अथ चतुस्त्रिंशः पटलः ।
आदावुत्तिष्ठशब्दः श्रीरसर्गा ब्रह्मशोणिते ।
ठद्वयं चैव तारादिः श्रीकरोऽष्टाक्षरो मनुः ॥ ३४-१ ॥
ऋष्याद्या वामदेवश्च पङ्क्तिर्विष्णुश्च जातिभिः ।
अङ्गानि स्युर्द्विरुक्तानि भीषय त्रासयेति च ॥ ३४-२ ॥
प्रमर्दयेति रक्षेति हुङ्कारश्च यथाक्रमम् ।
करदेहाङ्गविन्यासं सृष्टिस्थित्यन्तभेदतः ॥ ३४-३ ॥
अष्टाक्षरोक्तमार्गेण कुर्यादस्यापि मन्त्रवित् ।
क्षीराब्धौ हेमपुलिने दिव्योद्याने मनोरमे ॥ ३४-४ ॥
अधस्तात् कल्पकतरोर्हेमसिंहासनाम्बुजे ।
ध्यायेत् तार्क्ष्यसमारूढं तप्तहाटकसन्निभम् ॥ ३४-५ ॥
शङ्खचक्रगदाब्जानि धारयन्तं चतुर्भुजम् ।
दिव्यपीताम्बरधरं विचित्रमकुटोज्ज्वलम् ॥ ३४-६ ॥
विचित्रहारकेयूरनक्रकुण्डलमण्डितम् ।
नानारत्नप्रभोद्भासिकटकाङ्गुलिवेष्टनम् ॥ ३४-७ ॥
श्रीवत्सकौस्तुभोरस्कं वनमालाविराजितम् ।
सर्वाङ्गसुन्दरं देवं ध्यात्वा सम्पूजयेद्धरिम् ॥ ३४-८ ॥
अङ्गानि केसराग्रेषु दिक्पत्रेषु श्रियं रतिम् ।
धृतिं कान्तिं यजेच्छक्तिं मूर्तीः कोणदलेष्वपि ॥ ३४-९ ॥
वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धानिति यावत् ।
विष्वक्सेनं स्वदिक्संस्थं लोकेशान् स्वदिशास्वपि ।
अस्त्राणि बाह्यावरणे सम्पूज्यैवं यथाविधि ॥ ३४-१० ॥
ततः कुण्डे तु वेदाश्रे वैष्णवेऽग्नौ जुहोतु च ।
बिल्वक्षीरागसम्भूताः समिधश्चाम्बुजैरपि ॥ ३४-११ ॥
सर्पिषा पायसेनापि सहस्रं पृथगष्टभिः ।
जुहुयाच्च हिरण्याद्यैर्गुरुं सम्पूज्य शक्तितः ॥ ३४-१२ ॥
ततः सिद्धोऽस्य मन्त्रोऽयमिष्टान् कामान् प्रयच्छति ।
आज्याक्ताभिस्तु दूर्वाभिर्मृत्युरोगान्निवर्तयेत् ॥ ३४-१३ ॥
भोजयेच्च द्विजाञ् शक्त्या दीर्घं चायुरवाप्नुयात् ।
आदित्याभिमुखास्तिष्टञ् जपेदुद्बाहुरम्भसि ॥ ३४-१४ ॥
सहस्रं च जपेदष्टौ महतीं श्रियमाप्नुयात् ।
अष्टाक्षरोक्तमखिलं विनियोगजातमस्यापि विष्णुहृदयस्य समानमुक्तम् ।
तत्तत्तथैव जपहोमविशेषयुक्त्या संसाधनीयमिति तच्च समस्तमूह्यम् ॥ ३४-१५ ॥
विष्णुहृदयाधिकारः ।
स्मरबीजं चतुर्थ्यन्तं कृष्णो गोपीपदं ततः ।
जनशब्दोऽम्बुभूस्थाभूर्दीर्घो नाभिस्ततो मरुत् ॥ ३४-१६ ॥
अग्निपत्नी च मन्वर्णो मन्त्रो गोपालकः स्मृतः ।
आद्यं बीजं तु तच्छक्तिर्वामाक्षो नारदो मुनिः ॥ ३४-१७ ॥
विराटच्छन्दस्तथा कृष्णो देवता बालविग्रहः ।
छन्दो गायत्त्रमित्यन्ये लिख्यन्तेऽङ्गान्यनुक्रमात् ॥ ३४-१८ ॥
आचक्राय विचक्राय सुचक्राय च जातिभिः ।
त्रैलोक्यरक्षणायेति चतुर्थ्या त्वसुरान्तकः ॥ ३४-१९ ॥
हीनमाद्यैश्चतुर्वर्णैः केचिद् गोपमनुं जगुः ।
तस्यापि तुल्यमृष्याद्यमङ्गाद्यं चैव साधनम् ॥ ३४-२० ॥
सिद्धसाध्यादिघटनं नक्षत्रघटनापि वा ।
नावेक्ष्या त्वस्य मन्त्रस्य सर्वेषां सिद्धिदो ह्ययम् ॥ ३४-२१ ॥
स्त्रीशूद्राणामपि ह्येष भक्तानामिष्टसिद्धिदः ।
अस्त्रसंशुद्धकरयोः कनिष्ठाद्यङ्गुलीष्वपि ॥ ३४-२२ ॥
तलयोश्चैव सर्वत्र मन्त्रार्णान् सृष्टये न्यसेत् ।
तद्विलोमेन संहारे स्थितये मध्यमादिकम् ॥ ३४-२३ ॥
अङ्गानि च कनिष्ठाद्यं ज्येष्ठाद्यं मध्यमादिकम् ।
करयोर्विन्यसेत् तुल्यं सृष्ट्यन्तस्थितिषु क्रमात् ॥ ३४-२४ ॥
मूर्ध्नि बिन्दौ दृशोर्घ्राणे श्रोत्रयोर्वदने गले ।
हृदि नाभौ स्मरे जान्वोर्जङ्घयोरपि पादयोः ॥ ३४-२५ ॥
देहे चतुर्दशार्णांस्तु विन्यसेत् सृष्टये क्रमात् ।
हृदयाद्यं स्थितिन्यासे पादाद्यं संहृतौ स्मृतम् ॥ ३४-२६ ॥
अङ्गानि हृदयाद्यानि स्वेषु स्थानेषु विन्यसेत् ।
कृत्वा तु करयोर्न्यासं शरीरे व्यापकं तथा ॥ ३४-२७ ॥
देहन्यासं च पञ्चाङ्गं न्यासं कुर्याद् यथोदितम् ।
गुरूपदेशतो मन्त्रं लब्ध्वा तत्तोषकारकः ॥ ३४-२८ ॥
ध्यात्वा देवं यथाकालं पुरश्चर्यां समाचरेत् ।
भूभृन्नदीबिल्वमूलह्रदगोष्ठसुरालयाः ॥ ३४-२९ ॥
बोधिच्छायासमुद्रास्ते तद्वत् स्थानानि साधने ।
व्रत्याशनः संयतात्मा स्नाने त्रैषवणे रतः ॥ ३४-३० ॥
प्रत्येकमेषु स्थानेषु स्वार्णसाहस्रकं जपेत् ।
जपाद् दशांशं जुहुयात् पद्माज्यतिलपायसैः ॥ ३४-३१ ॥
स्वर्णादौ पूजयेद् देवं कृष्णं विभवसारतः ।
भोजयेद् ब्राह्मणान् शक्त्या कृतपूर्वव्रतो भवेत् ॥ ३४-३२ ॥
ध्यानं च �
बालं प्रत्यग्रनीलोत्पलदलजलदश्यामलं कोमलाङ्गं
व्याकोशाम्भोजनेत्रं कनकमणिलसद्भूषणं पीतवस्त्रम् ।
बर्हापीडं विचित्रोज्ज्वलमकरलसत्कुण्डलं चारुवक्त्रं
कृष्णं दोर्भिश्चतुर्भिर्धृतजलजगदापद्मचक्रं स्मरामि ॥ ३४-३३ ॥
वन्यैर्नानाप्रसूनैर्विरचितरुचिमच्चित्रमौलिं विचित्रै-
र्बर्हामिश्रैः कदम्बैर्व्यतिकरितलसत्केसरोद्दामदाम्ना ।
कण्ठान्तालम्बिनोच्चैः परिगतवपुषं वेणुगानानुषक्तं
गोगोपीगोपबृन्दैः परिगतमपि वा चिन्तयेत् पीतवस्त्रम् ॥ ३४-३४ ॥
श्रीवत्सोद्भासिवक्षःस्थलगतविलसत्कौस्तुभोद्भासिलक्ष्मी-
व्यामिश्रालोलहारं मधुकरनिकरानीलकेशालकान्तम् ।
ध्यायेत् पूर्णेन्दुबिम्बामलमुखकमलं फुल्लपद्मायताक्षं
देवं गोपालवेषं दिवि सुरमुनिभिर्वन्द्यमानं मुकुन्दम् ॥ ३४-३५ ॥
सामान्यसाधनाधिकारः ।
अथ त्रिकालं कृष्णस्य यथा ध्यानं निगद्यते ।
गवां सन्दोहनकृते वत्ससन्दोहमध्यगम् ॥ ३४-३६ ॥
वेणुगानविनोदेन रममाणं विलासिनम् ॥ ३४-३७ ॥
लेलिह्यमानं गोवत्सैर्गोपकन्याभिरावृतम् ।
ससुरासुरगन्धर्वमुनिविद्याधरादिभिः ॥ ३४-३८ ॥
बृन्दशो दिवि देवेशं वन्द्यमानं स्मरन् यजेत् ।
चम्पकोत्पलपद्माद्यैर्वन्यैरन्यैः सुगन्धिभिः ॥ ३४-३९ ॥
कुसुमैर्गन्धधूपाद्यैर्यथावदभिपूजयेत् ।
प्रातर्हिरण्यपात्रेषु दधि मूलं गुलं मधु ॥ ३४-४० ॥
रसवन्नवनीतं च ताम्बूलं च निवेदयेत् ।
मध्याह्ने रत्नशैलेन्द्रशिखरेऽतिमनोरमे ॥ ३४-४१ ॥
दिव्योद्याने कल्पवृक्षच्छायायां रत्नमण्डपे ।
रत्नसिंहासनाम्भोजकर्णिकायां चतुर्भुजम् ॥ ३४-४२ ॥
यथोक्तरूपालङ्कारं कृष्णं ध्यायीत साधकः ।
संवृतं गोपकन्याभिर्दिव्यरूपाभिरच्युतम् ॥ ३४-४३ ॥
नारदाद्यैर्मुनिगणैः सेव्यमानं सुरैरपि ।
उद्यानवृक्षच्छायासु चरित्वा यवसोदकम् ॥ ३४-४४ ॥
सुतृप्ताभिस्तथा गोभिर्विश्रुताभिरवेक्षितम् ।
ध्यात्वैवं विधिनावाह्य वक्ष्यमाणविधानतः ॥ ३४-४५ ॥
सुगन्धिवन्यकुसुमैश्चम्पकोत्फुल्लकुब्जकैः ।
सम्पूज्य हेमपात्रेषु निवेद्य घृतपायसैः ॥ ३४-४६ ॥
दत्त्वा गोभ्यस्तथा ग्रासान् क्षमस्वेति प्रवा(ह?स)येत् ।
सायं बृन्दावने देवं रासमण्डलमध्यगम् ॥ ३४-४७ ॥
अलङ्कृताभिरत्यर्थं गोपकन्याभिरावृतम् ।
क्रीडन्तं नृत्तगीताद्यैर्विनोदैर्विविधैर्विभुम् ॥ ३४-४८ ॥
मल्लिकाजातिकुसुमैरिष्ट्वा तु घृतपायसम् ।
निवेद्य च शृतं क्षीरं दत्त्वा हस्तावसेचनम् ॥ ३४-४९ ॥
मुखवासं तु ताम्बूलं विनिवेद्य प्रवा(ह?स)येत् ।
त्रिषवणध्यानाधिकारः ।
अथ सामान्ययजनं कृष्णस्येह निगद्यते ॥ ३४-५० ॥
स्वाङ्गमूलैर्विधिस्नातो गत्वा यागालयान्तिकम् ।
नामभिर्द्वारपालांश्च प्रागादिषु यजेत् क्रमात् ॥ ३४-५१ ॥
धातारं च विधातारं गङ्गां च यमुनामपि ।
शङ्खपद्मनिधी तद्वद् द्वारशाखाग्रयोरपि ॥ ३४-५२ ॥
मध्ययोर्मूलयोरिष्ट्वा तन्मध्ये च सुदर्शनम् ।
ऊर्ध्वोदुम्बरमध्ये तु नाम्ना द्वारश्रियं यजेत् ॥ ३४-५३ ॥
भद्रं सुभद्रं याम्ये तु द्वारे द्वारश्रियं तथा ।
चण्डं प्रचण्डं लक्ष्मीं च पश्चिमे विजयां जयाम् ॥ ३४-५४ ॥
लक्ष्मीं च प्रयजेद् द्वारे तारकाधीशदिग्गते ।
अस्त्राभिमन्त्रितं पुष्पं प्रक्षिप्यान्तः प्रविश्य तु ॥ ३४-५५ ॥
तदस्त्रकुसुमं न्यस्य देहल्यां वास्तुपद्मजे ।
स्वासनं च समाराध्य शस्त्रवप्रं समन्ततः ॥ ३४-५६ ॥
सङ्कल्प्य वर्मणा गेहमवकुण्ठ्य निजासने ।
आसीनोऽथ विशुद्धात्मा शोषणाद्यैर्यथाक्रमम् ॥ ३४-५७ ॥
विन्यस्य सकलीकृत्य कृष्णरूपी स्वयं जपन् ।
चिज्ज्योतिषि हृदम्भोजे स्वकीये कृष्णमव्ययम् ॥ ३४-५८ ॥
आसनादिक्रमादिष्ट्वा मानसैरुपचारकैः ।
मूलाङ्गैरर्घ्यमापूर्य तज्जलोक्षितमस्तकः ॥ ३४-५९ ॥
आश्रयं द्रव्यचक्रं च तैः संशोध्यार्घ्यबिन्दुभिः ।
आत्मानमिष्ट्वा गन्धाद्यैः प्रवरैः कृष्णरूपिणम् ॥ ३४-६० ॥
कृतोर्ध्वपुण्ड्रः कुसुमदूर्वालङ्कृतशेखरः ।
दक्षिणे विघ्नराजानमैशान्यां प्रयजेद् गुरुम् ॥ ३४-६१ ॥
पृथिव्यादिमयं पीठं सङ्कल्प्याभ्यर्चयेदपि ।
आधारशक्तिं गन्धाद्यैरनन्तं च स्वनामतः ॥ ३४-६२ ॥
धर्मादीनप्यधर्मादीन् प्रकाशात्मानमेव च ।
प्रवृत्तिरूपं मोहं च कालतत्त्वं च विद्यया ॥ ३४-६३ ॥
मायातत्त्वं च सम्पूज्य सूर्यसोमाग्निमण्डलैः ।
प्रागादिकेसराग्रेषु शक्तीरपि समर्चयेत् ॥ ३४-६४ ॥
विमलोत्कर्षिणी ज्ञाना क्रिया योगा च सत्यया ।
प्रह्वीशानुग्रहा चैव पूज्यास्तु नव शक्तयः ॥ ३४-६५ ॥
हेमादिप्रतिमायां वा पटे वा लक्षणान्विते ।
आवाह्याष्टाक्षरोक्तेन विधानेन यजेद्धरिम् ॥ ३४-६६ ॥
अङ्गानि केसराग्रेषु कोणेष्वस्त्रं च पूजयेत् ।
रुक्मिणीं सत्यभामां च लक्ष्मीं नाग्नजितीमपि ॥ ३४-६७ ॥
सुनन्दां मित्रविन्दां च देवीं जाम्बवतीमपि ।
सुशीलां चैव पूर्वादिदलाग्रेषु क्रमाद् यजेत् ॥ ३४-६८ ॥
पीठाद् बाह्ये मण्डपान्तः शङ्खादीन् द्वन्द्वशोऽर्चयेत् ।
चतुर्द्वारप्रदेशेषु क्रमाद् दक्षिणवामयोः ॥ ३४-६९ ॥
शङ्खं चक्रं गदां शार्ङ्गं मुसलं नन्दकं तथा ।
पाशाङ्कुशौ च मध्ये प्राक् श्रीवत्सं कौस्तुभं यजेत् ॥ ३४-७० ॥
अथ मण्डलबाह्ये तु वह्निकोणादिदेवताः ।
सरस्वतीं गणेशं च दुर्गां क्षेत्रपतिं क्रमात् ॥ ३४-७१ ॥
प्रागादि नारदं कूर्मं पूर्वसिद्धान् गुरून् यजेत् ।
तेषां बाह्ये तु लोकेशान् तदस्त्राणि च तद्बहिः ॥ ३४-७२ ॥
सम्पूज्य गन्धैः पुष्पाद्यैस्ततो देवं प्रवासयेत् ।
एवं प्रतिदिनं पूज्य त्रिकालं विभवे सति ॥ ३४-७३ ॥
एवं साधितमन्त्रस्य सर्वकामा भवन्ति हि ।
विप्रादीन् वशयेद्धुत्वा वन्यपुष्पैश्च जातिभिः ॥ ३४-७४ ॥
रक्तपुष्पैस्तथा नीलैरुत्पलैः सर्व एव हि ।
सतण्डुलैस्तिलैः पुष्पैर्हुर्त्वा तद्भस्मधारणात् ॥ ३४-७५ ॥
योषितो वशयेदाज्यक्षीरमध्वभिधारितैः ।
कदम्बपुष्पैर्जुहुयाद् ध्यात्वा गोपालविग्रहम् ॥ ३४-७६ ॥
कदम्बमूले गायन्तं सर्ववश्यकरं तु तत् ।
अन्नाद्यकामः श्रीपुष्पैः सिततण्डुलमिश्रितैः ॥ ३४-७७ ॥
जुहोति चाप्यपामार्गैः सर्वलोकवशीकरम् ।
धनार्थी सितपद्माद्यैर्वस्त्रं तद्वर्णपुष्पकैः ॥ ३४-७८ ॥
बादरीभिः समिद्भिस्तु साज्याभिः कन्यकाप्तये ।
मध्वक्तलवणैर्हुत्वा सर्वेषां स्याद् वशीकरम् ॥ ३४-७९ ॥
गोसिद्धिर्गोरसैर्हुत्वा पद्मैरन्नाद्यसम्पदः ।
दध्याज्यखादिरहुताद् व्यसनेभ्यो विमुच्यते ॥ ३४-८० ॥
पुत्रार्थमश्वत्थतरोर्मूले कृष्णं स्मरन् यजेत् ।
गुरुत्रुपदं लक्षं जपेत् तस्माद् दशांशतः ॥ ३४-८१ ॥
वृतं तु जुहुयाद् भूत्यै नवनीतं जुहोतु च ।
प्रातः कुजदिने स्नातः श्रीभूमिसहितं हरिम् ॥ ३४-८२ ॥
इष्ट्वायुतं जपित्वा तत् क्षेत्रं गत्वा तु तन्मृदम् ।
सप्ताभिमन्त्रितां प्राश्य तत्क्षेत्रं सप्तभिर्लभेत् ॥ ३४-८३ ॥
पारिजातहरं कृष्णं ध्यात्वेष्ट्वा करवीरजैः ।
संसिद्धैर्जुहुयादाज्यैर्जयतीन्द्र इव द्विषः ॥ ३४-८४ ॥
शङ्खादिनिधिसंयुक्तं द्वारकावासिनं हरिम् ।
ध्यात्वेष्ट्वा तण्डुलान् हुत्वा प्रतिष्ठां लभतेऽचिरात् ॥ ३४-८५ ॥
पार्थाय गीतावक्तारं कृष्णं ध्यात्वाम्बुजैर्यजन् ।
धर्मं च मोक्षं प्राप्नोति दूर्वाहोमाच्चिरायुषम् ॥ ३४-८६ ॥
आहर्तारं तु रुक्मिण्या ध्यात्वेष्ट्वा लाजगोघृतम् ।
जुहुयाच्च जपेदिष्टां कन्यां योषाश्च विन्दति ॥ ३४-८७ ॥
पिबन्तं पूतनास्तन्यं स्वैक्यं ध्यात्वावलोकनात् ।
सर्वे ग्रहा विनश्यन्ति विषं कालीयमर्दनम् ॥ ३४-८८ ॥
बृन्दावनगतं ध्यायन् वृष्टिकामस्तु वेतसैः ।
हुत्वा तु लभते वृष्टिं सप्तरात्रान्न संशयः ॥ ३४-८९ ॥
व्याधीञ् जयेच्चापमृत्युं छिन्नाज्यतिलहोमतः ।
साज्यपायसहोमेन सर्वान् कामानवाप्नुयात् ॥ ३४-९० ॥
राज्ञः पुरोहितत्वार्थी शुक्लपुष्पैर्मधुप्लुतैः ।
हुत्वा तु लभते लक्षमन्यद् वा न चिराद् द्विजः ॥ ३४-९१ ॥
इति निगदितमेतत् कृष्णमन्त्रस्य सम्यङ्
मुनिजनपरिदृष्टान् वीक्ष्य कल्पान् विधानम् ।
यजनजपहुताद्यैर्भक्तिमान् नित्यशोऽमुं
भजति यदि यदिष्टं प्राप्नुयाद् येन मन्त्री ॥ ३४-९२ ॥
इति शीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे मन्त्रपादे श्रीकराष्टाक्षरगोपालो नाम चतुस्त्रिंशः पटलः ॥ ३४ ॥