३२

अथ द्वात्रिंशः पटलः ।

शिवोत्तमान्त्यौ तिथीशस्थाण्वनुसारिणौ च हृत् ।
पूजामन्त्रो ह्ययं शास्तुर्लकुलीशो तिथाशयुक्(?) ॥ ३२-१ ॥

सबिन्दुर्लोहितो रायगोप्त्रे नम इतीरितः ।
तारादिर्मूलमन्त्रोऽयं नवार्णः सर्वकामदः ॥ ३२-२ ॥

षष्ठवर्गाच्चतुर्थस्तु तारादिर्दीर्घबिन्दुमान् ।
भूताधिपतयेशब्दो नमोन्तोऽयं च तन्मनुः ॥ ३२-३ ॥

अनेनार्घ्यादिभिः शास्ता पूजनीयो यथाविधि ।
भूतसेनश्चतुर्थ्यन्तो विद्महेपदयोजितः ॥ ३२-४ ॥

भवपुत्रस्तथायान्ते धीमहे तन्न इत्यपि ।
शास्ता प्रचोदयादेषा गायत्री तारपूर्विका ॥ ३२-५ ॥

रेवन्ताय च शास्त्रे च गोप्त्रे च प्रभवे तथा ।
दीप्त्रे चैव प्रशास्त्रे चाङ्गानि जातियुतानि षट् ॥ ३२-६ ॥

शाम्बोऽस्यर्षिस्तुगायत्रं छन्दः शास्ता तु देवता ।
लक्षजापः पुरश्चर्यादशांशाज्यतिलैर्हुतात् ॥ ३२-७ ॥

सिद्धेनानेन मन्त्रेण सर्वान् कामानवाप्नुयात् ।
खड्गाय क्षुरिकायै च धनुषे च शराय च ॥ ३२-८ ॥

हुम्फडादिनमोन्ताश्च शस्त्रमन्त्रा यथाक्रमम् ।
भूतसिंहासनाम्भोजे शास्तारं कर्णिकागतम् ॥ ३२-९ ॥

चतुर्भुजं सौम्यवक्त्रं श्यामलं कोमलाकृतिम् ।
वामोरुपादेनासीनं लम्बेतरपदाम्बुजम् ॥ ३२-१० ॥

शरचापौ तथा खड्गं क्षुरिकां दधतं भुजैः ।
पूर्णेन्दुवदनं चारुनीलकुञ्चितकुन्तलम् ॥ ३२-११ ॥

हरिहाराभिरामाङ्गमाबद्धोदरबन्धनम् ।
किरीटचारुकेयूरकटकाङ्गुलिवेष्टनैः ॥ ३२-१२ ॥

तथैव कटिसूत्रेण नूपुराभ्यां च बिभ्रतम् ।
नीलकौशेयवसनमाबद्धकरवालकम् ॥ ३२-१३ ॥

रक्ताकल्पं सुपीनांसं सर्वसौन्दर्यकेतनम् ।
वामतोऽस्य प्रभां देवीं रक्तामुत्पलधारिणीम् ॥ ३२-१४ ॥

अष्टवर्षाकृतिं चापि सत्यकं दक्षिणे सुतम् ।
ध्यात्वाबाह्य तु शास्तारं देवं सावरणं यजेत् ॥ ३२-१५ ॥

तद्यथा-

ध्यात्वा तु सकलीकृत्य विघ्नद्वारं च पूजयेत् ।
क्षुरिकाखड्गपाणी द्वौ द्वाःस्थावुभयतो यजेत् ॥ ३२-१६ ॥

यक्षं विद्याधरं द्वारश्रियं चोपरि पूजयेत् ।
अस्त्रं क्षिप्त्वा प्रविश्यान्तर्देहल्यां विनिधाय तत् ॥ ३२-१७ ॥

वास्तुब्रह्मासनानीष्ट्वा मूलाङ्गैरर्घ्यमर्पयेत् ।
गन्धपुष्पकुशक्षीरतिलसिद्धार्थकाक्षतैः ॥ ३२-१८ ॥

अर्घ्यं स्याद् भूतनाथस्य तिलपुष्पाक्षताम्बुभिः ।
चन्दनं च निशा पाद्यमथ पद्मं च चन्दनम् ॥ ३२-१९ ॥

लवङ्कवारि चाचामं हृदा सर्वं तु दापयेत् ।
तिलकी सशिखापुष्पः शक्तिं पीठं धरात्मकम् ॥ ३२-२० ॥

प्रभूतसिंहासनाय सर्वशक्तिमयाय च ।
नम इत्यभिपूज्याङ्घ्रीन् धर्मादीन् भूतविग्रहान् ॥ ३२-२१ ॥

तमः सत्त्वं रजः पद्मं शक्तिर्गोप्त्र्यादिकास्तथा ।
ततो मूर्तिं मन्त्रदेहां प्रोक्तरूपायुधादिकाम् ॥ ३२-२२ ॥

सङ्कल्प्यावाहयेन्मूर्तौ तस्यां देवं चिदात्मकम् ।
आधारादुद्गतं सूक्ष्मं परं ज्योतिर्हृदम्बुजात् ॥ ३२-२३ ॥

आवाह्य स्थापयेद् देवं सन्निधीकृत्य रोधयेत् ।
प्ररोच्य चामृतीकृत्य तथैवार्घ्यादिभिः क्रमात् ॥ ३२-२४ ॥

उपचारैर्निवेद्यान्तं यजेदावरणानि च ।
अङ्गानि केसराग्रेषु गोप्त्र्यादीर्दलमध्यगाः ॥ ३२-२५ ॥

तच्छक्तीश्च दलाग्रेषु स्कन्दादीन् पीठबाह्यतः ।
घोषवन्तं तु निर्माल्यधरमैशे समर्चयेत् ॥ ३२-२६ ॥

अश्वं तु वाहनं शास्तुर्गजं वा मुखमण्डपे ।
आर्यादीनर्चयेद् वीथ्यां लोकपालांस्तु तद्बहिः ॥ ३२-२७ ॥

तदस्त्राणि बहिस्तेषामित्यावरणसप्तकम् ।

आवरणनामानि-

गोप्ता च पिङ्गलाक्षश्च वीरसेनश्च शाम्भवः ॥ ३२-२८ ॥

त्रिणेत्रः शूलभृद् दक्षो भीमरूपस्तथाष्टमः ।
एतेऽष्टमूर्तयः शास्तुः पृथिव्यादिभिरन्विताः ॥ ३२-२९ ॥

गोप्त्री च पिङ्गलाक्षी च वीरसेना च शाम्भवी ।
त्रिणेत्रा शूलिनी दक्षा भीमरूपाष्टमी स्मृता ॥ ३२-३० ॥

प्रभा तु नवमी तासामित्युक्ताः शास्तृशक्तयः ।
स्कन्दो गणपतिश्चाथ शाम्बो मधुकरस्तथा ॥ ३२-३१ ॥

दिक्षु पूज्यास्तु कोणेषु खड्गश्च क्षुरिका धनुः ।
शरश्च नामधेयैः स्वैः पूज्याः स्युर्हुम्फडन्तकैः ॥ ३२-३२ ॥

आर्यः शास्ता महासेनः सेनानीर्भूतवल्लभः ।
रुद्रजो रूपवान् कामी वरदो लोकपावनः ॥ ३२-३३ ॥

नीलाश्चः श्वेतमातङ्गः श्यामी पीतानुलेपनः ।
रक्तमालाधरः शूरो मायो मातृगणम्प्रियः ॥ ३२-३४ ॥

कालवासा गणाध्यक्षः खड्गहस्तो धनुर्धरः ।
सहजायो जनावेशः साधुः संसाररक्षकः ॥ ३२-३५ ॥

मधुमान् शम्बरश्चैते ह्यष्टाविंशतिभूतपाः ।
इन्द्राद्या लोकपालाश्च वज्राद्यान्यायुधानि च ॥ ३२-३६ ॥

सम्पूज्य गन्धपुष्पाद्यैर्वल्यन्तं स्थिरबेरके ।
बले च स्थण्डिले गन्धपुष्पधूपैस्ततो धिया ॥ ३२-३७ ॥

बलिं निवेद्यं वह्नौ च तमावाह्य जुहोतु च ।
प्रदक्षिणनमस्कारस्तुतिजप्यैः प्रसादयेत् ॥ ३२-३८ ॥

इदं हि यजनं शास्तुः श्रीपुष्टिविजयप्रदम् ।
आयुरारोग्यविभवपुत्रसम्पद्विवर्धनम् ॥ ३२-३९ ॥

पूजाधिकारः ।

शास्तारं मृगयाश्रान्तमश्वारूढं गणावृतम् ।
पानीयार्थं वनादेवं ध्यात्वा मृगयुरूपिणम् ॥ ३२-४० ॥

मध्याह्ने सक्तुसंयुक्तं गृहीत्वाञ्जलिना जलम् ।
विकीर्य नवभिर्मन्त्रैस्तद्गणानपि तर्पयेत् ॥ ३२-४१ ॥

विश्रान्ताय ततस्तस्मै स्वकार्याणि निवेदयेत् ।
प्रीतचेतास्तथेयुक्त्वा स तु यात इति स्मरेत् ॥ ३२-४२ ॥

सिध्यति सर्वकार्याणि चिन्तितान्यप्ययत्नतः ।
तथैवार्यादिभिर्मन्त्रैर्बलिं वास्मै हरेन्निशि ॥ ३२-४३ ॥

भूतक्रूरेण साज्येन पुष्पाक्षतविमिश्रितम् ।
महाशास्त्रे नमश्चेति भूताधिपतये तथा ॥ ३२-४४ ॥

नमोऽस्तु रुद्रपुत्राय पञ्चकेश्वरकाय च ।
साधवे नम इत्येभिर्मन्त्रैर्वा बलिमाहरेत् ॥ ३२-४५ ॥

पूर्वादिदिक्षु मध्ये च रक्षायै पुष्टये श्रियै ।
बाङ्क्षाडीणां(?)जनाः सर्वे कोटिकोटिविभाजिताः ॥ ३२-४६ ॥

भवन्तु सहिताः प्रीतास्तेभ्यस्ताभ्यो नमो नमः ।

पूर्वादिगणेभ्यो भीमरूपेभ्यो भीमवक्त्रेभ्यो विधिताकृतिभ्यः स्थिरेभ्यश्चपलेभ्यो वरदेभ्यो बहुरूपेभ्यो विरूपेभ्यो भीमरूपेभ्यो सद्भ्योऽसद्भ्यः सदसद्भ्यः सर्वगणेभ्यो नमो नमः ।

द्विरण्डोऽनन्तदण्डाढ्यः कर्णान्तो नाभिराषढी ॥ ३२-४७ ॥

साक्षो मीनोऽथ पतये हृच्च मन्त्रो नवाक्षरः ।

पूर्ववत् साधनार्चाद्यैः फलं प्राग्वत् प्रयच्छति ॥ ३२-४८ ॥

शास्तृमन्त्राधिकारः ।

अन्त्योऽनुग्रहदण्डाढ्यस्तारादिः क्षेत्रपाक्षरैः ।
भूमिः सदीर्घत्वङ्नत्या मन्त्रः क्षेत्रेशदैवतः ॥ ३२-४९ ॥

आद्येनाङ्गानि दीर्घैस्तु स्वरैर्युक्तानि षट् क्रमात् ।
पूर्वसेवार्णसाहस्रं छन्दो गायत्रमेव हि ॥ ३२-५० ॥

ऋषिस्तु बटुको नाम क्षेत्रपालस्तु दैवतम् ।
कृष्णाष्टम्यादिभूतान्तं जपेन्नित्यं सहस्रकम् ॥ ३२-५१ ॥

पुरश्चर्या भवेदस्य ध्यानं चाथ निगद्यते ।
पायादञ्जनपुञ्जकुञ्जरघटानीलाञ्जनाम्भोदवद्
दोर्भ्यां खण्डकपालमप्यथ गदां व्योमाम्बरो भीषणः ।
दंष्ट्रादन्तुरितास्यवृत्तकपिशस्त्र्यक्षोर्ध्वकेशालकः
सर्पाकल्पशिरःस्रगञ्चितवपुः क्षेत्रेश्वरो विश्चिरम् ॥ ३२-५२ ॥

अन्यथान्ये-

व्यालम्बोर्ध्वजटाधरं त्रिणयनं नीलाञ्जनाद्रिप्रभं
दोर्द्वन्द्वात्तगदाकपालमरुणस्रग्वस्रग्वस्त्रगन्धोज्ज्वलम् ।
घण्टाशृङ्खलमेखलाध्वनिलिलद्धुक्कारभीमं विभुं
वन्दे मण्डलिताहिकुण्डलधरं तं क्षेत्रपालं सदा ॥ ३२-५३ ॥

एह्येहि टुष्ठ ठलमरु भञ्ज हन विघ्न महाभैरव ! क्षेत्रपाल ! बलिं गृह्ण ठठ ।

साध्येनानेन मन्त्रेण तत्कपाले बलिं हरेत् ॥ ३२-५४ ॥

वामदोष्णाष्टदिक्स्थानामन्येषां चानलादितः ।
अनलश्चाग्निकेशश्च कालो घण्टारवस्तथा ॥ ३२-५५ ॥

महाक्रोधाह्वयश्चाथ पिशिताशनसञ्ज्ञितः ।
पिङ्गलाक्षोर्ध्वकेशश्च चतुर्थ्या ठवयान्तकाः ॥ ३२-५६ ॥

पूज्याः स्युर्दिक्षु तेभ्यस्तु मध्यरात्रे बलिं क्षिपेत् ।
तनोति रक्षां विजयं समृद्धिं चाप्ययं बलिः ॥ ३२-५७ ॥

प्राङ्कणे गोमयालिप्ते मन्त्रविन्यस्तविग्रहः ।
संरक्तगन्धपुष्पाद्यमाहृत्यार्घ्यजलोक्षितः ॥ ३२-५८ ॥

अनन्तयोगपीठाय नम इत्यासनं यजेत् ।
तस्मिन्नावाह्य मूलेन क्षेत्रपालं यथोदितम् ॥ ३२-५९ ॥

अर्घ्यादिभिश्च दीपान्तमुपचारैस्तमर्चयेत् ।
दिक्ष्वावाह्य चतुर्मूर्तिः कोणेष्वङ्गानि चाग्रतः ॥ ३२-६० ॥

नेत्रमस्त्रं पुनर्दिक्षु गन्धाद्यैर्विजनेऽर्चयेत् ।
अतिचारश्च राजा च कपाल्याख्यो महामनाः ॥ ३२-६१ ॥

ते श्यामाः पर्वताकाराः सेष्वासा राक्षसोपमाः ।
ततस्तु बलिमन्त्रेण सव्यहस्तेन मन्त्रितम् ॥ ३२-६२ ॥

दध्याज्यमिश्रं शाल्यन्नं सिद्धं कुटुबतण्डुलैः ।
दत्त्वाम्भस्त्रिस्तदन्नार्धात् त्रिः कपाले बलिं क्षिपेत् ॥ ३२-६३ ॥

शिष्टेन मूर्तिभ्योऽङ्गेभ्यो बलिं क्षिप्त्वा सकृत्सकृत् ।
स्वैक्यक्षेत्राधिपो मूलमष्टोत्तरशतं जपेत् ॥ ३२-६४ ॥

क्षेत्रपालबलिं त्वेवं यः कुर्याद् गृहरक्षणम् ।
श्रियं पुष्टिं धनं सौख्यं पशून् पुन्नांश्च विन्दति ॥ ३२-६५ ॥

क्षेत्रपालबलिविधिः ।

वामकर्णोऽथ कुम्भस्थो मीनो रेफः फडन्तकः ।
चण्डेश्वरमनुस्त्र्यर्णो भजतां सर्वकामदः ॥ ३२-६६ ॥

कर्णी मीनः सदृङ्मेषश्चण्डेश्वरपदं ततः ।
चतुर्थ्यन्तं तु वर्मास्त्रे चण्डेश्वरनवाक्षरः ॥ ३२-६७ ॥

अनयोर्मन्त्रयोस्तुल्यमृषिच्छन्दोधिदैवतम् ।
अङ्गानि च विधानं च साधनाद्यं च तत्समम् ॥ ३२-६८ ॥

छन्दस्तु बृहती तद्वदृषिः स्याच्चण्डकौशिकः ।
चण्डेश्वरो दैवतं स्यादस्त्रान्ताङ्गानि पञ्च हि ॥ ३२-६९ ॥

दप्तिषड्ज्वलफट् + + ज्वालिनीति तटेति च ।
सर्वज्वालिनिशब्दाः स्युः फडन्ता जातिसंयुताः ॥ ३२-७० ॥

पञ्चाङ्गानि हृदादीनि क्रमेण परिकल्पयेत् ।
तान्यस्त्रशुद्धकरयोर्ज्येष्ठाद्यङ्गुलिषु न्यसेत् ॥ ३२-७१ ॥

मन्त्राक्षराणि त्र्यर्णस्य सर्वेष्वङ्गुलिपर्वसु ।
पदानि पञ्चाङ्गुलिषु नवार्णस्यापि विन्यसेत् ॥ ३२-७२ ॥

द्वाभ्यां द्वाभ्यां त्रिभिश्चैके नैकार्णेन पदान्यपि ।
शिरोहृच्चरणेष्वर्णांस्त्र्यर्णस्यान्यस्य मस्तके ॥ ३२-७३ ॥

मुखहृद्गुह्यपादेषु विन्यसेत् पदपञ्चकम् ।
पञ्चाङ्गानि हृदाद्येषु स्वावकाशेष्वनुक्रमात् ॥ ३२-७४ ॥

त्रिलक्षं चैकलक्षं च पुरश्चर्या द्वयोरपि ।
शिवनिर्माल्यकुसुमैर्होमश्चास्माद् दशांशतः ॥ ३२-७५ ॥

मन्त्रसाधनम् ।

शालिपिष्टप्रतिकृतिं नदीसैकतगां क्रमात् ।
छित्त्वा छित्त्वा तु जुहुयात् पादमारभ्य दक्षिणम् ॥ ३२-७६ ॥

विप्रं तेन वशं कुर्यादपामार्गेन्धनानले ।
चिताकाष्ठानले प्रोक्तपुत्तल्या राजवश्यकृत् ॥ ३२-७७ ॥

वैश्यशूद्रावपि तथा वशे कुर्यान्न संशयः ।
तिलतण्डुलतीक्ष्णाज्यैर्हेमकोष्ठानले रिपोः ॥ ३२-७८ ॥

उन्मादाय जुहोत्यस्य शान्तिः क्षीरेण खादिरे ।
प्रियङ्ग्वग्नौ तत्कुसुमैर्घृतेनाप्यथ वा हुतम् ॥ ३२-७९ ॥

पुरक्षोभस्तु यद्वर्णैः कुसुमैरम्बराप्तये ।
साग्निवामाक्षदण्डोऽत्रिश्चतुर्थ्येन्द्रश्च तन्मनुः ॥ ३२-८० ॥

आभिर्बीजस्वरैर्दीर्घैः षडङ्गानि यथाक्रमम् ।
ऋषिराङ्गिरसश्छन्दो गायत्रं देवता तथा ॥ ३२-८१ ॥

इन्द्रोऽयुतं जपेत् तस्माद् दशांशाज्यतिलैर्हुतम् ।
पुरश्चर्योदिता तस्य ध्यानं चाथ निगद्यते ॥ ३२-८२ ॥

पीतवर्णं चतुर्बाहुं वज्रपद्माङ्कुशाभयान् ।
दधतं चारुसर्वाङ्गं पीतकल्पविभूषणैः ॥ ३२-८३ ॥

किरीटकर्णिकाहारकेयूराद्यैर्विभूषितम् ।
हेममण्डपमध्यस्थं हेमसिंहासनाम्बुजे ॥ ३२-८४ ॥

शच्या देव्या सहासीनं मरुद्भिश्चाप्युपस्थितम् ।
स्कन्दानलयमाद्यष्टलोकपालैर्निषेवितम् ॥ ३२-८५ ॥

करगक्षयवासोभिरष्टबीजैः सबिन्दुभिः ।
आदौ तन्नामधेयानि नमोऽन्ते च नियोजयेत् ॥ ३२-८६ ॥

निर्माल्यभृतमैशान्यां स्वबीजादिनमोन्तकम् ।
ध्यात्वेष्ट्वा बहिरस्त्राणि वज्रादीन्यपि योजयेत् ॥ ३२-८७ ॥

सुरेन्द्रं पूजयेदित्थं राज्याप्त्यै पुष्टये श्रियै ।
भद्रके मण्डले कुम्भे सम्पूज्यैवं शतक्रतुम् ॥ ३२-८८ ॥

तेनाभिषिक्तो राज्यश्रीविजयार्थानुपाश्नुते ।
तिलाज्यपायसैर्हुत्वा सर्वान् कामानवाप्नुयात् ॥ ३२-८९ ॥

इन्द्रपूजाधिकारः ।

अथ जम्भलमन्त्रस्तु मणिभद्रपदात् परम् ।
महासेनपदं चाथ क्षयाधिपतये ततः ॥ ३२-९० ॥

जम्भलाय जलेन्द्राय ठौ च स्याज्जाम्भलो मनुः ।

सङ्कृत्यर्णस्तदङ्गानि

मणिभद्राय नमः । पूर्णभद्राय नमः । चेलिमालिने नमः । विकुण्डलिने नमः । नरेन्द्राय । चरेन्द्राय । एते षडङ्गमन्त्राः ।

नेत्रान्तानि स्वजातिभिः ॥ ३२-९१ ॥

आवृतिः केसरेष्वङ्गैर्दलाग्रेष्वथ शक्तिभिः ।
लोकेशैश्च तदस्त्रैश्च चतुर्थावरणे यजेत् ॥ ३२-९२ ॥

ऐरावतं चतुर्दन्तमग्रतोऽश्वं च पृष्ठतः ।
उच्चैःश्रवसमश्वेशं पारिजातं प्रपूजयेत् ॥ ३२-९३ ॥

कनिष्ठाद्यङ्गुलिन्यासो मूलपञ्चपदैः स्मृतः ।
ज्येष्ठादितर्जन्यन्तः स्यान्न्यासोऽङ्गानां तले दृशः ॥ ३२-९४ ॥

कास्यहृद्गुह्यपादेषु विन्यस्य पदपञ्चकम् ।
अङ्गानि स्वावकाशेषु ध्यायेत् स्वैक्येन जम्भलम् ॥ ३२-९५ ॥

श्वेतपद्मस्थितं सौम्यं पीताभं द्विभुजं प्रभुम् ।
रक्ताकल्पस्फुरन्मौलिमणिकुण्डलमण्डितम् ॥ ३२-९६ ॥

हारकेयूरकटककटिसूत्राद्यलङ्कृतम् ।
त्रिपादं तुन्दिलं ध्यायेत् पूजादौ मन्त्रसिद्धये ॥ ३२-९७ ॥

त्रिंशत्सहस्रं मूलं तु जपेच्चापि तदर्धतः ।
जुहुयाद् बिल्वपद्माज्यैस्तत्समिद्भिस्तदर्धतः ॥ ३२-९८ ॥

हुत्वा तु तर्पयेन्नित्यं जम्भलं स तु मस्तके ।
प्राक् कारणेन केनापि चक्रेण हरिणा क्षतः ॥ ३२-९९ ॥

क्षततर्पणतस्तस्मिन् वेदना तस्य शाम्यति ।
तेन प्रीतोऽस्य यक्षेशो जम्भलोऽर्थं प्रयच्छति ॥ ३२-१०० ॥

षट्कोणमण्डलाम्भोजे ह्रीङ्कारेणाम्बुजं स्मरेत् ।
अङ्कारेणास्त्रसोमं च जङ्कारात् तत्र जम्भलम् ॥ ३२-१०१ ॥

बीजपूरं च नकुलं दधानं तं चतुर्भुजम् ।
वामदक्षिणपार्श्वस्थे मण्डले चन्द्रसूर्ययोः ॥ ३२-१०२ ॥

सविद्युद्वर्षदम्भोदश्च्योतद्वर्षजलं मुहुः ।
पिबन्तौ चातकौ ध्यात्वा पार्श्वयोस्तस्य तर्पयेत् ॥ ३२-१०३ ॥

गं गं पालय जलजलेन्द्राय ठठ ।
प्राग्वज्जम्भलमन्त्रोऽयं जपाद्यैरर्थसिद्धिदः ।

जम्भलमन्त्राधिकारः ।

खं चाग्निरौयुतो दण्डी मीनमेषौ च लोहितः ॥ ३२-१०४ ॥

अषढी ये च नत्यन्तः कौबेरोऽष्टाक्षरो मनुः ।

प्लूं पूर्णभद्राय । प्लुं विकुण्डलाय । क्लुं चेलिमालिने । युं च रन्द्राय । नं नरेन्द्राय । नृं नलकूबराय ।

षडेते मूर्तयोऽङ्गानि स्युर्नेत्रान्तं स्वजातिभिः ॥ ३२-१०५ ॥

तुन्दिलो धनदः पीतः पीताकल्पविभूषितः ।
चतुर्बाहुर्दधत् कुम्भौ रत्नपूर्णौ हिरण्मयौ ॥ ३२-१०६ ॥

करण्डौ चोर्ध्वबाहुभ्यां भद्रपीठाम्बुजोदरे ।
अङ्गानि केसराग्रेषु जम्भलाद्या दलाग्रगाः ॥ ३२-१०७ ॥

तद्बाह्येऽष्टौ च निधयः पूर्वादिक्रमयोगतः ।
जम्भलं च जलेन्द्रं च नरेन्द्रं चेलिमालिनम् ॥ ३२-१०८ ॥

विकुण्डलं पूर्णभद्रं माणिभद्रं चरेन्द्रकम् ।
निधी पद्ममहापद्मौ मकरः कूर्म एव च ॥ ३२-१०९ ॥

कुमुदश्चाप्यनन्तश्च नीलः शङ्खस्तथाष्टमः ।

वैश्रवणाय ठठ । पक्वाशाय ठठ । पिङ्गलाय ठठ । विविधाय ठठ । कुबेराय ठठ । कुबेराधिपतये ठठ । भूः ठठ । भुवः ठठ । स्वः ठठ । भूर्भुवः स्वः ठठ ।

एभिर्वटसमिद्धोमे मासेन धनवान् भवेत् ॥ ३२-११० ॥

तिलाज्यपायसाज्यैः स्याद्धुतं लक्ष्मीसमृद्धये ।
मेदः साक्षिभुजः कर्णी सोमाकान्तश्च दारुकः ॥ ३२-१११ ॥

सदृक् पिनाकी स्वाहेति कौबेरोऽयं षडक्षरः ।
भद्रासने कल्पतरोर्मूले पूज्यो धनेश्वरः ॥ ३२-११२ ॥

पद्मप्रभां पद्महस्तां तस्य दक्षिणवामयोः ।
वचद्भुवं च नकुलं देव्योः पार्श्वगतौ सुतौ ॥ ३२-११३ ॥

दूत्यौ चामरहस्ते चाप्यजितां चापराजिताम् ।
तदग्रादिचतुर्दिक्षु पूर्णभद्रादिकान् पुनः ॥ ३२-११४ ॥

पूजयेत् ।

पूर्णभद्रं माणिभद्रं जम्भलं चेलिमालिनम् ।
पूर्णभद्रस्य पार्श्वस्थे देव्यौ श्री पुष्टिरेव च ॥ ३२-११५ ॥

शङ्खपद्मनिधी पूज्यौ कुबेरस्य तु पार्श्वयोः ।
जयां च विजयां चैव पूजयेद् द्वारपालिके ॥ ३२-११६ ॥

विकुण्डलाद्यानिष्ट्वाथ सर्वेभ्योऽथ बलिं हरेत् ।
एवं मासेन धनवान् क्रमादब्दत्रयेण तु ॥ ३२-११७ ॥

कुबेरसदृशः श्रीमान् स भवेन्नात्र संशयः ।
श्रीकण्ठोऽम्भोवामपादादिरग्निरावृत्योक्ताश्चाग्निजाया दशार्णः ।
मन्त्रः स्वार्णैर्द्वन्द्वशोऽङ्गानि कुर्यात् कौबेरोऽयं ज्ञानमात्रं त्रिकालम् ॥ ३२-११८ ॥

एकादश्यां मन्दवारे न्यग्रोधाधोऽरुणोदये ॥ ३२-११९ ॥

प्राग्वद् वैश्रवणः पूज्यो जपेच्चाष्टसहस्रकम् ।
प्रत्यहं मासमात्रं तु निशीथे जुहुयाद् घृतम् ॥ ३२-१२० ॥

ज्योतिष्मत्यास्तु तैलेन पक्षमङ्कोलतैलतः ।
सिद्धमन्त्रो भवेत् पश्चादयत्नेन दिने दिने ॥ ३२-१२१ ॥

यक्षः कर्णेऽस्य तु वदेत् त्रैकाल्यार्थमयत्नतः ।

कर्णयक्षाधिकारः ।

कर्णी भृगुः पिनाकी भे कर्णशुक्लः प्रभेपदम् ॥ ३२-१२२ ॥

स्वाहान्तोऽष्टार्णको मन्त्रो देवतास्य तु यक्षिणी ।
प्रतप्तकनकप्रख्या नवयौवनशालिनी ॥ ३२-१२३ ॥

पीनोत्तुङ्गस्तनी चारुधम्मिल्ला रुचिरालका ।
शारदेन्दुमुखाम्भोजा लोलेन्दीवरलोचना ॥ ३२-१२४ ॥

सुभ्रूः सुदन्तनासोष्ठा सुभुजा सुन्दरोदरी ।
सुपीनश्रोणिजघना सूरुजङ्घाङ्घ्रिपङ्कजा ॥ ३२-१२५ ॥

सर्वाङ्गसुन्दरी चित्रवसनाभरणोज्ज्वला ।
प्रसाधनकराभ्यां तु दूतीभ्यां समुपस्थिता ॥ ३२-१२६ ॥

लेख्या चित्रपटे सम्यक् पूजनीया च यक्षिणी ।
वटाधो मासमात्रं तु त्रिलक्षं तं मनुं जपेत् ॥ ३२-१२७ ॥

मध्याह्ने वदरीपुष्पैः कदम्बकुसुमैस्तथा ।
माषान्नबलिपिण्डाभ्यां बलिं वैश्रवणाय तु ॥ ३२-१२८ ॥

निशासु प्रक्षिपेत् प्रोक्तमार्गेण जुहुयादपि ।
घृतेनाङ्कोलतैलेन पृथगष्टसहस्रकम् ॥ ३२-१२९ ॥

ततः प्रत्यक्षतां याति यक्षिणीष्टं ददाति च ।
तया वा रमतां कामं कारयेत् कर्म चेप्सितम् ॥ ३२-१३० ॥

लम्बोदरपदात् पूर्वं त्रिजगेति समुद्धरेत् ।
दीर्घाम्भो विषमेषौ च कर्णेति कथयेति च ॥ ३२-१३१ ॥

क्रमेण द्विर्द्विरुच्चार्य वर्मास्त्रे चाग्निजायया ।
मन्त्रः सङ्कृतिवर्णोऽयमिष्ट्वा भक्ष्यफलैस्तु तम् ॥ ३२-१३२ ॥

त्रिलक्षं तु जपेत् तस्य कर्णे कथयतीप्सितम् ।

हृत्कर्णशब्दश्च पिशाचिशब्दश्च (लुहर्णह ज्रहै ? सुवर्णवज्रवै)डूर्यमुक्ताभरणनिर्मलालङ्कृतशरीरिणि ! एह्येहि गच्छ त्रैकाल्यदर्शिनि मम कर्णं प्रविश्या तीतानागतवर्तमाने रुद्रो ज्ञापयति ठठ ।

लिङ्गं समभ्यर्च्य तदग्रतोऽमुं मन्त्रं जपेल्लक्षमथो तिलाज्यम् ।
पङ्क्त्यंशतोऽस्माज्जुहुयात् ततोऽस्मै कर्णे तु साक्षात् कथयेदभीष्टम् ॥ ३२-१३३ ॥

जाल मोल पलके पट्टे मट्टे चोरघरट्टे णले जम्भे स्तम्भे मोहे हंसाहे ।
सिन्दूराभा विवस्त्रा मणिकनकमिलद्भूषणा मुक्तकेशी
पीनश्रोण्यूरुरम्या मणिमयरुचिमत्पादुकाक्रान्तपादा ।
शिञ्जन्मञ्जीरकान्ता तनुतरविलसन्मध्यतुङ्गन्तनी या
सुभ्रूनेत्राखिलेन्दुद्युतिमुखकमला हेलती पातु युष्मान् ॥ ३२-१३४ ॥

भद्रकालीपरिचारां ध्यात्वेत्थं मन्त्रदेवताम् ॥ ३२-१३५ ॥

स्वैक्येनाशासु मध्ये च प्रक्षिपेन्नवशर्कराः ।
जपित्वाष्टोत्तरशतं चोरा न प्रविशन्ति तत् ॥ ३२-१३६ ॥

गृहमिति यावत् । चण्ड श्रीचण्डि । अमरभ्रमरभ्रमरक्षत्रधर पिङ्गलाक्षि कामरूपि अरण्यवासिनि खोट ठठ ।

कृष्णाष्टम्यादिभूतान्तं जपित्वेमं सहस्रकम् ।
पूर्वेद्युरधिवास्यैकां कन्यां तपनवासरे ॥ ३२-१३७ ॥

स्नातां विभूषितां प्रातर्वटुं वाभ्यर्च्य मन्त्रतः ।
चषकं मण्डले धान्ये संस्थाप्याभ्यर्च्य संस्पृशन् ॥ ३२-१३८ ॥

जपित्वाष्टोत्तरशतं ग्राहयेत् कन्ययाथ वा ।
गच्छेत्युक्त्वाक्षतक्षेपाद् गत्वा चोरं ग्रहीष्यति ॥ ३२-१३९ ॥

नमश्शब्दश्च कर्णश्च कालो दीर्घोऽथ भौतिकी ।
वायुश्च गिरिशब्दश्च स्वाहान्तोऽयं नवाक्षरः ॥ ३२-१४० ॥

सन्दिग्धचोरनामार्णान् मन्त्राक्षरविदर्भितान् ।
विलिख्य पत्राणि दहेच्चोरनाम न दह्यते ॥ ३२-१४१ ॥

द्वयोर्भ(?)फलके मन्त्रं साख्यं विलिखितं खनेत् ।
शास्तुरग्रे रक्तबलिं क्षिपेत् क्रुद्धः प्रसीदति ॥ ३२-१४२ ॥

उफा भट शेलर्वलिद्धि देवानुचराय महायक्षसेनाधिपतये । इदं मे कार्यं कथय कथापय तद्यथाज्ञापयति ठठ ।

कृष्णाष्टम्यादि जपतु सहस्रं त्वाचतुर्दशीम् ।
सिद्धमन्त्रस्ततः स्नात्वा सोपवासः स्वपेन्निशि ॥ ३२-१४३ ॥

जपन् कार्यं कथयति स्वप्ने तस्य शुभाशुभम् ।

अयुद्धे युद्धे युद्धषूभे ठ शुद्धयोगि महानिद्रे ठठ ।

इममर्कसहस्रं तु जपित्वा साधितेन तु ॥ ३२-१४४ ॥

अष्टसाहस्रजपितांस्तिलान् शुक्लांस्तु यद्गृहे ।
निशायां विकिरेत् तत्स्थान् नरान् निद्रा न मुञ्चति ॥ ३२-१४५ ॥

ॐ भ्रमरेशि भ्रफ फटि ठ भ्रम विभ्रम मुञ्च मोचय ठठ ।
स्वैक्यं ध्यात्वा तु कृष्णां प्रततबहुभुजात्तायुधां दीर्घकेशीं
स्वारूढां प्रस्वपन्तं मृगरिपुमथ तद्गेहमध्यस्थदुर्गाम् ।
केशैरावृत्य गेहं विकिरतु जपितान् सप्तकृत्वस्तु माषान्
प्रादक्षिण्येन निद्रा त्यजति न हि जनं तत्र सूर्योदयान्तम् ॥ ३२-१४६ ॥

हृदयान्ते भगवति केशान्तोऽङ्गुष्ठशब्दयुक् ।

चालि फ वाचालि दशकालि चण्डकालि लकालि ठठ ।

कालीदैवत्यमन्त्रोऽयं रविसाहस्रसाधितः ॥ ३२-१४७ ॥

प्रातः स्नात्वा जपापुष्पैः कृत्वाङ्गुष्ठं सितेतरम् ।
कृतमण्डलके विघ्नं कालीं चेष्ट्वा च कन्यकाम् ॥ ३२-१४८ ॥

तैलसेकात् तु साङ्गुष्ठे प्रस्तुतार्थं शुभाशुभम् ।
निरीक्ष्य सर्वं वदति मन्त्रस्यैव प्रभावतः ॥ ३२-१४९ ॥

ॐ हिद्याढ षज फणाश ठठ ।

कलशस्थे समाराध्य पश्येत् प्राग्वत् तु दर्पणे ।

ॐ कपालखट्वाङ्गडमरुकहस्ते निशिततीक्ष्णदंष्ट्रोत्कराले कुटिलपिङ्गलाक्षि लम्बान्तकेशकलापे मृतशिरःकुण्डलालिङ्गितगण्डे सर्वभूतवशङ्करि सर्वभूतमन्त्रशरीरे आगच्छ मायारूपधारिणि शूलं शूलं चालय इमं मानुषशरीरं गृह्ण अनुप्रविश्य जृम्भ सर्वतोभये घटे दर्पणे तिलतैले कौमार्याङ्गुष्ठां (?) दर्शय महाभैरव राक्षसि स्वाहा ।

इयं तु कालीदैवत्या विद्या भैरवराक्षसी ॥ ३२-१५० ॥

अनयाङ्गुष्ठमाराध्य दर्पणं वा विधिक्रमात् ।
जपेत् त्रिकालसम्बद्धं वस्तु सर्वं प्रदृश्यते ॥ ३२-१५१ ॥

स्वस्ति हिषां धाजट प्रचतभषाकफान्त वडि च मण्डलोपजीवि-तस्य श्रीहनुमताज्ञापयति मूषिकपतङ्गपिपीलिकशलभकरसुम्भ-करीटगन्धिकादिकैर्न स्थातव्यम् । आज्ञां व्यतिक्रमणमाणस्य शरीरनिग्रहं समावर्तयति ।

तस्य वानरसिंहस्य क्रममाणस्य सागरम् ।
कक्षान्तरगतो वायुर्जीमूत इव गर्जति ॥ ३२-१५२ ॥

हुं फण्णमः ।

अयं हनूमद्दैवत्यः सस्यरक्षाकरो मनुः ।
विलिख्य पत्रे तु मनुं वारेऽर्कस्य कुजस्य वा ॥ ३२-१५३ ॥

नीत्वा प्रदक्षिणं क्षेत्रे खनेत् कीटादिशान्तये ।

नमो भगवते षक्तकाफुण्डे हंसः चामुण्डे । अपिच विचय हंसः काली उच्चाटय हुं फट् ।

भस्माष्टोत्तरसाहस्रमादाय जपितं करे ॥ ३२-१५४ ॥

क्षेत्रे प्रदक्षिणं प्रास्य सस्यं किञ्चिद् विमुच्य तु ।

सस्यकीटादयो नश्यन्ति । खुषि खुषि प्रवञ्जणि लुखेषिणि ठठ ।

साध्यां पश्यन् सुकेशस्यपृग् जपेदाकर्षयेच्च ताम् ॥ ३२-१५५ ॥

स्त्री पुरुषं वेति यावत् ।

भूर्जे स्वनामान्तरितो मन्त्रोऽयं रोचनार्पितः ।
सितसूत्रावृतोऽश्वत्थकोटरस्थोऽस्य पुष्टिकृत् ॥ ३२-१५६ ॥

स साध्यनामन्यग्रोधकोटरस्थं वशं नयेत् ।

ॐ हां शुगृहे खे हे हं हः ।

अनेन जपितान् व्रीहीन् भक्षयन्ति न मूषिकाः ॥ ३२-१५७ ॥

नालिकेरादिबन्धाच्च जपितारुणतन्तुना ।

ॐ हि लष वज्र ।

शमीभस्माम्भसा अनेन क्लिन्नदक्षिणपाणिना ॥ ३२-१५८ ॥

स्पृष्ट्वा वश्याः स्युरन्येन स्पर्शादुच्चाटिता नराः ।
पण्ये विकीर्णं तद्भस्म तद्विक्रयनिषेधकृत् ॥ ३२-१५९ ॥

तत्पुण्ड्रमुखमालोक्य दान्ताः स्युर्वृषभादयः ।

इत्थं हि शास्तुः कथितं विधानं समन्त्रकं क्षेत्रपचण्डयोश्च ।
इन्द्रस्य यक्षेश्वरपूर्वकाणां त्रैकाल्यविज्ञानविशेषयुक्तम् ॥ ३२-१६०� ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे मन्त्रपादे शास्त्रादिपटलो द्वात्रिंशः ॥ ३२ ॥