अथाष्टात्रिंशः पटलः ।
अथाखिलार्थसंसिद्ध्यै वक्ष्ये त्रैलोक्यमोहनम् ।
मन्त्रं ससाधनध्यानस्नानपूजार्चनादिकम् ॥ ३८-१ ॥
तारं हृत्पुरुशब्दश्च सदन्तः षोयुगाषढी ।
सानन्तश्च महाकालौ प्रतिरूपपदं धराम् ॥ ३८-२ ॥
क्ष्मी(णिहाललचस्वः ? निवास सकल)जगत्क्षोभण! सर्वस्त्रीहृदयदारण! त्रिभुवनमनोन्मादकर, सुरासुरमनुजसुन्दरीजनमनांसि तापय दीपय शोषय मारय स्तम्भय भ्रामय द्रावय आकर्षय परमसुखसौभाग्यकर, सर्वकामप्रद, अमुकं हन चक्रेण गदया खड्गेन सर्वान् भिन्द पाशेन कड्ढ अङ्कुशेन ताडय तुरु किं तिष्ठसि तावद् यावत् समीहितं मे सिद्धं भवतु हुं फट् । नमः पुरुषोत्तमाप्रतिरूप लक्ष्मीनिवास, हृदयाय नमः । सकलजगत्क्षोभण, सर्वस्त्रीहृदयदारण शिरसे ठठ । त्रिभुवनमनोन्मादकर शिखायै वषट् । सुरासुरमनुजसुन्दरीजनमनांसि तापय दीपय शोषय मारय स्तम्भय द्रावय आकर्षय कवचाय हुम् । परमसुखसर्वसौभाग्यकर सर्वकामप्रद अमुकं हन चक्रेण गदया खड्गेण सर्वान् भिन्द पाशेन कड्ढ अस्त्राय फट् । तुरु किं तिष्ठसि तावद् यावत् समीहितं सिद्धं भवति हुं फट् नेत्राभ्यां वौषट् ।
स्वयमेवेत्थमङ्गानि नेत्रान्तानि भवन्ति षट् ।
नमस्त्रैलोक्यमोहन, हृषीकेशाप्रतिरूप, मन्मथ सर्वस्त्रीहृदया-कर्षणागच्छ नम इति व्यापकस्य मन्त्रः । आवाहनमन्त्रश्चायम् ।
वत्सो नामास्य तु ऋषिः काम इत्यपि केचन् ॥ ३८-३ ॥
अत्युत्कृतिर्भवेच्छन्दो हृषीकेशश्च दैवतम् ।
मन्त्रमाचार्यतो लब्ध्वा स्नानानुष्ठितनैत्यकः ॥ ३८-४ ॥
विष्णुमभ्यर्च्य पञ्चाशत्सहस्रं प्रजपेन्मनुम् ।
नाभिदघ्ने जले स्थित्वा जलैरञ्जलिपूरितैः ॥ ३८-५ ॥
स्वमूर्ध्नि जपितैर्मन्त्री सहस्रमभिषेचयेत् ।
ततस्तु वैष्णवे वह्नौ जुहुयात् पायसं घृतम् ॥ ३८-६ ॥
दधि क्षीरं च शुक्लान्नं द्वादश द्वादशाहुतीः ।
एकैकमङ्गमन्त्राणां पलाशसमिधां शतम् ॥ ३८-७ ॥
शुक्लाक्षतांस्तिलैर्मिश्रान् सहस्रं घृतसेचितान् ।
ततस्त्रिमधुराक्तानि पुष्पाणि च फलानि च ॥ ३८-८ ॥
दधीनि ब्रह्मसमिधो जुहुयात् तु शतं शतम् ।
पूर्णां हुत्वा ततो विप्रान् शक्त्या सम्पूज्य भोजयेत् ॥ ३८-९ ॥
ततः सिध्यति मन्त्रोऽयं ध्यानपूजाहुतादिभिः ।
ध्यानं च �
आधारशक्तिं कूर्मं च शेषं भूयोगम्पीठके ॥ ३८-१० ॥
धर्मादीन् कन्दनालाब्जसूर्यसोमाग्निमण्डलैः ।
पत्रादींस्त्रिगुणव्याप्तावात्मादित्रयकर्णिके ॥ ३८-११ ॥
अब्जेऽस्मिन् गरुडारूढं सिन्दूरारुणविग्र्हम् ।
अष्टबाहुमुदाराङ्गं सुकुमारं स्मिताननम् ॥ ३८-१२ ॥
सर्वाङ्गसुन्दरं कान्तिलावण्यापूर्णयौवनम् ।
मदागूर्णितताम्राक्षं शृङ्गाररसविह्वलम् ॥ ३८-१३ ॥
दिव्यमाल्याम्बरालेपं मकुटादिविभूषणैः ।
भूषितं कौस्तुभोरस्कं श्रीवत्साङ्कितवक्षसम् ॥ ३८-१४ ॥
शङ्खं चक्रं च सशरं शार्ङ्गं खड्गं गदामपि ।
मुसलाङ्कुशपाशांश्च बिभ्राणं क्रमशो भुजैः ॥ ३८-१५ ॥
लक्ष्मीं वामोरुनिहितां हेमवर्णां विभूषिताम् ।
मौलिकुण्डलहाराद्यैर्वामहस्तधृताम्बुजाम् ॥ ३८-१६ ॥
देवं दक्षिणहस्तेन श्लिष्यन्तीं कामविह्वलाम् ।
श्रीवत्सकौस्तुभौ नाम्ना वनमालां च वक्षसि ॥ ३८-१७ ॥
पीताम्बरादिकं चान्यन्मौलिं मकरकुण्डले ।
यजेत् स्वनाम्ना ताराद्यं हाराद्याभरणानि च ॥ ३८-१८ ॥
महासुदर्शन, चक्रराज, सर्वदुष्टभयङ्कर, छिन्द हन विदारय परमत्रान् ग्रस भक्षय भूतानि त्रासय हुं फट् इति चक्रं पूजयेत् । जलचरपाञ्चजन्याय ठठ ।
नन्दकखड्गाय नमः । शराय ठठ । भूतग्रामाय विद्महे चतुर्विधाय धीमहे तन्नो ब्रह्मा प्रचोदयात् ठठ । संवर्तकमुसलाय पोथय हुं फट् ठठ । पाशबन्ध आकर्षय हुं फट् ठठ । अङ्कुश कड्ढ तर्ज ठठ ।
एवमिष्ट्वायुधान्यष्टौ
ॐ पक्षिराजाय ठठ ।
अनेन गरुडं यजेत् ।
अथ स्नात्वा तु विधिवन्नैत्यकोक्तप्रकारतः ॥ ३८-१९ ॥
गत्वा यागालयद्वारं क्षालिताङ्घ्रिकरः सुधीः ।
आचान्तः पूजयेद् द्वाराद् बहिः पीठगतान् गणान् ॥ ३८-२० ॥
वैनतेयादिभ्य्ः समस्तविष्णुपरिवारेभ्यो नमः ।
प्राग्द्वारपीठयोर्मध्ये क्षेत्रेशं स्वाख्यया यजेत् ।
धातारं च विधातारं शुक्लकृष्णौ चतुर्भुजौ ॥ ३८-२१ ॥
शङ्खशक्रगदाहस्तौ सविस्मयकरौ यजेत् ।
मध्ये गङ्गां च यमुनां निधी द्वारोर्ध्वपार्श्वयोः ॥ ३८-२२ ॥
शङ्खपद्मौ धनं भूरि स्रवन्तौ शुक्ललोहितौ ।
ऊर्ध्वोदुम्बरमध्यस्थां द्वारलक्ष्मीं यजेत् ततः ॥ ३८-२३ ॥
ॐ शार्ङ्गाय सशराय नमः ।
नाराचास्त्रमिति क्षिप्त्वा विघ्नान् निस्सार्य वाग्यतः ।
प्राकारमस्त्रतः कृत्वा समासीनो निजासने ॥ ३८-२४ ॥
विधाय भूतशुद्धिं च शोषणादित्रयं तथा ।
गुरुं स्मृत्वा त्रिधास्त्रेण करशुद्धिं विधाय तु ॥ ३८-२५ ॥
सकृन्मूलेन सम्मृज्य चाङ्गान्यङ्गुलिषु न्यसेत् ।
अङ्गुष्ठादिकनिष्ठान्तं नेत्रं च तलयोस्ततः ॥ ३८-२६ ॥
मूलेन व्यापकं देहे विन्यस्याङ्गानि षट् क्रमात् ।
ध्यात्वा प्रद्युम्नमात्मानं रक्तं रक्ताम्बरादिकम् ॥ ३८-२७ ॥
शङ्खचक्रधरं शार्ङ्गकामपञ्चेषुधारिणम् ।
आराध्य गन्धपुष्पाद्यैरथ स्मृत्वा हृदम्बुजे ॥ ३८-२८ ॥
परं ज्योतिरनिर्देश्यमानन्दं मनसार्चयेत् ।
अस्त्रक्षालितपात्रेऽर्घ्यमापूर्य हृदयेन तु ॥ ३८-२९ ॥
स्मरबीजं न्यसेत् तस्मिन् यजेच्च कुसुमादिभिः ।
मन्मथाय विद्महे कामदेवाय धीमहे, तन्नो गन्धर्वः प्रचोदयात् ।
अनया स्मरगायत्र्या स्पृष्ट्वा द्रव्याणि शोधयेत् ॥ ३८-३० ॥
धेन्वामृतीकृतं त्वर्घ्यं रक्षितं चक्रमुद्रया ।
तज्जलैः स्वशिरः प्रोक्ष्य पूजाद्रव्यं तथा क्षितिम् ॥ ३८-३१ ॥
पातालमूलादारभ्य शक्तिं चाधारसञ्ज्ञिताम् ।
चतुर्भुजां शङ्खचक्रकृताञ्जलिपुटां स्मरेत् ॥ ३८-३२ ॥
पातालानामधःकूर्मं रक्तं शेषं च पाण्डरम् ।
कृताञ्जलिं भूषिताङ्गं चक्रलाङ्गलधारिणम् ॥ ३८-३३ ॥
हलमुसलधरं वा ।
नीलाब्जाभां भूषिताङ्गीं नीलोत्पलकरां भुवम् ।
ततः सिंहासनं हैमं धर्मादीन् सितविग्रहान् ॥ ३८-३४ ॥
कृष्णवर्णानधर्मादीन् मध्ये सत्त्वादिकान् गुणान् ।
शुक्लं पद्मं च तन्मूलकन्दनालेष्वनुक्रमात् ॥ ३८-३५ ॥
मायां विद्यां कलातत्त्वं श्यामशुक्लहरिद्द्युति ।
सोमसूर्याग्निबिम्बानि तारस्वाख्यानमोऽन्तकम् ॥ ३८-३६ ॥
पूजयेदिति यावत् । ॐ परमसुभग, सौभाग्यकर, अप्रतिरूप, केशव स्मर हुं फट् त्रैलोक्यमोहनासनाय नमः �
वायव्यकोणादीशान्तं गणेशं च सरस्वतीम् ।
गुरुपङ्क्तौ यजेदेतान् नारदं नलकूबरम् ॥ ३८-३७ ॥
गुरुं परात्मकगुरुं परमेष्ठिगुरुं तथा ।
द्विभुजान् पूर्वसिद्धांश्च ध्याननिष्ठान् समर्चयेत् ॥ ३८-३८ ॥
ततो गन्धाक्षतान् पुष्पं पद्ममध्ये निधाय तु ।
पुष्पाञ्जलिकरो मूलं स्मरन् नाभिसरोरुहात् ॥ ३८-३९ ॥
उत्कृष्य तत् परं ज्योतिर्नीत्वा हृत्कमलं ततः ।
आनन्दज्ञानमात्रं तन्नीत्वोर्ध्वं च हृदाम्बुजात् ॥ ३८-४० ॥
कण्ठभ्रूमध्यगं बिन्दुं ततश्च द्वादशान्ततः ।
नीत्वाथ बिन्दुमार्गेण संयोज्य कुसुमाञ्जलौ ॥ ३८-४१ ॥
योगपीठस्थमूर्तौ वा स्थण्डिलाज्येऽथ वा न्यसेत् ।
अम्भोजाङ्कुशमुद्रे द्वे बद्ध्वाभिमुखतां नयेत् ॥ ३८-४२ ॥
गदाचक्राख्यमुद्राभ्यां सन्निधानं च रोधनम् ।
तत्तत्प्रार्थनया युक्त्या भक्त्या देवस्य कल्पयेत् ॥ ३८-४३ ॥
मूलेन व्यापकं कृत्वा मुद्राश्चैताः प्रदर्शयेत् ।
उत्तानया दक्षिणया सारिताङ्गुष्ठया परम् ॥ ३८-४४ ॥
मुष्ट्याङ्गुष्ठं गृहीत्वा तु तर्जन्यादिचतुष्टयम् ।
प्रसार्य वामहस्तस्य परतर्जनिकायुतम् ॥ ३८-४५ ॥
कल्पयेच्छङ्खमुद्रैषा हरेः प्रीतिकरी मता ।
अन्योन्यसम्मुखौ हस्तौ विधाय प्रसृताङ्गुली ॥ ३८-४६ ॥
वामेतराङ्गुष्ठगतौ व्यत्यासाद् बालिकाद्वयम् ।
चक्रायुधप्रीतिकरी चक्रमुद्रा भवेदियम् ॥ ३८-४७ ॥
अन्योन्याभिमुखौ हस्तौ मिथश्च ग्रथिताङ्गुली ।
प्रसार्य मध्यमे युक्तौ गदामुद्रेयमीरिता ॥ ३८-४८ ॥
कनिष्ठानामिकायुग्मं ज्येष्ठयाबध्य कुञ्चितम् ।
तर्जनीमध्यमायुग्मं मुक्त्वा स्यात् खड्गसञ्ज्ञिता ॥ ३८-४९ ॥
अङ्गुष्ठेन समाबध्य कनिष्ठानामिकाद्वयम् ।
मध्यमाग्रसमाक्रान्तं तर्जन्यग्रयुतस्य च ॥ ३८-५० ॥
प्रसारितस्य वामस्य करस्याग्रं शनैः शनैः ।
वामप्रकोर्पराक्रान्तकोर्परस्येतरस्य च ॥ ३८-५१ ॥
ज्येष्ठातर्जनिकाग्राभ्यामग्रं स्पृष्ट्वा प्रसार्य तु ।
शार्ङ्गमुद्रा भवेदेषा शार्ङ्गपाणेः प्रियङ्करी ॥ ३८-५२ ॥
वामेतरभुजद्वन्द्वमुष्ट्येकीकरणान्मता ।
गर्भितप्रसृताङ्गुष्ठा मुद्रा मुसलसञ्ज्ञिता ॥ ३८-५३ ॥
वाममुष्टेस्तु तर्जाग्रं ज्येष्ठिकाग्रे निधाय तु ।
अन्यमुष्टिनिसृष्टेन तर्ज्यन्यग्रेणं संस्पृशेत् ॥ ३८-५४ ॥
वामाङ्गुष्ठस्य मूलं तु पाशमुद्रेयमीरिता ।
तर्जनीं वाममुष्टेस्तां प्रसृतां पञ्चशाखिना ॥ ३८-५५ ॥
मुष्टिरूपेण चान्येन गृहीत्वा तस्य तर्जनीम् ।
आकुञ्चिताग्रां कृत्वा स्यान्मुद्रा चाङ्कुशरूपिणी ॥ ३८-५६ ॥
मध्यमानामिके मध्याज्यैष्ठिकाभ्यां निपीडिते ।
कनीयसीमूलयुग्मे विनिधाय प्रदेशिनीम् ॥ ३८-५७ ॥
श्रीवत्समुद्रा नाम्नैषा श्रीवत्साङ्कप्रियङ्करी ।
अधोमुखस्य वामस्य करस्यापि कनीयसीम् ॥ ३८-५८ ॥
अनामामन्यतर्जन्या कनीयस्या यथाक्रमम् ।
आबद्ध्य दक्षिणज्येष्ठामध्यमानामिकात्रयम् ॥ ३८-५९ ॥
ऊर्ध्वाग्रं वामतर्जन्या संयुतं प्रविधाय च ।
ज्येष्ठान्याङ्गुलिमूलेषु वामज्येष्ठां च मध्यमाम् ॥ ३८-६० ॥
प्रविन्यसेदतिश्लिष्टा मुद्रेयं कौस्तुभात्मिका ।
द्विहस्तज्येष्ठिकाक्रान्ततर्जाग्राभ्यां गलादितः ॥ ३८-६१ ॥
आपादं संस्पृशेन्मुद्रा वनमालाभिधा मता ।
विपर्यस्तौ करौ कृत्वा मिथो ग्रथितबालकौ ॥ ३८-६२ ॥
सुश्लिष्टायततर्जन्यौ लम्बिताङ्गुष्ठयुग्मकौ ।
कुटिलानामिकामध्याकल्पितोभयपक्षकौ ॥ ३८-६३ ॥
मुद्रेयं पक्षिराजस्य विपक्षाहिविनाशिनी ।
पूर्वोक्ता योनिमुद्रैव काममुद्रेति कथ्यते ॥ ३८-६४ ॥
मुष्टीकृतकरद्वन्द्वप्रसृताभ्यां स्वमूर्धनि ।
निधाय ज्येष्ठिकाग्राभ्यां मुद्रा त्रैलोक्यमोहिनी ॥ ३८-६५ ॥
प्रागादिकेसराग्रेषु कोणेष्वग्न्यादिषु क्रमात् ।
हृच्छिरश्चूलिकावर्महेतीन् देवाकृतीन् यजेत् ॥ ३८-६६ ॥
देवाङ्गेभ्यस्तदङ्गानि दीपेभ्यो दीपका इव ।
लक्ष्मीं वाणीं रतिं प्रीतिं कीर्तिं शान्तिं विभूषिताम् ॥ ३८-६७ ॥
तुष्टिं पुष्टिं च पूर्वादिदलाग्रेष्वर्चदिमाः ।
आपितरक्तगौराभ्यां श्यामा सितशशिप्रभा ॥ ३८-६८ ॥
पद्मवर्णा पिशङ्गा च चामराब्जकरास्तु ताः ।
प्रागादिदिक्षु तद्बाह्ये सितरक्तारुणप्रभान् ॥ ३८-६९ ॥
श्यामं च शङ्खारिगदामुषलान् स्वास्त्रमस्तकान् ।
कोणेषु पीतगगनसितकृष्णनिभान् क्रमात् ॥ ३८-७० ॥
शार्ङ्गास्यङ्कुशपाशांस्तु ध्यात्वा स्वस्वाख्यया यजेत् ।
तद्बाह्यावरणे स्वाशास्थितान् सायुधवाहनान् ॥ ३८-७१ ॥
परिवारैः स्वकैर्युक्तान् दश शक्रादिकान् यजेत् ।
अथ तद्बाह्यावरणे �
कुमुदं कुमुदाक्षं च पुण्डरीकं च वामनम् ॥ ३८-७२ ॥
शङ्कुकर्णं सर्वनेत्रं सुमुखं सुप्रतिष्ठितम् ।
कोटिकोटिगणाधीशानसिखेटकरानिमान् ॥ ३८-७३ ॥
भूषितान् मकुटाद्यैश्च दिव्यमाल्याम्बरान् यजेत् ।
पिङ्गलश्मश्रुकेशान्तं श्यामवर्णं चतुर्भुजम् ॥ ३८-७४ ॥
शङ्खचक्रगदाहस्तं नासान्ते तर्जनीकरम् ।
विष्वक्सेनं च सम्पूज्य देवं सम्पूजयेत् ततः ॥ ३८-७५ ॥
ओमर्घ्यं कल्पयामीति शिरस्यर्घ्यं प्रदाय तु ।
तथा पाद्यं चरणयोरेवं चाचमनादिकम् ॥ ३८-७६ ॥
अर्घ्यादिषोडशोद्दिष्टैरुपचारैस्तमर्चयेत् ।
विभवे सति पुर्वोक्तैर्द्वात्रिंशदुपचारकैः ॥ ३८-७७ ॥
मूलमन्त्रस्य तु पदैस्ताराद्यैस्तु नमोऽन्तकैः ।
पुष्पैः स्रग्भिरलङ्कृत्य तारपूर्वं श्रियै नमः ॥ ३८-७८ ॥
इत्युत्सङ्गे समासीनां लक्ष्मीं देवस्य पूजयेत् ।
नैवेद्यान्तं च बल्यन्तं होमान्तं वापि शक्तितः ॥ ३८-७९ ॥
सर्वत्रं स्मरगायत्र्या सम्पूज्योक्तोपचारकैः ।
यथाशक्ति जपेन्मन्त्रं हस्तस्थचुलुकोदकम् ॥ ३८-८० ॥
गन्धपुष्पान्वितं कृत्वा जानुभ्यामवनिं गतः ।
देवस्य दक्षिणे हस्ते जपादिफलमर्पयेत् ॥ ३८-८१ ॥
एवं नित्यार्चनं कृत्वा शक्त्या विप्रांश्च भोजयेत् ।
स्वयं च भुक्त्वा शेषेण कृतकृत्यो भवेन्नरः ॥ ३८-८२ ॥
हृषीकेशः स्वयं साक्षात् पुरुषोत्तम उच्यते ।
तस्य मान्मथबीजं तु मन्त्रस्त्वैकाक्षरः स्मृतः ॥ ३८-८३ ॥
स्मरबीजं ततो व्योम सप्तमस्वरसंयुतम् ।
श्वेतो वामाक्षियुक्तश्च ब्रह्मा रुद्रः स्वरान्वितः ॥ ३८-८४ ॥
दीर्घो बकश्च हृदयं मन्त्रोऽष्टार्णः प्रकीर्तितः ।
त्रैलोक्यमोहनश्चैष साधनाद्यं पुरोदितम् ॥ ३८-८५ ॥
स्मरबीजयुतैर्दीर्घैः स्वरैरङ्गानि जातिभिः ।
जपतः सर्वकामानि भवन्ति नचिरादिव ॥ ३८-८६ ॥
तारं हृत् साक्षिकुम्भं च श्वेतश्चोमापतिस्त्वतः ।
सोष्ठाम्भः कर्णगं शुक्लं रक्तं पार्श्वमथाषढी ॥ ३८-८७ ॥
सोष्ठं त्वक् च महाकालः खं दीर्घं छगलण्डकः ।
दीर्घः पिनाकी वाली च स्वाहान्तोऽष्टादशाक्षरः ॥ ३८-८८ ॥
मन्त्रो निरङ्गावरणो ह्यन्नाधिपतिसञ्ज्ञितः ।
ऋषिस्तु गौतमश्च्छन्दो धृतिर्विष्णुश्च दैवतम् ॥ ३८-८९ ॥
दारिद्र्यशमनः पुष्टिश्रीसौभाग्यसुखप्रदः ॥ ३८-९० ॥
ध्यानं च �
क्षीरोदेन्दुमृणालकुन्दधवलः पद्मेन्दुबिम्बाननो
हस्ताभ्यां दधिभक्तपूर्णचषकं कुम्भं च पूर्णामृतम् ।
बिभ्रन्मौलिविचित्रहारकटकाद्याभूषितः कौस्तुभी
ध्येयोऽन्नाधिपतिः प्रसन्नवदनः पीताम्बरो वामनः ॥ ३८-९१ ॥
साधकायान्नपानाद्यं प्रयच्छन्तमनुस्मरन् ।
अयुतं तु जपेन्मन्त्रं पुरश्चरणसिद्धये ॥ ३८-९२ ॥
दध्योदनं तु सघृतमष्टोत्तरसहस्रकम् ।
जुहोत्वस्मिन् कलियुगे जपहोमौ चतुर्गुणौ ॥ ३८-९३ ॥
सिद्धमन्त्रस्ततोऽन्नाद्यं श्रियं चाप्नोति पुष्कलाम् ।
अन्नं हुत्वान्नवान् व्रीहिशाल्याद्यैस्तु समृद्धिमान् ॥ ३८-९४ ॥
मण्डकैः शतपुष्पाणां बीजैरीतिर्विनश्यति ।
परचक्रभयं राजा शत्रुचोरभयादिकम् ॥ ३८-९५ ॥
यद् दारिद्र्यभयं चान्यत् क्षुद्ररोगभयं तथा ।
शतपुष्पस्य बीजानां होमात् संशमयेद् ध्रुवम् ॥ ३८-९६ ॥
दुर्गे वा विषमे मार्गे भये जाते तथा ग्रहे ।
देवं स्मरन् जपन् मन्त्रं दारिद्र्याच्च विमुच्यते ॥ ३८-९७ ॥
त्रैलोक्याक्रमणाकारं त्रायन्तं महतो भयात् ।
ध्यात्वात्मानं परं वापि तत्तच्छान्त्यै जपेन्मनुम् ॥ ३८-९८ ॥
भित्तौ वाथ पटे वापि शक्तः सम्पूजयेद्धरिम् ।
सान्नेनाज्येन वान्नेन साज्यदध्योदनेन वा ॥ ३८-९९ ॥
नित्यहोमं यथाशक्ति कुर्वतः श्रीरनुत्तमा ।
यद्यदुद्दिश्य जुहुयाद् दध्यन्नं घृतसंयुतम् ॥ ३८-१०० ॥
तत्तदस्य भवत्येव भक्तस्येह परत्र च ।
इत्थं विचार्य बहुधा बहुतन्त्रसिद्धं त्रैलोक्यमोहनमनोर्विपुलं विधानम् ।
साङ्क्षिप्य साधकजनस्य हिताय गीतमन्नाधिपस्य च हरेरिह कल्पदृष्टम् ॥ ३८-१०१� ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे मन्त्रपादे त्रैलोक्यमोहनवामनमन्त्रपटलोऽष्टात्रिशः ॥ ३८ ॥