अथैकोनचत्वारिंशः पटलः ॥
विषग्रहामयार्तीनामिति पूर्वं प्रदर्शितम् ।
वस्तुनिर्देशपटले यस्मात् तदथ कथ्यते ॥ ३९-१ ॥
अभिवन्द्य गुरुं तत्र नागांश्चानन्तपूर्वकान् ।
सङ्क्षिप्य विषतन्त्रेभ्यो लोकानां हितकाम्यया ॥ ३९-२ ॥
मन्त्रध्यानौषधाद्यैस्तत्प्रतीकारः प्रदर्श्यते ।
फणिनो घोणसाश्चैव राजिला व्यन्तरास्तथा ॥ ३९-३ ॥
फणिनो द्विविधास्तेषु दिव्या भौमाश्च ते पुनः ।
ब्राह्मणक्षत्त्रविट्शूद्रा इति सर्वे चतुर्विधाः ॥ ३९-४ ॥
दिव्या ये कद्रुतनयाः सहस्रं कामरूपिणः ।
किरीटहारकेयूरमकुटाद्यैर्विभूषिताः ॥ ३९-५ ॥
दिव्यमाल्याम्बरालेपा नागाः सर्वे महौजसः ।
तेषामष्टौ प्रधानास्तु शेषवासुकितक्षकाः ॥ ३९-६ ॥
कार्कोटकोऽथ पद्मश्च महापद्माभिधानकः ।
शङ्खपालश्च गुलिको भानुवारादिपालकाः ॥ ३९-७ ॥
सौरिवारस्य पूर्वार्धं शङ्खपालाधिदैवतम् ।
गुलिकश्चापरार्धस्य गोप्ता तन्निष्क्रमाश्च ते ॥ ३९-८ ॥
ये नागाः कद्रुतनयाः सहस्रं भोगशालिनः ।
केचित् पातालनिलया भूम्यब्धिगिरिवासिनः ॥ ३९-९ ॥
भुवःस्वर्वासिनः केचिद् यथेष्टनिलयाः परे ।
शुक्ला रक्ताश्च पीताश्च कृष्णाश्च ब्राह्मणादयः ॥ ३९-१० ॥
सह्स्रफणिनः केचिदष्टसप्तकषट्शतैः ।
पञ्चवेदत्रिकद्व्येकशतपञ्चफणैर्युताः ॥ ३९-११ ॥
एतेषां वंशजा येऽन्ये तेषां सङ्ख्या न विद्यते ।
क्रमात् तद्वंशजा ये ते दिव्यसामर्थ्यवर्जिताः ॥ ३९-१२ ॥
यत्रतत्रनिवासास्ते सर्पास्त्वेकफणाः स्मृताः ।
पूर्वकर्मवशात् तेऽपि दशन्ति मनुजादिकान् ॥ ३९-१३ ॥
देवतानां प्रकोपाद् वा क्रूरपापनिषेवणात् ।
स्वस्थानरक्षणाद् वापि दशन्त्याक्रान्तितो भयात् ॥ ३९-१४ ॥
मिथः सङ्करसम्भूता घोणसा राजिलादयः ।
आषाढादित्रिमासेषु गर्भं धत्ते हि सर्पिणी ॥ ३९-१५ ॥
कार्तिके मार्गशीर्षे वाप्यण्डानां विंशतेः परम् ।
आचत्वारिंशदण्डानि सूते नानाविधानि सा ॥ ३९-१६ ॥
तानि सप्तदिनादूर्ध्वं क्षुधार्ता स्वयमत्ति हि ।
अण्डमेकं द्वयं वा त्रीन् न भक्षयति सा यतः ॥ ३९-१७ ॥
उत्पद्यन्ते ततः सर्पास्ते सप्तदिवसे गते ।
दीर्घराजियुतं स्त्रैणं हैमाभं पुरुषाण्डकम् ॥ ३९-१८ ॥
शिरीषाभं तथा षण्डं शुक्लं कृष्णमथापि वा ।
भिन्ना भवन्ति दशभिर्दिनैर्बोधयुताश्च ते ॥ ३९-१९ ॥
एकविंशद्दिनैर्दंष्ट्राश्चत्वारिंशद्दिनैर्गतिः ।
जायते सूर्यमालोक्य भवन्ति सविषोल्बणाः ॥ ३९-२० ॥
मासैः षड्भिः करायामा निर्मोकं प्रजहन्ति (?) च ।
दीर्घा वृश्चिकजा रौद्रा ह्रस्वाः शान्ताश्च चापजाः ॥ ३९-२१ ॥
नद्यादिसङ्गमे शैले चोद्याने देवतालये ।
निवसन्ति हविर्गन्धा ब्राह्मणाः पद्मिनीषु च ॥ ३९-२२ ॥
गृहचत्वरवप्रादौ केतकीसुरभिर्नृपः ।
गोष्ठवल्मीकविपिनक्षेत्रधान्यगृहेषु च ॥ ३९-२३ ॥
वैश्यो गुग्गुलुगन्धस्तु शूद्रो नैकत्र वासवान् ।
पूर्वमध्यापराह्णेषु निशि च ब्राह्मणादयः ॥ ३९-२४ ॥
वायुपत्रफलक्षीराण्यश्नाति ब्राह्मणो नृपः ।
मूषिकांस्तु वणिग् भेकान् शूद्रः सर्वमुपागतम् ॥ ३९-२५ ॥
मयूरश्येननकुलपोत्रिमार्जारगोखरैः ।
नराग्न्यशनिरुरुभिश्चिरं जीवेन्न चेद्धतः ॥ ३९-२६ ॥
भाप्रभावनसङ्ख्यानि गोरोमाभानि वै त्वचा ।
छन्नान्यहीनां पादानि यतः पादैर्न याति सः ॥ ३९-२७ ॥
इन्दीवराम्बुजे शङ्खस्वस्तिकोत्पलबिन्दवः ।
फणासु शिशुपादौ वा चिह्नानि खलु भोगिनाम् ॥ ३९-२८ ॥
मण्डलैर्विविधाकारैश्चित्रा दिर्घाश्च घोणसाः ।
राजिलास्तिर्यगूर्ध्वं च चित्रिताङ्गाश्च राजिभिः ॥ ३९-२९ ॥
वातं पित्तं कफं त्रींश्च दद्युर्दर्वीकरादयः ।
दंष्ट्राकारं दंशनं कारणं च चेष्टावेगस्थानमर्माणि दूतान् ।
वाक्यं तारादिङ्निमित्तैस्तिथींश्च ज्ञात्वा कुर्याद् वा न कुर्याच्चिकित्साम् ॥
भोगिनां द्वे शते दन्ताश्चत्वारिंशच्च तेष्वपि ॥ ३९-३१ ॥
नव दन्तास्तु सविषास्तैर्दंशाद् गरसम्भवः ।
कराली मकरी धूम्रा कालरात्रिः कपालिनी ॥ ३९-३२ ॥
काली चोग्रा च यमनी प्रोक्ता तु यमदूतिका ।
उक्तैः कतिपयैर्दन्तैर्दशन्त्यनिलभोजनाः ॥ ३९-३३ ॥
आश्लेषे गुलिके वापि दष्टे नास्ति चिकित्सितम् ।
शस्त्रकण्टककीटाद्यैर्यः क्षतो गुलिकोदये ॥ ३९-३४ ॥
सोऽपि वैवस्वतं याति सर्पदष्टस्तु किं पुनः ।
दिनरात्र्योश्च सन्ध्यासु पुंसर्पाद्या महाविषाः ॥ ३९-३५ ॥
ज्ञेयश्चतुर्विधो दंशो दष्टं विद्धं च खण्डितम् ।
अवलुप्तं च दष्टस्य क्षतमेकं विभाव्यते ॥ ३९-३६ ॥
क्षतद्वयं चेत् विद्धं स्यात् खण्डितं तु बहुव्रणम् ।
अव्रणं त्ववलुप्तं स्यात् कथ्यन्ते दंशहेतवः ॥ ३९-३७ ॥
भीतिः क्षुधा मत्तता चाप्याक्रान्तिः स्थानरक्षणम् ।
देवादेशश्च वैरं च कालदंशश्च तेऽष्टधा ॥ ३९-३८ ॥
एकं वक्रं क्षतं यत्र भीताहिविहितं तु तत् ।
विषं न विद्यते तत्र यदा दंशद्वयं भवेत् ॥ ३९-३९ ॥
ऋजु स्वल्पं विषं ज्ञेयं सुसाध्यं तच्चिकित्सयेत् ।
लालाक्तं दंशमध्ये तु खण्डितं क्षुधितोद्भवम् ॥ ३९-४० ॥
दुःखसाध्यं तु तज्ज्ञेयमसाध्यमिति केचन ।
एकं क्षतं वा बहु वा रुधिरं बहुलं यदा ॥ ३९-४१ ॥
दर्पजं तदसाध्यं हि कथञ्चित् साध्यमेव वा ।
सलालारक्तमांसानि क्षतानि स्थानरक्षिणः ॥ ३९-४२ ॥
दृश्यन्ते यत्र साध्यं तदिति वाचस्पतेर्मतम् ।
ऋजु दंशद्वयं चैकं वक्रं वैरकृतं त्यजेत् ॥ ३९-४३ ॥
त्रिक्षतं वा सरुधिरमसाध्यं कालचोदितम् ।
रोमाञ्चदाहौ स्वेदश्च लालास्रावोऽङ्गकम्पनम् ॥ ३९-४४ ॥
स्मृतिमोहः पारवश्यं कालदष्टस्य तं त्यजेत् ।
कृष्णं तु मण्डलं दंशे बहुलो रुधिरास्रवः ॥ ३९-४५ ॥
दन्तोष्ठयोर्विघटना कालदष्टस्य लक्षणम् ।
सोमाग्निसूर्यानरुचीन् पश्येन्नेत्रे त्रिलोहिते ॥ ३९-४६ ॥
न पश्यत्यात्मनश्छायां क्षिप्तो यः प्लवते जले ।
अरोमाञ्चो जलैः सिक्ते छेदे नास्ति च लोहितम् ॥ ३९-४७ ॥
वेत्रादिताडने तस्य पदं नो यत्र दृश्यते ।
विवृतं वदनं वापि कालदष्टः स वै मृतः ॥ ३९-४८ ॥
त्वगसृङ्मांसमेदोस्थिमज्जाशुक्लानि धातवः ।
धातोर्धात्वन्तरप्राप्तिं विषवेगं प्रचक्षते ॥ ३९-४९ ॥
मात्राशतात् तदर्धाद् वा वेगे रोहति साध्यते ।
क्षिप्रं रोहत्यसाध्यं चेद् वेगलक्ष्माथ कथ्यते ॥ ३९-५० ॥
रोमाञ्चस्वेदशोषाश्च विवर्णत्वं च वेपथुः ।
हिक्का च गलभङ्गश्च स्वापश्च मरणं तथा ॥ ३९-५१ ॥
इति नव वेगाः ।
गुदं च गुह्योदरतालुकर्णस्तनाक्षिशीर्षागलशङ्खनासाः ।
नाभिः सकक्षाङ्घ्रिकराश्च जङ्घे स्थानानि दंशस्य तु निन्दितानि ॥ ३९-५२ ॥
देवालयाश्वत्थवटाश्च जम्बूः श्लेष्मातकस्तिन्त्रिणिवेत्रवंशाः ।
श्मशानशुष्कागमजीर्णकूपाश्चतुष्पथं चैत्यकमप्यनिष्टम् ॥ ३९-५३ ॥
इत्यनिष्टस्थानानि ।
प्रसन्नवक्त्रः कुसुमादिहस्तः पूर्णाङ्गदेहश्च सिताम्बरा(द्यः ? ढ्यः) ।
इष्टस्तु दूतोऽथ तथा ह्यनिष्टस्तैलाक्तदेहो विकलश्च रोगी ॥ ३९-५४ ॥
काष्ठादिकं वाप्यथ कण्टकं वाप्युल्कां च यष्टिं मलिनो दधानः ।
कण्ठे च वस्त्रं स्वकरे च रज्जौं दूतस्तु निन्द्यः खलु मुक्तकेशः ॥ ३९-५५ ॥
वर्णी लिङ्ग्यथवा योषिद् दूरतो व्याहरन्नपि ।
सर्पं पूर्वं ततो दष्टं ब्रुवन् दूतो विनिन्दितः ॥ ३९-५६ ॥
वारदष्टाक्षरं वामे तले विन्यस्य चिन्तयेत् ।
आघ्राते केतके दर्वी पाटले मण्डली भवेत् ॥ ३९-५७ ॥
राजिलो मल्लिकागन्धे व्यन्तरः करवीरके ।
पूर्वावस्थो यदा पाणिर्विषं नास्तीति वा वदेत् ॥ ३९-५८ ॥
वारुणैन्द्राक्षरैर्दूतवाक्याद्यैः स तु जीवति ।
वाय्वग्निजातैर्न भवेल्लिख्यन्ते तानि च क्रमात् ॥ ३९-५९ ॥
इ-ई-ऌ-ॡ अंहलङञणनमा महेन्द्रजाः ।
अचछजकला(कवा ?) खक्षझषभाश्चैव वारुणाः ॥ ३९-६० ॥
ए ऐ ओ अः * उगथा हयवा ढश्च मारुताः ।
आ-ऊ-ऋ-ॠ औघतपा (त?र)दसाखश्च वह्निजाः ॥ ३९-६१ ॥
ति दूतवाक्याक्षरनियमः ।
रुद्राग्निसर्पाजमघासु मूलापूर्वाविशाखासु कुजेऽर्कजेऽर्के ।
षष्ठ्यां नवम्यामपि पञ्चदश्यामायां चतुर्दश्यां मृत एव दष्टः (?) ॥ ३९-६२ ॥
निमित्तानि शुभानीह लोकसिद्धानि सिद्धये ।
शकुनानि च संसिद्धिं वदन्ति वचनैः शुभैः ॥ ३९-६३ ॥
पूर्वादिदिग्गते दूते फणी कोणेषु मण्डली ।
दिग्विदिङ्मध्यमाशाभ्यां राजिलो व्यन्तरः क्रमात् ॥ ३९-६४ ॥
मन्त्रिवाक्यात् स्वयं वापि दूतोऽङ्गं यत् तु संस्पृशेत् ।
तस्मिन् दंशो विसंवादे नाहिः स्यान्नास्ति वा विषम् ॥ ३९-६५ ॥
दूतागमनकाले तु यस्मिन् पार्श्वेऽनिलश्चरेत् ।
तत्पार्श्वे तु भवेद् दंशस्तस्मिन् दूतागतिः शुभा ॥ ३९-६६ ॥
दष्टाख्याकीर्तनं पूर्वं शुभं सर्पस्य चेन्मृतिः ।
शुक्ले पक्षेऽमृतं पुंसां दक्षिणेऽन्यत्र वै विषम् ॥ ३९-६७ ॥
स्त्रीणां तद्विपरीतेन विपरीतं तथा सिते ।
सुधाभागे यथा दंशः साध्योऽन्यत्र भवेन्मृतिः ॥ ३९-६८ ॥
दूतावाक्ये त्रिधा भक्ते मृतिः स्यादक्षरैस्त्रिभिः ।
एकाक्षराधिके साध्यं द्व्यर्णाधिक्ये विषं न हि ॥ ३९-६९ ॥
शुभग्रहोदयारूढदृष्टयः शुभदास्तथा ।
पापग्रहाणामशुभं दूतस्यागमनक्षणे ॥ ३९-७० ॥
शकुनाद्यं परीक्ष्यैव व्रजेन्मन्त्री चिकित्सितुम् ।
सृगालव्याघ्रनकुलचकोरफणिपोत्रिणाम् ॥ ३९-७१ ॥
धान्यानां पूर्णकुम्भानां दक्षिणे दर्शनं शुभम् ।
पतगाश्च मृगाश्चैव डुण्डुभा वामतः शुभाः ॥ ३९-७२ ॥
दक्षिणाद् वामगश्चाषः काको वामाच्च दक्षिणः ।
गमने शुभदं काकरुतं गौल्याश्च वामतः ॥ ३९-७३ ॥
प्रवेशे गौलिकायास्तु रुतं दक्षिणतः शुभम् ।
प्रवेशे दक्षिणगतिः शुभदा काकचाषयोः ॥ ३९-७४ ॥
मार्गस्योभयतः स्थित्वा पक्षिणोर्विरुतं शुभम् ।
व्यत्यस्तवदनेनाग्रे रुवतोस्तोरणाह्वयम् ॥ ३९-७५ ॥
अत्यन्तशोभनं विद्याज्जृम्भणं च पुरः शुनाम् ।
आस्येन भक्ष्यं यत् किञ्चिद् गृहीत्वा वायसो व्रजेत् ॥ ३९-७६ ॥
श्वा वान्यो विहगः शस्तः शस्तं मांसासवेक्षणम् ।
कन्या सुमङ्गली वेश्या पुष्पं शङ्खस्तथाक्षताः ॥ ३९-७७ ॥
चूर्णचापं च शुभदाः सर्वे प्रतिमुखागताः ।
वामाङ्घ्रेस्ताडनं शस्तं तत्रापि ज्येष्ठिकां विना ॥ ३९-७८ ॥
दक्षिणाङ्घ्रेस्तदशुभं ज्येष्ठिका तस्य शोभना ।
क्षुतस्याप्यन्यैरुक्तम् �
अग्रे निषेधो नयने निवृत्तिः कण्ठे विनाशः खलु दक्षभागे ।
पृष्ठेऽर्थसिद्धिस्त्वथ वामभागे कर्णे जयश्चक्षुषि सर्वलाभः ॥ ३९-७९ ॥
सर्वतः क्षुतमशोभनमादौ गोक्षुतं मरणमेव करोति ।
यद् बलादथ विनाप्यबलानां वृद्धपीनसितबालकृतं च ॥ ३९-८० ॥
इति ।
निमित्तानीत्यनिष्टानि ग्रन्थगौरवजाद् भयात् ।
न लिख्यन्ते यदुक्तेभ्यः शुभेभ्योऽन्ये त्वशोभनाः ॥ ३९-८१ ॥
गौलिरुतस्य�
रवौ विनाशः शशिनीष्टवार्ता कुजे त्वनिष्टं सुहृदागमो ज्ञे ।
गुरौ हिरण्यं भृगुजे च भक्ष्यं शनौ विरोधो मरणं च राहौ ॥ ३९-८२ ॥
दष्टस्य हृत्सरोजान्तः सानुस्वारं भृगुं न्यसेत् ॥ ३९-८३ ॥
तन्नामार्णानि परितस्तस्योर्ध्वं चन्द्रमण्डलम् ।
तत्सुधास्रावि कण्ठे च तादृग् ध्यात्वेन्दुमण्डलम् ॥ ३९-८४ ॥
भ्रूमध्यबिन्दावमृतं बन्ध बन्धेत्युदीरयेत् ।
एवं सञ्चिन्त्य तु जपेन्नमो भगवतेति च ॥ ३९-८५ ॥
नीलकण्ठाय ठयुगं जीवरक्षा कृता भवेत् ।
साज्यं शकृद्रसं वापि मरिचाज्यं च पाययेत् ॥ ३९-८६ ॥
परोक्षे वाथ सान्निध्ये स्यादेवं जीवरक्षणम् ।
साक्षः संवर्तकः पार्श्वं तारं वह्निप्रियां ततः ॥ ३९-८७ ॥
मन्त्रोऽयं विपतिर्नाम्ना गरुडः शब्दविग्रहः ।
ज्वल महामति ठठ । गरुडशिखे प्रभञ्जन प्रभेदन विमर्दन ठठ । अप्रतिहतबलाप्रतिहतशासन हुं फट् ठठ । उग्ररूप धारक सर्पभयङ्कर भीषय ठठ । सर्वं दह भस्मीकुरु ठठ ।
विपतेरेवमुक्तानि षडङ्गान्यस्त्रमन्त्रतः ॥ ३९-८८ ॥
ऋषिवर्गान्त्ययुगलैरष्टपत्रं स्वरद्वयैः ।
सकेसरं नारसिंहकर्णिकं मातृकाम्बुजम् ॥ ३९-८९ ॥
ब्राह्म्यादिकाः सप्त मातॄर्महालक्ष्मीं तु पत्रगाम् ।
प्राग्याम्यपश्चिमोदीचीवह्निरक्षोऽनिलेशगाः ॥ ३९-९० ॥
अम् आं कं खं गं घं ङं ब्राह्म्यै नमः ।
इत्यादिमन्त्रैः स्मृत्वेष्ट्वा ज्येष्ठाद्यं मध्यपर्वसु ।
पञ्चाक्षराणि विपतेर्भूतादीनां च मण्डलैः ॥ ३९-९१ ॥
हृदये वामहस्ते च पद्मं ध्यात्वाष्टपत्रकम् ।
सप्तवर्गान्त्ययुग्माष्टदिक्पत्रं स्वरकेसरम् ॥ ३९-९२ ॥
सानुग्रहाग्नि बिन्द्वन्त्यं कर्णिकायां तु विन्यसेत् ।
एवं सञ्चिन्त्य हृदये वामे करतलेऽपि च ॥ ३९-९३ ॥
विपतेस्तु क्रमाद् वर्णानङ्गुष्ठादि च विन्यसेत् ।
मन्त्रार्णानपि नागार्णान् महाभूताक्षराणि तु ॥ ३९-९४ ॥
तन्मात्रागुणवर्णांश्च करे देहे च विन्यसेत् ।
वेदाश्रकोणवज्राङ्कं मांसकोणेन्द्रदैवतम् ॥ ३९-९५ ॥
शुक्लमर्धेन्दुपद्माभं मध्ये खड्गि च वारुणम् ।
रक्तं त्रिकोणमग्नीशमध्यासृक्स्वस्तिकाङ्कितम् ॥ ३९-९६ ॥
वृत्तं रेखास्थषड्बिन्दुसत्त्वकृष्णं च मारुतम् ।
अरूपं शब्दतन्मात्रं स्वबिम्बं शिवदैवतम् ॥ ३९-९७ ॥
इत्थं पृथ्व्यादिबिम्बानि ज्येष्ठाद्यं मध्यपर्वसु ।
स्वनागावेष्टितं न्यस्येद् विपत्यर्णान्वितानि तु ॥ ३९-९८ ॥
अनन्तगुलिकौ रक्तौ ब्राह्मणौ वह्निदैवतौ ।
इन्द्रदैवौ नृपौ पीतौ शङ्खपालश्च वासुकिः ॥ ३९-९९ ॥
कृष्णौ वैश्यौ महापद्मतक्षकौ वायुदैवतौ ।
चतुर्थौ पद्मकार्कोटौ शुक्लौ जलधिदैवतौ ॥ ३९-१०० ॥
नामाद्यर्णानि नागानां पृथ्व्याद्याद्यक्षरैः सह ।
तन्मात्रैः सह गन्धाद्यैर्ज्येष्ठाद्यङ्गुलिषु न्यसेत् ॥ ३९-१०१ ॥
आद्यपर्वसु तन्मात्रा भूतार्णान्यन्तपर्वसु ।
मध्ये विपतिवर्णानि भूतनागार्णमडलैः ॥ ३९-१०२ ॥
पञ्चाक्षरान्विते तार्क्ष्ये तन्मात्रात्रिगुणान्विते ।
त्रयोदशकलोपेते हस्ते तार्क्ष्यं विचिन्तयेत् ॥ ३९-१०३ ॥
ततो भूमण्डलादीनि स्वदेहेऽपि च विन्यसेत् ।
पादादिजानुपर्यन्तं जान्वोर्नाभितटावधि ॥ ३९-१०४ ॥
नाभेर्गलान्तं च गलाल्ललाटफलकान्तकम् ।
ललाटाच्चापि मूर्धान्तं स्वर्णयुक्तानि विन्यसेत् ॥ ३९-१०५ ॥
आत्मानं गरुडं ध्यात्वा गरलानि विनाशयेत् ।
आजान्वोः स्वर्णवर्णं हिमगिरिशिखरप्रख्यमा नाभिदेशाद्
आ कण्ठात् पक्वबिम्बीफलनवविकसद्बन्धुजीवोपमानम् ।
आ शिर्षाद् भिन्ननीलाञ्जनचयरुचिरं भूषितं भोगिमुख्यै �
र्व्याप्तब्रह्माण्डमध्यं त्रिभुवननमितं वैनतेयं नमामि ॥ ३९-१०६ ॥
इत्थं गरुडमात्मानं मन्त्रिणं वीक्ष्य पन्नगाः ।
पिशाचाद्या ग्रहाश्चान्ये नश्यन्त्याविश्य तत्क्षणात् ॥ ३९-१०७ ॥
स्वैक्येन गरुडीभूतो मन्त्री यद्यद् वदत्यसौ ।
तत्तन्मन्त्रं भवेद् दष्टं मुक्त्वा नश्यति तद्विषम् ॥ ३९-१०८ ॥
तार्क्ष्यहस्तं समुद्धृत्य मन्त्रार्णव्यत्ययेन तु ।
अङ्गुष्ठाद्यङ्गुलीनां तु चालनेन जपेन च ॥ ३९-१०९ ॥
स्तम्भसंहारसंस्तोभसङ्क्रामान् कुरुते क्षणात् ।
पञ्चाक्षराणां स्थानेषु प्रथमार्णं निवेश्य तु ॥ ३९-११० ॥
संस्तम्भयादिवीप्सोक्त्या स्यात् स्तम्भोऽङ्गुष्ठचालनात् ॥ ३९-१११ ॥
क्षिप ॐ स्वाक्षिप इति जपात् स्तम्भयेत् ।
प्रथमार्णद्वितीयार्णौ व्यत्यस्योच्चारयन्मनुम् ।
अनन्तकण्ठाभरणो हारस्तूरसि वासुकिः ॥ ३९-११२ ॥
कुण्डलेऽब्जमहापद्मौ गुलिकः शीर्षबन्धनम् ।
उदरे च तथा कट्यां बन्धः कार्कोटतक्षकौ ॥ ३९-११३ ॥
उपवीतं शङ्खपालः सिन्दूरारुणलोचनः ।
एवम्भूतं तु गरुडं स्वैक्यं ध्यात्वा समाहितः ॥ ३९-११४ ॥
शूलमुद्रां दर्शयित्वा स्तोभः स्यात् तु सकृज्जपात् ।
द्विवारेण तथावेशस्त्रिचतुर्वारजापतः ॥ ३९-११५ ॥
निर्विषीकरणं पञ्चषड्वारान् विषभक्षणम् ।
विपतिमन्त्राधिकारः ।
सम्प्लव सम्प्लावय इत्युच्चारणात् तर्जनीचालनाच्च विषं हरति ।
तारं पार्श्वं क्षिवर्णं च ठौ च मध्यमचालनात् ।
संस्तोभयेति वाक्याच्च जपादाविश्य नश्यति ॥ ३९-११६ ॥
चतुर्थं च द्वितीयं च तृतीयाद्यौ च पञ्चमम् ।
उक्त्वा सङ्क्रामयेत्युक्त्वानामिकां चालयेत् ततः ॥ ३९-११७ ॥
सङ्क्रामयेत् ।
।
अन्ते प्रक्षिप सं चोक्त्वा कनिष्ठाचालनाद्धरेत् ॥ ३९-११८ ॥
गरं संहरेदित्यर्थः ।
शुक्लपद्मवनं मध्ये प्रफुल्लधवलाम्बुजे ।
पूर्णामृते तारकुम्भे ध्यायेत् पूर्णेन्दुमण्डले ॥ ३९-११९ ॥
अकारादिकलाभिस्तु स्त्रीरूपाभिः समावृतम् ।
दष्टं शुक्लं कलानां तु स्तन्यधारामृताप्लुतम् ॥ ३९-१२० ॥
ध्यात्वा स्वरानेव जपेन्निर्विषीभवति क्षणात् ।
कामदा सुभगा नीला भोगदा सर्वमङ्गला ॥ ३९-१२१ ॥
भद्रा भद्रवती सौम्या भोगिनी भगमालिका ।
कामेश्वरी काममाला सिद्धि-ऋद्धिश्च वामया ॥ ३९-१२२ ॥
अमा च षोडश कलाः सुधामृतसमुद्भवाः ।
सोमोऽमृतमयः साक्षात् स षोडशकलात्मकः ॥ ३९-१२३ ॥
द्विभुजाः सौम्यवदनाः शुभाः शुक्लाम्बरादिकाः ॥ ३९-१२४ ॥
सुधाकलशहस्तास्ता भूषणैर्भूषिताः स्मरेत् ।
गोमयालेपिते स्थाने वीशार्णान् क्रमशो लिखेत् ॥ ३९-१२५ ॥
तत्सम्बन्धितया रेखाः कृत्वा दष्टेन लङ्घयेत् ।
निर्विषो भवति ।
दष्टं सुधाब्धिनिर्मग्नं ध्यात्वोत्तानं तु शाययेत् ।
तमाच्छाद्य तु वस्त्रेण तद्वस्त्रं चन्द्रमण्डलम् ॥ ३९-१२६ ॥
सञ्चिन्त्य वस्त्रमध्ये तु सानुस्वारं तु खड्गिनम् ॥ ३९-१२७ ॥
अमृतस्राविणं ध्यात्वा तत्र स्थानं मुखेषु च ।
सुसम्पूर्णेन्दुबिम्बानि मुड्ढ मुड्ढेत्यमुं पठेत् ॥ ३९-१२८ ॥
तद्वस्त्रस्यापकर्षेण दष्टमुत्थापयेत् सुखम् ।
श्रीकण्ठं हृदि विन्यस्य हां पृष्ठे चाङ्गसन्धिषु ॥ ३९-१२९ ॥
धूं दष्टशिरसि न्यस्तः सद्यो विषविनाशकृत् ।
करकाः कर्णसंयुक्ता सत्सण्ठित्वक् पिनाकवान् ॥ ३९-१३० ॥
ठयुगान्तस्तु भूर्जस्थो न्यस्तस्तूच्चाटयेदहीन् ।
पार्श्वं साग्निद्विजार्धेन्दुमेषो वह्नित्रिमूर्तिमान् ॥ ३९-१३१ ॥
सबिन्दुर्लाङ्गली सर्गी नीलकण्ठीयको मनुः ।
हरः हृदयाय नमः ठठ । कपर्दिने शिरसे ठठ । नीलकण्ठाय शिखायै ठठ । कालकूटविषहराय हुं फट् । उग्र ठठ अस्त्रम् । ॐ हां ॐ नीलकण्ठाय ॐ कपर्दिने ॐ ह्रीं ह्रूं सर्वज्ञाय ठठ । त्रिनेत्राय कालकण्ठ विषं भक्षय ठठ ।
ऋषिरस्यारुणिर्नाम छन्दोऽनुष्टुप् च देवता ।
नीलकण्ठादिको रुद्रो बीजमाद्यर्णमीरितम् ॥ ३९-१३० ॥
शक्तिद्वितीयबिन्दुस्तु पुरश्चर्या त्रिलक्षकम् ।
अथवा �
कृष्णाष्टम्यामुपोष्येशं समभ्यर्च्यायुतं जपेत् ॥ ३९-१३२ ॥
तिलैः कृष्णचतुर्दश्यां जुहुयाच्चायुतं तथा ।
पुरश्चर्या कृता स्यात् ।
तारमङ्गुष्ठयोर्न्यस्येत् तर्जन्याद्यङ्गुलित्रये ॥ ३९-१३३ ॥
मध्यपर्वसु वर्णांस्त्रीन् प्रणवं च कनिष्ठयोः ।
आ नाभेः कृष्णमाद्यर्णं द्वितीयं रक्तमा गलात् ॥ ३९-१३४ ॥
तृतीयममृताकारं मूर्ध्नि न्यस्येच्चिदात्मकम् ।
नेत्रत्रयेऽपि त्रीन् वर्णानङ्गान्यङ्गेषु विन्यसेत् ॥ ३९-१३५ ॥
आ नाभेरञ्जनप्रख्यमुदितार्काभमा गलात् ।
आ मूर्ध्नश्चन्द्रबिम्बाभमष्टनागेन्द्रभूषितम् ॥ ३९-१३६ ॥
त्र्यक्षं त्रिशूलहस्तं च स्वैक्यं ध्यायञ्जपेन्मनुम् ।
त्रियक्षरोऽयं मन्त्रस्तु प्रणवादिनमोन्तकः ॥ ३९-१३७ ॥
जपध्यानादिना शूलस्पृष्टो दष्टः सुखी भवेत् ।
श्मशाने नूतनेऽहीन्द्रमण्डले भैरवं यजेत् ॥ ३९-१३८ ॥
तस्याग्रे शालिपिष्टेन कृत्वा नागं तु पूजयेत् ।
निशि कृष्णचतुर्दश्यां स्थित्वा (जी ?) वीरासनो जपेत् ॥ ३९-१३९ ॥
नागं पश्यन् स चायाति तं गृहीत्वा तु भक्षयेत् ।
सिद्धमन्त्रो भवेत् तं तु दृष्टैव विषनाशनम् ॥ ३९-१४० ॥
अथवा �
एवं कर्तुमशक्तश्चेन्मातृस्थानेऽथवाम्बुधौ ।
निशि कृष्णचतुर्दश्यां त्रिलक्षं प्रजपेन्मनुम् ॥ ३९-१४१ ॥
जुहुयादयुतं सर्पिः क्षीरं मधु च तण्डुलान् ।
सिद्धमन्त्रो भवेत् तेन विनियुञ्ज्याद् यथारुचि ॥ ३९-१४२ ॥
दष्टमाग्नेयबिम्बस्थं ध्यात्वा करतले स्वके ।
तारं ज्वलन्तं सञ्चिन्त्य दर्शयेत् तं स मूर्छति ॥ ३९-१४३ ॥
प्रथमार्णं धूम्रवर्णं वाय्वग्निपुरगं स्मरेत् ।
धूपं च दद्यादाविश्य दष्टो भवति निर्विषः ॥ ३९-१४४ ॥
अथ वायुपुरे कृष्णं द्वितीयार्णं तु धूम्रकम् ।
सञ्चिन्त्य परदेहे तु विषं सङ्कामयेत् ततः ॥ ३९-१४५ ॥
पूर्णेन्दुमण्डलगतं तृतीयममृताप्लुतम् ।
ध्यात्वा तं निर्विषं कुर्यादेवमेव शिरोरुजम् ॥ ३९-१४६ ॥
ज्वरांश्चातुर्थिकादींश्च नाशयेन्नात्र संशयः ।
तारहीनत्रिवर्णानि वह्निगेहगतानि तु ॥ ३९-१४७ ॥
देहे विचिन्तयेद् यस्य मूर्च्छितः स पतिष्यति ।
अत्याक्षरं सुधावर्षि मूर्ध्नि ध्यात्वास्य तज्जपेत् ॥ ३९-१४८ ॥
निर्विषो भवति क्षिप्रं शूलमुद्राप्रदर्शनात् ।
साक्षी कुम्भस्ततः श्वेतः खमग्निर्नयनान्वितः ॥ ३९-१४९ ॥
हिरवर्षि खर्व हिरवर्षि ठठ ।
शुक्लाकल्पामुमां त्र्यक्षामिन्दुगौरां विभूषिताम् ।
कुम्भच्युतामृतैर्दष्ट सिञ्चन्तीं संस्मरन् जपेत् ॥ ३९-१५० ॥
स्वैक्येनैकाग्रमनसा निर्विषं कुरुते जपन् ।
विना मन्त्रौषधाद्यैस्तु क्ष्वेलशान्तिः प्रदर्श्यते ॥ ३९-१५१ ॥
अङ्गुष्ठोर्ध्वपदाङ्घ्रिसन्धिषु तथा जानौ च गुह्ये ततो
नाभौ हृत्स्तनकण्ठघोणनयनश्रोत्रेषु मध्ये भ्रुवोः ।
शङ्खे मूर्धनि पूर्वपक्षतिथिषु प्रोक्तामृताख्या कला
मूर्धाद्यं बहुले विलोममुदितारोहावरोहक्रमात् ॥ ३९-१५२ ॥
वामाङ्गुष्ठादिकं स्त्रीणां रोहोऽन्यत्रावरोहणः ।
सुधायाः सप्तमं स्थानं प्रोक्तं विषकला बुधैः ॥ ३९-१५३ ॥
दष्टदेहेऽमृतकलां ज्ञात्वा तत्र विमर्दनात् ।
निर्विषं स्याद् विषकला सुधास्थानात् तु सप्तमम् ॥ ३९-१५४ ॥
तत्र सम्मर्दनात् सर्वविषाणां स्तोभनं भवेत् ।
असाध्यस्तत्र दशस्तच्चिकित्सां तत्र वर्जयेत् ॥ ३९-१५५ ॥
कण्ठे विषकलायां तु क्रियते यदि भोजनम् ।
अजीर्णोदररोगाद्यैः क्रमान्मृत्युर्भविष्यति ॥ ३९-१५६ ॥
यदा कण्ठे विषकला तत्रोत्तानं तु खड्गिनम् ।
चिन्तयित्वामृतं न्यस्येत् भुञ्जीयादमृतं स्मरन् ॥ ३९-१५७ ॥
नित्यं सुधाक्षरं कण्ठे कृत्वा ध्यात्वा परामृतम् ।
अश्नतो नापमृत्युः स्याज्जीवेच्च शरदां शतम् ॥ ३९-१५८ ॥
मर्दयित्वामृतकलां रतिः स्त्रीणां सुखावहा ।
यदा गुह्येऽमृतकले तदा प्रथमसङ्गमम् ॥ ३९-१५९ ॥
दम्पत्योः प्रीतिजननं वश्यं चैतदुदाहृतम् ।
यत्रामृतकला तस्मिन् प्राणान् नित्यं विचिन्तयेत् ॥ ३९-१६० ॥
आयुः श्रीपुष्टिरक्षाकृच्छाकपूर्णिमतं यथा ।
आस्येऽक्ष्णोश्च गले बाह्वोः पार्श्वयोः पादयोरपि ॥ ३९-१६१ ॥
गुरुप्रभाङ्गुलं काकभवाजन्मादिभस्थितिः ।
साध्यप्रतिकृतिं कृत्वा विपत्प्रत्यरनैधने ॥ ३९-१६२ ॥
तारे विषकलायोगे यमविद्यादिमन्त्रतः ।
वेधे कृते प्रतिकृतौ साङ्घ्रिपांसौ मरिष्यति ॥ ३९-१६३ ॥
जरत्कारोर्जरत्कार्वां समुत्पन्नो महातपाः ।
आस्तीकः सत्यसन्धो मां पन्नगेभ्योऽभिरक्षतु ॥ ३९-१६४ ॥
ॐ नर्मदायै नमः प्रातर्नर्मदायै नमो निशि ।
नमोऽस्तु नर्मदे! तुभ्यं पाहि मां विषसर्पतः ॥ ३९-१६५ ॥
ॐ असितं चार्चिमन्तं च सुनीतं चापि यः स्मरेत् ।
दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत् ॥ ३९-१६६ ॥
श्लोकानेतांस्तु जपतो दिवारात्रं च सन्ध्ययोः ।
सर्पमध्यगतस्यापि भयं तस्य न विद्यते ॥ ३९-१६७ ॥
इत्थं हिताय खलु देहभृतां समासान्नागोद्भवोदयकुलं कृतिहेतुदौत्यैः ।
सौवर्णमन्त्रविनियोगविधानपूर्वं ध्यानानि चैव कथितानि विषापहानि ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे मन्त्रपादे विषप्रतीकारपटल एकोनचत्वारिंशः ॥ ३९ ॥