनीम् ।
पिष्ट्वा स्तन्येन नस्येन सकलाहिविषापहम् ॥ ४०-५७ ॥
चूर्णं च नवनीतं च स्नुहिमूलं च रामठम् ।
रम्भामूलं तथागस्त्यं शिशुमूत्रेण पेषितम् ॥ ४०-५८ ॥
चम्पकत्वग्रसैर्नस्यं सकलाहिविषापहम् ।
उन्मत्ताम्भः सलवणं नस्यालेपाञ्जनार्पितम् ॥ ४०-५९ ॥
ताम्बूलीसलिलं वापि समस्ताहिविषं हरेत् ।
तुम्बिनीबककूश्माण्डशैरीषैर्जातिजानि च ॥ ४०-६० ॥
बीजान्यात्मोदकैः पिष्ट्वा नस्याद्यैः सर्वसर्पजित् ।
समूलं मेघनादं च वेगानीलीशिफायुतम् ॥ ४०-६१ ॥
घृतेन पीत्वा गरलं त्रिविधं च विनाशयेत् ।
अजास्पृश्या तथाज्येन पीता सर्वविषापहा ॥ ४०-६२ ॥
पुनर्नवाम्भः सहिङ्गु नस्यात् सर्वविषापहम् ।
अङ्कोलपाठानिर्गुण्डीपर्णैस्तुल्यं रसोनकम् ॥ ४०-६३ ॥
तद्वत् कतकवेगास्थि पुनर्नवशिफासमम् ।
चूर्णितं लाङ्गलीमूलं धूपावेतौ विषापहौ ॥ ४०-६४ ॥
सन्ध्ययोरपराह्णे वा धूपयेन्नान्यदा क्वचित् ।
सर्वविषहराविति यावत् ।
पिष्टं पुनर्नवामूलं कृष्णामम्भसि तत् पिबेत् ॥ ४०-६५ ॥
लेपाञ्जने च कुर्वीत सर्वसर्पविषापहम् ।
ऋक्षदन्तकृतं तार्क्ष्यमूर्तिमावाह्य तज्जपेत् ॥ ४०-६६ ॥
तद् यो धारयते तस्य सर्पबाधा न विद्यते ।
इति सर्वाहिचिकित्सा ।
तारशुक्लाग्निपुम्मन्त्रो वृश्चिकक्ष्वेलनाशनः ॥ ४०-६७ ॥
ताम्बूलीसलिलं हिङ्गु कांस्ये हस्तेन पेषयेत् ।
लेपादलिविषं हन्ति लालाकर्णमलं तथा ॥ ४०-६८ ॥
सैन्धवं हिङ्गु च शिला विश्वा गोमयवारिणा ।
वृश्चिकघ्ना च शैरीषं बीजं कृष्णा च लेपनात् ॥ ४०-६९ ॥
अर्कक्षीरेण पालाशबीजं पिष्टं प्रलेपयेत् ।
करञ्जपत्रं हस्तेन पिष्ट्वा बद्धं च तद्धरेत् ॥ ४०-७० ॥
वृश्चिकमिति यावत् ।
ताम्बूलं मारिचं वार्तं करञ्जास्थ्यश्वमारकम् ।
आलेपनं च पानं च हन्याद् वृश्चिकजं विषम् ॥ ४०-७१ ॥
शिरीषपुष्पमञ्जिष्ठाचन्दनं च निशाद्वयम् ।
कुष्ठं च कुमुदं द्वे द्वे लेपेनालिविषापहे ॥ ४०-७२ ॥
पारावतपुरीषं च नागरं सिन्धुतालके ।
बीजपूररसे पिष्टं प्रलिप्तं वृश्चिकार्तिजित् ॥ ४०-७३ ॥
घृतस्याष्टांशसिन्धूत्थकोष्णलेपोऽलितोदजित् ।
बर्बरस्योपनाहं च तत्पत्रामर्दनं तथा ॥ ४०-७४ ॥
पुष्ये पुनर्नवामूलं विधिवत् सूद्धृतं पिबेत् ।
विश्चिकानां विषं तस्य शरीरे नाधिरोहति ॥ ४०-७५ ॥
करञ्जशैरीषबीजे कुङ्कुमं च मनःशिला ।
समा गुलीकृतास्तोये वृश्चिकानां विषापहाः ॥ ४०-७६ ॥
इति वृश्चिकचिकित्सा ।
कालकर्णद्वयोपेतो वह्निपत्न्यन्तको मनुः ।
पूगत्रयं तु साच्छिद्रं सप्तताम्बूलयोजितम् ॥ ४०-७७ ॥
विलिख्य तेषु तज्जापाद् भक्षणादाखुजं हरेत् ।
षे षेश्चेटपुरी च एकविलजगरुद्रजटपिङ्गल फु हर विषं हर संहर फु ।
अधोग्रन्थ्यार्ककुसुमं द्वात्रिंशदभिमन्त्रितम् ॥ ४०-७८ ॥
निगिरेदाखवविषे दन्तास्पृष्टं नवे हरेत् ।
कपित्थपत्रमूलं चव्याघाटस्य शिफां निशाम् ॥ ४०-७९ ॥
गोमूत्रपिष्टां तु पिबेत् सर्वाखुविषनाशनम् ।
आरग्वधदलैर्धूपः साज्यं तत्पत्रभक्षणम् ॥ ४०-८० ॥
कार्पासतोयं तैलेन पीतं चाखुविषं हरेत् ।
कान्ता शिरीषकुषुमैः कुस्तुम्बुरु निशाद्वयम् ॥ ४०-८१ ॥
समं गोमूत्रपिष्टं तत्पानादाखुविषं हरेत् ।
तापिञ्छमूलपिष्टं वा चव्यं वा काञ्चिके पिबेत् ॥ ४०-८२ ॥
कृष्णरम्भाफलं कृष्णा ससितं पयसाथ वा ।
रम्भाफलनिवासान्तः सप्तमं कणमाशयेत् (?) ॥ ४०-८३ ॥
एते योगास्तु चत्वारः पृथगाखुविषापहाः ।
नवमालावामपर्णसप्तपिष्टं तु वा पिबेत् ॥ ४०-८४ ॥
मार्जारमलधुर्धूरधूपो डुण्डुभचर्मयुक् ।
हन्त्याखुगरलं वाद्यात् त्रिदलां गुलसंयुताम् ॥ ४०-८५ ॥
तुण्डीशिफाक्वाथजले पचित्वा वौदनं चरेत् ।
मध्वाज्ययुक्तां मुस्तां वा लिहेदाखुविषापहम् ॥ ४०-८६ ॥
काञ्चिकेन तु पुन्नागबीजं प्रातः पिबेत् ततः ।
तैलसिक्तश्चिरं तिष्ठेत् धर्मे त्वाखुविषी नरः ॥ ४०-८७ ॥
पुरातनांस्तु कुक्षिस्थान् वमेदाखुशिशूनपि ।
पेषयित्वार्कदुग्धेन मुष्टिकोद्रवतण्डुलान् ॥ ४०-८८ ॥
कृत्वापूपं तु तज्जग्ध्वा वमेन्मूषिकजं विषम् ।
शिरीषपत्रक्वाथाम्भो यवागूं स पुनः पिबेत् ॥ ४०-८९ ॥
पुराणाखुविषार्तस्य शिरोरुङ्मलसञ्चयात् ।
छर्दी कुष्ठादि शोफाश्च कुक्षिशूलज्वरादिकम् ॥ ४०-९० ॥
यदि स्यात् तच्छमायासौ कुर्यादुक्तविरेचनम् ।
तुण्डीवह्निशिखा वज्रीतोये विकृतिभावितम् ॥ ४०-९१ ॥
क्रमुकं सहताम्बूलं भक्षयेत् तद्विरेचनम् ।
सागरैरण्डबीजं यत् ताम्बूलं च विषापहम् ॥ ४०-९२ ॥
एतान्याखुविषविरेचकानि ।
कपित्थाङ्कोलयोः पत्रे शिरीषत्वग्भिरर्कजैः ।
पुष्पैः क्वथिततोयेन विरिक्तं स्नापयेत् तु तम् ॥ ४०-९३ ॥
बिन्द्वग्निवामकर्णाढ्यमाजेशममृतस्रवम् ।
क्षीरे वाप्स्वौषधे न्यस्तं पीतमाखुविषापहम् ॥ ४०-९४ ॥
झण्ठीशो बाहुयुगलरक्ताणे फुरनेन तु ।
शर्करा दशदिक्क्षिप्ता वृषवक्त्रनिबन्धनाः ॥ ४०-९५ ॥
अष्टोत्तरसहस्रजपादिति यावत् । नतिर्भगवते हज्री यशपूरी च मृगवराहकण्ठरमरव भक्षय सन्तु भो बन्ध आज्ञापयेति हुं फट् ।
वस्त्रेऽहिग्रस्तवदनं लिखित्वाखुमिमं मनुम् ।
विलिखेत् परितो न्यस्येद् वृषानुच्चाटयेद् गृहात् ॥ ४०-९६ ॥
बुधाश्लेषे धनुर्लग्ने कीलं सप्ताङ्गुलायतम् ।
वैभीतकं वा निखनेद् विलोमं वृषनाशनम् ॥ ४०-९७ ॥
तद्बिले निखनेदिति यावत् ।
स्वनेच्छतभिषर्क्षे वा धनुष्यारग्वधोद्भवम् ।
इदमपि वृषनाशनम् ।
शुष्कं डुण्डुभपुच्छं तु सर्पिषा ज्वालयेत् तदा ॥ ४०-९८ ॥
वज्रीकरञ्जमधुकद्विकोशातकिबीजयुक् ।
निर्गुण्डिमूलं च निशे पश्वजामूत्रपेषिते ॥ ४०-९९ ॥
सौवीरपिष्टा गुलिका न्यस्ता गेहे वृषान् हरेत् ।
पीता सर्वाखुविषहृच्छायाशुष्का गुली भवेत् ॥ ४०-१०० ॥
श्वेतार्कपाटलीमूलदेवदारुनिशाद्वयैः ।
कल्कीभूतैः सगोमूत्रैः सर्पिः सिद्धं वृषार्तिहृत् ॥ ४०-१०१ ॥
रक्तार्कं लशुनं चैव बद्धमाखुविषापहम् ।
इत्याखुविषचिकित्सा ।
लूतिकाः कृ(ति?मि)भेदाः स्युश्चतस्रः खे चरन्ति ताः ॥ ४०-१०२ ॥
द्व्यष्टौ भूमौ चरन्त्यासामसाध्याः खे चरन्ति याः ।
एका दर्शनतो हन्ति स्पृष्टान्या छायया परा ॥ ४०-१०३ ॥
इतरा चैव गन्धेन तस्माद् व्योम्नि शयीत न ।
भोजनं च न कुर्वीत निशासु व्योम्न्यनावृते ॥ ४०-१०४ ॥
खं साग्निबिन्दु हृल्लेखावियदग्न्यर्घिबिन्दुमत् ।
विपतिं कर्णिकान्तं च शुक्लं वर्मास्त्रके मनुः ॥ ४०-१०५ ॥
लषस्रषश्विषाडित्यो वह्निषु नमोऽस्तु ते रुद्राय रुद्राग्निषु दोषक्षयाय फट् ।
मन्त्रास्त्रयोऽपि लूतघ्ना जपाद्यैस्तु पृथक् पृथक् ।
दुर्गासूर्येन्दुदेवत्याः सहस्राभ्याससाधिताः ॥ ४०-१०६ ॥
महाखर्जूरकुसुमं मरिचं तुलसीयुतम् ।
सौवीरपिष्टं लेपाद्यैः सर्वलूतगरं हरेत् ॥ ४०-१०७ ॥
चन्दनोशीरतगरपाटलीकुष्ठपद्मकैः ।
ह्नीबेरशेलुनिर्गुण्डीशारिबाभिस्तु काञ्चिके ॥ ४०-१०८ ॥
पिष्ट्वा प्रलेपपानाद्यैः सर्वलूताविषं हरेत् ।
वचादोषालशुनकान्यर्धमर्धं च रामठम् ॥ ४०-१०९ ॥
विश्वा तदर्धं मूत्रेण लेपाद्यैर्लूतनाशनम् ।
वन्ध्याकर्कोटकीमूलं लूतघ्नं तण्डुलोदके ॥ ४०-११० ॥
वेगामूलं तथाम्भोभिः साङ्गताम्बूलवारि च ।
लूताव्रणे निष्ठीवितमिति यावत् ।
ज्योतिष्मत्याश्च बीजानि मरिचं बदरीत्वचा ॥ ४०-१११ ॥
क्षीरे पिष्ट्वा प्रलेपाद्यैः सर्वलूताविषं हरेत् ।
अगस्तीपत्रतुलसीरसलेपश्च लूतजित् ॥ ४०-११२ ॥
कदम्बनीलीतुलसीलाङ्गल्यालेपनं तथा ।
चिञ्चावन्दाकगोक्षीरपानं लूतादिनाशनम् ॥ ४०-११३ ॥
तत्कल्कपक्वतैलं च लूतिकाव्रणनाशनम् ।
अङ्कोलगुञ्जानिर्गुण्डीपत्रं विश्वा निशाद्वयम् ॥ ४०-११४ ॥
कथितं सकरञ्जास्थिजलं सेकेन लूतजित् ।
इति लूतचिकित्सा ।
दर वर करि च्छिन्द खड्गेन छेदय शूलेन भिन्द चक्रेण दारय हुं फट् ठठ ।
गर्दभादिविषाणां तु मनुरेष विनाशकृत् ॥ ४०-११५ ॥
मुस्तोशीराब्जमांसीभिः श्रेष्ठापद्मकचन्दनैः ।
अजादुग्धेन पानाद्यं गर्दभादिविषापहम् ॥ ४०-११६ ॥
आदिशब्देन मार्जारवानरमकरग्राहनकुलाश्वादयो विवक्षिताः ।
वचालोध्राश्वगन्धाः स्नुक्क्षीरे हयविषापहाः ।
पानालेपनादिति यावत् ।
इन्द्रवल्लीं निशां पुङ्खां (?) जीर्णं पर्णं च पानसम् ॥ ४०-११७ ॥
द्रोणस्वरसतैलाभ्यां किञ्चिच्चूर्णयुतं पिबेत् ।
गर्दभश्वविषघ्नं स्यात् पाननस्यविलेपनैः ॥ ४०-११८ ॥
कपित्थबिल्वकार्काणां बीजानि मरिचं निशे ।
पिष्ट्वा पानादिकं सद्यो गृहगौलिविषं हरेत् ॥ ४०-११९ ॥
करञ्जशिग्रुकापित्थबीजं गौलीविषे हितम् ।
निशाज्यशारिबालेपो जलूकानां विषापहः ॥ ४०-१२० ॥
व्योषैः शिरीषपञ्चाङ्गं हन्याच्छतपदीविषम् ।
दीपतैलं शतपदीदंशस्योपरि पातयेत् ॥ ४०-१२१ ॥
तद्विषं हरति ।
शिरीषबीजस्नुक्क्षीरे मण्डूकविषनाशने ।
स्वरसो हिङ्गुसंयुक्तस्तर्कारीभृङ्गराजयोः ॥ ४०-१२२ ॥
पानालेपननस्यैस्तु मार्जारविषनाशनः ।
निशाभृङ्गाश्वगन्धानां लेपादोतोर्विषं हरेत् ॥ ४०-१२३ ॥
पीतं शिरीषपञ्चाङ्गं लिप्तं वानरदंशजित् ।
तृतीयकन्दं वेगाया नीलिका तण्डुलीयकम् ॥ ४०-१२४ ॥
क्षीरेण पिष्ट्वा लेपाद्यैर्नरदष्टविषं हरेत् ।
लोध्रं लवणहिङ्गुभ्यां सर्षपैः शुक्तपेषितम् ॥ ४०-१२५ ॥
आलेपयेत् पिबेच्चापि मत्स्यदंशविषापहम् ।
शमीन्यग्रोधनिम्बानां कल्कक्वाथं पिबेदपि ॥ ४०-१२६ ॥
तत्पिष्टलेपान्मर्त्यानां नखदन्तविषं हरेत् ।
गृहधूमत्रिकटुकसैन्धवैः शुक्तपेषितैः ॥ ४०-१२७ ॥
लेपपानादिना हन्याद् गोधादंशकृतं विषम् ।
सलोणतप्ततैलं तु सेचयेन्मक्षिकाविषे ॥ ४०-१२८ ॥
कपित्थस्य कपालेन प्रलेपो मक्षिकापहः ।
वेगानीलिकयोः पत्रैः समूलं तण्डुलीयकम् ॥ ४०-१२९ ॥
पिष्ट्वा प्रलेपनं कुर्याच्चतुष्पाद्विषनाशनम् ।
गृहधूमं समरिचं वचां रात्रिं च काञ्चिके ॥ ४०-१३० ॥
पिष्ट्वा प्रलेपपानाद्यैः सर्वकीटविषापहम् ।
शिग्रुकाकादनीमूलं समूलं तण्डुलीयकम् ॥ ४०-१३१ ॥
पिष्ट्वा क्षीरेण लेपाद्यैः कीटानां विषनाशनम् ।
कटुतुम्बिनिशादेवदालीबीजानि लाङ्गलीम् ॥ ४०-१३२ ॥
पिष्ट्वा शुक्तेन तल्लेपात् सर्वकीटविषं हरेत् ।
श्वेतापराजितामूलं पत्रपुष्पं च नागरम् ॥ ४०-१३३ ॥
व्योषं च काञ्चिके पिष्टं स्यात् क्षुद्रविषनाशनम् ।
हृदयान्ते भगवते विष्णवे सरवीप्सितम् ॥ ४०-१३४ ॥
वसेति च स वर्मास्त्रे ठयुग्मं सर्वकीटजित् ।
मातृकापद्ममध्यस्थमन्त्यमौबिन्दुवह्नियुक् ॥ ४०-१३५ ॥
अलर्काटिभटेशक्षराज मे शरणाधिप अलर्कदष्टमेतन्मे निर्विषं कुरु मा चिराय ठठ ।
दष्टं श्वानं स्वमात्मानं सिंहं मध्ये च सागरम् ।
क्षुब्धं ध्यात्वा द्वयोर्भीत्या धावन्तं दष्टकुक्कुरम् ॥ ४०-१३६ ॥
निषिच्य मन्त्रं तु जपेत् कुक्कुराणां विषापहम् ।
यष्टिकुस्तुम्बुरुव्योषस्वगुप्ताबीजकुष्ठयुक् ॥ ४०-१३७ ॥
प्रियङ्गवश्चैकभागाः कर्णिकारं द्विभागिकम् ।
पयोगुलान्वितं पीतमलर्कगरलापहम् ॥ ४०-१३८ ॥
कोशातकीकुटचयोर्बीजान्यर्कशिफारसः ।
जात्याः क्षीरान्वितं पीतं सद्यः श्वविषनाशनम् ॥ ४०-१३९ ॥
यष्टिव्योषगुलक्षीरं पीतं च विषनाशनम् ।
कुस्तुम्बुरु स्वयङ्गुप्ताथ रात्रिः कटुमागधी ॥ ४०-१४० ॥
कर्णिकारासनगुलं क्षीरे दष्टः शुना पिबेत् ।
मत्तशुना दष्टोऽपीति यावत् ।
शुक्ते करञ्जसर्वाङ्गक्वाथे स्नात्वातपे स्थितः ॥ ४०-१४१ ॥
मत्तश्वदष्टो मत्तोऽपि सद्यो निर्विषताभियात् ।
अङ्कोलोन्मत्तबीजानि नागरं मागधीसमम् ॥ ४०-१४२ ॥
कृष्णरम्भाफलोन्मिश्रमलर्कविषनाशनम् ।
रम्भायाः कारवल्ल्याश्च नील्या मूलं च तत्समम् ॥ ४०-१४३ ॥
अजाक्षीरेण पानाद्यैः सृगालविषनाशनम् ।
अपामार्गस्य पत्राणि तिलान्यपि च पेषयेत् ॥ ४०-१४४ ॥
काञ्चिकेन प्रलेपाद्यैर्जम्बुकस्य विषं हरेत् ।
भृङ्गराजं च नीलीं च निर्गुण्डीमश्वगन्धिकाम् ॥ ४०-१४५ ॥
अजाक्षीरेण लेपाद्यैर्हन्यान्नकुलजं विषम् ।
नीलीमूल्ं क्षीरपिष्टं पानाद्यैर्नकुलं हरेत् ॥ ४०-१४६ ॥
सव्योषकिंशुकशिफा तैलक्षीरविलोलिता ।
पिपीलिकाविषं हन्यात् पानालेपनयोजिता ॥ ४०-१४७ ॥
निशाव्योषे शुक्तपिष्टे पिपीलिकविषापहे ।
पुनर्नववचाहिङ्गुमरिचाः शुक्तपेषिताः ॥ ४०-१४८ ॥
पानालेपादिभिर्हन्युर्विषं भ्रमरदंशजम् ।
शिग्रुमूलं हरिद्रे द्वे समूलं तण्डुलीयकम् ॥ ४०-१४९ ॥
पिष्ट्वा प्रलेपयेत् सद्यो वञ्चुलाविषनाशनम् ।
षड्बिन्दोः पयसा नस्यं क्षौद्राज्यं वा समं पिबेत् ॥ ४०-१५० ॥
हृदयान्ते भगवते जषुदाशपवेन्द्रषु भाशपर्वतशिखररूपाय संहर मोचय चालय निर्विष विषममृतमहारससदृशमिमं भक्षापयामि ठठ । अमलपक्षि क्षिप हर ठठ ॥
तार्क्ष्यात्मानेन मनुना स्थावराणां विषं हरेत् ।
विस्मयाय स्वयं वाद्यादन्यं वाप्याशयेत् तु तत् ॥ ४०-१५१ ॥
स्थावरे तु विषे भुक्ते वान्तं शीताम्बुसेचितम् ।
मध्वाज्यमसमं पीत्वा कुर्यात् सम्यग् विरेचनम् ॥ ४०-१५२ ॥
निश्वाद्वयं च सिन्धूत्थं साज्यक्षौद्रं तु वा पिबेत् ।
सिताक्षौद्रयुतं ताम्रचूर्णं स्वर्णं तु(वा) लिहेत् ॥ ४०-१५३ ॥
कारस्करविषं हन्ति जम्बूपल्लवजो रसः ।
रम्भापुष्परसं तद्वत् कपित्थच्छदनाम्बु च ॥ ४०-१५४ ॥
फणीतकस्य शुण्ठ्यम्बुपानाच्छिन्नारसोऽपि च ।
स्नुहिस्नुक्चूतपुष्पाणि शृङ्गिक्ष्वेलहराणि च ॥ ४०-१५५ ॥
चूर्णस्य तैलकबलमङ्गारस्य निशारसः ।
कदलीपुष्पकासघ्नौ स्त्रीदत्तौषधिनाशनौ ॥ ४०-१५६ ॥
भल्लातं ब्रह्मवृक्षाम्बु गव्यं च दधिसम्भवम् ।
दशधौतं विलिप्तं तद् विषं प्रशमयेद् व्रणम् ॥ ४०-१५७ ॥
अज्झटा चणकं हन्यादार्द्रकं लाङ्गलीविषम् ।
नीली लोध्रसमा पिष्टा पानाद्यैः स्थावराणि तु ॥ ४०-१५८ ॥
हन्याद् विषाणि सर्वाणि खार्या गोपयसाथ वा ।
शिरीषकुषुमं हन्ति कोद्रवोत्थमुपद्रवम् ॥ ४०-१५९ ॥
पलाशकूश्माण्डरसो मदकोद्रवनाशनः ।
रम्भाफलस्य मरिचं पानसस्य च नागरम् ॥ ४०-१६० ॥
नालिकेरस्य चूताम्लं वरभृङ्गस्य कुण्डली ।
नालीकेराम्बुजम्बीरशुक्तान्यतमयोजिते ॥ ४०-१६१ ॥
कर्पूरे तद्विषहरो भृङ्गराजरसः स्मृतः ।
सशुक्तशालिमूलस्याप्युशीरं विषनाशनम् ॥ ४०-१६२ ॥
नीलिका चाश्वगन्धा च पाननस्यादियोजिता ।
निःशेषं स्थावरविषं संहरेदमृतं यथा ॥ ४०-१६३ ॥
समाज्यक्षौद्रविषजं चक्रमर्दस्तु भक्षितः ।
स्नुहिस्नुह्योर्नाकुलीका नीलागमविषापहा ॥ ४०-१६४ ॥
एलाचन्दनकुष्ठगैरिककणासौवर्चलालोध्रकं
मांसीयष्टिनतोच्चटा समधृता सञ्चूर्ण्य मध्वाप्लुतम् ।
लीढं दूषिविषं निहन्ति पुरतो बिम्बं कृशानोः पुरं
ज्वालामालि विभावयन् मनुजपान्नश्येद् विषं स्थावरम्॥ १६५ ॥
तारं नेत्रशशाङ्कखण्डहुतभुग्युक्तस्तु संवर्तकः
शक्तिर्वर्म च फट् च वह्निदयिता हन्याद् विषं स्थावरम् ।
दूर्वाच्छिन्नकणापटोलतगरैश्चित्राब्जचव्यावचाः
पानाद्यैः सविलङ्गमस्तुलुलिता हन्युर्विषं कृत्रिमम् ॥ ४०-१६६ ॥
विश्वालर्कतमालमूलसहितं हिङ्गुश्च शृङ्गीविषं
तत्कोशातकिजं घनं हयरिपुं पथ्या जले नाशयेत् ।
भूपोतं च निशार्कजं नृपनिशातोयं च चूर्णे हितं
कार्पासं जलजे तु चित्रकविषं पद्मं तथोन्मत्तके ॥ ४०-१६७ ॥
यद्वा विषापनयनाय तथातुराणां रोगक्षयार्थमथवेष्टरसायनार्थम् ।
यत्रौषधग्रहणमिष्टमुपेत्य तस्य पूर्वेद्युरस्तसमये विदधातु रक्षाम् ॥ ४०-१६८ ॥
शुक्लाम्बरधरः क्षालिताङ्घ्रिपाणिस्त्वथाचमेत् ।
उत्तराशामुखश्चौषधीमूलमुपलिप्य तु ॥ ४०-१६९ ॥
गणेशं क्षेत्रपं चेष्ट्वा यवादीन् विकिरेदथ ।
रक्तसूत्रेण मूलं तु संवेष्ट्याथ कृताञ्जलिः ॥ ४०-१७० ॥
धन्वन्तरिं तु प्रणमेत् सुप्रभां ब्रह्मनिर्मिताम् ।
शुक्लां सुरूपां चार्वङ्गीं मुक्ताद्यैरप्यलङ्कृताम् ॥ ४०-१७१ ॥
मुख्यैराभरणैस्तारनाम्ना नत्या तु तां यजेत् ।
ॐ नमः सर्वौषधीभ्यः । ऊर्जावन्तो भविष्यथ । तद्वीर्यैः कृत्स्नीकुरुध्वम् । पच हन दह मारय तुभ्यं नमः ॥
इत्यमुं दशवारं तु जपित्वा चौषधिं पुनः ॥ ४०-१७२ ॥
नमस्कृत्य प्रभाते तु तन्मन्त्रेण प्रणम्य तु ।
गृह्णीयादौषधं वीर्यवत् स्यादुक्तफलं पुनः ॥ ४०-१७३ ॥
अन्यथा चौषधीवीर्यं गृह्णात्येव हि सुप्रभा ।
इत्थं विचार्य विधृतान्यतिविस्तृतानि
तन्त्राणि पूर्वगुरुभिर्विहितानि सम्यक् ।
क्ष्वेलोपशान्तिसुकृतार्थितया समासात्
सन्दर्शितं सकललोकहितं विधानम् ॥ ४०-१७४ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे नानाविधविषचिकित्सापटलश्चत्वारिंशः ॥ ४० ॥