अथ त्रयस्त्रिंशः पटलः ।
हृन्मेषरक्ते मुखवृत्तयुक्ते पाली सदीर्घं चरणावसानम् ।
त्वक् चाष्टवर्णौ मनुरस्य बीजं रायान्तरक्षं सबिन्दु ॥ ३३-१ ॥
तत्सप्तमानन्तमयी तु शक्तिराद्यन्तगोऽस्य प्रणवः प्लुतोऽर्चः ।
जप्यो मनुः सप्रणवो द्विजैः स्यात् स्त्रीशूद्रयोरप्रणवः स चोक्तः ॥ ३३-२ ॥
च शब्देन सवर्णाम्बष्ठपार्श्वप्रभृतीनामपि ।
अन्तः पदान्ते मुनिरस्य यामी देव्यादिगायत्रमथास्य दैवम् ।
छन्दो हि विष्णुः परमात्मनामा स्यात् पूर्वसेवा तु कृतेऽष्टलक्षम् ॥ ३३-३ ॥
त्रेतादिषूक्तद्विगुणादिसङ्ख्यं प्रत्यर्णमृष्यादिकमुच्यतेऽस्य ।
गौतमश्च भरद्वाजो विश्वामित्रस्ततः परम् ।
जगदग्निर्वसिष्ठश्च काश्यपोऽत्रिरिहाष्टमः ॥ ३३-४ ॥
अगस्त्यश्च क्रमादेते वर्णानां समुदीरिताः ।
गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च ॥ ३३-५ ॥
त्रिष्टुब्जगत्यौ च विराट् च्छन्दांस्यष्टौ यथाक्रमम् ।
धरो ध्रुवस्तथा सोम आपोऽग्निर्वायुरेव च ॥ ३३-६ ॥
प्रत्यूषश्च प्रभासश्च वर्णानां देवताः स्मृताः ।
सप्त भूरादयो लोका विष्णुलोकस्तथाष्टमः ॥ ३३-७ ॥
लोकाः स्युरष्टौ वर्णानां वर्णान्यपि वदाम्यहम् ।
शुक्लं स्वर्णनिभं कृष्णं संरक्तं कुङ्कुमप्रभम् ॥ ३३-८ ॥
पद्मकिञ्जल्कनीलाभे सर्ववर्णमिहाष्टमम् ।
गन्धादिपञ्चतन्मात्रा मनो बुद्धिरहङ्कृतिः ॥ ३३-९ ॥
अष्टाक्षराणां तत्त्वानि कथितानि यथाक्रमम् ।
षष्ठाद्ययोरुदात्तत्वात् स्वरितोऽन्त्यद्वितीययोः ॥ ३३-१० ॥
प्रयस्त्रिचतुर्थाभ्यां निभृतः पञ्चमाक्षरः ।
क्रुद्धो महावीरपदे द्युशब्दः सहस्र इत्युक्तपदेन युक्ताः ॥ ३३-११ ॥
स्वैर्जातिभिस्तानि यथा चतुर्थ्या पञ्चैवमङ्गानि भवन्ति युक्तया ।
दुर्गागणेशौ गुरुवैनतेयौ वह्न्यादिकोणेषु भवन्ति देवाः ॥ ३३-१२ ॥
शक्रादिषु क्षेत्रपतिः स्वनाम्ना दिग्बन्धने छोटिकया विधेयाः ।
न्यासः पुरस्तात् करयोश्च देहे पञ्चाङ्गविन्यासविधिश्च तेषाम् ॥ ३३-१३ ॥
सृष्टिः स्थितिः संहरणं च भेदाः स्युर्ब्रह्मचारिप्रभृतित्रयाणाम् ।
अस्त्रेण संशोध्य करौ स्ववर्णांस्तर्जादिकं दक्षिणतोऽथ वामे ॥ ३३-१४ ॥
न्यस्येत् तु तर्जन्तमथाङ्गमन्त्रान् ज्येष्ठादिकं वामकरे तदन्तम् ।
वर्णाङ्गमन्त्रोभयतस्तु तारः स्यान्मध्यपर्वस्विह वर्णमन्त्रान् ॥ ३३-१५ ॥
आद्यन्तपर्वस्वपि तारमेव न्यस्येत् समताङ्गुलिषु क्रमेण ।
उक्तक्रमात् संहृतये विलोमव्यासः स्मृतोऽथ स्थितये तु पाण्योः ॥ ३३-१६ ॥
तर्जादिकं चापि कनिष्ठिकान्तं ज्येष्ठाद्यमङ्गेषु कनिष्ठिकान्तम् ।
काक्ष्यास्यहृन्नाभिकटिप्रदेशा जान्वङ्घ्रयश्चापि भवन्ति सृष्टौ ॥ ३३-१७ ॥
विलोमतः संहृतये स्थितौ च न्यस्येत् तु नाभेर्हृदयान्तमर्णान् ।
करन्यासेऽङ्गुष्ठाभ्यामङ्गुलिषु तर्जाग्राम्यामङ्गुष्ठयोर्न्यसेत् ।
स्यान्मध्यया मध्यमतर्जनीभ्यां साङ्गुष्ठयानामिकया च तर्जा ॥ ३३-१८ ॥
ज्येष्ठान्विता ज्येष्ठिकया कनिष्ठा निर्ज्येष्ठकाभिः सकलाङ्गुलीभिः ।
देहन्यासं कुर्यात् ।
इत्थं सदा न्यस्ततनुं विशुद्धं नरं तु नारायणमूर्तिभाजम् ॥ ३३-१९ ॥
विषाभिचारारिरुजो ग्रहाद्या व्रजन्ति दूरेण विहाय भीताः ।
विन्यस्तमन्त्रोऽप्यशुचिर्यदा यद् धौताङ्घ्रिराचम्य पुनश्च मन्त्री ॥ ३३-२० ॥
स्नात्वाथवा न्यस्ततनुर्यथावत् पुनर्जपाद्यं विदधीत कृत्यम् ।
अष्टाक्षरं पञ्चकपञ्चसङ्ख्यं संयम्य वायुं मनसा जपित्वा ॥ ३३-२१ ॥
प्राणस्य सम्यङ्नियमोऽयमुक्तस्तांस्त्रीञ्जपादौ तनुतां तथान्ते ।
शुश्रूषया वा महता धनेन प्राज्ञं गुरुं तद्विदमर्चयित्वा ॥ ३३-२२ ॥
तत्तोषकृन्मन्त्रमवाप्य तस्मात् तद्दक्षिणां स्वानुगुणां च दत्त्वा ।
कुर्वन् स्ववर्णाश्रमकर्म सर्वं पूजां च भक्त्या हरये यथोक्ताम् ॥ ३३-२३ ॥
व्रत्याशनः शस्तयथोक्तदेशे संसाधयेन्मन्त्रमिमं यथावत् ।
नारदीये-
मनःसंहरणं शौचं मौनं मन्त्रार्थचिन्तनम् ॥ ३३-२४ ॥
अव्यग्रत्वमनिर्वेदो जपसम्पत्तिहेतवः ।
गृञ्जनं चारनालं च शार्ङ्गाष्टा कांस्यभोजनम् ॥ ३३-२५ ॥
मन्त्रवीर्यतपोघ्नानि तस्मात् तानि विवर्जयेत् ।
करञ्जीं न भजेच्छायां नाद्यात् तत्पादुके स्पृशेत् ॥ ३३-२६ ॥
न वस्त्रान्तरमाच्छाद्य कदाचिज्जलमुत्तरेत् ।
यातयामं गतरसं पूतिपर्युषितादिकम् ॥ ३३-२७ ॥
नाश्नातु न दिवास्वप्नं न सेवेत परस्त्रियः ।
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ॥ ३३-२८ ॥
सन्तोषशौचस्वाध्यायतपांसीश्वरभावना ।
एतान् यमान् सनियमान् कुर्वन् मन्त्रांश्च साधयेत् ॥ ३३-२९ ॥
करञ्जं च पलण्डुं च मत्स्यमासौ मधूनि च ।
छत्राकं जालपादानि नालीशाकालुकानि च ॥ ३३-३० ॥
अलाबुतैलसिद्धं च तैलसिक्थं न भक्षयेत् ।
अक्षारलवणाशी स्यात् पुरश्चरणसिद्धये ॥ ३३-३१ ॥
श्रेयस्विनां गुरूणां च सन्निधौ सत्यनुज्ञया ।
जपपूजादिकं कुर्यादन्यथा दोषकारकम् ॥ ३३-३२ ॥
इति ।
मार्गादिशीर्षस्य तु पूर्वपक्षे तिस्रो नवम्याद्यमुपोष्य विष्णुम् ॥ ३३-३३ ॥
सम्पूज्य चैकादशिकानिशायां प्रातश्च कुर्यादथ पूर्वसेवाम् ।
मन्त्राक्षराणां तु चतुर्गुणानि लक्षाणि जप्यानि ततो दशांशम् ॥ ३३-३४ ॥
साज्यैस्तिलैर्वा कमलैर्जुहोतु कुर्यात् स्वशक्त्या द्विजभोजनं च ।
लक्षद्वयान्मन्त्रवरोऽस्य शुध्येत् पक्षैश्चतुर्भिश्च तथात्मशुद्धिः ॥ ३३-३५ ॥
षड्भिस्तु लक्षैः पितृमातृशुद्धिः स्यादष्टलक्षैरपि मन्त्रसिद्धिः ।
जपाद् दशांशं जुहुयात् तिलाज्यक्षीरान्नपालाशसमिद्भिरग्नौ ॥ ३३-३६ ॥
होमे त्वशक्तो द्विगुणं जपेन स्यात् सिद्धमन्त्रो द्विजभोजनैश्च ।
संसाधयेन्मन्त्रमिमं तु नित्यं सम्पूजयेत् तं विभवानुसारम् ॥ ३३-३७ ॥
स्नात्वा तु सान्ध्यं च समाप्य कृत्यं यागालयं प्राप्य कृताङ्घ्रिशौचः ।
आचम्य पूर्णार्घ्यकरः स्वमन्त्रैर्द्वाःस्थान् यजेदक्षतपुष्पगन्धैः ॥ ३३-३८ ॥
चण्डं प्रचण्डं गरुडं च नाम्ना चक्रं तथैवोभयपार्श्वसंस्थान् ।
भूमावधोर्ध्वं च यजेत् तदूर्ध्वे द्वारश्रियं मध्यगतां यथावत् ॥ ३३-३९ ॥
क्षिप्त्वान्तरस्त्रेण तु पुष्पामन्तः प्रविश्य यागालयबाह्यतोऽस्त्रात् ।
प्राकारमुद्भाव्य तथा निविष्टो निजासने वाग्यमवान् यथावत् ॥ ३३-४० ॥
प्रागुक्तमार्गेण तु शोषणाद्यैः शुद्धात्मदेहो हृदयाम्बुजस्थम् ।
ध्यात्वा परं ज्योतिरथास्य मध्ये नारायणं तत्र यजेद्धियैव ॥ ३३-४१ ॥
न्यासांस्तु कृत्वा सकलीकृतात्मा कृत्वोर्ध्वपुण्ड्रं सितचन्दनाद्यैः ।
फालादिगात्रेषु च केशवाद्यैः पुष्पाक्षतारूढशिरो धृतार्घ्यः ॥ ३३-४२ ॥
फालादिष्विति-
फालोदरोरोगलपार्श्वबाहाकण्ठेषु वामोदरपार्श्वबाह्वोः ।
तदूर्ध्वकण्ठे त्वथ पृष्ठदेशे पश्चाद् गले च क्रमशो नमोन्तम् ॥ ३३-४३ ॥
केशवाद्यैरिति, केशव- नारायण- माधव- गोविन्द- विष्णु- मधुसूदन- त्रिविक्रम- वामन- श्रीधर- हृषीकेश- पद्मनाभ- दामोदराख्याभिः । धृतार्घ्य इति, अर्घ्यं च यथा नारदीये-
सिद्धार्थमक्षतं चैव कुशाग्राणि तिला जलम् ।
यवं गन्धं फलं पुष्पमर्घ्यमष्टाङ्गमीरितम् ॥ ३३-४४ ॥
पाद्यं च दूर्वाम्बुजविष्णुपत्नीश्यामाकतोयैः परिपूर्य चेष्ट्वा ।
तक्कोलजातीफलसल्लवङ्कैरेलाम्बुभिश्चाचमनीयकं स्यात् ॥ ३३-४५ ॥
सम्मार्जनीयं च निशाशिरीषावादित्यवर्तिन्यपि सर्वभद्रा ।
दर्भास्तथाम्भांसि च कुङ्कुमं च मूलाभिलब्धं स्नपने नियोज्यम् ॥ ३३-४६ ॥
अस्त्रेण धौतेषु समूलतोयैः पूर्णेषु पात्रेषु सहाङ्गमूलम् ।
न्यसेत् सगन्धाक्षतपुष्पधूपैरर्घ्यादिकानि क्रमशोऽर्चयीत ॥ ३३-४७ ॥
उशीरं कुङ्कुमं मांसी मुरं मूलं च चन्दनम् ।
कुष्ठं कृष्णागरुश्चेति गन्धोऽष्टाङ्गो हरिप्रियः ॥ ३३-४८ ॥
सर्वमस्त्ररक्षितं कवचावकुण्ठितं च । तत्रार्घ्यं (दक्षिणकरे) पादयोः पाद्यं पृथक् पृथगाचमनीयं च मुखे सम्मार्जनीयं विशिष्टस्नपने योजयम् ।
आपूर्य तोयैः शुचिभिस्तु पूतैर्वस्त्रेण लौहीमथ मार्त्तिकीं वा ।
न्यसेच्छुभां वर्धनिकां तु वामे स्याद् दक्षिणे वस्तु समस्तमन्यत् ॥ ३३-४९ ॥
अस्त्रेणार्घ्यजलैः कूर्चेनावोक्ष्य मूलाङ्गैरभिमन्त्र्य धेनुमुद्रयामृतीकृत्य कवचेनावकुण्ठ्य सुरक्षितं पूजोचितं वस्तु समं निदधीत ।
अर्घ्यादिभिः प्रोक्ष्य शिरः स्वशुद्धिः पूजाक्षितौ द्रव्यगणे च शुद्धिः ।
प्लुतान्तमूलेन तु मन्त्रशुद्धिः स्यात् क्षालनेनापि च बेरशुद्धिः ॥ ३३-५० ॥
विघ्नेशमिष्ट्वा निर् ऋतौ स्वनाम्ना पूर्वोत्तरे तु स्वगुरूंस्तथैव ।
तत्रैव वाचं परमं गुरुं च श्रीनारदं चाप्यथ पूर्वसिद्धान् ॥ ३३-५१ ॥
अस्त्रेण निर्माल्यमपोह्य बेराद् दत्त्वामृतार्घ्यं त्वभिषिच्य तोयैः ।
शीर्ष्णा तु पाद्याचमने च पीठमिष्ट्वा समावाह्य निधाय मन्त्रान् ॥ ३३-५२ ॥
पुनस्तथार्घ्यादिभिरिष्टगन्धैः सपुष्पधूपाक्षतमर्चयित्वा ।
सुगन्धितैलेन च पञ्चगव्यैः संस्नाप्य चूर्णैरपनुद्य लेपम् ॥ ३३-५३ ॥
सम्मार्जनीयेन विमृज्य देवं हारिद्रचूर्णेन च कुङ्कुमेन ।
सुगन्धिपुष्पाम्बुसुगन्धतोयैस्तथाभिषिञ्चेत् पुरुषादिसूक्तैः ॥ ३३-५४ ॥
ॐ । जितं ते पुण्डरीकाक्ष ! नमस्ते विश्वभावन ! ।
सुब्रह्मण्य ! मनस्तेऽस्तु नमः पुरुष ! पूर्वज ! ॥ ३३-५५ ॥
अनेन चोपचारांस्तु दद्यान्मूलाङ्गसंयुतम् ।
आधारशक्तिं त्वथ कूर्मराजं शेषं च पृथ्वीमथ योगपीठम् ।
धर्मं तथा ज्ञानमनन्तरं च वैराग्यमैश्वर्यमपि क्रमेण ॥ ३३-५६ ॥
सिंहाकृतींस्ताननलादिकोणेष्वधर्मपूर्वानपि दिग्गतेशान् ।
रजस्तमःसत्त्वमयानि कन्दं नालं च पद्मं यजतु क्रमेण ॥ ३३-५७ ॥
तत्पत्त्रतत्केसरकर्णिकासु व्याप्तानि सूर्याग्निनिशाकराणाम् ।
बिम्बान्यथात्मा च तथान्तरात्मा पूज्यस्तथा स्यात् परमात्मनामा ॥ ३३-५८ ॥
विमलोत्कर्षिणी ज्ञाना क्रिया योगाथ सत्यया ॥ ३३-५९ ॥
प्रह्वीशानुग्रहा चाथ पूर्वतः केसराग्रगाः ।
तासां तु मध्येऽम्बुजकर्णिकायां यानुग्रहाख्या नवमी तु शक्तिः ।
आवाहयेत् तत्र ततो यथावत् सञ्चिन्त्य नारायणमप्रमेयम् ॥ ३३-६० ॥
नीलाम्बुदश्यामलकोमलाङ्गः पूर्णेन्दुबिम्बद्युतिवक्त्रपद्मः ।
रत्नप्रभोद्भासिकिरीटरोचिस्सम्भिन्ननीलालकभाररम्यः ॥ ३३-६१ ॥
सुभ्रूललाटायततुङ्गनासाव्याकोशपङ्केरुहपद्मनेत्रः ।
व्यालम्बिचार्वञ्चितकर्णपाशव्यासक्तनक्रोज्ज्वलकुण्डलश्रीः ॥ ३३-६२ ॥
सन्निष्कभूषोज्ज्वलकम्बुकण्ठः पिनद्धरत्नाङ्गदयुग्मबाहुः ।
विचित्रवासःकटकाङ्गुलीयः सशङ्खपद्मोरुगदारिहस्तः ॥ ३३-६३ ॥
सत्कौस्तुभोद्भासिविलोलहारः श्रीवत्सलक्ष्मीरुचिरोरुवक्षाः ।
माणिक्कबिम्बोपमशातमध्यव्यासङ्गिहेमोदरबन्धसौम्यः ॥ ३३-६४ ॥
आपीतकौशेयविशेषरम्ये कटिप्रदेशे विपुले दधानः ।
रत्नप्रवेकाचितहेमसूत्रमाजानुलम्बां वनमालिकां च ॥ ३३-६५ ॥
जङ्घाद्वयं चारुसुपीनवृत्तं पादाब्जयुग्मं च सुजातगुल्फम् ।
उत्तुरङ्गरक्तां नखचन्द्रपङ्क्ति वाराङ्गुलीभिस्तनुकोमलाभिः ॥ ३३-६६ ॥
शङ्खं च चक्रं जलजं च नक्रं दधत् तलैः पादकराम्बुजानाम् ।
सर्वाङ्गसौन्दर्यगुणैकलक्ष्मीं बिभर्ति यस्मात् पुरुषोत्तमोऽसौ ॥ ३३-६७ ॥
सञ्चिन्त्य नारायणमूर्तिमेवं हृत्पङ्कजे स्वेऽचलदीपकल्पम् ।
हंसात्मकं तत् प्रणवोपगूढं ज्योतिः प्रदीपादिव दीपमन्यम् ॥ ३३-६८ ॥
आदाय बुद्ध्या प्रणवं प्लुतान्तं सौषुम्नमार्गेण नयेदुदीर्य ।
संयोजयेत् खाम्बुरुहोदरस्थे ज्योतिर्मये ब्रह्माणि तत् ततोऽपि ॥ ३३-६९ ॥
पुष्पाञ्जलौ स्वे विनियोज्य तस्मान्मूर्ते पुरोवर्तिनि मध्यनाड्या ।
नीत्वा नियुञ्जीत सतारहंसं बीजं सनादं हृदयाब्जमध्ये ॥ ३३-७० ॥
कृत्वैवमावाहनमस्य मूर्तौ न्यसेत् करन्यासविहीनमर्णान् ।
मन्त्रस्य चाङ्गानि सहंसमूलात् सान्निध्यमस्मिन् विदधीत मन्त्री ॥ ३३-७१ ॥
तद्द्वादशान्तामृतपूर्णचन्द्रबिम्बात् प्रवृत्तामृतधारयामुम् ।
तद्ब्रह्मनाड्यागतया निषिञ्चेत् सार्धेन्दुखड्गीशमुदीर्य तारम् ॥ ३३-७२ ॥
पीयूषपूरैरिव पूर्णमन्तर्बाह्ये तथाह्लादितदिव्यदेहम् ।
ध्यात्वा यथावद् विहितोपचारैस्तं पूजयेदावरणानि चान्ते ॥ ३३-७३ ॥
तद् यथा-
अङ्गानि पूर्वादिदलाग्रगाणि कोणच्छदाग्रेषु यजेत् तथास्त्रम् ।
द्वारेषु पूर्वादिषु वैनतेयं चक्रं च पद्मं च गदां क्रमेण ॥ ३३-७४ ॥
कोणेषु पूज्यस्त्विह पाञ्चजन्यः शार्ङ्गः च याम्ये त्वथ नन्दकं च ।
द्वे चेषुधी पश्चिमतस्तु सौम्ये पूज्या स्वनाम्ना वनमालिका स्त्री ॥ ३३-७५ ॥
लक्ष्मीं हरेर्दक्षिणपार्श्वसंस्थां भूमिं तु पुष्ट्याख्यकयास्य वामे ।
श्रीवत्समङ्कं मणिकौस्तुभं चप्यग्रे यजेद् दक्षिणवामसंस्थौ ॥ ३३-७६ ॥
इन्द्राग्निवैवस्वतराक्षसेशांस्तोयेश्वरं वायुमथोऽर्थनाथम् ।
ईशानमब्जोद्भवमप्यनन्तं सोमं च सौम्ये यजतु स्वनाम्ना ॥ ३३-७७ ॥
तेषां तु बाह्ये कुलिशं तु शक्तिं दण्डासिपाशाङ्कुशसद्गदाश्च ।
शूलं च पद्मं च सुदर्शनं च लोकाधिपास्त्राणि यजेत् स्वनाम्ना ॥ ३३-७८ ॥
अस्त्राणां बाह्ये कुमुदादीन् पूजयेत् ।
कुमुदं कुमुदाक्षं च पुण्डरीकं च वामनम् ॥ ३३-७९ ॥
शङ्कुकर्णं सर्वनेत्रं सुमुखं सुप्रतिष्ठितम् ।
कोटिकोटिगणाधीशान् विण्ष्णुभूतगणाधिपान् ॥ ३३-८० ॥
सोमेशयोर्मध्यगतं विष्वक्सेनं च पूजयेत् ।
विष्णोर्निर्माल्यमखिलं पूजान्तेऽस्मै निवेदयेत् ॥ ३३-८१ ॥
सम्पूज्य नित्यं विधिवद्यथोक्ते हुत्वा घृताद्यैरथ वैष्णवाग्नौ ।
शक्त्या द्विजाग्र्यानपि भोजयिष्यन् मन्त्रं जपेद्वा त्रिसहस्रसङ्ख्यम् ॥ ३३-८२ ॥
एवं विधेयोदितपूर्वसेवासंसिद्धमन्त्रो विनियोगमिच्छन् ।
तैस्तैर्यथोक्तैर्हवनैर्जपैर्वा संसाधयेद् वाञ्छितमर्थजातम् ॥ ३३-८३ ॥
कुण्डे यथोक्ते चतुरश्रके वा तत्रारणेर्यं मथितं तु वाग्निम् ।
संस्कृत्य तं वैष्णववह्निमार्गादावाह्य तस्मिंस्तु हरिं जुहोतु ॥ ३३-८४ ॥
आयुष्करं तद्धरितालिकाग्रैर्लक्षत्रयं चाज्यतिलं जुहोतु ।
छिन्नासमिद्भिश्चतुरङ्गुलाभिः क्षुद्रापमृत्यून् मधुरैश्च हन्यात् ॥ ३३-८५ ॥
अश्वत्थमालभ्य शनैर्दिनाद्ये जपेच्च तं मृत्युरुजां प्रशान्त्यै ।
लक्षद्वयं वा जपतस्तु काल्यं स्याद् दीर्घमायुश्च तथाभिषेकात् ॥ ३३-८६ ॥
तोयं जपित्वाभिकृतिप्रसङ्ख्यं पीत्वा त्रिसन्ध्यं स भवेच्चिरायुः ।
कुम्भाम्बु पूर्णं त्वयुतं जपित्वा बिम्बे विधानेन हरिं च तस्मिन् ॥ ३३-८७ ॥
आवाह्य सम्पूज्य दशांशमाज्यं हुत्वाभिषिञ्चेदपमृत्युशान्त्यै ।
आलब्धमन्नाद्यमनेन भुक्तं नित्यं तदायुष्करमष्टसङ्ख्यम् ॥ ३३-८८ ॥
अन्यद् विषं वा सुजरं शतं तद् भुक्तं जपेदौषधमिष्टदं स्यात् ।
चन्द्रोपरागे त्रिदिनोपवासी यत् कापिलाज्यस्य चतुष्पलानि ॥ ३३-८९ ॥
चूर्णं वचायाश्च पलं पिबेत् तत् प्रज्ञाकरं स्यादयुताभिलब्धम् ।
ब्राह्मीघृतं वापि तथैव पीतं सूर्यग्रहे स्यात् कविताकरं च ॥ ३३-९० ॥
नित्यं जलं वाष्टशाताभिलब्धं प्रज्ञकरं वत्सरमात्रतः स्यात् ।
तिस्रोऽथ रात्रीः समुपोष्य माघीं सङ्क्रान्तिमस्यां भसितावदिग्धम् ॥ ३३-९१ ॥
ब्राह्मीघृतं पञ्चसहस्रसङ्ख्यं प्रज्ञाकरं स्याज्जपितं निपीतम् ।
श्वेताम्बराढ्यः सितपङ्कजानां क्षीराज्यसेकादयुतं जुहोतु ॥ ३३-९२ ॥
लक्ष्मीमभीष्टां लभते चतुर्भिः कुम्भैश्च पूर्णैर्विधिनाभिषिक्तः ।
अन्नं तु विन्देत् सघृतान्नहोमादाज्येन कामान् लभते पशूंश्च ॥ ३३-९३ ॥
बैल्वैः फलैर्वा मधुरत्रयाक्तैः पत्त्रैः समिद्भिश्च भवेत् कुबेरः ।
विष्णोस्तिथौ फल्गुनपूर्वपक्षे तिस्रो निशाः सम्यगुपोष्य विष्णुम् ॥ ३३-९४ ॥
सम्पूज्य पद्मैर्मधुरावसिक्तैर्हुत्वा तु लक्षं लभते निधानम् ।
प्राह्णे च तिष्ठन् सममूर्ध्वबाहुर्लक्षं जपेद्वा धनवानसौ स्यात् ॥ ३३-९५ ॥
बिल्वस्य मूले निवसन् फलैस्तैर्जुह्वत् सहस्रं प्रतिवासरं वा ।
अश्नन् धनी तत्फलमिश्रमन्नं मासैस्त्रिभिः स्यात् प्रजपन् धनेशः ॥ ३३-९६ ॥
धेनोः सवर्णाकृतितर्णकायाः क्षीरे चरुं संस्कृतमाज्यसिक्तम् ।
हुत्वायुतं तच्चरुशेषमश्नन् हन्यादलक्ष्मीं लभते च लक्ष्मीम् ॥ ३३-९७ ॥
यद्वर्णपुष्पाणि जुहोति साज्यं तद्वर्णवस्त्राणि लभेत मासात् ।
शाल्यादिधान्यानि घृतप्लुतानि प्राप्नोति हुत्वा खलु मासमात्रात् ॥ ३३-९८ ॥
यो यानि बीजान्ययुतं जपित्वा शाल्यादिकानामपि वा तरूणाम् ।
क्षेत्रे वपेत् सस्यफलं समग्रं मूलानि चाप्नोति फलानि चैषाम् ॥ ३३-९९ ॥
भूर्जांस्तु गोमूत्रकयावकान्नं लक्षं जपेत् पुत्रमसौ लभेत् ।
हुत्वाथ वा गुग्गुलुमाज्यसिक्तं तन्मन्त्रिताम्भःस्नपनेन पत्न्याः ॥ ३३-१०० ॥
विप्रा वशे स्युस्तिलतण्डुलाभ्यां हुत्वा तु दध्योदनतो नरेन्द्राः ।
अन्नेन साज्येन विशोऽपि शूद्राः क्षीरान्नहोमेन वशे भवन्ति ॥ ३३-१०१ ॥
इष्टाम पामार्गहुतेन योषां कन्यां तु लाजैस्तु समातुलुङ्गैः ।
त्रिस्वादुसेकं लवणेन चान्या वश्या भवन्त्यस्यं हुतैर्यथावत् ॥ ३३-१०२ ॥
देवासुरान् वा नरकिन्नरादीन् रक्षांसि नागान् विहगांश्च यक्षान् ।
साज्यादपामार्गहुतादभीष्टानश्वत्थवह्नौ स्ववशे करोति ॥ ३३-१०३ ॥
नारायणं पूजयतस्त्रिसन्ध्यमुद्दिश्य यान् यान् जपतोऽर्णलक्षम् ।
सर्वेऽपि लोका वशगा भवेयुर्दद्युर्यदिष्टं दृढभक्तियोगात् ॥ ३३-१०४ ॥
गोमूत्रसंसाधितयावकाशी स्नात्वा त्रिसन्ध्यं हरिमर्चयेद् यः ।
पूतोऽष्टलक्षैर्भवतीह विप्रः स्याद् ब्रह्महाद्यैर्द्विगुणैः क्रमेण ॥ ३३-१०५ ॥
क्रमेण क्षत्रियादयश्चाबुद्धिपूर्वसुरापस्तेनगुरुतल्पगाश्चेति यावत् ।
पूतस्तथा पञ्चभिरेव लक्षैस्तोये स्थितः स्यादिह पातकेभ्यः ।
अन्ते तु गव्यान्यभिमन्त्र्य पीत्वा पूतस्त्रिलक्षरुपैपातकेभ्यः ॥ ३३-१०६ ॥
सूर्येक्षणो वारिणि जानुदघ्ने स्थित्वाष्टसाहस्रजपाभिषिक्तः ।
तत्तद्दिनोपात्तमघं निहन्यात् स्यान्नाभिमात्रे जपतस्तु पुष्टिः ॥ ३३-१०७ ॥
शुक्लाब्जसूत्राणि मतङ्गसङ्ख्यागुणानि चैक्यं गमितानि मन्त्री ।
स्पृष्ट्वायुतं तज्जपितं निबद्धं स्यात् सर्वरक्षाकरमायुषे च ॥ ३३-१०८ ॥
पुंसां दक्षिणहस्ते वामकरे कण्ठे वा स्त्रीणाम् ।
क्रुद्धस्य शान्तिः पुरतो जपात् स्याद् वादे जयश्चाष्टसहस्रजापात् ।
राज्ञोऽथ वान्यस्य च दर्शनादौ मन्त्रं जपेदिष्टमसौ करोति ॥ ३३-१०९ ॥
स्नातो विशुद्धः कपिलाकरीषं ब्राह्मे मुहूर्तेऽम्बुजपत्त्रलब्धम् ।
अनिन्दुपर्वण्ययुतं जपित्वा द्वारे निखातं गृहरक्षकं तत् ॥ ३३-११० ॥
तद्गोमयाद् वैष्णववह्निभस्म प्राग्वज्जपेत् स्याद् ग्रहरोगरक्षा ।
सिद्धार्थपालाशतिलाज्यहोमात् स्यात् सर्वरक्षा ग्रहरोगशान्तिः ॥ ३३-१११ ॥
राजीघृताक्ताः समिधोऽर्धरात्रे वैभीतकीर्दिग्वसनो वनान्ते ।
जुह्वद् रिपून् मारयतीह मासात् वैकङ्कतीः स्तम्भयते च सेनाम् ॥ ३३-११२ ॥
इष्ट्वा हरिं गव्यघृतावसिक्तं नित्यं त्वपामार्गसमित्सहस्रम् ।
हुत्वा नरेन्द्रो नवभिस्तु मासैर्जित्वेह शत्रून् वहते धरित्रीम् ॥ ३३-११३ ॥
वामे तु पाणौ सलिलं गृहीत्वा दष्टं निषिञ्चेन्मनुजापलब्धम् ।
क्ष्वेलान् समस्तान् विनिहत्य रक्षेद् दूर्वाभिरामृज्य च लूतिकादीन् ॥ ३३-११४ ॥
ध्यायेन्निजैक्यं गरुडाधिरूढं शङ्खारिपाशाङ्कुशशार्ङ्गबाणैः ।
गदासियुक्ताष्टभुजं जयार्थी नारायणं वैरिभियां च शान्त्यै ॥ ३३-११५ ॥
क्षीरार्णवान्तःकनकान्तरीपे कल्पद्रुमोद्यानगमण्डपान्तः ।
सिंहासनाब्जोदरसन्निविष्टं ध्यायेच्छ्रियै श्रीधरणीसमेतम् ॥ ३३-११६ ॥
गङ्गादिकानां सरितामुदीच्ये तीरेऽब्दमष्टाक्षरमन्त्रजापी ।
आश्चर्यशक्तिर्भवतीह सर्वान् कामानवाप्नोति च दीर्घमायुः ॥ ३३-११७ ॥
तिस्रो निशाः सम्यगुपोष्य कृष्णे पक्षे तु कार्ष्णे दिवसे तु कृष्णम् ।
सम्पूज्य तत्पादयुगं कराभ्यां स्पृष्ट्वा जपेत् सप्तदिनं धनार्थी ॥ ३३-११८ ॥
इत्थमञ्जनचन्दनपादुकाखड्गादिकं च साधयितुं तत्तत् कार्यं साधयति ।
प्रातस्त्रिरात्रं समुपोष्य चेष्ट्वा विष्णुं सगोमूत्रकयावकाभ्याम् ।
पक्षं विनिद्रः सततं जपेद् यस्तस्येष्टदा व्योमचरा भवेयुः ॥ ३३-११९ ॥
भूतोदकेनैव बलिं निशीथे दत्त्वा श्मशाने त्वथ सप्तरात्रम् ।
भूतादिकेभ्यस्त्रिसहस्रजापाद् भूताः पिशाचाश्च तदिष्टदाः स्युः ॥ ३३-१२० ॥
न्यग्रोधमूले हरिमर्चयित्वा जुह्वत् सहस्राणि तु खादिरीणाम् ।
श्यामासु मासादुपयाति यक्षी स्यादिष्टदा सा रमतां तया वा ॥ ३३-१२१ ॥
खादिरीणां समिधामित्यर्थः ।
आलिख्य चाशोकवनस्य मध्ये यक्षं तथा तत्फलके तदीयैः ।
पुष्पैर्हरिं चापि यजेत् त्रिसन्ध्यं हुत्वापि मासाद् वरदो हि स स्यात् ॥ ३३-१२२ ॥
नागद्रुमाणां फलकेषु नागीरालिख्य या नागवनस्य मध्ये ।
इष्ट्वा हरिं तत्कुसुमैर्जुहोतु प्राप्नोति ताभ्यः स रसायनाद्यम् ॥ ३३-१२३ ॥
द्वारे बिलस्यासुरराजकन्यामालिख्य चाधाय विकङ्कताग्निम् ।
वैकङ्कतीनां समिधां तु लक्षं हुत्वासुरीतो लभते तदिष्टम् ॥ ३३-१२४ ॥
आर्द्राम्बरोऽथाम्बरगोचरेऽग्नौ यद्वैतसीनामयुतं जुहोतु ।
स्याद् वृष्टिरग्र्या समिधामथापि स्थित्वाप्सु तस्माद् द्विगुणं जपित्वा ॥ ३३-१२५ ॥
शमीसमिद्भिर्विपदां प्रशान्त्यै जुहोतु कृष्णैः सघृतैस्तिलैर्वा ।
श्रियै च पुष्ट्यै घृतपायसाभ्यां जपञ् श्रियं पश्यति पर्वताग्रे ॥ ३३-१२६ ॥
क्षीराशनो वाक्षरलक्षजापी ब्रह्मावबोधं लभते च मुक्तिम् ।
लक्ष्मीं दृशा पश्यति पर्वताग्रे सम्पूज्य षण्मासजपेन भक्तः ॥ ३३-१२७ ॥
दध्याज्यमध्वक्ततिलैः सुकृष्णैर्हुत्वा त्रिलक्षं त्रिदशा वशे स्युः ।
व्रत्याशनो विष्णुगृहे जपेद् यः संवत्सरं मन्त्रमसक्तमेनम् ॥ ३३-१२८ ॥
विष्णुं दृशा पश्यति भक्तियोगाद् यजन् यथावच्छरदां त्रयेण ।
तिस्रो निशाः सम्यगुपोष्य विष्णुं सम्पूज्य तु द्वादशिकानिशायाम् ॥ ३३-१२९ ॥
तार्क्ष्यं विधायारुणचन्दनेन संस्पृश्य तं मन्त्रमिमं जपित्वा ।
संस्पन्दमानं तमथाधिरूढः प्राप्नोति तेनैव स विष्णुलोकम् ॥ ३३-१३० ॥
यं यं त्रिलोक्यामयमर्थजातं वाञ्छत्ययत्नादथ वा प्रयत्नात् ।
मन्त्री समस्तं लभते जपाद्यैर्भक्तस्तु नारायणपादपद्मे ॥ ३३-१३१ ॥
इति परमरहस्यं प्रोक्तमष्टाक्षरस्य श्रुतिनिगदितमेतत् साधनाद्यं समासात् ।
हरिचरणसरोजे भक्तिभाजां जनानां प्रियहितमखिलार्थप्राप्तये हेतुभूतम् ॥ ३३-१३२ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे अष्टाक्षरपटलः त्रयस्त्रिंशः ॥ ३३ ॥