अथ एकत्रिंशः पटलः ।
शिव एव हि सर्गान्तः शिवास्त्रं परिकीर्तितम् ।
षष्ठवर्गद्वितीयं तु चतुर्थाद्यार्धमात्रयुक् ॥ ३१-१ ॥
प्रथमात् पञ्चमादाद्यौ संयोज्यैवं द्विवर्णकम् ।
अस्त्रं पाशुपतं चैतत् समस्तदुरितापहम् ॥ ३१-२ ॥
अस्यादौ स शिवास्त्रं तु शिवबीजं नियोजयेत् ।
सर्वविघ्नहरं दिव्यं मुक्तिदं स्याज्जपादिभिः ॥ ३१-३ ॥
अस्त्रयोरनयोश्चर्षिर्वामदेवस्तु देवता ।
शिव एव तु पङ्क्तिः स्याच्छन्दो लक्षेण सिध्यति ॥ ३१-४ ॥
विनियोगा ह्यघोरास्त्रे ये स्युस्तेऽप्यनयोः समाः ।
पाशुपतास्त्रशिवास्त्रयोः,
अष्टमार्द्य भूमियुक्तं तृतीयस्वरबिन्दुमत् ॥ ३१-५ ॥
प्रथमं बीजमुद्दिष्टं षष्ठाद्यं स्याद् द्वितीयकम् ।
तृतीयमष्टमाद्यं तु पञ्चमस्वरसंयुतम् ॥ ३१-६ ॥
वर्मास्त्रे चेति पञ्चार्णमस्त्रं पाशुपतं स्मृतम् ।
बिन्दुनादान्वितः प्राणः शुक्लं सर्गि च पाण्डरम् ॥ ३१-७ ॥
ध्यायेद्धृदयपद्मस्थं चिन्मन्त्रो यः शिवात्मकः ।
प्रणवश्चैव तच्छब्दो महेशाय पदं ततः ॥ ३१-८ ॥
विद्मशब्दश्च हे चान्ते वाग्विशुद्धाय धीमहि ।
तन्नःपदान्ते रुद्रः स्यात् प्रकारान्ते तु चोदयात् ॥ ३१-९ ॥
त्रयोदशस्वराढ्यं तु जलं वायुसमन्वितम् ।
षष्ठान्तं चोद्धरेदस्य पदस्यादौ च तारकम् ॥ ३१-१० ॥
व्योमशब्दश्चतुर्थ्यन्तं विद्मशब्दश्च हेयुतम् ।
शुक्लं षष्ठस्वरयुतमन्त्यं षष्ठान्त्यसंयुतम् ॥ ३१-११ ॥
सूक्ष्मशब्दश्चतुर्थ्यन्तं धीमहीत्यादिकं तथा ।
प्राग्वत् समुद्धृत्य भवेत् सावित्री शिवसञ्ज्ञिता ॥ ३१-१२ ॥
अनयोर्विनियोगस्तु शिवपूजाविधौ स्मृतः ।
सावित्री-
मन्त्रं व्योमव्यापिसञ्ज्ञं तु वक्ष्ये व्यक्तस्त्वेकाशीतिसङ्ख्यैः पदैर्यः ।
वर्णानां चाप्यष्टषष्ट्युत्तराणि त्रीण्येवास्मिन् सङ्ख्यया वै शतानि ॥ ३१-१३ ॥
प्रथमं तु पदं तारं सप्तमान्त्यं त्वगन्वितम् ॥ ३१-१४ ॥
त्रयोदशस्वरोपेतमुद्धृत्यैवं तथा पुनः ।
षष्ठान्तं व्यापिने चेति द्वितीयं पञ्चवर्णकम् ॥ ३१-१५ ॥
व्योमशब्दश्च रूपाय सर्वव्यापिन इत्यपि ।
पञ्चाक्षरे पदे प्रोक्ते शिवायेति त्रियक्षरम् ॥ ३१-१६ ॥
अनन्तानाथशब्दैस्तं चतुर्थ्या चतुरक्षरे ।
पदेऽथानाश्रितायेति पञ्चार्णैरष्टमं पदम् ॥ ३१-१७ ॥
त्रिचतुर्वर्णकपदे चतुर्थ्या ध्रुवशाश्वते ।
योगपीठसंस्थिताय नित्ययोगिन इत्यपि ॥ ३१-१८ ॥
वसुबाणाक्षरे ध्यानाहाराय शरवर्णकम् ।
पञ्चाक्षरं तु तारादिर्मुख्यः षड्वर्णकं पदम् ॥ ३१-१९ ॥
सर्वप्रभव इत्यर्णैः पञ्चभिः स्यात् पदं वतः ।
शिवायेति त्रिवर्णः स्यादथेशानादिपञ्चकम् ॥ ३१-२० ॥
उक्त्वा मूर्धाय वक्त्राय हृदयायेति चोपरि ।
गुह्याय मूर्तये चेति षट्सप्तमुनिसङ्ख्यया ॥ ३१-२१ ॥
समुद्रोदधिसङ्ख्यार्णैः क्रमात् स्यात् पदपञ्चकम् ।
तारं नमो वीप्सितं च पदं पञ्चाक्षरं भवेत् ॥ ३१-२२ ॥
षड्भिर्गुह्यातिगुह्याय गोप्त्रे वर्णद्वयं पदम् ।
अनिधनायपञ्चार्णैः सर्वविद्याधिपाय तु ॥ ३१-२३ ॥
सप्तार्णैः सर्वयोगाधिगतायेत्यष्टवर्णकम् ।
ज्योतीरूपायपञ्चार्णैः परमेश्वरपराय च ॥ ३१-२४ ॥
अष्टाक्षरैः परमात्मन्पदं स्याद् वेदवर्णकम् ।
अचेतना चेतनेति पदं सप्ताक्षरं स्मृतम् ॥ ३१-२५ ॥
व्योम्निद्वन्द्वं चतुर्वर्णं व्यापिन्युग्मं तथैव च ।
अरूपिन् वीप्सित षड्भिः प्रथमद्वितयं तथा ॥ ३१-२६ ॥
तेजोयुग्मं चतुर्वर्णं ज्योतिर्द्वन्द्वं तथैव हि ।
अरूप चाप्यनग्ने च अधूमेति त्रिभिस्त्रिभिः ॥ ३१-२७ ॥
अभस्म चाप्यनादे च नात्रयं धूत्रयं तथा ।
त्रियक्षराणि चत्वारि पदानीमानि वै विभोः ॥ ३१-२८ ॥
ताराद्यं भूर्भुवः स्वश्च द्वित्रिद्व्यर्णानि वै क्रमात् ।
पदान्यनिधनेत्यर्णैश्चतुर्भिर्निधनं त्रिभिः ॥ ३१-२९ ॥
निधनोद्भवपञ्चार्णं स्याच्छिवेत्यक्षरद्वयम् ।
द्वाभ्यां शर्वेति च पदं विज्ञेयमिह देशिकैः ॥ ३१-३० ॥
महेश्वरेति श्रुत्यर्णं महादेवपदं ततः ।
सद्भावेश्वरपञ्चार्णं महातेजश्चतुष्टयम् ॥ ३१-३१ ॥
पञ्चार्णं योगाधिपते मुञ्चद्वन्द्वं चतुष्टयम् ।
प्रथमद्वितयं षड्भिः सर्वयुग्मं चतुष्टयम् ॥ ३१-३२ ॥
भवद्वन्द्वं चतुर्भिः स्याद् भवोद्भवचतुष्टयम् ।
अथाष्टवर्णं हि पदं सर्वभूतसुखप्रदम् ॥ ३१-३३ ॥
सप्ताक्षरं सर्वपूर्वं सान्निध्यकर इत्यपि ।
ब्रह्मविष्णुरुद्रपरपदमष्टाक्षरं भवेत् ॥ ३१-३४ ॥
अनर्चितानर्चितेति तथा संस्कृतवीप्सितम् ।
अष्टवर्णे पदे ज्ञेये पूर्वस्थितचतुष्टयम् ॥ ३१-३५ ॥
साक्षिन्द्वन्द्वं चतुर्भिः स्याद् वेदार्णं तुरुयुग्मकम् ।
पतङ्गेति त्रिवर्णं स्यात् पिङ्गयुग्मं चतुष्टयम् ॥ ३१-३६ ॥
ज्ञानद्वयं शब्दयुग्मं सूक्ष्मयुग्मं पदत्रयम् ।
पृथग् वेदाक्षराण्येव शिवशर्वद्वयं द्वयम् ॥ ३१-३७ ॥
सर्वदेति त्रिभिर्वर्णैः पञ्चार्णैरोन्नमो नमः ।
शिवाय त्र्यक्षरपदं विज्ञेयं देशिकोत्तमैः ॥ ३१-३८ ॥
तारपूर्वं नतिद्वन्द्वं पदं पञ्चाक्षरं स्मृतम् ।
एकाशीतिपदान्येवं विज्ञेयानि क्रमेण हि ॥ ३१-३९ ॥
तारं सर्वात्मने जातिसहितं हृदयस्य तु ।
द्वितीयं पदमुच्चार्य सशिवब्रह्मशब्दयुक् ॥ ३१-४० ॥
स्वजातियुक्तं तु शिरः शिखामन्त्रोऽपि कथ्यते ।
तृतीयं पदमुच्चार्य ज्वालिनीति द्विरभ्यसेत् ॥ ३१-४१ ॥
जातियुक्ता शिखोक्ताथ चतुर्थं पदमुद्धरेत् ।
उक्त्वा पिङ्गलशब्दं तु वर्म स्याज्जातियोजितम् ॥ ३१-४२ ॥
पञ्चमं पदमुच्चार्य शिवाघोरास्त्रके तथा ।
जातियुक्तं तदस्त्रं स्यादङ्गानीमानि पञ्च हि ॥ ३१-४३ ॥
व्योमव्यापिमनोरस्य चन्द्रज्ञानोक्तमार्गतः ।
षडङ्गान्यपि दृष्टानि लिख्यन्ते तान्यनुक्रमात् ॥ ३१-४४ ॥
ॐ व्योमव्यापिशिव ॐ नमः सर्वात्मने पराय परमेश्वराय योगाय योगसम्भवाय तुरु तुरु सत्य सत्य भवोद्भव वामदेवाय सर्वकार्यप्रशमन सदाशिव प्। १७५) प्रसन्न नमोस्तु ते ठठ । हृदयाय नमः । शिव ब्रह्मशिरसे ठठ । ॐ शिवहृदयज्वालिनि ठठ । ज्वालिन्यै शिखायै वषट् ।
शिवात्मकं महादेवं सर्वज्ञं प्रभुमव्ययम् ।
आवर्तये महाघोरं कवचं पिङ्गलं शुभम् ॥ ३१-४५ ॥
आयाहि पिङ्गल महाकवच शिवाज्ञया हृदयं बन्ध ज्वल घूर्ण शक्ति वज्रधर वज्रपाश वज्ररूप तमनुप्रविश्य सर्वदुष्टान् स्तम्भय हुं फट् पिङ्गलाय कवचाय हुम् । ॐ जुं सं ज्योतीरूपाय नेत्रत्रयाय वौषट् । पूर्ववदघोरास्त्रमेवास्त्रम् ।
शिवो हि देवतास्यर्षिः शक्तिर्गायत्रसञ्ज्ञितम् ।
छन्दः स्मृतमतोऽन्यत् तु न मीमांस्यं कथञ्चन ॥ ३१-४६ ॥
षड्थाद्यं भूमिबीजस्थं पञ्चमस्वरबिन्दुयुक् ।
तोयं सर्गि जलं वायुर्द्वादशान्तयुतं तथा ॥ ३१-४७ ॥
षष्ठान्तं व्यापिनेशब्दो हुतभुक्प्रिययान्वितः ।
तारादिर्दशवर्णोऽयं व्योमव्यापिशिवात्मकः ॥ ३१-४८ ॥
तारः स्वरो द्वितीयश्च स्वरौ वेदर्तुसम्मितौ ।
व्योमव्यापी चतुर्थ्यन्तस्तारान्तोऽयं दशाक्षरः ॥ ३१-४९ ॥
कृत्वा शिवास्त्रात् करयोः शुद्धिमङ्गुलिषु क्रमात् ।
न्यसेज्ज्येष्ठादिकरयोर्व्योमव्यापिदशाक्षरैः ॥ ३१-५० ॥
शिरोक्षिकर्णघ्राणास्यकण्ठहृन्नाभिषु क्रमात् ।
गुह्ये च पादयोर्वर्णान् बिन्द्वन्तान् दश विन्यसेत् ॥ ३१-५१ ॥
षडङ्गानि यथास्थानं विन्यस्य हृदयादिषु ।
कृत्वा शिवास्त्राद् दिग्बन्धं कुर्यात् पूजाजपादिकम् ॥ ३१-५२ ॥
दीक्षां गुरोरवाप्यादौ निर्वाणां सामयीं तु वा ।
साधकीं वाभिषेकान्तां ततः संसाधयेन्मनुम् ॥ ३१-५३ ॥
त्रिःस्नायी पूजयेल्लिङ्गे शिवं पञ्चावृतिक्रमात् ।
आसनादिक्रमात् प्रोक्तैरुपचारैस्तु शक्तितः ॥ ३१-५४ ॥
आद्यावृतिः स्यान्मूर्त्यङ्गैर्विद्येशैरष्टभिः क्रमात् ।
नन्दीशाद्यैस्तृतीया स्याच्चतुर्थी दशलोकपैः ॥ ३१-५५ ॥
तदस्त्रैः पञ्चमी प्रोक्ता यथैवोत्तरपद्धतौ ।
मन्त्रसाधनाधिकारः ।
एकाशीतिसहस्रं तु व्योमव्यापिमनुं जपेत् ॥ ३१-५६ ॥
तद्दशांशं दशार्णं तु पलाशसमिधो घृतम् ।
तिलांश्च पायसं हुत्वा पुरश्चर्या प्रसिध्यति ॥ ३१-५७ ॥
अपुरश्चरणोऽप्येष भक्तस्य यजतः शिवम् ।
मन्त्रः संसाधयेदिष्टं किं पुनः प्रोक्तजापतः ॥ ३१-५८ ॥
आवहेन्महतीं सिद्धिं प्रोक्तां द्वित्रिचतुर्गुणम् ।
जपोऽणिमादींश्च गुणान् ददाति दशलक्षतः ॥ ३१-५९ ॥
सप्तवारं जपाद् व्याधीन् सर्वानपि हरेन्मनुः ।
अष्टाभिश्च ग्रहान् सर्वानपस्मारान् दशाधिकैः ॥ ३१-६० ॥
विषाणि पाठाद्धरति सदाशिवमनुः स्वयम् ।
स्वैक्यं सदाशिवं ध्यायन् कुर्यात् कर्माणि सिद्धये ॥ ३१-६१ ॥
शान्तिकेषु स्मरेच्छुक्लं रक्तं पौष्टिकवश्ययोः ।
आकर्षणे च पीताभं स्तम्भे धूम्रं तु चाटने ॥ ३१-६२ ॥
कृष्णं तु मारणे शत्रुजये सूर्यप्रभं शिवम् ।
मुक्तये शङ्खकुन्देन्दुमृणालक्षीरसन्निभम् ॥ ३१-६३ ॥
हृत्पद्मकोटरे ध्यायन् सदासौ मुच्यते भवात् ।
यद् यदिष्टं भवेत् कर्म तत्तद्धोमजपादिना ॥ ३१-६४ ॥
संसाधयेदयत्नेन पक्षादर्वाङ् न संशयः ।
पल्लवाद्यैस्तु पटले प्रोक्तद्रव्यादिभिर्हुतः ॥ ३१-६५ ॥
नित्यमष्टोत्तरशतं तत्तत्कर्म प्रसाधयेत् ।
व्योमव्यापिप्रकरणम् ।
साजेशोऽनुग्रहः साग्निः काष्ठमोबिन्दुनादवान् ॥ ३१-६६ ॥
पिण्डं स्याद् बीजरत्नं तदखिलार्थप्रसाधनम् ।
दीर्घस्वरैः स्वेनाङ्गानि जातियुक्तानि षट् क्रमात् ॥ ३१-६७ ॥
ऋषिः स्यादङ्गिराश्च्छन्दो दैवीगायत्रमस्य हि ।
वज्रं तु देवता ज्ञेयं कालाग्निसदृशद्युति ॥ ३१-६८ ॥
षट्कोतियुक्तं तीक्ष्णाग्रं शितधाराभिरन्वितम् ।
सर्वास्त्रशस्त्रप्रत्यर्थिविदारणविधिक्षमम् ॥ ३१-६९ ॥
लक्षजापः पुरश्चर्या दशांशं च तिलैर्हुतम् ।
चन्द्रेन्द्रबिम्बमध्यस्थं पिण्डं वज्राकृति स्मृतम् ॥ ३१-७० ॥
ज्वालामालाकुलं पीतं स्तम्भनं सर्वविद्विषाम् ।
प्रतिवादिमुखे सैन्ये मत्तेभमहिषादिषु ॥ ३१-७१ ॥
चन्द्रेन्द्रबिम्बवह्निस्थं पिण्डं तज्जपितं स्मृतम् ।
पीतं ज्वालाकुलं सद्यस्तत्तत् संस्तम्भयेत् स्फुटम् ॥ ३१-७२ ॥
वाय्वग्निसंयुतं ध्यातं पिण्डं संस्तम्भमावहेत् ।
ग्रहग्रस्ते तथा ध्यातं पिण्डं तन्मोक्षमावहेत् ॥ ३१-७३ ॥
रोचनालिखितं त्वेतत् पटादौ यत्र पूज्यते ।
तद् गृहं ग्रहरोगाहिक्षुद्ररोगास्त्ययन्ति हि ॥ ३१-७४ ॥
ऐन्द्रमण्डलगं पिण्डं स्तम्भयेदुद्यदायुधम् ।
आप्यमण्डलगं पिण्डमग्न्यनुग्रहवर्जितम् ॥ ३१-७५ ॥
विषदष्टशिरोन्यस्तं विषं सद्यो विनाशयेत् ।
पद्मोदरेन्द्रबिम्बेऽपि पिण्डं पिण्डस्य मध्यतः ॥ ३१-७६ ॥
नामजीवविदर्भं तु विलिख्यं स्याद् दलेष्वथ ।
पश्चिमोत्तरयाम्यप्राङ्मध्येऽर्णान् विपतेर्लिखेत् ॥ ३१-७७ ॥
तारं संवर्तकः साक्षः पार्श्वं ठौर्विपतेर्मनुः ।
पञ्चार्णो विनियोगोऽस्य परस्तादिह लिख्यते ॥ ३१-७८ ॥
वाय्वग्निरक्षःशार्वेषु यादीन् वान्तान् सबिन्दुकान् ।
सबिन्दुवामनेत्रेण त्रिष्कृत्वो वेष्टयेद् बहिः ॥ ३१-७९ ॥
भूर्जे गोमयतोयार्द्ररोचनापङ्कतो लिखेत् ।
हेमसूच्या तु पुष्ट्यर्के सिद्धयोगेऽथवा लिखेत् ॥ ३१-८० ॥
सम्पूज्य जपहोमाभ्यामष्टोत्तरसहस्रकम् ।
जातरूपहिरण्यैस्तु वेष्टितं गुलिकीकृतम् ॥ ३१-८१ ॥
धृतं हस्तेऽथवा कण्ठे मूर्ध्नि वा सर्वकामदम् ।
आयुरारोग्यविजयश्रीसमृद्धिसुतप्रदम् ॥ ३१-८२ ॥
भूतग्रहादिचोरारितोयाग्निभवभीतिहृत् ।
सिंहव्याघ्रगजादिभ्यो रक्षत्येनं सदा धृतम् ॥ ३१-८३ ॥
कालात् तु वायुना नीते जीर्णपत्रे तु तल्लिखेत् ।
रहितं बिन्दुना चेन्दुमण्डलेन च यादिभिः ॥ ३१-८४ ॥
विलिख्य काकपत्रेण कृष्णेनोच्चाटयेद् रिपून् ।
पिण्डं क्रोधाग्निपुटितमुच्चाटादिविधौ जपेत् ॥ ३१-८५ ॥
खं सश्रीत्राग्निचन्द्रार्धं बीजं क्रोधाग्निसञ्ज्ञितम् ।
निम्बच्छदे तथा काकमलदेहाग्निभिर्लिखेत् ॥ ३१-८६ ॥
तदङ्गजैश्च विद्वेषस्तयोः स्यादुक्तधूपतः ।
विषमार्जारनकुलसर्पाश्चमहिषोद्भवैः ॥ ३१-८७ ॥
रोमभिर्धूपयेद् द्वेषे निम्बपत्रविमिश्रितैः ।
क्रोधाग्निपुटितं पिण्डं लिखितं निम्बपत्रके ॥ ३१-८८ ॥
विषेण रुधिरार्द्रेण चिताग्नौ मारणं हुतम् ।
पाशेनाद्यन्तसंरुद्धं दीर्घक्रोधाग्निसम्पुटम् ॥ ३१-८९ ॥
पिण्डं जपेच्छान्तिकेषु क्षुद्रशान्तौ विशेषतः ।
रोगादिशान्तये जप्यः पिण्डः स्यात् कुम्भसम्पुटः ॥ ३१-९० ॥
चन्द्रमण्डलमध्यस्थसुधामृतसितद्युतिः ।
पिण्डाधिकारः ।
संवर्तः सविषाग्नित्वक् सद्यान्तार्धेन्दुशेखरः ॥ ३१-९१ ॥
बीजं चिन्तामणिर्नाम महारुद्रोऽस्य देवता ।
ऋषिस्तुम्बुरुसञ्ज्ञोऽस्यच्छन्दो गायत्रमेव हि ॥ ३१-९२ ॥
लक्षावृत्तिः पुरश्चर्या दशांशं च तिलैर्हुतम् ।
प्राणानुग्रहहीनं तं बीजं दीर्घस्वरैर्युतम् ॥ ३१-९३ ॥
जातिभाञ्जि षडङ्गानि बिन्द्वन्तं नयनत्रयम् ।
तदप्यस्त्रान्तम् ।
शिवासनेऽरुणाम्भोजे स्थितो ध्येयोऽरुणद्युतिः ॥ ३१-९४ ॥
शरशूलाग्निनागांश्च टङ्कं च करवालकम् ।
कपालं कार्मुकं बिभ्रदष्टबाहुं त्रिलोचनम् ॥ ३१-९५ ॥
रक्ताकल्पः कृत्तिवासाः कपर्दी चन्द्रशेखरः ।
रौद्रः प्रसन्नवदनो ध्येयः सर्वाङ्गसुन्दरः ॥ ३१-९६ ॥
केसराग्रेषु चाङ्गानि देव्यो दिक्पत्रमध्यगाः ।
कोणच्छदस्था दूत्योऽस्य सर्वा ललितविग्रहाः ॥ ३१-९७ ॥
जया च विजया चैव अजिता चापराजिता ।
दुर्गा च सुभगा चैव कराली मोहनी तथा ॥ ३१-९८ ॥
तद्बाह्ये दशलोकेशैर्विघ्नवीरेशमातृभिः ।
तदस्त्रैरपि तद्बाह्ये चतुरावरणैर्यजेत् ॥ ३१-९९ ॥
उपचारैर्यथाशक्ति सिद्धमन्त्रस्ततो भवेत् ।
विनियोगा भवन्ति स्म जपध्यानार्च्चनारतेः ॥ ३१-१०० ॥
ज्वलदग्निपुरस्थं तद् बीजं ग्रस्तशिरःस्थितम् ।
स्तोभकृद् ग्रहमोक्षं च करोति जपतः क्षणात् ॥ ३१-१०१ ॥
स्त्रीनामसहितं योनौ स्मृतं बीजं वशीकरम् ।
अग्निवायुपुरस्थं तद् बीजाग्निस्थः स्वयं स्मरेत् ॥ ३१-१०२ ॥
सर्वरक्षाकरमिदमात्मनो वा परस्य वा ।
कृष्णं कर्णे नयनयोः कुक्षौ मारे स्मृतं तु तत् ॥ ३१-१०३ ॥
बाधिर्यमन्धता शूलं बीजमापादयेत् स्फुटम् ।
बीजमग्निमयं देहे ध्यातं शत्रोस्तु दाहकृत् ॥ ३१-१०४ ॥
हृदाग्निवायुबिम्बस्थं स्मृतं योषिद्वशङ्करम् ।
चक्रीमृद्भैरवास्यस्थं यन्त्रं तन्नामबीजवत् ॥ ३१-१०५ ॥
वाक्स्तम्भनकरं शत्रोर्नृम्भा मोहादिभूगृहे ।
मधुरत्रकुम्भस्थं क्षुत्पिपासाज्वरादिहृत् ॥ ३१-१०६ ॥
षट्कोणं मूर्ध्नि तद् ध्यातं दष्टस्याधोऽवतारितम् ।
पादान्तं त्रिरिदं सद्यो विषसंहरणं स्पृशेत् ॥ ३१-१०७ ॥
अनूर्ध्वाग्निविषं बीजममृतास्रावि पाण्डुरम् ।
कण्ठे वामकरे ध्यातं विषमृत्युजरापहम् ॥ ३१-१०८ ॥
षट्कोणमध्यगं बीजमग्निवाय्वादिवर्जितम् ।
अनूर्ध्वाग्न्यादिकं षट्सु कोणेष्वग्निसमन्वितम् ॥ ३१-१०९ ॥
बहिर्भूमण्डलोपेतं भूर्जे रोचनयार्चितम् ।
पिण्डयन्त्रोक्तविधिना गुलिकीकृत्य साधितम् ॥ ३१-११० ॥
चिन्तामणि समं ह्येतत् प्राग्वत् सर्वार्थसाधकम् ।
प्रणवोऽथ वचः शब्दः कर्णी नाभिस्ततो जलम् ॥ ३१-१११ ॥
रुद्रस्वरस्थं नत्यन्तो गुहमन्त्रः स्वराक्षरः ।
विश्वामित्रोऽस्य तु मुनिरुष्णिग् छन्दस्तु दैवतम् ॥ ३१-११२ ॥
षण्मुखोऽर्णायुतजपं पुरश्चर्यादशांशतः ।
तिलाज्यहोमं कुर्याच्च पूजां चोक्तविधानतः ॥ ३१-११३ ॥
षण्मुखो वैकवक्त्रो वा द्वादशाक्षभुजो गुह ।
चतुर्बाहुर्द्विबाहुर्वा रक्ताकल्पविभूषितः ॥ ३१-११४ ॥
युवा कुमारो बालो वा स्कन्दो ध्येयः स्मिताननः ।
पाणिभ्यां पङ्कजेऽधस्तादूर्ध्वं शक्तिं च कुक्कुटम् ॥ ३१-११५ ॥
बिभ्रच्चतुर्भुजः स्कन्दो ध्येयः पद्मासने स्थितः ।
दक्षिणे पङ्कजं शक्तिं मातुलुङ्गं च वामतः ॥ ३१-११६ ॥
पाशं चतुर्भुजो बिभ्रदेकवक्त्रो युवा गुहः ।
अभयं पङ्कजं शक्तिं दक्षिणे वरतोमरे ॥ ३१-११७ ॥
कुलिशं षड्भुजो बिभ्रदुपविष्टोऽम्बुजासने ।
स्थितोऽपि षण्मुखो ध्येयस्त्वेकवक्त्रोऽथवा भवेत् ॥ ३१-११८ ॥
अभयं शक्तिशूलेषून् कुलिशं चाङ्कुशं करैः ।
दक्षिणे धारयंस्तद्वत् कटिस्पर्शिवरप्रदम् ॥ ३१-११९ ॥
दण्डं च तोमरं चापं घण्टां पाशं च वामतः ।
अधोहस्तात् प्रभृत्यूर्ध्वं स्याद् द्वादशभुजो विभुः ॥ ३१-१२० ॥
स्नात्वा मूलाङ्गमन्त्रैस्तु कृतसन्ध्याविधिः शुचिः ।
धौताङ्घ्रिहस्तः स्वाचान्तो द्वारि द्वाःस्थाविमौ यजेत् ॥ ३१-१२१ ॥
शक्तिपाणये नमः । वज्रपाणये नमः ।
प्रविश्यान्तरुपासीनो विघ्नेशं च गुरुं यजेत् ।
कृतात्मयागस्तिलकी मूलाङ्गाढ्योदकेन तु ॥ ३१-१२२ ॥
स्वशिरोर्चाक्षितिद्रव्यप्रोक्षणादिविशुद्धितः ।
भद्रके मण्डले शक्तिमनन्तासनगात्रकान् ॥ ३१-१२३ ॥
धर्मादीन् कन्दनालाब्जैः सत्त्वाद्यान् मण्डलानि च ।
ब्रह्मादींश्चापि विद्याद्याः शक्तीर्याद्यैर्नवाक्षरैः ॥ ३१-१२४ ॥
क्षान्तैर्दीर्घस्वरार्धेन्दुयुक्तैः सङ्कल्प्य पूजयेत् ।
स्कन्दमूर्तिं यथोद्दिष्टां कर्णिकायां निवेश्य तु ॥ ३१-१२५ ॥
हृत्पद्माद् द्वादशान्ताद् वा ज्योतिः सौषुम्नमार्गतः ।
स्कन्दात्मकं समावाह्य मूर्तौ संस्थाप्य रोधयेत् ॥ ३१-१२६ ॥
सन्निरुध्यावकुण्ठ्याथ प्ररोच्यामृततां नयेत् ।
द्व्यष्टोपचारैरर्घ्याद्यैरभिपूज्य यथाविधि ॥ ३१-१२७ ॥
अङ्गानि शक्तीः षण्मूर्तीः परिवारांश्च पूजयेत् ।
केसरेषु तदग्रेषु दलाग्रेषु च तद्बहिः ॥ ३१-१२८ ॥
अङ्गादीन् लोकपालांस्तांस्तदस्त्राणि च पूजयेत् ।
आवरणनामानि-
विद्या शान्तिः स्मृतिर्मेधा प्रज्ञा कान्तिर्द्युतिर्धृतिः ॥ ३१-१२९ ॥
व्यापिनी चेति बिन्द्वन्तास्तन्मध्ये नवमीं यजेत् ।
सनत्कुमारः स्कन्दश्च विशाखः षण्मुखस्तथा ॥ ३१-१३० ॥
नैगमेषो हेमचूडः षडिमान् पूजयेत् क्रमात् ।
प्राग्याम्यरक्षोवरुणवायुसोमादिशागतान् ॥ ३१-१३१ ॥
अग्नीशयोः शङ्खपद्मौ निधी च धनवर्षिणौ ।
चतुर्द्वारेष्वथ द्वौ द्वौ वीरसेनादिकान् यजेत् ॥ ३१-१३२ ॥
वीरसेनमहासेनौ भद्रसेनसुषेणकौ ।
चारुसेनश्च सेनानीः सेनान्तौ पूर्णचित्रकौ ॥ ३१-१३३ ॥
पूज्या इत्यर्थः ।
बाह्ये द्वादशराशिस्था द्वादशेज्या गणेश्वराः ।
बाणशाखौ भद्रसेनः सेनानीश्च भवात्मजः ॥ ३१-१३४ ॥
सुब्रह्मण्यः कार्तिकेयो गुहो वै कुक्कुटध्वजः ।
मयूरवाहनश्चैव गाङ्गेयश्च ततः परम् ॥ ३१-१३५ ॥
देवसेनापतिश्चैव द्वादशैते गणेश्वराः ।
तद्बाह्ये लोकपालास्तु पूज्याः सायुधवाहनाः ॥ ३१-१३६ ॥
विघ्नं च वीरभद्रं च याम्ये मातॄश्च पूजयेत् ।
वायोः समीपे दुर्गां च धूर्तसेनं तथैशतः ॥ ३१-१३७ ॥
एवं सपरिवारं तमिष्ट्वाग्नावपि पूजयेत् ।
तिलाज्यबैल्वचरुभिर्नित्यहोमः प्रशस्यते ॥ ३१-१३८ ॥
मन्त्रसाधनाद्यधिकारः ।
चतुरश्रे षडश्रे वा कुण्डे सत्स्कन्दपावके ।
हुत्वा द्रव्यैर्यथोद्दिष्टैः सर्वान् कामानवाप्नुयात् ॥ ३१-१३९ ॥
समिद्भिर्बिल्वजाभिः श्रीः खादिरैः पुष्टिरुत्तमा ।
पशूनेधोभिराश्वत्थैः प्लाक्षैर्धान्यधनानि च ॥ ३१-१४० ॥
मेधां वाप्नोति विद्यां च पलाशैर्ब्रह्मवर्चसम् ।
अन्नेनान्नं तु साज्येन पायसेन श्रियं धनम् ॥ ३१-१४१ ॥
पुत्रजीवैस्तथा पुत्रांस्तिलैः सर्वार्थसम्पदः ।
यद्वर्णपुष्पैर्जुहुयात् तत्तद्वर्णाम्बराप्तये ॥ ३१-१४२ ॥
दूर्वाभिरायुः कमलैः श्रीर्युद्धे विजयः शरैः ।
सबुसैः सर्षपैः स्तम्भो द्वेषः कार्पासकोषणैः ॥ ३१-१४३ ॥
विषपत्रैस्तथोच्चाटो मारणं सविषैर्विषैः ।
कन्यां समधुरैर्लाजैः सिद्धार्थैररिनाशनम् ॥ ३१-१४४ ॥
सक्षौद्रलवणैर्वश्यं सर्वेषां भवति ध्रुवम् ।
चतुःषष्टिदिनं हुत्वा तदर्धं पक्षमेव वा ॥ ३१-१४५ ॥
कार्यगौरवतो मन्त्री हुत्वा तत्तदवाप्नुयात् ।
होमकर्मण्यशक्तानां जपस्तत्त्रिगुणो भवेत् ॥ ३१-१४६ ॥
चतुर्गुणो वा भक्तश्चेद् द्विगुणादपि साधयेत् ।
रत्नसिंहासने पद्मे शिशुं स्कन्दं शिवाङ्कगम् ॥ ३१-१४७ ॥
ध्यायंस्तत्फलरत्नौघैः शीर्यमाणैः स्वविग्रहम् ।
आपूर्यमाणं सञ्चिन्त्य जपतो मासमात्रतः ॥ ३१-१४८ ॥
धनसम्पत्समृद्धिश्च कुबेरस्येव जायते ।
कृत्तिकायां तथा षष्ठ्यां पूजाहोमजपादिकम् ॥ ३१-१४९ ॥
सविशेषं विधायाशु सर्वान् कामानवाप्नुयात् ।
शिवास्त्रवत् पाशुपतास्त्रमुक्तं व्योमाख्यविद्यापि च पिण्डबीजम् ।
तथैव चिन्तामणिबीजमस्मिन् षड्वक्त्रमन्त्रः पटले समासात् ॥ ३१-१५०� ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे एकत्रिंशः पटलः ॥ ३१ ॥