अथ षट्त्रिंशः पटलः ।
तारं च हृद्भगवते कुम्भदीर्घानलो वियत् ।
भुजङ्गो वामकर्णाढ्यो दीर्घं पार्श्वं ततो मरुत् ॥ ३६-१ ॥
तिस्रो व्याहृतयः पार्श्वं तये भूपतिपूर्वकम् ।
त्वं मे देऽथ वियद्दक्षनेत्रं दापय ठद्वयम् ॥ ३६-२ ॥
महावराहमन्त्रोऽयमृष्याद्यं पूर्ववत् स्मृतम् ।
व्याहृत्याद्यक्षरं बीजं ताभिरेवाङ्गकल्पना ॥ ३६-३ ॥
जातियुक्ता व्याहृतयस्तिस्रस्तु हृदयादिकाः ।
महर्जनौ स्यात् कवचं तपः सत्येऽस्त्रमीरितम् ॥ ३६-४ ॥
कराङ्गुलिषु चाप्येवं व्याहृतीः सप्त विन्यसेत् ।
मूलेन व्यापकं चाङ्गान्यङ्गेषु प्रणवादिकम् ॥ ३६-५ ॥
पुरश्चरणसिद्ध्यर्थं लक्षं व्रत्याशनो जपेत् ।
कालाम्बुदचयप्रक्यं वराहवदनं विभुम् ॥ ३६-६ ॥
चतुर्भुजं शङ्खचक्रगदाभयवरप्रदम् ।
त्रैलोक्यपूर्णवपुषं सुस्थितं पङ्कजासने ॥ ३६-७ ॥
किञ्चिदुत्थानपोत्रोत्थदंष्ट्रासीनवसुन्धरम् ।
श्रीवत्सकौस्तुभोरस्कं मकुटादिविभूषणैः ॥ ३६-८ ॥
भूषितं पीतवसनं स्वैक्यं ध्यात्वा जपादिषु ।
पूजयेःमानसद्रव्यैः प्रतिमादिषु चार्चयेत् ॥ ३६-९ ॥
यां भूमिमिच्छेत् सम्प्राप्तुं तां मृदं मधुरैस्त्रिभिः ।
भौमवारे गृहीत्वा तु जुहोतु मनुनामुना ॥ ३६-१० ॥
सप्तभौमदिनेष्वेवं द्विगुणं त्रिगुणं तु वा ।
हुत्वा तां लभते भूमिं नित्यं जप्यार्चनेन च ॥ ३६-११ ॥
उक्तयोगेषु तां मृत्सां गृह्णीयाद् भक्षयेज्जपन् ।
आत्मसात् सा भवेद् भूमिः क्षेत्रद्रोहो विनश्यति ॥ ३६-१२ ॥
किमत्र बहुनोक्तेन ग्रन्थगौरवकारिणा ।
यद् यदिष्टं भवेत् तस्य तत्तदुद्दिश्य जुह्वतः ॥ ३६-१३ ॥
जपतो ध्यायतश्चैवं सिध्यत्येव न संशयः ।
महावराहमन्त्राधिकाः ।
द्विरण्डो वामकर्णाढ्यः सर्गी वाराहको मनुः ॥ ३६-१४ ॥
ऋषिः सांशिकनामास्यच्छन्दो गायत्रमेव हि ।
विष्णुर्वै देवता दीर्घैः स्वरैरङ्गानि च स्वयम् ॥ ३६-१५ ॥
शुक्लप्रतिपदारभ्य लक्षमाज्याशनो जपेत् ।
दशांशं जुहुयादाज्यं सिद्धमन्त्रस्ततो भवेत् ॥ ३६-१६ ॥
ऋषिश्च्छन्दो दैवतानि ध्यानाद्यं च पुरोदितम् ।
महावराहमन्त्रोक्तो विनियोगोऽस्य चोदितः ॥ ३६-१७ ॥
वराहैकाक्षरविधिः ।
तारश्चाष्टाक्षरश्चादिदेवायेति पदं ततः ।
(भुषुरोत्तफाशं ?) महते सर्वतेजसां निधये त्रिगुणाय गुणबाह्याय सर्वलिङ्गिने सर्ववर्णाय त्रिभुवनोत्पत्तिस्थितिप्रलयकर्त्रे सुरासुरपूजिताय व्यक्ताव्यक्ताय सर्वप्रहरणायुधाय सर्वारिविनाशनाय सर्ववरप्रदाय सर्वानुगतवत्सलाय सर्वपापप्रणाशनाय सर्वमन्त्रविच्छेदनाय सर्वमन्त्रस्फोटनाय सर्वमुद्राप्रभञ्जनाय गरुडवाहनाय शङ्खचक्रगदाधराय महाशार्ङ्गधनुषे देवादिदेव नारायण ज्वल प्रज्वल हन दह पच छिन्धि मारय उत्सादय शोषय स्तम्भय द्रावय आकर्षय विद्वेषय उच्चाटय सर्वशत्रून् विध्वंसय विनायकान् नाशय ग्रहांश्चूर्णय यातुधानान् वित्रासय नागान् मोहय सर्वविषं दह सर्वरोगान् पच अलक्ष्मीमपमार्जय लक्ष्मीमावाहय सौभाग्यं प्रयच्छ त्रैलोक्यं वशमानय सर्वकामान् सम्पादय सुरासुरानाह्वय भुवनानि संहर पर्वतांश्चूर्णय समुद्रान् शोषय पृथ्वीं धारय शान्तिपुष्टिकर! अमोघशक्ते देवादिदेव! नारायण! मां रक्ष ॐ नमो नमः हुं फट् ठठ । अस्य करन्यासमन्त्र । ॐ नमो भगवतेमहावराहाय हुं फट् ठठ ।
ॐ नमो भगवते वामनाय हुं फट् ठठ । ॐ नमो भगवते त्रिविक्रमाय हुं फट् ठठ । ॐ नमो भगवते वासुदेवाय हुं फट् ठठ । ॐ नमो भगवते नारसिंहाय हुं फट् ठठ । इति पञ्चाङ्गानि । ॐ नमो भगवते महावराहाय शशिकोटिकुटिलधवलदंष्ट्रोद्धृतवसुन्धराय महाघोषणाय घननिभनिहतहिरण्याक्षाय ब्रह्माण्डव्यापिने सुरासुरमायाय पुरुष गर्ज महाक्रोड! नारायण! हुं फट् ठठ ! हृदयम् । ॐ नमो भगवते वामनाय सहस्रशरीराय वञ्चितदैत्याधिपाय सर्वमायाधिपतये भक्तवत्स्ल! बन्ध रक्ष मायानारायण! हुं फट् ठठ । शिरः । ॐ नमो भगवते त्रिविक्रमाय क्रमत्रयाक्रान्तत्रिभुवनाय पादाग्रधारितब्रह्माण्डाय बलिनियाम(या ? का)य सन्त्रस्तसुरासुरवीक्षितायादृष्टपर्यङ्काय गङ्गा(पिना?पता)कोज्वलचरणाय जय विजय महानारायण! हुं फट् ठठ । शिखा । ॐ नमो भगवते वासुदेवाय शङ्खचक्रगदाधराय दैत्यान्तकाय पीतवाससे गरुडवाहनाय यदुप्रवीराय चन्द्रप्रभाय बाणासुरबाहुवनदावाग्नये महाजलदश्यामाय लक्ष्मीदयित! विश्वरूप! नारायण! कुरु रक्ष वज्राद्युद्भेद्य हुं फट् ठठ । कवचम् । ॐ नमो भगवेते नारसिंहाय प्रदीप्तसूर्यकोटिसहस्रसमतेजसे दुष्प्रेक्ष्याय महाकल्पाग्निरूपाय ज्वालामालिने पिङ्गलसटाय क्षुभिततडित्सहस्रसम्पातितभीमरूपिणे दिनकरमण्डलसदृक्षाय स्वकरनखविदारितदैत्याधिपतिवक्षःस्थलाय क्षुभितसमुद्रमेघनादभीमबृंहितत्रिभुवनाय हुलु गर्ज गर्ज । अमोघशक्ते! नृसिंह! नारायण! हुं फट् ठठ । अस्त्रम् ।
ऋषिस्तु नारदश्च्छन्दो ह्ययुत्कृतिरुदाहृता ॥ ३६-१८ ॥
देवता च हृषीकेशः पुरश्चर्याकृते जपेत् ।
सहस्रपञ्चकं मूलमङ्गान्यस्माद् दशांशतः ॥ ३६-१९ ॥
घृताक्ताश्वत्थसमिधां सहस्रं जुहुयादपि ।
अङ्गानां तद्दशांशेन कृतपूर्वव्रतो भवत् ॥ ३६-२० ॥
ततः प्रत्यक्षतो देवं पश्येत् स्वप्नेऽथवा हरिम् ।
अर्चना�
स्नात्वा मूलाङ्गमन्त्रैश्च क्षालिताङ्गघ्रिकरद्वयः ॥ ३६-२१ ॥
आचम्यार्चागृहद्वारि क्षेत्रपं परिवर्तकान् ।
चण्डप्रचण्डद्वारश्रीवास्त्वीशान् पूर्ववद् यजेत् ॥ ३६-२२ ॥
शुद्धात्मा मन्त्रन्यस्तात्मा । ॐ नमो भगवते । नारायणाय विद्महे वासुदेवाय धीमहि, तन्नो विष्णुः प्रचोदयादिति गायत्र्या द्रव्यशोधनम् ।
अर्घ्यादीन्यनयापूर्य द्रव्याद्यं प्रोक्ष्य तज्जलैः ।
आधारशक्तिं कूर्मं चाप्यनन्तं पृथिवीमपि ॥ ३६-२३ ॥
योगपीठं च धर्मादीन् सत्त्वादीन् मण्डलानि च ।
पद्मं चात्मादिकाः शक्तीर्विमलाद्याश्च पूजयेत् ॥ ३६-२४ ॥
पद्ममध्ये सुपर्णं च तस्य स्कन्धे तथाम्बुजम् ।
ॐ नमो देवादिदेवाय नारायणाय विश्वरूपायानन्तशक्तये लक्ष्मीदयित सुरासुरपूजितागच्छ सान्निध्यं कुरु ठठ ।
ध्यायेदष्टभुजं देवं गरुडे हेमसप्रभम् ॥ ३६-२५ ॥
शङ्खचक्रगदाशार्ङ्गखड्गं च मुसलं क्रमात् ।
पाशाङ्कुशौ चोभयतो दधतं पीतवाससम् ॥ ३६-२६ ॥
श्रीवत्सकौस्तुभोरस्कं मकुटाद्यैर्विभूषितम् ।
वनमालाधरं चारुस्फुरन्मकरकुण्डलम् ॥ ३६-२७ ॥
तारेण स्वहृदम्भोजात् परं ज्योतिश्चिदात्मकम् ।
आवाहयेद् यथापूर्वम्
ॐ नमो नारायणाय सुप्रतिष्ठितो भव ठठ ।
अनेन स्थापयेदपि ॥ ३६-२८ ॥
पीठाष्टदिक्षु पूर्वाद्यं गणेशं च सरस्वतीम् ।
गुरुं च नारदं चेष्ट्वा विदिक्ष्वङ्गान्यनुक्रमात् ॥ ३६-२९ ॥
तद्बाह्यावरणे दूतीरष्टदिक्षु क्रमात् स्थिताः ।
पद्मां वाचं रतिं प्रीतिं तुष्टिं पुष्टिं यशस्विनीम् ॥ ३६-३० ॥
शान्तिं च पुष्टिं मुकुरचामराग्र्यकरां यजेत् ।
तद्बाह्ये चापि शङ्खादीनष्टावष्टदिशं बहिः ॥ ३६-३१ ॥
लोकेशान् सायुधगणान् विष्वक्सेनं च पूजयेत् ।
ॐ नमः पुण्डरीकाक्षाय त्रैलोक्याधिपतये गृह्ण ठठ ।
अनेनार्घ्यं च पुष्पादीन् दद्यादष्टाक्षरेण तु ॥ ३६-३२ ॥
ॐ नमः क्षीरोदार्णवस्थाय नमः ठठ ।
अनेन स्नापयेद् वस्त्रं भूषणाद्यं समर्पयेत् ।
ॐ नमो देवादिदेवाय मधुसूदनाय सुरभिगन्धविलेपनप्रियाय
गृह्ण ठठ ।
गन्धं दद्यादनेनाथ
ॐ नमोदेवादिदेवाय गृह्ण ठठ ।
पुष्पैश्चानेन पूजयेत् ॥ ३६-३३ ॥
ॐ नमो हृषीकेशाय भक्तवत्सलाय गृह्ण ठठ ।
दद्यादनेन वै धूपं
ॐ नमः परं ज्योतिषे ठठ ।
आरात्रिकमनेन च ।
ॐ नमः परमवासुदेवाय गृह्ण ठठ ।
दद्यादनेन नैवेद्यं तथैवाचमनीयकम् ॥ ३६-३४ ॥
स्वाख्याभिः परिवारांश्च पूजयेच्च मनुं जपेत् ।
आवाह्य देवं हुत्वाग्नौ
ॐ नमो देवादिदेवाय श्वेतद्वीपप्रियाय गरुडवाहन आगच्छ ठठ ।
इत्यनेन क्षमापयेत् ॥ ३६-३५ ॥
वटे जपित्वा हुत्वा च यक्षिणीं वशयेद् ध्रुवम् ।
पाताले कृतिसाहस्रैरमरानपि लक्षितः ॥ ३६-३६ ॥
द्विगुणं तु कलौ होमजप्याद्यं सिद्धिदं स्मृतम् ।
अपमृत्युं जयेदाम्रपर्णगव्याज्यहोमतः ॥ ३६-३७ ॥
सुधापूर्णे ह्रदे देवं स्थितं ध्यात्वामृताम्बुभिः ।
सिञ्चन्तं साध्यशिरसि ध्यात्वा हन्याद् विषादिकम् ॥ ३६-३८ ॥
गन्धपुष्पादिकं यस्मै दद्यात् सप्ताभिमन्त्रितम् ।
स स वश्यो भवेदस्य शय्याजाप्येन चाङ्गना ॥ ३६-३९ ॥
मन्त्रालब्धं तु निर्माल्यं हरेः शिरसि धारयन् ।
रक्षोभूपिशाचाद्यैः सर्पाद्यैर्वा न बाध्यते ॥ ३६-४० ॥
तेनालब्धाञ्जनेनाक्ष्णोः पश्येद् भूतादिकान्निधीन् ।
शृतं क्षीरं वचां चापि सप्तवाराभिमन्त्रितम् ॥ ३६-४१ ॥
प्राश्य श्रुतधरो वाग्मी कविः प्राज्ञश्च जायते ।
स्वैक्यं ध्यायन् जपेद्देवं भयेभ्योऽपि प्रमुच्यते ॥ ३६-४२ ॥
कल्पान् विचार्य बहुधा हरितन्त्रसिद्धान्
वाराहमन्त्रविषयोऽपि च मन्त्रराजः ।
सन्दर्शितो हवनसाधनयागयुक्तो
धर्मार्थकामफलवाञ्छितकल्पवृक्षः ॥ ३६-४३ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे श्रीवराहराजो नाम षट्त्रिंशः पटलः ॥ ३६ ॥