३५

अथ पञ्चत्रिंशः पटलः ।

नृसिंहानुष्टुभश्च्छन्दः सैव दैवं नृकेसरी ।
विधिः प्रजापतिर्नाम्ना ऋषिरङ्गानि च स्वयम् ॥ ३५-१ ॥

कर्णं खान्तोऽग्निदण्डाढ्यः खड्गी वामाक्षसंयुतः ।
वह्निर्दण्डी महाकालः खं दीर्घमयुतं जलम् ॥ ३५-२ ॥

सकर्णढान्तगः श्वेतश्चन्द्रखण्डविभूषितः ।
ज्वलन्तं लर्वटो पुच्छं * * * * * * * * ॥ ३५-३ ॥

नृलिंवं वीरनं हिष्णुं मृत्युमृत्युं नमाम्यहम् (?) ।
चतुर्भिश्च चतुर्भिश्चाप्यष्टाभिस्त्रिभिरेव च ॥ ३५-४ ॥

पञ्चभिश्च ततोऽष्टाभिः स्वाङ्गैरर्णानि षट् क्रमात् ।
नक्षत्रसिद्धं बद्ध्वाद्यं नोपवासादिकं तथा ॥ ३५-५ ॥

विधीयतेऽस्य मन्त्रस्य सिध्येद् भक्त्या जपादिभिः ।
बीजं चातिधृतिस्वार्णो लकुली बिन्दुमान् स्मृतः ॥ ३५-६ ॥

धृतिस्वार्णः स्थितः सूक्ष्मः शक्तिर्बिन्दुयुता स्मृता ।
होमेष्वग्निप्रियान्तः स्याद् ध्यानं कर्मानुरूपतः ॥ ३५-७ ॥

त्रिसन्ध्यमर्चयेद् देवं व्रत्याहारो जितेन्द्रियः ।
शुचौ देशे समासीनो जपेल्लक्षमतन्द्रितः ॥ ३५-८ ॥

गुरौ मन्त्रे च देवे च तुल्यभक्तिः शुचिः सदा ।
शक्तस्तिलाज्यं जुहुयादशक्तो द्विगुणं जपेत् ॥ ३५-९ ॥

जपाद् दशांशं जुहुयान्मन्त्रः सिध्यति नान्यथा ।
अपुरश्चरणोऽप्येष मन्त्रो भक्तस्य सिध्यति ॥ ३५-१० ॥

एकादशपदो मन्त्रो नेत्राक्षिश्रुतिवह्निभिः ।
शराग्निरामदस्रैश्च वेदनेत्राश्विवर्णकैः ॥ ३५-११ ॥

अस्त्रशुद्धकरः स्वार्णं न्यसेदङ्गुलिपर्वसु ।
अङ्गुष्ठादिकनिष्ठान्तं तलयोरपि विन्यसेत् ॥ ३५-१२ ॥

व्यापकं मूलतो देहे न्यसेदेवं पदानि च ।
मुखे मूर्ध्नि तथा घ्राणे नेत्रयोः श्रोत्रयोर्गले ॥ ३५-१३ ॥

हृन्नाभिकटिजान्वङ्घ्रिष्वेकादश यथाक्रमम् ।
मन्त्रन्यस्ततनुः कुर्याज्जपध्यानार्चनादिकम् ॥ ३५-१४ ॥

ध्यानं च �

अकलङ्कशरच्चन्द्रसहस्रधवलद्युतिम् ।
उत्फुल्लरक्तकमलनेत्राङ्घ्रिकरपल्लवम् ॥ ३५-१५ ॥

सिंहवक्त्रं लसद्दंष्ट्रं व्यात्तरक्तमुखाम्बुजम् ।
त्रिनेत्रं भ्रकुटीभीमं विद्युत्पिङ्गसटाच्छटम् ॥ ३५-१६ ॥

रक्तक्षौमोत्तरासङ्गं पीताम्बरधरं विभुम् ।
सशङ्खचक्रोर्ध्वकरं मकुटोल्लासिमस्तकम् ॥ ३५-१७ ॥

योगपट्टपिनद्धाङ्गं स्वासीनं पङ्कजासने ।
व्यत्यस्तपादयुगलं जान्वारूढभुजद्वयम् ॥ ३५-१८ ॥

शशाङ्कशकलाकारनखोल्लासिकराङ्गुलिम् ।
कर्णावतंसविलसन्मणिकुण्डलमण्डितम् ॥ ३५-१९ ॥

नानामणिगणोद्भासिकर्णभूषणभूषितम् ।
शुक्लोपवीतसंसक्तमुक्ताहारैरलङ्कृतम् ॥ ३५-२० ॥

श्रीवत्सकौस्तुभोरस्कं माणिक्योदरबन्धनम् ।
केयूररत्नवलयैरङ्गुलीयैश्च भूषितम् ॥ ३५-२१ ॥

नानारत्नप्रभोद्भासिकटिसूत्रविराजितम् ।
विचित्रवलयोल्लासिनूपुराङ्घ्रिसरोरुहम् ॥ ३५-२२ ॥

सर्वाङ्गसुन्दरतया भूषणानां विभूषणम् ।
दैत्येन्द्रदारणप्रीत्या प्रसन्नाननपङ्कजम् ॥ ३५-२३ ॥

नृसिंहमेवं ध्यात्वा तु कुर्यात् पूजाजपादिकम् ।
स्वासीनं हृदयाम्भोजे मानसद्रव्यविस्तरैः ॥ ३५-२४ ॥

पूजयेन्मनसा योगी तदशक्तो बहिर्यजेत् ।
हैमीं मणिमयीं रौप्यां प्रतिमां ताम्रजां तु वा ॥ ३५-२५ ॥

कृत्वा चित्रपटे वापि सालग्रामेऽथवार्चयेत् ।
अभावे स्थण्डिले वापि पावके वार्कमण्डले ॥ ३५-२६ ॥

कुर्यान्नित्यार्चनं मन्त्री यथावदुपपत्तितः ।
शैली स्थिरा चेत् प्रतिमा विमाने सुप्रतिष्ठिता ॥ ३५-२७ ॥

राजराष्ट्रादिरक्षायै तत्र पूजां प्रवर्तयेत् ।
त्रिसन्ध्यं त्वेकसन्ध्यं वा विभवानुगुणं यजेत् ॥ ३५-२८ ॥

अपुरश्चरणोऽप्येष नित्यार्चनजपादिभिः ।
भक्तः स वाञ्छितानर्थान् लभत्येव न संशयः ॥ ३५-२९ ॥

अथ नित्यार्चनविधिः �

स्नात्वा सन्ध्यां च निर्वर्त्य मौनी प्राप्यार्चनागृहम् ।
क्षालिताङ्घ्रिकरः सम्यगाचान्तो द्वारपान् यजेत् ॥ ३५-३० ॥

सपवित्रोत्तरासङ्गः सम्प्रोक्ष्यार्घ्यजलैः क्रमात् ।
द्वारशाखोर्ध्वगौ धातृविधातारौ च मध्यगे ॥ ३५-३१ ॥

गङ्गा च यमुना चाधः शङ्खपद्मनिधी स्थितौ ।
ऊर्ध्वोदुम्बरगां द्वारश्रियं गजयुगान्तरा ॥ ३५-३२ ॥

क्षिप्त्वान्तः कुसुमं स्वास्त्राद् विघ्नानुत्सार्य वाग्यतः ।
अन्तः प्रविश्य वास्त्वीशं ब्रह्माणं च स्वविष्टरम् ॥ ३५-३३ ॥

उपविश्य पुरः प्रोक्तैः शोषणाद्यैर्विशोधयेत् ।
स्वैक्यं ध्वात्वा नरहरिं हृदयाब्जे च चिन्मयम् ॥ ३५-३४ ॥

अस्त्रशुद्धकरोऽङ्गानि कराङ्गुलिषु विन्यसेत् ।
मूलेन व्यापकं चापि देहे रुद्रपदानि च ॥ ३५-३५ ॥

प्रसारितौ करौ जान्वोरारोप्याधोमुखाङ्गुली ।
व्यत्यस्तौ चरणौ कृत्वा सिंहवद् व्यादिताननः ॥ ३५-३६ ॥

नृसिंहमुद्रामेवं तु बद्ध्वा हृत्पद्मकोटरे ।
अङ्गुष्ठमात्र नृहरिं ज्योतिर्मध्ये यजेद् धिया ॥ ३५-३७ ॥

ऊर्ध्वपुण्ड्राणि कृत्वा तु पुष्पारोपितमस्तकः ।
अस्त्रक्षालितपात्रेऽर्घ्यमापूर्याथ कुशाक्षतम् ॥ ३५-३८ ॥

प्राग्वत् तारं तु विन्यस्य जपित्वेष्ट्वा प्रदर्शयेत् ।
धेनुमुद्रां तदर्घ्याद्भिर्यागद्रव्याण्यवोक्ष्य तु ॥ ३५-३९ ॥

स्वशिरो यागभूमिं च गणेशं नैर्-ऋतेऽर्चयेत् ।
गुरूनैशे मुनींश्चापि पूजास्थानचतुर्दिशम् ॥ ३५-४० ॥

प्राच्यां भद्रं सुभद्रं च याम्ये चण्डप्रचण्डकौ ।
पश्चाच्चलप्रचलकावुदीच्यां विजयं जयम् ॥ ३५-४१ ॥

आधारशक्तिं मध्ये तु कूर्मानन्तौ ततो भुवम् ।
उत्तरोत्तरतः पृथ्वी योगपीठं च पूजयेत् ॥ ३५-४२ ॥

धर्मादीनप्यधर्मादींस्तमस्सत्त्वरजांसि च ।
तत्कन्दनालपद्मानि शुक्लकृष्णारुणानि तु ॥ ३५-४३ ॥

सूर्यसोमाग्निबिम्बानि पत्रकेसरकर्णिकाः ।
दत्त्वार्घ्यमन्त्रान्निर्माल्यमपनीयाभिषिच्य तु ॥ ३५-४४ ॥

आवाह्य तस्मिन् नृहरिं यथैवाष्टाक्षरोदितम् ।
अर्घ्यादिकं क्रमाद् दत्त्वा सान्निध्यं परिभावयेत् ॥ ३५-४५ ॥

मन्त्रन्यासं ततं कृत्वा पुष्पधूपार्चितं ततः ।
मूलाङ्गवैदिकैर्मन्त्रैः पञ्चगव्यादिविस्तरैः ॥ ३५-४६ ॥

गन्धाद्भिश्चाभिषिच्याम्भस्तद्वस्त्रेणापनीय तु ।
संस्थाप्यासनपद्मे तु दत्त्वार्घ्यादित्रयं पुनः ॥ ३५-४७ ॥

उपचारोक्तमार्गेण पूजयेत् तु विधानतः ।
अङ्गानि केसराग्रेषु वह्न्यादिष्वस्त्रमर्चयेत् ॥ ३५-४८ ॥

श्रद्धां मेधां महाकामां भीमामथ महाननाम् ।
आर्द्रां दीप्तिं दलाग्रेषु पूर्वादिक्रमतो यजेत् ॥ ३५-४९ ॥

मध्ये श्रियं ततः प्राच्यां गरुडं चाथ दक्षिणे ।
चक्रं तु सशरं शार्ङ्गमाप्ये सौम्ये गदां यजेत् ॥ ३५-५० ॥

कोणेषु शङ्खं गरुडं ध्वजाग्रे वाहनं यजेत् ।

बाह्यावरणं �

चक्रं खड्गं च पद्मं च मुसलं चैव दक्षिणे ॥ ३५-५१ ॥

शङ्खं गदां खेटकं च शार्ङ्गं देवस्य वामतः ।
तुष्टिं दक्षिणतः पुष्टिं वामे तत्रैव कौस्तुभम् ॥ ३५-५२ ॥

श्रीवत्सं दक्षिणेऽभ्यर्च्य वनमालां च पूजयेत् ।
पीताम्बरं ब्रह्मसूत्रं नाभिपद्मं किरीटकम् ॥ ३५-५३ ॥

भूषणानि च सर्वाणि स्वस्थानेषु च पूजयेत् ।
कुमुदं कुमुदाक्षं च पुण्डरीकं च वामनम् ॥ ३५-५४ ॥

शङ्कुकर्णं सर्वनेत्रं सुमुखं सुप्रतिष्ठितम् ।
एतान् पूर्वाद्यष्टदिक्षु यजेत् स्वाख्यानमोन्तकम् ॥ ३५-५५ ॥

लोकेशान् दश तद्बाह्ये सायुधादींस्तु पूजयेत् ।
ततो गुरुमृषिं छन्दो दैवतानि प्रणम्य तु ॥ ३५-५६ ॥

इष्ट्वाक्षसूत्रं देवाग्रे जपेन्मन्त्रं प्रसन्नधीः ।
जपपूजादिकं सर्वमर्पयेद् देवपादयोः ॥ ३५-५७ ॥

नत्वा स्तुत्वा क्षमस्वेति तन्मूर्तौ तं विसर्जयेत् ।

नित्यपूजाधिकाः ।

विनियोगांस्तु वक्ष्यामि साधकानां हिताय वै ॥ ३५-५८ ॥

२२३) व्रत्याशनः शस्तदेशे जपकोट्याणिमादिभाक् ।
महापातकिनां शुद्धिः कोट्या स्यादुपपातकात् ॥ ३५-५९ ॥

लक्षेण पातकेभ्यश्च प्रयुतेन विशुध्यति ।
अपमृत्युजयं वाञ्छन् हैमाद्यं तु घटं शुभम् ॥ ३५-६० ॥

भारावरजलापूर्णं भद्रके विनिधाय तु ।
तीर्थाम्भोभिः सुवर्णेन नानारत्नाक्षतैः फलैः ॥ ३५-६१ ॥

चतुःक्षीरत्वगम्भोभिः सुगन्धिकुसुमैर्नवैः ।
श्रीवृक्षाश्वत्थचूतानां पल्लवैः कूर्चसंयुतैः ॥ ३५-६२ ॥

कुम्भवक्त्रे सुनिहितैः सतण्डुलपिधानकैः ।
सुसूक्ष्मनववस्त्राभ्यां वेष्टिते स्रग्विभूषिते ॥ ३५-६३ ॥

आसनादिक्रमात् तस्मिन्नावाह्य नृहरिं विभुम् ।
द्व्यष्टोपचारैराराध्य परिवारांश्च पूजयेत् ॥ ३५-६४ ॥

सम्यगग्निं प्रतिष्ठाप्य हुत्वा दशशतं घृतम् ।
सम्पात्य कुम्भे तु जपेत् कूर्चस्पृगयुतं मनुम् ॥ ३५-६५ ॥

देवस्य महतीं पूजां कृत्वा विप्रांश्च भोजयेत् ।
उपोषितं शुचिस्नातं साध्यमौदुम्बरासने ॥ ३५-६६ ॥

संस्थाप्य विन्यसेत् साङ्गं मन्त्रं सस्मिंस्तमर्चयेत् ।
गीतवादित्रनिर्घोषैर्वेदघोषपुरस्कृतम् ॥ ३५-६७ ॥

अभिषिञ्चेदमुं सम्यक् सोऽपमृत्योर्विमुच्यते ।
मन्त्रिणे दक्षिणां दद्यान्निजां शक्तिमहापयन् ॥ ३५-६८ ॥

भूतग्रहाभिभूतांश्च रोगिणश्चाभिषेचयेत् ।
तत्तत्पीडोपशमनं तेषां सद्यो भविष्यति ॥ ३५-६९ ॥

सहस्रजपितं भस्म सर्वरोगहरं स्मृतम् ।
स्पृष्ट्वात्मानं जपेन्मन्त्रं शतं स्यादात्मरक्षणम् ॥ ३५-७० ॥

चोरदुष्टमृगव्यालराजभूताद्युपद्रवे ।
स्वैक्यं ध्यात्वा जपं कुर्वन् तत्तद्भीतेर्विमुच्यते ॥ ३५-७१ ॥

स्वयं नृसिंहो भूत्वारिं परिभ्राम्य मृगं स्मरन् ।
यस्यां दिशि क्षिपेत् तस्यां रिपोरुच्चाटनं भवेत् ॥ ३५-७२ ॥

स्वयं नृसिंहः क्रुद्धः सन् मृगं शत्रुं विदारयन् ।
नखैर्जपेत् सहस्रं तु नित्यं मासेन मारयेत् ॥ ३५-७३ ॥

मारयित्वा रिपुं मन्त्रं जपित्वा कलशेन तु ।
अभिषिक्तो विशुद्धः स्यादात्मरक्षा च तद् भवेत् ॥ ३५-७४ ॥

विद्वेषोच्चाटनादीनि कृत्वा चैवं विशुध्यति ।
क्रूरं कर्माथ सौम्यं वा यद्यदिच्छति मन्त्रवित् ॥ ३५-७५ ॥

तत्तत् स्वैक्यहरिध्यानाज्जपतः कर्म सिध्यति ।
कुण्डे वेदाश्रके वह्नावावाह्येष्ट्वा नृकेसरिम् ॥ ३५-७६ ॥

जुहुयाच्चोदितैर्द्रव्यैरभीष्टफलमश्नुते ।
पूजां च कुर्याद् देवस्य शक्त्या विप्रांश्च भोजयेत् ॥ ३५-७७ ॥

पुत्रञ्जीवेन्धनाग्नौ तु पुत्रार्थी तत्फलैर्हुतात् ।
सत्पुत्रं लभते तद्वत् पायसाज्यहुतादपि ॥ ३५-७८ ॥

पूजां कृत्वा भगवतः पुत्रकामो यदा भवेत् ।
पुत्रञ्जीवेन्धनाग्नौ तु हुत्वा लक्षं पयो घृतम् ॥ ३५-७९ ॥

पायसं च चरौ तस्मिन् सम्पात्याज्यं जपेदपि ।
दम्पती भोजयेत् तेन ब्राह्मणान् भोजयेदपि ॥ ३५-८० ॥

अचिरेण भवेत् पुत्रो दीर्घायुः कान्तविग्रहः ।
श्रीकामो बिल्वकाष्ठाग्नौ श्रीलताकुसुमाम्बुजैः ॥ ३५-८१ ॥

बिल्वपत्रैः फलैर्हुत्वा घृताक्तैर्लभते श्रियम् ।
दूर्वाभिरायुराप्नोति क्षीराज्यहवनात् पशून् ॥ ३५-८२ ॥

उपद्रवाणां शान्त्यर्थं दूर्वात्रिकसहस्रकम् ।
अयुतं वाप्सु जुहुयाच्छान्तिं गच्छन्त्युपद्रवाः ॥ ३५-८३ ॥

अथ युद्धजयं वाञ्छन् विभीतकशरानले ।
समूलतूलपत्राग्रकल्पितानां तदेधसाम् ॥ ३५-८४ ॥

राजिस्नेहावसिक्तानामयुतं लभते जयम् ।
शत्रूनभिमुखायातानेवं ध्यायन् जपेदपि ॥ ३५-८५ ॥

इष्ट्वा दुर्वाक्षतैर्देवं पालाशाग्नौ घृतेन तु ।
दुर्वाभिः पायसाज्येन हुत्वायुर्दीर्घमाप्नुयात् ॥ ३५-८६ ॥

हुत्वां समिद्द्भिः पालाशैः साज्यैरारोग्यमाप्नुयात् ।
वृष्टये वैतसैः साज्यैः सक्षीरान्नं जुहोतु च ॥ ३५-८७ ॥

जले स्थित्वा जपेन्मन्त्रं वृष्टिरिष्टा भविष्यति ।
किमत्र बहुनोक्तेन यद् यदिच्छति मन्त्रवित् ॥ ३५-८८ ॥

तत्तत् पूजाजपध्यानहुतैः प्राप्नोति भक्तिमान् ।
मृद्वासने समासीन ऋजुकायः समाहितः ॥ ३५-८९ ॥

ध्यायेत् कुण्डलिनीं नाभेरधस्ताच्चतुरङ्गुले ।
सप्तव्यालोपमां दीप्त्या सूर्याभामष्टवर्तुलाम् ॥ ३५-९० ॥

हेमाभां प्रणवं चास्यां दश नाड्यो विनिस्सृताः ।
इडा पिङ्गा सुषुम्ना च गान्धारी हस्तिजिह्विका ॥ ३५-९१ ॥

सुयशालम्बुषा पूषा कुहूर्वै शङ्किनी तथा ।
प्राणादिदशवायूनां मार्गभूतास्तु नाडयः ॥ ३५-९२ ॥

ऊर्ध्वङ्गमा सुषुम्नाख्या देहमध्ये व्यवस्थिता ।
इडा वामेन संयाति पिङ्गला दक्षिणेन तु ॥ ३५-९३ ॥

नाभिपद्मं सुषुम्ना तु गत्वा तत्कर्णिकां गता ।
तत्र विद्युत्प्रभा देवी रमा प्रणवविग्रहा ॥ ३५-९४ ॥

सुक्ष्माख्या चिन्मयी ध्येया विद्युल्लेखेव भास्वरा ।
ततः सुषुम्नामार्गेण गता हृत्पद्मकर्णिकाम् ॥ ३५-९५ ॥

मध्यमाख्यां रमाशक्तिं ध्यायेद् दीपाशिखोपमाम् ।
सार्धत्रिमात्रप्रणवहंसमन्त्रविभाविताम् ॥ ३५-९६ ॥

ततश्चोर्ध्वं व्रजन्तीं तां ज्योतिर्लेखां सुषुम्नया ।
भ्रूमध्ये बिन्दुमध्यस्थां प्रणवे वैखरीं रमाम् ॥ ३५-९७ ॥

इन्दुरश्मिनिभां ध्यायेत् ततोऽपि च सुषुम्नया ।
निर्गत्य द्वादशान्ताब्जचन्द्रमण्डलमध्यगाम् ॥ ३५-९८ ॥

तारवारुणबीजस्थां प्लाव्यमानां सुधामृतैः ।
अमृतादिकलाजालनिष्ठ्यूतामृतधारया ॥ ३५-९९ ॥

सुषुम्नयाधो भ्रूपद्महृन्नाभिकमलानि च ।
क्रमेणागत्य सम्प्राप्तां सूक्ष्मां कुण्डलिनीं पराम् ॥ ३५-१०० ॥

ततोऽप्यापादतलयोः पूरयन्तीं सुधामृतैः ।
पुनरूर्ध्वं यथाशक्ति गच्छन्तीं वामृतात् पुनः ॥ ३५-१०१ ॥

प्लावयन्तीं सुधाम्भोभिरापादतलमस्तकात् ।
चिन्तयेत् परमां लक्ष्मीं विश्वलोकविधायिनीम् ॥ ३५-१०२ ॥

विन्यसेच्चतुरो वेदान् बिन्दौ पूर्णसुधाभृतान् ।
हृत्पद्मे तान् वसन्तादीनृतूनमृतपूरितान् ॥ ३५-१०३ ॥

विन्यस्य नाभिपद्मे तु न्यसेदाहवनीयकम् ।
अन्वाहार्यं च विन्यस्य तथाग्निं गार्हपत्यकम् ॥ ३५-१०४ ॥

प्लाव्यमानांस्तु सुधया प्रणवेन विदीरितान् ।
कर्मेन्द्रियाणि सव्ये तु न्येसेज्ज्ञानानि दक्षिणे ॥ ३५-१०५ ॥

तन्मात्रापञ्चकं चैव पञ्च भूतानि पादयोः ।
दक्षिणेतरयोर्न्यस्येदमृताप्लावितानि तु ॥ ३५-१०६ ॥

तत्रापि चरमां ध्यायेद् विद्युल्लेखानुसारणीम् ।
मनो बुद्धिमहङ्कारं प्रकृतिं पुरुषं तथा ॥ ३५-१०७ ॥

व्यापित्वेनाखिले देहे विन्यस्याथ नृकेसरिम् ।
स्वैक्यं ध्यात्वामृताम्भोभिः प्लावयेदखिलं क्रमात् ॥ ३५-१०८ ॥

ततः पूजाजपध्यानहोमाद्यन्तं समाचरेत् ।
यन्त्रोक्तं फलमाप्नोति मन्त्रसिद्धिश्च जायते ॥ ३५-१०९ ॥

सामान्योऽयं हरिन्यासो मन्त्राणां नृहरेः स्मृतः ।
नृसिंहयन्त्रं वक्ष्यामि सर्वरक्षाकरं परम् ॥ ३५-११० ॥

स्वर्णपट्टेऽथवा भूर्जे शुक्लपट्टेऽथवा लिखेत् ।
रोचनाकुङ्कुमलघुकुष्ठकर्पूरचन्दनैः ॥ ३५-१११ ॥

सुपिष्टैः पङ्कजं शुक्लं कर्णिकाकेसरोज्ज्वलम् ।
अन्तरष्टदलं बाह्ये द्व्यष्टपत्रं ततो बहिः ॥ ३५-११२ ॥

द्वात्रिंशच्च दलं बाह्ये त्रिधा पाशेन वेष्टयेत् ।
अङ्कुशेन च संवेष्ट्य नृसिंहैकाक्षरं ततः ॥ ३५-११३ ॥

कर्णिकायां लिखेत् तस्यां रक्ष्यनाम च संलिखेत् ।
अष्टाक्षराण्यष्टदले द्व्यष्टपत्रेषु च स्वरान् ॥ ३५-११४ ॥

द्वात्रिंशद्दलमध्येषु मूलमन्त्राक्षराण्यपि ।
दलाग्रेषु ककारादीन् द्वात्रिंशद्वर्णकान् लिखेत् ॥ ३५-११५ ॥

दलसन्धिषु हक्षेभि परितो विलिखेत् त्रिधा ।
सपद्मपट्टसूत्राभ्यां गुलिकीकृत्य वेष्टयेत् ॥ ३५-११६ ॥

लाक्षया च सुवर्णेन समाच्छाद्याम्बुजो रे ।
विन्यस्तकलशे यन्त्रमवस्थाप्यासनादितः ॥ ३५-११७ ॥

आवाह्याथ यजेत् सम्यग् जपेत् स्पृष्ट्वायुतं मनुम् ।
साध्यं तत्कलशाम्भोभिरभिषिच्य गुलिं ततः ॥ ३५-११८ ॥

कण्ठे शिरसि वा हस्ते बद्ध्वा विप्रांश्च भोजयेत् ।
भूतप्रेतपिशाचानामपस्मारादिविद्विषाम् ॥ ३५-११९ ॥

रोगाणां च क्षयादीनां परिहारः कृतो भवेत् ।

यन्त्रविधिः �

बीजे नाम ततो लिख्याद् बहिर्वृत्तं च तद्बहिः ॥ ३५-१२० ॥

ॐ हुं खे क्षे फट् जये ठठ ।

साध्याख्यान्तरितं मन्त्रमिमं तु परितो लिखेत् ।
पुनर्वृत्तं च षट्कोणे लिखेत् कोणेषु चानलम् ॥ ३५-१२१ ॥

कोणाग्रेषु महाकालं क्रोधं सन्धिषु बिन्दुमत् ।
पृथिवीमण्डलं बाह्ये चक्रमेतत् तु संलिखेत् ॥ ३५-१२२ ॥

भूतप्रेतपिशाचादीन् धारणादेव नाशयेत् ।
शतावरीरजः प्रस्थं प्रस्थं गोक्षुरकस्य च ॥ ३५-१२३ ॥

वाराह्या विंशतिफलं गुलूच्याः पञ्चविंशतिः ।
भल्लातकानां द्वात्रिंशच्चित्रके तु दशैव तु ॥ ३५-१२४ ॥

पलानि चूर्णयित्वा तु प्रस्थं कृष्णतिलं तथा ।
पुराणशर्करायाश्च पलानां सप्ततिं क्षिपेत् ॥ ३५-१२५ ॥

पञ्चत्रिंशत्पलं क्षौद्रं तदर्धं गोघृतं स्मृतम् ।
एकीकृत्य तु तत्सर्वं स्निग्धभाण्डे विनिक्षिपेत् ॥ ३५-१२६ ॥

सप्तरात्रार्पितं प्रातर्नित्यमर्धपलं क्रमात् ।
अद्यान्नृसिंहमन्त्रेण मन्त्रितं ब्रह्मचर्यवान् ॥ ३५-१२७ ॥

षण्मासात् पलितघ्नं स्याज्जरां मृत्युं जयेदपि ।
तथाष्टदश कुष्ठानि क्षयान् सप्तविधानपि ॥ ३५-१२८ ॥

अशीतिवातजान् रोगानेकविंशतिपैत्तिकान् ।
श्लैष्मिका विंशतिरुजः सन्निपातांश्च नाशयेत् ॥ ३५-१२९ ॥

सेवमानश्चिरं जीवेन्नारसिंहं रसायनम् ।

नारसिंहानुष्टुबधिकारः ।

तारं हृद्भगवच्छब्दश्चतुर्थ्यन्तो भवेत् ततः ॥ ३५-१३० ॥

दीर्घो मेषोऽनलः शुक्लः साक्षिदण्डस्ततो वियत् ।
दीर्घवायुस्ततश्चापि देवदानव इत्यपि ॥ ३५-१३१ ॥

भूगिटाशं प्रदीप्तसहस्रकोटिसहस्रसमतेजसे(?) वज्रनखदंष्ट्रायुधाय स्फुटविकीर्णकेसरसटाय, क्षुभितमहार्णवाम्भोदुन्दुभिस्वनघोषाय, सर्वमन्त्रान्तरनिर्घोषाय, सर्वमन्त्रान्तरहृदयाय, एह्येहि भगवन् ! नारसिंह ! पुरुष ! परावर ! ब्रह्म ! सत्येन स्फुर विजृम्भ दर दारय सर्वपातालान् भ्रम गर्ज मुञ्च सिंहनाद विद्रावय आविश ग्रस सर्वयन्त्ररूपाणि सर्वपातालान् ग्रथय सर्वतोऽनन्तज्वाल वज्रशतपञ्जरेण सप्त पातालान् परिवारय सर्वपातालान् सुरलोकवासिनीनामाकर्षय हृदयान्याकर्षय धुन शीघ्रं दह हन पच मथ शोषय निकृन्तय तावन्मेऽखिलकन्यकान्वशमागतान्

पातालेभ्यः आसुरिभ्यः फट् यन्त्ररूपेभ्यः फट् । सहासय मां रक्ष भगवन् ! नारसिंह! विष्णो! सर्वपापेभ्यः सर्वापद्भ्यः सर्वभयोपद्रवभयेभ्यश्च । ॐ ह्रीं क्षि फट् कास्तु ते हृ फट् ठ ठ । अस्याङ्गानि � नरसिंहक्रीडित सिंहविद्रावण सर्वयन्त्रान् हन भञ्जोच्चाटय हुं फट् ठठ हृदयम् । ॐ नरसिंहोत्तमाङ्गरक्षणाय हुं फट् ठठ शिरः । ॐ दंष्ट्रोत्कटाय हुं फट् ठठ शिखा । ॐ नरसिंहारिविद्रावण हुं फट् ठठ कवचम् । ॐ नमो भगवते नरसिंहाय वेदवेदनिवेदाङ्गे हुं फट् ठठ अस्त्रम् । ॐ फणासहस्रभोगकुटिलपर्यङ्कायानन्ताय ठठ । आगच्छ भगवन्! विष्णो! ठठ आवाहनमन्त्रः । ॐ नमः श्रीहिताय नमः पूजामन्त्रः । पूजितो यथासुखं नमः ।

चतुःशताक्षरो मन्त्रो नारसिंह इति श्रुतः ।
ऋषिर्यमोऽस्यातिच्छन्दो विष्णुरेवास्य दैवतम् ॥ ३५-१३२ ॥

पश्चिमाभिमुखं विष्णोरासाद्यायतनं शुचिः ।
जपेद् द्वादशसाहस्रं पुरश्चरणसिद्धये ॥ ३५-१३३ ॥

अङ्गमन्त्राणि विन्यस्य करयोरङ्गुलीष्वपि ।
देहे वाभ्यर्च्य नृहरिमष्टबाहुं त्रिलोचनम् ॥ ३५-१३४ ॥

स्तम्भान्निर्गत्य दितिजं भित्त्वा नखमुखासिभिः ।
तदान्त्रमालाविक्षेपरुधिरोक्षितविग्रहम् ॥ ३५-१३५ ॥

चक्रं खड्गं च मुसलं शङ्खं चर्म गदामपि ।
बिभ्राणं बाहुषट्कैश्च अधोहस्तद्वयेन तु ॥ ३५-१३६ ॥

हिरण्यकशिपुं भित्त्वा तदान्त्रोत्क्षेपभीषणम् ।
द्वारदेशे स्थितं रौद्रं जान्वोः क्षिप्त्वारिविग्रहम् ॥ ३५-१३७ ॥

गर्जन्तमतिगम्भीरमट्टहासभयानकम् ।
स्तूयमानं विरिञ्चाद्यैर्देवैर्मुनिगणैरपि ॥ ३५-१३८ ॥

ध्यात्वैवं चित्रपटके निरावरणमर्चयेत् ।
मनसा चोपचारैर्वा नित्यं मन्त्रं जपेदपि ॥ ३५-१३९ ॥

सिद्धमन्त्रो बिलं गत्वा जपेन्मन्त्रमथायुतम् ।
तत्र विघ्नान् बहुविधान् दृष्ट्वासौ निश्चलो जपेत् ॥ ३५-१४० ॥

प्रविश्य तु बिलं धीरः पाताले सिद्धिमाप्नुयात् ।
असमर्थो जपेन्मन्त्रं बिलद्वारे ततो बिलात् ॥ ३५-१४१ ॥

निर्गत्यासुरकन्याश्च प्रयच्छन्त्यस्य वाञ्छितम् ।
रसायनं रसं वार्थं घटिकामेष विन्दति ॥ ३५-१४२ ॥

सदेवासुरगन्धर्वयक्षरक्षोगणादयः ।
मन्त्रिणं नोपसर्पन्ति प्रयच्छन्त्यपि वाञ्छितम् ॥ ३५-१४३ ॥

पातालनरसिंहाधिकारः ।

नृसिंहैकाक्षरो मन्त्रो ब्रह्मा श्वेताग्न्यनुग्रहः ।
दण्डी स्याज्जगतीच्छन्दो मुनिरत्रिश्च दैवतम् ॥ ३५-१४४ ॥

महाविष्णुस्तदङ्गानि स्वयं दीर्घस्वरैर्युतः ।
ज्वलदग्निशिखाजालत्रिशिखावेष्टितं हृदि ॥ ३५-१४५ ॥

न्यस्तं हृदि दहेत् पापमपि जन्मान्तरार्जितम् ।
प्रणवान्तरितं मन्त्रं जपेद् विप्रः सुयन्त्रितः ॥ ३५-१४६ ॥

नद्यां समुद्रगामिन्यां शिखरे पर्वतस्य च ।
जपेद् घृताशनो लक्षदशकं त्वथ वै क्रमात् ॥ ३५-१४७ ॥

भैक्षाहारः पङ्क्तिलक्षं पुरश्चरणसिद्धये ।
ध्यायेत् तुषारशैलाभं कुङ्कुमाभसटाच्छटम् ॥ ३५-१४८ ॥

बालचन्द्रार्धदंष्ट्राग्रं सिंहवक्त्रं त्रिलोचनम् ।
भ्रुकुटीकुटिलाभोगललाटमकुटोज्ज्वलम् ॥ ३५-१४९ ॥

चतुर्भुजं शङ्खचक्रगदाभयकरं विभुम् ।
सर्वाभरणचित्राङ्गं पीताम्बरविभूषितम् ॥ ३५-१५० ॥

हिरण्यवधसङ्क्रुद्धं दहन्तमिव दृष्टिभिः ।
स्वैक्यं ध्यात्वा नरहरिं मनसैव तमर्चयेत् ॥ ३५-१५१ ॥

पटे वा प्रीतमायां वा भक्त्या शक्तस्तु पूजयेत् ।
दशमात्रजपेनापि रोगापद्भ्यो विमुच्यते ॥ ३५-१५२ ॥

मन्त्रस्यास्य सकाशे तु मन्त्राः प्रतिहताः परे ।
भस्मसाद् यान्ति भूतानि पिशाचाद्या न संशयः ॥ ३५-१५३ ॥

पुरश्चर्यां विनाप्येष सिध्येद् भक्तस्य वै जपात् ।
विषरोगग्रहारिभ्यः पीडा सद्यो विनश्यति ॥ ३५-१५४ ॥

लक्षमात्रजपात् सर्वे शमनं यान्त्युपद्रवाः ।
अनुष्टुप्प्रोक्तमार्गेण विनियोगाश्च कीर्तिताः ॥ ३५-१५५ ॥

वाराहस्य तु ये प्रोक्ता विनियोगाः परत्र तु ।
त एवास्यापि नृहरेः कोपशान्त्यै च तं जपेत् ॥ ३५-१५६ ॥

तारं * हृद्भगवते मेषोन्तायपदं तथा ।

सहस्रशीर्षाय क्षीरोद्रार्णवशायिने शेषभोगपर्यङ्काय गरुडवाहनाय वासुदेवाय नमः । पीतवाससे वासुदेवाय सङ्क्रान्त प्रद्युम्नानिरुद्ध हयशिरोवराह नारसिंह वामन त्रिविक्रम रामराम कृष्ण वरप्रद नमोऽस्तु ते । असुरदैत्यदानवयक्षराक्षसभूतप्रेत-पिशाचकूश्माण्डापस्मारसिद्धयोगिनीडाकिनीरिटिघृणिब्रह्मराक्षस-विनायक पूतनारेवतीस्कन्दपुरोगानुग्रहानार्यग्रहनक्षत्रग्रहानेता-नन्यांश्च महाग्रहान् हन दह पच मथ प्रमथ गृह्ण आवेशय विध्वंसय वित्रासय विद्रावय सर्वायुध चक्रेण गदया वज्रेण शूलेन भस्मीकुरु सहस्रबाहो सर्वप्रहरणायुधों नमः । ॐ जय विजय अनन्तापराजिताप्रतिहत सहस्रनेत्र ज्वलप्रज्वल विश्वरूप मधुसूदन महापुरुष वैकुण्ठ नारायण गोविन्द पद्मनाभ हृषीकेश केशव दामोदर सर्वभूतवशङ्कर शङ्खचक्रगदाधर सर्वभूत नमोऽस्तु ते । सर्वनागप्रमर्दन सर्वासुरोत्सादन सर्वदेव महेश्वर सर्वग्रहनिवारण सर्वयन्त्रप्रभञ्जन सर्वमुद्राप्रभेदन सर्वज्वरविनाशन सर्वबन्धविमोक्षद सर्वकार्यार्थसाधन सर्वोपद्रवनाशन सर्वव्याधिविनाशन सर्वशत्रुविनाशन नाशन सर्वदुष्टनिवारण सर्वारिष्टप्रशमन सर्वदुःस्वप्ननाशन सर्वदेव नमोऽस्तु ते । सर्वभूतापकर्षण जनार्दन देवदेव नमोऽस्तु ते । तथा पद्मोद्भवसंहितायामस्याङ्गानि दर्शितानि �
भूतेश्वर जय जीवन् हुं फट् ठठ हृदयम् । तेजोमय जीवन् हुं फट् ठठ शिरः । अमृतोद्भवमकुटाय जय जीवन् हुं फट् ठठ शिखा । अमृते कृष्णरूपार्थं जीवन् हुं फट् ठठ कवचम् । दम्पते जीवन् हुं फट् ठठ अस्त्रम् । सर्वतेजसामुत्कृष्टतेजसे वौषट् नेत्रम् । दर्शनमन्त्रेण दिग्बन्धनम् ।

ऋषिस्तु वामदेवोऽस्य विराट्च्छन्दोऽस्य दैवतम् ॥ ३५-१५७ ॥

विष्णुर्द्वादशसाहस्रं पुरश्चर्याकृते जपेत् ।
तद्दशांशं तिलाज्याभ्यां हुत्वा सिद्धमनुर्भवेत् ॥ ३५-१५८ ॥

मन्त्रस्मरणमात्रेण सर्वे नश्यन्त्युपद्रवाः ।
ध्यात्वा नृसिंहं देवेशमनुष्टुप्प्रोक्तमार्गतः ॥ ३५-१५९ ॥

सम्पूज्य मन्त्रं तु जपेत् सर्वान् कामानवाप्नुयात् ।
युद्धे विजयमन्विच्छन् हुत्वा तेनायुतं घृतम् ॥ ३५-१६० ॥

कृतिवारं जपित्वामुं युद्धे विजयमाप्नुयात् ।
मन्त्रिणं मन्त्रसन्नद्धतनुं स्वैक्यं नृकेसरिम् ॥ ३५-१६१ ॥

भूतप्रेतपिशाचाद्या व्याघ्रसर्पादयस्तथा ।
शत्रुचोरादयश्चापि नोपसर्पन्ति तं भयात् ॥ ३५-१६२ ॥

जपित्वाष्टोत्तरशतं नाशयेत् तु मसूरिकाम् ।
स्वैक्यं ध्यायंस्तु नृहरिं पश्यन् घोरेण चक्षुषा ॥ ३५-१६३ ॥

जपित्वा दशसाहस्रमपस्मारं विनाशयेत् ।
तद्वन्महाज्वरं हन्याद् विंशत्या नेत्ररोगनुत् ॥ ३५-१६४ ॥

त्रिपञ्चकजपध्यायी विषाणि जगतीजपात् ।
लक्षेण कुष्ठं हरतिं यक्ष्माणं च विनाशयेत् ॥ ३५-१६५ ॥

नन्द्यावर्तैर्हविष्याशी साज्यैर्हुत्वाप्नुयात् सुतम् ।
दधिमध्वाज्यसिक्ताभिर्दूर्वाभिरपमृत्युजित् ॥ ३५-१६६ ॥

पौर्णमास्यादितोऽनेन त्रिवारं जपितं घृतम् ।
अपौर्णमास्यां प्राश्नीयान्महामेधास्य जायते ॥ ३५-१६७ ॥

चतुर्विंशतिवारं तु जपित्वा स्याद् वशीकरम् ।
आज्येनाष्टसहस्रं तु हुत्वा तन्नामसंयुतम् ॥ ३५-१६८ ॥

अथाकर्षणकामस्तु जुहुयाद् गौरसर्षपैः ।
तैलाक्ताक्षसमिद्भिस्तु कृष्णाष्टम्यादितो निशि ॥ ३५-१६९ ॥

कृष्णाष्टम्यन्तहोमेन शत्रुं मारयति ध्रुवम् ।

हुतैः पद्मायुतैर्लक्ष्मीं फलैर्बैल्वैश्च विन्दति ॥ ३५-१७० ॥

यां वा भुवं कामयते योगे वाराहसञ्ज्ञिते ।
तां तु प्रदक्षिणीकृत्य हुत्वा ज्योतिष्मतीघृतम् ॥ ३५-१७१ ॥

संवत्सरान्तं तां भूमिं लभते नात्र संशयः ।
कृष्णाष्टम्यां शुक्रवारे नागयोगस्तु मैत्रभे ॥ ३५-१७२ ॥

सार्पे मुहूर्ते सार्पर्क्षे करणे नागसञ्ज्ञिते ।
संयोगो नागयोगोऽयमथवा कारणर्क्षयोः ॥ ३५-१७३ ॥

पातालसाधनार्थाय दशलक्षं पयोघृतम् ।
हुत्वा पातालवासिभ्यः प्रभूतं लभते धनम् ॥ ३५-१७४ ॥

रसं रसायनं वार्थं घटिकां वा स विन्दति ।
छायायां वटवृक्षस्य हुत्वा ज्योतिष्मतीघृतम् ॥ ३५-१७५ ॥

अणिमादिगुणान् दिव्यानाप्नुयान्नात्र संशयः ।
आकाशगमनं वाञ्छन् तैलेनाङ्कोलजेन तु ॥ ३५-१७६ ॥

ज्योतिष्मत्याश्च लक्षाणां त्रीणि त्रीणि जुहोति च ।
त्रिरात्रोपोषितः पश्चाज्जपेन्मन्त्रं दिनत्रयम् ॥ ३५-१७७ ॥

रात्रौ समुद्रगामिन्यां कण्ठदघ्नोदके स्थितः ।
जपेत् पञ्चसहस्राणि ततस्तत्सलिलागतम् ॥ ३५-१७८ ॥

फलं वटस्य गृह्णीयान्निश्शङ्को भक्षयेत् तु तत् ।
आकाशगामी स भवेत् दीर्घायुर्नवयौवनः ॥ ३५-१७९ ॥

इत्थं नृसिंहमनवोऽथ यथाप्रधानान्
कल्पान् विचार्य बहुधा सुबहुप्रकारान् ।
सार्चाविधानविनियोगविशेषयुक्ताः
सन्दर्शिता नृहरिभक्तिमतां यथार्थम् ॥ ३५-१८० ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे मन्त्रपादे नृहरिमन्त्रपटलः पञ्चत्रिंशः ॥ ३५ ॥