३७

अथ सप्तत्रिंशः पटलः ।

भृगुर्व्योम च सानन्तं बह्निः शुक्लं ततोऽनलः ।
कवचास्त्रे च षड्वर्णस्तारादिः स्यात् सुदर्शनः ॥ ३७-१ ॥

अहिबुध्निर्मुनिश्छन्दो गायत्रं विष्णुदैवतम् ।
सुदर्शनः स्वयं वा स्यात् लिख्यन्तेऽङ्गानि च क्रमात् ॥ ३७-२ ॥

आविसुध्यश्च महासुदर्शनशब्दश्च चक्रजातियुता ।
ज्वालाचक्रं च तथा मन्त्रस्याङ्गानि च क्रमेण स्युः ॥ ३७-३ ॥

हृदयान्ते तु चक्राय विद्महेति पदं ततः ।
ततः सहस्रज्वालाय धीमहे तन्न इत्यपि ॥ ३७-४ ॥

अरिवारितप्रशब्दो गायत्री चोदयादिति ।
मन्त्राक्षराणि षट् चापि शक्रगोपारुणानि च ॥ ३७-५ ॥

श्वेतं कृष्णं पिङ्गलं च पीतं विद्युत्प्राभारुणे ।
हृदयादिषडङ्गानि वर्णतः परिभावयेत् ॥ ३७-६ ॥

अस्त्रशुद्धकरः पाण्योर्वर्णान्यङ्गुलिषु न्यसेत् ।
अङ्गुष्ठादितलान्तं षड् मूलेन व्यापकं तनौ ॥ ३७-७ ॥

काक्षिघ्राणास्यहृदयगुह्यजानुषु गुल्फयोः ।
तारादिकांस्तु तारान्तान्देहेऽर्णानाष्टसु न्यसेत् ॥ ३७-८ ॥

कण्वश्च नारदो ब्रह्मा कौशिकव्यासगौतमाः ।
प्रत्यर्णमृषयो ज्ञेया इन्द्राग्नी देवते क्रमात् ॥ ३७-९ ॥

अनुष्टुप् च विराडार्या गायत्र्युष्णिगनुष्टुभः ।
छन्दांसि चाथ तत्त्वानि भूम्यादीनीश्वरश्च षट् ॥ ३७-१० ॥

ऐन्द्रीं दिशं सुचक्रेण बध्नामीति चतुर्दिशम् ।
ऊर्ध्वामप्यधरां तद्वद् बध्नीयाच्छोटिकास्त्रतः ॥ ३७-११ ॥

कालचक्राय हुं फट् ।

गमनागमनाद्यन्ते रक्षायै साधको जपेत् ।

त्रैलोक्यरक्षकचक्राय ठठ ।

इममावश्यकादौ च शयनाष्ट्यादिके जपेत् ॥ ३७-१२ ॥

तारं हृद्भगवच्छब्दश्चतुर्थ्याथ सुदर्शनः ।

फ वा क्रोड। महाबलाय दीप्तरूपाय सर्वतो मां रक्ष महाबलाय ठठ ।

इमं मन्त्रं जपित्वा तु सकृत् कुर्याज्जपादिकम् ॥ ३७-१३ ॥

दुर्गाविघ्नेश्वरगुरुक्षेत्रेशाननलादिषु ।
विन्यस्य नत्वा पूजाद्यं कुर्वन् सिद्धिमवाप्नुयात् ॥ ३७-१४ ॥

चतुर्थमक्षरं बीजं शक्तिरिष्टाक्षरान्तगा ।
पुरश्चरणसुद्ध्यर्थमक्षारलवणाशनः ॥ ३७-१५ ॥

विष्णुं सुदर्शनं चेष्ट्वा द्विलक्षं विष्णुमन्दिरे ।
जपेत्ततो जले स्थित्वा लक्षमेकं पयोव्रतः ॥ ३७-१६ ॥

नद्यां समुद्रगामिन्यामुदग्वक्त्रो घृताशनः ।
लक्षं चाथ हविष्याशी लक्षं वाश्वत्थमूलगः ॥ ३७-१७ ॥

शाकाशी पर्वताग्रे तु लक्षं प्राग्वदनो जपेत् ।
एवं कृत्वा पुरश्चर्यामपामार्गसमित्तिलैः ॥ ३७-१८ ॥

घृतेन चरुणा चैव जुहुयादयुतं पृथक् ।
जपेदशक्तो द्विगुणं शक्त्या विप्रांश्च भोजयेत् ॥ ३७-१९ ॥

पूजां च नित्यं विधिवदरेः कुर्याद्धरेरपि ।
नैत्यकोक्तेन विधिना स्नानानुष्ठितनैत्यकः ॥ ३७-२० ॥

क्षालिताङ्घ्रिः समाचम्य शोषणाद्यैर्वपुः स्वकम् ।
संशोध्य कृत्वात्मयागमिष्ट्वा चक्रं हृदम्बुजे ॥ ३७-२१ ॥

तत्र ध्यानं �

रक्तं रक्तम्बराढ्यं स्फुरदरुणमणिद्योतितानेकभूषं
दंष्ट्राशुभ्राट्टहासोत्कटविकटगलद्वह्निजालोग्रवक्त्रम् ।
शङ्खं चक्रं गदाब्जे मुसलमपि धनुः सेषु पाशाङ्कुशे द्वे
बिभ्राणं साष्टबाहुं कपिलकचदृशं विष्णुचक्रं नमामि ॥ ३७-२२ ॥

हृदि वा स्थण्डिले चित्रे ध्यात्वैवं पूजयेदरिम् ।
द्वारि चण्डं प्रचण्डं च गङ्गा च यमुनां तथा ॥ ३७-२३ ॥

धातारां च विधातारं द्वारलक्ष्मीं प्रपूजयेत् ।
पुष्पमन्तः क्षिपेदस्त्रं नाराचास्त्रमनुस्मरन् ॥ ३७-२४ ॥

अन्तः प्रविश्य वास्त्वीशमिष्ट्वासीनो निजासने ।
अर्घ्यं संसाध्य मूलाङ्गैः पूजाद्रव्याणि कूर्चतः ॥ ३७-२५ ॥

अर्घ्याद्भिः प्रोक्ष्य तद्भूमिमस्त्रवप्रं विधाय च ।
आधारशक्तिं कूर्मं चाप्यनन्तं पृथिवीमपि ॥ ३७-२६ ॥

योगपीठं च धर्मादीन् सूर्यसोमाग्निमण्डलैः ।
आत्मानमन्तरात्मानं परमात्मानमम्बुजे ॥ ३७-२७ ॥

इष्ट्वा सौदर्शनीं मूर्तिं ध्यात्वाबाह्य निधाय च ।
पुष्पाञ्जलिकरः स्वस्माद्धृदब्जाज्ज्योतिरूर्ध्वगम् ॥ ३७-२८ ॥

नीत्वा बिन्दुं च तन्मूर्तौ हृत्पद्मान्तं नियोजयेत् ।
प्रणवेन च मूलेन द्वादशान्तामृताप्लुतम् ॥ ३७-२९ ॥

निरुध्य चामृतीकृत्य कोणेष्वङ्गानि विन्यसेत् ।
अस्त्रं च दिग्दलाग्रेषु नेत्रं च पुरतो न्यसेत् ॥ ३७-३० ॥

पीठाद् बहिः पङ्कजेषु क्रमादष्टायुधान् न्यसेत् ।
तद्बाह्ये दश लोकेशान् पूजयेत् सायुधादिकान् ॥ ३७-३१ ॥

षडरस्य तु चक्रस्य ज्वालामालाकुलस्य तु ।
मध्यस्थां चक्रमूर्तिं तां यजेन्मुख्योपचारकैः ॥ ३७-३२ ॥

नैमित्तिकासु पूजासु पूर्वं चक्रस्य तूत्तरे ।
विष्णुं यथावदभ्यर्च्य पश्चाच्चक्रं तु पूजयेत् ॥ ३७-३३ ॥

मनसा वा यजेद् देव नित्यपूजां न हापयेत् ।
पुरश्चर्यां विनाप्येष नित्यपूजाजपादिभिः ॥ ३७-३४ ॥

भक्तस्य साधयत्यर्थान् किं पुनः पूर्वसेवया ।
विनियोगास्तु लिख्यन्ते साधकानां हिताय वै ॥ ३७-३५ ॥

ब्रह्मश्रियं तु लभते पालाशसमिधो हुतात् ।
पर्वताग्रे जपित्वा षट्सहस्रं तु सिताम्बुजैः ॥ ३७-३६ ॥

बैल्वैः फलैर्वा पत्रैर्वाप्ययुतं श्रियमश्नुते ।
राजशिर्यं वा राज्यं वा विन्देल्लक्षाज्यहोमतः ॥ ३७-३७ ॥

ब्राह्मणादींस्तु वशयेत् समिद्भिस्तु पलाशजैः ।
अश्वत्थोदुम्बरार्कैश्च लवणादखिलानपि ॥ ३७-३८ ॥

लवणीं तु प्रतिकृतिं सप्राणां क्षौद्रसेचिताम् ।
दक्षिणाङ्घ्र्यादि जुहुयात् सहस्रं सर्ववश्यकृत् ॥ ३७-३९ ॥

दूर्वाभिरायुश्छिन्नाभिरपमृत्युजयो हुतः ।
पौर्णमास्यां मघायां तु ग्रहणे वेन्दुसूर्ययोः ॥ ३७- ४० ॥

उपोष्य पूर्वदिवसं भस्मोद्धूलितविग्रहः ।
अहोरात्रं तु जपितं पिबेद् भसितमिश्रितम् ॥ ३७-४१ ॥

सर्पिः श्रुतधरो वाग्मी कविः प्राज्ञश्च जायते ।
ब्राह्मे मुहूर्ते वा लक्षद्वयमभ्यस्य वाक्पतिः ॥ ३७-४२ ॥

अञ्जलिस्थाम्भसा सेकादायुर्लक्ष्मीं च विन्दति ।
आज्यक्षीराहुताद् गोमान् वासांसि कुसुमैर्हुतात् ॥ ३७-४३ ॥

हैरण्यशतनिष्केण चक्रं कुण्डे निधाय च ।
आराध्याङ्कोलतैलेन हुत्वा राष्ट्रं स्वसाद्भवेत् ॥ ३७-४४ ॥

त्रिरात्रोपोषितः कृष्णद्वादश्यादि घृतेन च ।
हुत्वा लक्षं निधिं पश्येदथवा महतीं श्रियम् ॥ ३७-४५ ॥

क्षीराक्तैर्वेतसैर्हुत्वा वृष्टिर्भवति भूयसी ।
बिलद्वारेऽष्टलक्षं तु जपित्वाखिलसिद्धिभाक् ॥ ३७-४६ ॥

पर्वताग्रेऽथवारण्ये वसुलक्षं जपेन्मनुम् ।
अष्टाधिकसहस्रं तु हुत्वाङ्कोलाज्यमादरात् ॥ ३७-४७ ॥

आकाशपतितं विन्देद् दिव्यं तु गुलिकाद्वयम् ।
एकां कट्यां निबध्नीयादेकां तु वदने क्षिपेत् ॥ ३७-४८ ॥

खेचरो वा मनोवेगो युवा स्याच्चिरजीवनः ।
वटाधः कृतिसाहस्रजपाच्चार्कैधसां पुनः ॥ ३७-४९ ॥

हुत्वा तु पञ्चसाहस्रं यक्षिणी वशगा भवेत् ।
चक्रं हस्ततले ध्यात्वा षड्वर्णान् षडरेष्वथ ॥ ३७-५० ॥

तज्ज्वालादह्यमानं तु दष्टं स्पृष्ट्वा विनं हरेत् ।
पुराणदष्टमन्यं वा पञ्चमार्णेन ताडयेत् ॥ ३७-५१ ॥

स्तोभो भवति च स्वस्थमावेशयति च ध्रुवम् ।
मण्डले चतुरश्रेस् तु चक्रं चूर्णैर्विलिख्य तु ॥ ३७-५२ ॥

अरेषु मन्त्रमङ्गानि सन्धिष्वाख्यां ततोदरे ।
इष्ट्वा तस्मिन् ग्रहग्रस्तं विन्यस्य प्रजपन् मनुम् ॥ ३७-५३ ॥

भस्मना पञ्चमार्णेन क्षेपादाविश्य नश्यति ।
शङ्खमुद्राधरो ध्यात्वा शङ्खाभं च सुदर्शनम् ॥ ३७-५४ ॥

तज्ज्वालाभस्मसाद्भूतं विषं ध्यायन् जपेदपि ।
प्लावयेच्चामृतेनाथ गरलानि विनाशयेत् ॥ ३७-५५ ॥

क्षुद्रग्रहादिशान्त्यर्थमिष्ट्वा विष्णुं सुदर्शनम् ।
आज्यापामार्गसमिधः पञ्चगव्यचरुं तिलान् ॥ ३७-५६ ॥

प्रत्येकाष्टसहस्रं तु जुहुयाच्च चरौ घृतम् ।
सम्पात्याष्टसहस्रं तु जपित्वा प्राशयेच्चरुम् ॥ ३७-५७ ॥

क्षुद्रभूतग्रहरुजो नश्यन्त्यन्येऽप्युपद्रवाः ।
तद्भूत्या लेपनं रक्षःक्षुद्ररोगादिशान्तिदम् ॥ ३७-५८ ॥

अपामार्गाग्रसमिधः पञ्चगव्यचरुं घृतम् ।
हुत्वासितारुणैः सूत्रैः परिस्तीर्य तु मण्डले ॥ ३७-५९ ॥

अग्रसन्धिषु कुम्भांस्तु मध्ये दिक्षु नव न्यसेत् ।
चतुःक्षीरत्वचां तोयं नवरत्नानि काञ्चनम् ॥ ३७-६० ॥

गन्धपुष्पाक्षतयुतान् वस्त्रस्रग्दामवेष्टितान् ।
आसनादिक्रमात् तेषु स्वावाहितसुदर्शनान् ॥ ३७-६१ ॥

इष्ट्वा तैः स्नपयेत् साध्यं तत्सूत्रग्रथितं तु वा ।
साध्यहस्ते शिखायां वा कण्ठे वा कलयेज्जपन् ॥ ३७-६२ ॥

क्षुद्रग्रहामयध्वंसि स्नपनं श्रीकरं च तत् ।
अत्युच्चशुक्रेऽङ्गुलीयं शतमानसुवर्णकम् ॥ ३७-६३ ॥

कृत्वायुताज्यहोमेन सम्पात्य जपितं पुनः ।
तद्धारणेन रक्षा स्यादारोग्यायुष्करं तु तत् ॥ ३७-६४ ॥

मेषचापहरिस्थेऽर्के शुक्लाष्टम्यां भृगोर्दिने ।
शिलां शुक्लां तु जपितां निखनेदभिजित्क्षणे ॥ ३७-६५ ॥

उदङ्मुखो जपेन्मन्त्रं क्षेत्रद्रोहो विनश्यति ।
मेषस्थेऽर्के दशाहान्ते कीलमर्धोदये रवेः ॥ ३७-६६ ॥

आश्विनं निखनेन्मन्त्री क्षेत्रद्रोहादिशान्तये ।
युग्मचापोदये कीले भौमांशे पुष्यमैत्रयोः ॥ ३७-६७ ॥

नैर्गुण्डिके खनित्वा तु मृद्ग्राह्या सा स्वभूर्भवेत् ।
आहिर्बुध्न्ये बुधांशे वा ग्राह्या सिंहोदये तु मृत् ॥ ३७-६८ ॥

तत् तत् क्षेत्रं स्वीयं भवति ।

क्षुद्राभिचारशान्त्यर्थं पञ्चगव्योक्षितैर्नवैः ।
अपामार्गैस्तु जुहुयात् तद्भूत्या लेपयेच्च तम् ॥ ३७-६९ ॥

क्षीरवृक्षचतुष्कत्वग्गव्यक्वाथेन सेचयेत् ।
चक्रमध्यस्थमात्मानं रक्षायै वा परं स्मरेत् ॥ ३७-७० ॥

चक्रोदरस्थं ग्रस्तं तु दह्यमानं तदग्निना ।
भ्रामयेच्चापि मनसा मुञ्चत्याविश्य तं ग्रहः ॥ ३७-७१ ॥

अथ रम्ये शुचौ देशे षडरं चक्रमालिखेत् ।
मध्ये पीतमरा रक्ताः श्यामाः स्युररसन्धयः ॥ ३७-७२ ॥

नेमिः श्वेता बहिः कृष्णकोणं भूमण्डलं ततः ।
मध्ये तारं च तन्नाम मन्त्रार्णाः स्युररेषु षट् ॥ ३७-७३ ॥

दक्षिणोत्तरयोश्चक्रद्वयमेवं विलिख्य तु ।
उत्तरे कुम्भमापूर्य सहेमकुसुमादिकम् ॥ ३७-७४ ॥

तस्मिन् सुदर्शनं सम्यगावाह्येष्ट्वा जपेदपि ।
याम्ये चक्रेऽग्निमाधाय तत्रावाह्य सुदर्शनम् ॥ ३७-७५ ॥

अथ मार्गसमित्सर्पिस्तिलसर्षपतण्डुलान् ।
पायसं पञ्चगव्यं च प्रत्येकाष्टसहस्रकम् ॥ ३७-७६ ॥

हुत्वा कुम्भे क्षिपेच्छेषं प्रतिद्रव्यं समन्त्रकम् ।
अर्धप्रस्थचरोः पिण्डं कुम्भवक्त्रे विधाय तु ॥ ३७-७७ ॥

साध्यं नीराज्य कुम्भेन राशावस्याष्टमे घटम् ।
कुम्भाद् दक्षिणतो वह्निं परिध्याद्यं च विन्यसेत् ॥ ३७-७८ ॥

ॐ नमो विष्णुगणेभ्यः सर्वशान्तिकरेभ्यः प्रतिगृह्णन्तु शान्तये नमः ।

हुतशेषान्धसानेन दशदिक्षु बलिं हरेत् ।
क्षरिवृक्षमये पात्रे गव्यपूर्णे निधाय तम् ॥ ३७-७९ ॥

चक्रेष्वग्नौ चतुर्दिक्षु हुत्वा क्षुद्रो विनश्यति ।
वेदाङ्गुलैरपामार्गसमिद्भिर्गव्यसेकतः ॥ ३७-८० ॥

हुत्वा क्षुद्रादिनाशः स्याद् विष्णुपञ्चमिरात्रिषु ।
रौद्रप्राजेशपित्र्यर्क्षे जम्बूकर्णिवटोद्भवाः ॥ ३७-८१ ॥

यष्टिः सीमान्तरे स्थाप्या भूः स्वीया स्याद् विधूदये ।
द्वितालमाश्विनं कीलं क्षेत्राख्याकर्मसंयुतम् ॥ ३७-८२ ॥

सिंहस्थेऽङ्गारके विष्ट्यां क्षेत्रे तदुदये खनेत् ।
ज्ञेन्द्वोरेकांशगतयोर्मृद् ग्राह्या भूः स्वसाद् भवेत् ॥ ३७-८३ ॥

सुदर्शनेन सर्वत्र जपित्वा कर्म साधयेत् ।
अश्वत्थोदुम्बरप्लक्षखदिराणां तु सारतः ॥ ३७-८४ ॥

जम्ब्वामलकनिम्बानामश्वत्थस्य च कारयेत् ।
वृषभश्वगजाहींश्च खरसिंहद्विकानपि ॥ ३७-८५ ॥

चक्रं च विष्ट्यां तद्दिक्षु ग्रामादेः परितः खनेत् ।
सुदर्शनेन सम्मन्त्र्य सर्वरक्षाकरं भवेत् ॥ ३७-८६ ॥

शुक्ले चतुर्थ्यामष्टम्यामेकादश्यां च पर्वणि ।
इष्वक्षिमुनिदेवानां विष्टिर्यामेऽष्टदिक्षु च ॥ ३७-८७ ॥

कृष्णे तृतीयासप्तम्योर्दशम्यां भौतिके दिने ।
ऋतुवेदाहिचन्द्राणां यामे दिक्षूदयः स्मृतः ॥ ३७-८८ ॥

पुनर्नयो नरो नागो नृपो नारिर्नगात् पुनः ।
तत्कालविष्टिनाडी स्याद् वर्ज्याः शुक्लादितः क्रमात् ॥ ३७-८९ ॥

वटश्च किंशुको वेणुरश्विवृक्षो विकङ्कतः ।
घातकी च स्नुहिः कर्णी विष्टिवृक्षाः क्रमादिमे ॥ ३७-९० ॥

क्रमाद् विष्ट्युदयेष्वेतान् स्वाशासु परितः खनेत् ।
पराङ्मुखं स्मरन् विष्टिं सस्यरक्षा कृता भवेत् ॥ ३७-९१ ॥

सिंहो व्याघ्रो वराहश्च गर्दभोऽथ वृषः ।
श्वा चेति करणानि स्युस्तेषु श्वा विष्टिरुच्यते ॥ ३७-९२ ॥

विष्टिध्यानं च �

सजलजलदमूर्तिः पिण्डितस्थूलजङ्घा
कपिलनयनकेशी चक्रदंष्ट्रोच्चघोणा ।
मुखकुहरविनिर्यद्वह्निपिण्डैः समस्तं
भुवनमिह दहन्ती तूर्णमायाति विष्टिः ॥ ३७-९३ ॥

अथ सुदर्शनयन्त्रं �

षट्कोणमध्यगततारगसाध्यनाम मन्त्रार्णकोणमथ सन्धिगताङ्गषट्कम् ।
बाह्याम्बुजाष्टदलकेसरगस्वराढ्यं साष्टाक्षरं तदथ षोडशपत्रमब्जम् ॥ ३७-९४ ॥

तत्कादिवर्णयुगकेसरकं दलेषु सद्वादशार्णकवचास्त्रठयुग्म * * ।
बाह्ये सबिन्दुशिवकोपविदर्भिताख्यं त्रिः पाशवेष्टितमथाङ्कुशकेन तद्वत् ॥ ३७-९५ ॥

भूमण्डलं त्वथ बहिर्विधिना लिखित्वा भूर्जेऽथवा कनकपत्रसितांशुकादौ ।
हुत्वाभिपूज्य कनकेन गुलीकृतं तद् रक्षाकरं सकलभीतिहरं धृतं स्यात् ॥ ३७-९६ ॥

वृत्ते मध्ये लिखेत् तारं षडराणि च तद्बहिः ।
मन्त्राक्षराणि षट्केषु सन्धिष्वङ्गानि च क्रमात् ॥ ३७-९७ ॥

सम्पूज्य साज्यं कुम्भेन घृतं श्वासज्वरापहम् ।
बिल्वपङ्कजयोः पञ्च पृथगङ्गानि यत्नतः ॥ ३७-९८ ॥

दग्ध्वा तन्मन्त्रितं भस्म क्षुद्ररोगग्रहापहम् ।
चतुःक्षीरत्वचो ब्राह्मीं लक्ष्मीचन्दनरोचनाः ॥ ३७-९९ ॥

सुरसाबिल्वदूर्वाश्च कुशापामार्गराजिकम् ।
गुग्गुलं पद्मकं कुष्ठं कान्तं सत्कुङ्कुमं निशाम् ॥ ३७-१०० ॥

गोमयेन तु मिश्रित्य गव्यैरन्यैश्च संयुतम् ।
दग्ध्वा सुदर्शनेनाग्नौ तद्भस्मानेन मन्त्रितम् ॥ ३७-१०१ ॥

क्षुद्रघ्नमपमृत्युघ्नं श्रीमदारोग्यदं परम् ।
महासुदर्शनो मन्त्रो लिख्यते वै यथास्थिति ॥ ३७-१०२ ॥

उद्धारो व्यत्ययो वास्य कर्तव्यो नेति दर्शनात् ।

ॐ नमो भगवते महासुदर्शनाय महाचक्रराजाय रक्ष मम शत्रून् नाशय दर दारय भिन्धि ज्वल ज्वालय शतसहस्रकिरणप्रज्वलितशिखादुष्प्रेक्ष्य दारुण दुष्टदहनात्मक दह पच लग पातय भर्ज त्रासय सुदुष्ट पुरुयन्त्रांश्चूर्णय परप्रयुक्तमन्त्राणामष्टादशकं स्फोटय परसिद्धि वो गृह्ण परमन्त्रान् संहर रर मध्यमांसामिषरुधिरभोजनप्रिय तीक्ष्णत्रिदिवसुरासुरेन्द्रसङ्ग्रामयात्रात्तमथन शङ्खचक्रचापोद्यतकर नरनारायण वरास्त्र लिहि पिलि मिलि बिलि मल मर्द यक्षराक्षसभूतपिशाचकूश्माण्डशकुनीयुवतीविनायक ज्वरसर्वलूतविषविष्कम्भकान् हर मारय ललघु त्रिविक्रम बलिन वरपुराण विष्वक्सेन करवराय सग्रहान् मोटय भञ्ज आविश कड्ड विष्णुकवचमनुस्मर ठठ । अस्यास्त्रबीजम् । आचक्राय ठठ हृदयम् । विचक्राय ठठ शिरः । सुचक्राय ठठ शिखा । सञ्चक्राय ठठ कवचम् । महाचक्राय ठठ अस्त्रम् ।

ऋषिरस्य अहिर्बुध्निः धृतिश्छन्दोऽस्य दैवतम् ॥ ३७-१०३ ॥

महाविष्णुः पुरश्चर्यां सहस्रं चाष्टकं जपम् ।
गुरुवक्त्रादधीतोऽयं पाठमात्रेण सिध्यति ॥ ३७-१०४ ॥

अथ कृष्णचतुर्दश्यामहोरात्रमुपोषितः ।
दक्षिणाभिमुखो भूत्वा श्मशाने वा चतुष्पथे ॥ ३७-१०५ ॥

अर्धरात्रे जपेन्मन्त्रं यद्यदिष्टं तदाप्नुयात् ।
शत्रुनिग्रहकामस्तु जुहुयात् सर्षपैर्निशि ॥ ३७-१०६ ॥

त्रिसन्ध्यमष्टशतकं राजीहोमेन किङ्कराः ।
भवन्ति रक्षोभूताद्याः साधयन्ति च वाञ्छितम् ॥ ३७-१०७ ॥

इत्थं सुदर्शनमनोरुदितं विधानं सर्वार्थसाधनमिदं हरिभक्तिभाजाम् ।
येनापमृत्युविपदो विलयं प्रयान्ति क्षुद्रामयग्रहकृताश्च जपादिकृत्यैः ॥ ३७-१०८ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे मन्त्रपादे सौदर्शनः सप्तत्रिंशः पटलः ॥ ३७ ॥