अथ त्रिंशः पटलः ।
शुक्लं च नादबीजं चाप्यन्त्योऽनुग्रहबिन्दुमान् ।
भृगुः खमथ वह्निस्थं शुक्लं भौतिकबिन्दुमत् ॥ ३०-१ ॥
षष्ठाक्षरं स्याच्छुक्लं च खं शुक्लं साग्न्यनुग्रहम् ।
बिन्दुमन्नवमं बीजमघोरेभ्यः समुद्धरेत् ॥ ३०-२ ॥
ह्रोम्बीजं च समुद्धृत्य अथ घोरेभ्यः इत्यपि ।
एकोनविंशत्यर्णोऽयं पार्श्वं साग्न्योष्ठबिन्दुमत् ॥ ३०-३ ॥
घोरघोरतरेभ्यश्च खं सानुग्रहबिन्दुमत् ।
सर्वतः शर्वसर्वेभ्यः प्रोङ्कारस्तदनन्तरम् ॥ ३०-४ ॥
नमस्ते-अस्तुरुद्रान्ते रूपेभ्य इति चोद्धरेत् ।
व्योमाग्नौ बिन्दुमत्पश्चाद् वाग्भवं मान्मथं तथा ॥ ३०-५ ॥
शक्तिं श्रियं ततः शुक्लं सानुग्रहविसर्जनम् ।
उद्धृत्याघोरमन्त्रः स्याच्चतुःपञ्चाशदक्षरः ॥ ३०-६ ॥
तारादिर्वैदिकेऽप्ययस्मिन् विज्ञेयः स्याद् द्विजातिभिः ।
तारं च लोहितः साग्निः स्फुरशब्दश्च वीप्सितः ॥ ३०-७ ॥
दन्ती शिवोत्तमश्चाग्निस्तौ चाषढिभुजङ्गकौ ।
अणुषूभकतः प्रकतः कह कह वमघातयेति च वीप्सितम् ।
वर्मास्त्रे चेत्यघोरास्त्रो द्विचत्वारिंशदक्षरः ॥ ३०-८ ॥
अस्यैव बीजमन्त्रश्च कथ्यते द्वादशाक्षरः ।
पार्श्वं साग्न्योष्ठचन्द्रार्धं खं साग्न्योऽकारबिन्दुकम् ॥ ३०-९ ॥
वाग्भवस्मरहृल्लेखा श्रीप्रसादसरस्वती ।
अस्त्राय फडिति प्रोक्तो मन्त्रोऽयं द्वादशाक्षरः ॥ ३०-१० ॥
द्विचत्वारिंशदर्णेन संयोज्य द्वादशाक्षरम् ।
चतुष्पञ्चाशदर्णं स्यादघोरास्त्रमपि स्फुटम् ॥ ३०-११ ॥
एवं ह्यघोरमन्त्रश्चाप्यघोरास्त्रं च कीर्तितम् ।
सहपाठे द्वयोर्वर्णा भवन्त्यष्टोत्तरं शतम् ॥ ३०-१२ ॥
द्वयोरपि षडङ्गानि पृथक् स्वार्णैर्भवन्ति हि ।
ऋषिर्द्वयोर्गालवः स्याच्छन्दस्तु बृहती मता ॥ ३०-१३ ॥
अघोरमूर्तिस्तु शिवो देवता स्याद् द्वयोरपि ।
साधनाद्यं द्वयोस्तुल्यं नान्योन्यं तौ हि मुञ्चतः ॥ ३०-१४ ॥
अघोरं साधयन्नस्त्रं तद्दशांशं जपेदपि ।
साधयंश्चाप्यघोरास्त्रमघोरं च जपेत् तथा ॥ ३०-१५ ॥
आदिस्थनवबीजे स्यादघोरेभ्योऽथ ह्रों च हृत् ।
अथ घोरेभ्यः इति च प्रेंशिरो जातिसंयुतम् ॥ ३०-१६ ॥
घोरघोरतरेभ्यः खमौ बिन्दुसहितं शिखा ।
सर्वतः शर्वसर्वेभ्यः प्रोङ्कारः कवचं भवेत् ॥ ३०-१७ ॥
नमस्त इत्यादिभिः स्यान्नेत्रमेकादशाक्षरैः ।
परिशिष्टैः पञ्चबीजैरस्त्रं सर्वत्र जातिभिः ॥ ३०-१८ ॥
युतानि स्युरघोरस्य षडङ्गानि निजाक्षरैः ।
अघोरास्त्रस्य चाङ्गानि निजवर्णैर्भवन्ति हि ॥ ३०-१९ ॥
रसर्तुवेददिङ्-नागवसुसङ्ख्याक्षरैः क्रमात् ।
स्वस्वजातियुतानि स्युरङ्गानि षडनुक्रमात् ॥ ३०-२० ॥
स्वयम्भुवि तथार्षे वा एकलिङ्गेऽथ वा सुरे ।
पश्चिमा वदने लिङ्गे पुरश्चर्यां समाचरेत् ॥ ३०-२१ ॥
व्रत्याशनो यजञ्छम्भुं त्रिः स्नायी नियतेन्द्रियः ।
लक्षं जपेदघोरं चाप्यघोरास्त्रं च भक्तितः ॥ ३०-२२ ॥
तद्दशांशेन जुहुयात् तिलानाज्यविमिश्रितान् ।
अशक्तः स्वार्णसाहस्रं जपेद्धुत्वा दशांशतः ॥ ३०-२३ ॥
जपन् द्वित्रिचतुर्लक्षं महतीं सिद्धिमश्नुते ।
साष्टत्रिंशत्कलामूर्तमञ्जनाभं चतुर्मुखम् ॥ ३०-२४ ॥
अष्टादशभुजं रौद्रं प्रतिवक्त्रं त्रिलोचनम् ।
वसानं चर्म वैयाघ्रं गजचर्मोत्तराम्बरम् ॥ ३०-२५ ॥
खट्वाङ्गदन्तौ शूलं च कपालाङ्कुशपाशकान् ।
हलप्रासशरेष्वासखड्गखेटाक्षमालिकाः ॥ ३०-२६ ॥
पद्मं दण्डं डमरुकमभयं वरदं क्रमात् ।
अष्टादशभुजैर्हेतीन् बिभ्राणं दक्षिणेतरैः ॥ ३०-२७ ॥
दंष्ट्रादन्तुरभीमास्यं पिङ्गश्मश्रुजटाधरम् ।
उष्णीषकुण्डलादीनि नूपुरान्तानि यानि वै ॥ ३०-२८ ॥
भूषणानि भुजङ्गेन्द्रैः कॢप्तानि दधतं विभुम् ।
वसानं चर्म वैयाघ्रं मुण्डमालाविभूषितम् ॥ ३०-२९ ॥
लूतावृश्चिकसम्मिश्रकण्ठालन्वितभूषणम् ।
दष्टाधरोष्ठं वृत्ताक्षं भ्रुकुटीकुटिलाननम् ॥ ३०-३० ॥
अघोराक्षररूपैश्च रुद्रैः शक्तिभिरावृतम् ।
षोडशारस्य चक्रस्य मध्यपद्मोदरस्थितम् ॥ ३०-३१ ॥
वक्ष्यमाणैस्तथा रुद्रैर्भैरवैर्मातृभिर्वृतम् ।
दक्षिणाभिमुखं देवं तदस्त्रं तस्य पश्चिमे ॥ ३०-३२ ॥
ध्यात्वा जपादिकं कुर्याद् भित्तावालिप्य वा पटे ।
अघोरध्यानम्-
अघोरास्त्रं तथा ध्यायन् भिन्नाञ्जनगिरिद्युतिम् ॥ ३०-३३ ॥
स्पष्टदष्टाधरोष्ठं तं लसद्दंष्ट्रोत्कटाननम् ।
संरक्तगन्धवसनमाल्यभूषणभूषितम् ॥ ३०-३४ ॥
अष्टबाहुं धृतोदग्रसप्तायुधविभूषितम् ।
शूलमूलं च वेतालं खड्गं डमरुकं क्रमात् ॥ ३०-३५ ॥
दक्षिणैरितरैर्दोर्भिः कपालं चाप्यधस्तनात् ।
घण्टां खेटं शूलमध्यं विभ्राणं चोत्तरोत्तरैः ॥ ३०-३६ ॥
वृत्तपिङ्गत्रिणयनं भ्रुकुटीकुटिलोत्कटम् ।
ज्वलदग्निशिखाकारं पिङ्गलोर्ध्वशिरोरुहम् ॥ ३०-३७ ॥
नूपुरे कटिसूत्रे च तथैवोदरबन्धने ।
कटकाङ्गदयोः कण्ठे कर्णकुण्डलयोरपि ॥ ३०-३८ ॥
द्वौ द्वावहीन्द्रौ दधतं युद्धसन्नद्धविग्रहम् ।
लूतावृश्चिकसंसक्तकण्ठालम्बितमालकम् ॥ ३०-३९ ॥
वामपादं पुरस्कृत्य रक्ताब्जेऽष्टदले स्थितम् ।
ग्रहरोगभयक्षुद्रनिखिलारिनिबर्हणम् ॥ ३०-४० ॥
कल्पानलसहस्रार्कभासुरं भक्तवत्सलम् ।
ध्यायेद् देवमघोरास्त्रं पूजाहोमजपादिषु ॥ ३०-४१ ॥
अथेष्ट्वा विघ्नराजानं गुरूनात्मानमेव च ।
आधारशक्तिं चानन्तमासनं धर्मपूर्वकान् ॥ ३०-४२ ॥
सोमसूर्याग्निबिम्बानि ब्रह्मादींश्च तदीश्वरान् ।
तामस्याद्याः कलाः शक्तीरिष्ट्वाघोरासनं स्मृतम् ॥ ३०-४३ ॥
तस्मिन्नघोरमूर्तिं तां विद्यादेहं च तद्गतम् ।
विन्यस्यावाहयेद् शैवं हृत्पद्मद्वादशान्तगम् ॥ ३०-४४ ॥
ज्योतिस्तत्परमं देवं सूक्ष्मं चैतन्यविग्रहम् ।
आवाह्य मूर्तिं हृत्पद्मे स्थापनादिक्रमेण तु ॥ ३०-४५ ॥
उपचारोक्तमार्गेण नैवेद्यान्तं यजेत् सुधीः ।
हुत्वाग्नौ च बलिं हृत्वा परिक्रम्य प्रदक्षिणम् ॥ ३०-४६ ॥
स्तुतिपूर्वं नमस्कृत्य तत्पुरः प्रजपेन्मनुम् ।
एवं संसाधयेन्मन्त्रं दत्त्वा तु गुरुदक्षिणाम् ॥ ३०-४७ ॥
मन्त्रसाधनाधिकारः ।
अथ सिद्धेन मन्त्रेण विनियोगान् समाचरेत् ।
धर्मार्थकामकृत्येषु यद्यदिष्टं हि मन्त्रिणः ॥ ३०-४८ ॥
तस्मिन् नासाध्यमस्तीह घोराघोरास्त्रमन्त्रयोः ।
तयोरेकतरेणेष्टं जपार्चाद्यैः प्रसाधयेत् ॥ ३०-४९ ॥
विशेषाद् राजकार्येषु परचक्रभयादिषु ।
ग्रहभूतादिपीडासु क्षुद्ररोगभयेषु च ॥ ३०-५० ॥
अपमृत्युभये तद्वदनावृष्ट्यतिवृष्टिषु ।
महोत्पातेषु जातेषु नरस्त्रीगजवाजिनाम् ॥ ३०-५१ ॥
उपसर्गेषु मारीषु तत्तत्पीडोपशान्तये ।
अघोरयागः सामान्यः समासादिह कथ्यते ॥ ३०-५२ ॥
शुचौ देशे विविक्ते तु तत्तत्कार्यानुसारतः ।
मण्डपं वा प्रपां कृत्वा क्षिप्त्वा वास्तुबलिं तथा ॥ ३०-५३ ॥
पुण्याहं वाचयित्वादौ स्वस्ति वाच्यं द्विजातिभिः ।
सुविलिप्ते स्थले विघ्नानुत्सार्येष्ट्वा गणेश्वरम् ॥ ३०-५४ ॥
स्थण्डिलं तण्डुलैः शुक्लैरष्टद्रोणैस्तु शालिजैः ।
तदर्धैश्च तिलैः कृत्वा तन्मध्ये षोडशच्छदम् ॥ ३०-५५ ॥
शुक्लं रजोभिः कृत्वाब्जं मध्ये कुम्भं निधाय तु ।
समापूर्याम्भसा गन्धहेमरत्नफलाक्षतैः ॥ ३०-५६ ॥
तस्मिन्नघोरमावाह्य साधकोऽङ्गावृतिं यजेत् ।
अङ्गैर्वृतिः केसरेषु तदग्रेऽष्टायुधैर्वृतिः ॥ ३०-५७ ॥
कलाभिर्भीषणाद्यैस्तु तृतीया तु वृतिभर्वेत् ।
दलमूलेषु ब्राह्माद्या असिताङ्गादिभैरवैः ॥ ३०-५८ ॥
दलमध्यगतैः पूज्या चतुर्थी मातृकावृतिः ।
पञ्चमीं तु दलाग्रस्थैर्भैरवेशादिभैरवैः ॥ ३०-५९ ॥
श्रीकण्ठाद्यर्णरुद्रैश्च षष्ठी तच्छक्तिभिर्वृतिः ।
सप्तमी लोकपालैश्च तदस्त्रैर्वीथिगा वृतिः ॥ ३०-६० ॥
बाह्या वृतिः षोडशभिर्वृषाद्यैरष्टमी स्मृता ।
एवं सास्त्रमघोरेषं लिङ्गे चित्रे पटे तथा ॥ ३०-६१ ॥
सम्पूज्य दद्यान्नैवेद्यमुत्तमाद्यं स्वशक्तितः ।
वादित्रगीतनृत्तैश्च परितोष्य महेश्वरम् ॥ ३०-६२ ॥
प्राच्यां प्रागुत्तरे वाथ कृते कर्मानुसारतः ।
कुण्डे शिवाग्नौ वेदाश्रे साघोरास्त्राङ्गतत्कलाः ॥ ३०-६३ ॥
अघोरं देवमावाह्य सम्पूज्य जुहुयात् ततः ।
प्रागुत्तरेण कुण्डस्य शान्तिकुम्भस्थमर्चयेत् ॥ ३०-६४ ॥
पलाशबैल्वप्लक्षाश्च वटोदुम्बरपैप्पलाः ।
समिधो घृतसंसिक्ताः शाल्यन्नं पायसं घृतम् ॥ ३०-६५ ॥
कृष्णांस्तिलान् वेणुयवान् शालिसिद्धार्थलाजकान् ।
क्षीरं मधु तथैकैकं पृथगष्टोत्तरं शतम् ॥ ३०-६६ ॥
अघोरेण तथास्त्रेण हुत्वाङ्गैस्तद्दशांशतः ।
अर्धरात्रे बलिं दद्याद् भूतक्रूरेण देशिकः ॥ ३०-६७ ॥
अर्घ्याम्बुगन्धपुष्पाद्यैरिष्ट्वाथ विकिरेद् बलिम् ।
कलाद्यावरणेभ्यश्च देवताभ्यो यथाक्रमम् ॥ ३०-६८ ॥
आवरणदेवतानामानि यथा-
तामसी मोहनी रात्रिर्निष्ठा व्याधिश्च मारणी ।
क्षुधा तृष्णेत्यघोरस्य शक्तयोऽष्ट कलाश्रिताः ॥ ३०-६९ ॥
भाषणो भैरवो भीमो रौद्रश्चोग्रो भवस्तथा ।
घोरो घोरतरश्चाष्टौ दलमध्यस्थिताः क्रमात् ॥ ३०-७० ॥
ब्राह्मी माहेश्वरी चाथ कौमारी वैष्णवी तथा ।
वाराह्यैन्द्री च चामुण्डी चण्डिका चाष्ट मातरः ॥ ३०-७१ ॥
असिताङ्गो रुरुश्चण्डः क्रोधेशोन्भत्तकावपि ।
कपाली भीषणश्चैव संहारश्चाष्ट भैरवाः ॥ ३०-७२ ॥
ब्राह्म्याद्याश्चासिताङ्गाद्याः पूज्याः स्युर्दलसन्धिषु ।
भैरवेशस्तथोन्मत्तः क्रूरो मार्ताण्डकोपनौ ॥ ३०-७३ ॥
भीमश्चाप्यथ संहर्ता कालश्चण्डोऽथ भद्रकः ।
उग्रो भवश्च पातालो व्योमेशश्च क्षितीश्वरः ॥ ३०-७४ ॥
अधीशश्चाथ पत्राग्रगताः षोडश भैरवाः ।
श्रीकण्ठाद्यास्तथा रुद्राः पूर्णोदर्यादिशक्तयः ॥ ३०-७५ ॥
पूर्वोक्ताः स्युस्तथेन्द्राद्या वज्राद्याश्चैव हेतयः ।
वृषो विघ्नो वीरभद्रः शास्ता देवी प्रभा ततः ॥ ३०-७६ ॥
सत्यकः श्रीसरस्वत्यौ ज्येष्ठा शङ्खोऽथ षण्मुखः ।
विशाखो नैगमेषश्च दुर्गा चण्डेश्वरस्तथा ॥ ३०-७७ ॥
क्षेत्रपालश्च पूर्वादिदिग्विदिङ्मध्ययोगतः ।
एवमावरणान्यष्टावघोरयजनेऽर्चयेत् ॥ ३०-७८ ॥
दद्याद् देवस्य चाङ्गेभ्यो नैवेद्यं तूपपत्तितः ।
कलाद्यावरणेभ्यस्तु बलिं भूमौ विनिक्षिपेत् ॥ ३०-७९ ॥
तद्बाह्ये दिग्विदिग्स्थाः स्युर्गणास्तेभ्यो बलिं क्षिपेत् ।
तद्यथा-
आदित्या मरुतः साध्या गन्धर्वाः पितरस्तथा ॥ ३०-८० ॥
रुद्राश्च राक्षसा नागाः सिद्धविद्याधराः सुराः ।
सुपर्णप्रेतकुश्माण्डवसवो यक्षकिन्नराः ॥ ३०-८१ ॥
भूता विनायका विश्वे पिशाचाश्चाश्विनौ गणाः ।
योगिन्यश्चाथ डाकिन्यश्चतुर्विंशतिधा गणाः ॥ ३०-८२ ॥
दिग्विदिङ्मध्यसंस्थास्ते षोडशोर्ध्वं चतुर्विधाः ।
अधश्चैते चतुर्धा स्युः पूज्यास्तेभ्यो बलिं क्षिपेत् ॥ ३०-८३ ॥
तद्बाह्ये दशदिक्स्थेभ्यो गणेभ्यो विकिरद् बलिम् ।
पूर्वस्यां दिशि शिवस्य भगवतो ये गणा वज्रपाणयः श्वेताः श्वेताक्षाः श्वेतलोहिताः दिव्यन्तरिक्षभौमाः पातालनिवासिनश्च, तेभ्यस्ताभ्यो नमो नमः ठठ । आग्नेय्यां दिशि शिवस्य भगवतो ये गणाः शक्तिपाणयो रक्ता प्। १६७) रक्ताक्षा रक्तलोहिता इत्यादि । याम्यां दिशि शिवस्य भगवतो ये गणा दण्डपाणय कृष्णाः इत्यादि । ॐ नैर्-ऋत्यां दिशि शिवस्य भगवतो ये गणाः खड्गपाणयः श्यामाः श्यामाक्षाः श्यामलोहिता इत्यादि । वारुण्यां दिशि शिवस्य भगवतो ये गणाः पाशपाणयः शबलाः शबलाक्षाः इत्यादि । वायव्यां दिशि शिवस्य भगवतो ये गणाः अङ्कुशपाणयः पीताः इत्यादि । ॐ कौबेर्यां दिशि शिवस्य भगवतो ये गणाः गदापाणयः सिताः सिताक्षाः सितलोहिता इत्यादि । ॐ ऐशान्यां दिशि शिवस्य भगवतो ये गणाः शूलपाणयः कपिला इत्यादि । ऊर्ध्वायां दिशि शिवस्य भगवतो ये गणाः पद्मपाणयः सूक्ष्माः सूक्ष्माक्षाः सूक्ष्मलोहिता इत्यादि । ॐ अधस्ताद् दिशि शिवस्य भगवतो ये गणाः चक्रपाणयः धूम्रा धूम्राक्षा धूम्रलोहिता दिव्यन्तरिक्षभौमाः इत्यादि ।
एभिर्विकीर्य प्रीणाति मन्त्रैः पारिषदां बलिम् ॥ ३०-८४ ॥
ततः स्नात्वा गुरुः शिष्यैः सहितोऽन्तः प्रविश्य तु ।
पूजयेल्लिङ्गकुम्भेशकुण्डस्थं परमेश्वरम् ॥ ३०-८५ ॥
द्विजानेकादश वरान् भोजयेद्घृतपायसम् ।
लिङ्गिनश्चार्थिनोऽन्यांश्च स्वयं च परिचारकैः ॥ ३०-८६ ॥
भुक्त्वा स्वपेन्निशाशेषं पुनश्चैवं दिने दिने ।
चतुःषष्टिदिनान्यष्टचत्वारिंशद्दिनानि वा ॥ ३०-८७ ॥
चतुर्विंशत्यहेरात्रं द्वादशाहमथापि वा ।
कार्यगौरवतः पूर्वं सङ्कल्प्यान्ते विशेषतः ॥ ३०-८८ ॥
शिवमिष्ट्वा ततः पूर्णां हुत्वा शान्तिघटेन तु ।
स्नापयेद् यजमानं वा गजादीनथ सेचयेद् ॥ ३०-८९ ॥
वह्निस्थं कुम्भगं चेशं विसृजेद्धृदयाम्बुजे ।
अथाचार्यादिकान् शक्त्या भूहेमवसनादिभिः ॥ ३०-९० ॥
तोषयेद् यजमानोऽन्यान् ब्राह्मणान् लिङ्गिनोऽपि च ।
प्राप्नोत्यभिमतानर्थानघोरेशप्रसादतः ॥ ३०-९१ ॥
घोराण्यघोरयागेन शाम्यन्त्यस्य न संशयः ।
अथाप्युदाहरन्ति-
केवलं वाप्यघोरेशमघोरास्त्रमथापि वा ।
इष्ट्वानेन विधानेन हुत्वा चेष्टानि साहयेत् ॥ ३०-९२ ॥
इति ।
सामान्ययागो निर्दिष्टो विशेषोऽप्यथ कथ्यते ॥ ३०-९३ ॥
सामान्ययागाधिकारः ।
स्वयम्भुमार्षेयं वाथ लिङ्गं गोसम्भवेन तु ।
सद्योदुग्धेन दुग्धेन शतप्रस्थमितेन तु ॥ ३०-९४ ॥
स्नपयेच्चोत्तमां पूजामुपचारोदितक्रमात् ।
कृत्वा भूतबलिं दद्याद् रात्रावुक्तविधानतः ॥ ३०-९५ ॥
पुनश्च पूजयेद् देवं लिङ्गे चित्रे पटे तथा ।
कूर्चेन संस्पृशन् लिङ्गमघोराष्टशतं जपेत् ॥ ३०-९६ ॥
अघोरास्त्रं च कुण्डेऽथ दूर्वाज्यतिलपायसैः ।
यवैश्चाष्टोत्तरशतं पृथक् कृत्यं च संस्मरन् ॥ ३०-९७ ॥
एकादश द्विजान् मृष्टं भोजयेच्च सदक्षिणम् ।
अघोरमूर्तिर्भगवान् सास्त्रो मे प्रीयतामिति ॥ ३०-९८ ॥
एवं प्रवर्तयेद् यागं पञ्चविंशतिवासरान् ।
सविशेषं समाराध्य ततो यागं समापयेत् ॥ ३०-९९ ॥
शाम्यन्ति घोरदुःखानि ग्रहरोगापमृत्यवः ।
उपसर्गास्तथा मारीपीडाः क्षुद्रकृताश्च याः ॥ ३०-१०० ॥
शाम्यन्त्यायुष्यमारोग्यमैश्वर्यं चास्यं जायते ।
शक्तस्यायं समुद्दिष्टो यागस्य विधिरुत्तमः ॥ ३०-१०१ ॥
अशक्तस्य तु पादोनं तदर्धेनाथ वा स्मृतः ।
केवलं रोगशान्त्यर्थं दशप्रस्थघृतेन तु ॥ ३०-१०२ ॥
अभिषिञ्चेदघोरेण गव्येन ब्रह्मभिस्तु वा ।
रुद्रेण पावमानीभिः क्षीरेण तदनन्तरम् ॥ ३०-१०३ ॥
चन्दनागरुकर्पूरपिष्टेनालिप्य सर्वतः ।
अखण्डबिल्वपत्रैश्च सुगन्धिकुसुमैरपि ॥ ३०-१०४ ॥
कृष्णागरुविमिश्रेण कर्पूरेण पुरेण च ।
धूपयेद् घृतदीपांश्च ज्वालयेत् पायसादिकम् ॥ ३०-१०५ ॥
चतुर्विधं च नैवेद्यं दत्त्वा दशशतं जपेत् ।
अहि रात्रौ जुहोत्यग्नावष्टोत्तरशतं घृतम् ॥ ३०-१०६ ॥
तावत्यः समिधो बैल्वाश्चरोश्चैकादशाहुतीः ।
पूर्णां च भस्मना तेन लेपः सर्वगदापहः ॥ ३०-१०७ ॥
चत्वारिंशद्दिनान्येवमिष्ट्वा सर्वरुजो हरेत् ।
केवलरोगशान्तिः ।
गजाश्वानां पशूनां च रोगशान्तिरथोच्यते ॥ ३०-१०८ ॥
कुम्भयागं यथापूर्वं कृत्वा सङ्कल्पपूर्वकम् ।
पञ्चामृतैः पञ्चगव्यैर्लिङ्गं गन्धफलाम्भसा ॥ ३०-१०९ ॥
त्रिसन्ध्यं स्नपयित्वाज्यं पायसं च निवेदयेत् ।
समिदाज्यक्षीरतिलपायसैर्जुहुयादपि ॥ ३०-११० ॥
मृत्युञ्जयमघोरास्त्रं हंसं चाष्टशतं जपेत् ।
बलिं च विकिरेद् रात्रावेकविंशतिवासरान् ॥ ३०-१११ ॥
कुम्भाम्भो जपितं तत्तु पाययेद् गजवाजिनः ।
प्रत्येकं प्रोक्षयेत् तेन तेषां शान्तिर्भविष्यति ॥ ३०-११२ ॥
गजाश्वादिशान्तिः ।
पौष्टिकं चेदभीष्टं स्यात् पश्चिमावदनं शिवम् ।
प्राग्वत् सङ्कल्प्य सम्पूज्य गव्यस्य नवसर्पिषः ॥ ३०-११३ ॥
पञ्चविंशतिभिः प्रस्थैरभिषिच्य विधानतः ।
उत्तमाद्युक्तपूजानां यथाशक्ति दिने दिने ॥ ३०-११४ ॥
एकया पूजयेल्लिङ्गे कुम्भे चित्रे च भक्तितः ।
बिल्वपत्रैस्त्रिशूलाभैरखण्डैः पूजयेच्छिवम् ॥ ३०-११५ ॥
अष्टोत्तरसहस्रं तु प्रातर्मन्त्रं जपेदपि ।
पलाशसमिधश्चाज्यं चरून् कृष्णतिलानपि ॥ ३०-११६ ॥
जुहोत्यष्टोत्तरशतं चत्वारिंशद्दिनानि तु ।
दक्षिणां च यथाशक्ति दत्त्वा पुष्टिमनुत्तमाम् ॥ ३०-११७ ॥
लभते द्वित्रिगुणितां महतीं पुष्टिमश्नुते ।
पौष्टिकम् ।
स्वसैन्यरक्षणार्थं तु कुम्भयागं विधाय तु ॥ ३०-११८ ॥
तस्याष्टौ परितः कुम्भान् भीषणाद्यैरधिष्ठितान् ।
सवस्त्रपल्लवफलहिरण्यानभिपूज्य तु ॥ ३०-११९ ॥
प्राग्वल्लिङ्गं दशप्रस्थक्षीरेण च घृतेन च ।
पञ्चामृतैः पञ्चगव्यैरभिषिच्य विधानतः ॥ ३०-१२० ॥
चन्दनागरुकर्पूरैः सुपिष्टैः कुङ्कुमोत्तरैः ।
सपीठं लिङ्गमालिप्य शोभनैर्बिल्वपल्लवैः ॥ ३०-१२१ ॥
आपूर्य करवीराद्यैः सुगन्धिकुसुमोत्करैः ।
मालाभिर्हेमपट्टैश्च पट्टादिवसनैरपि ॥ ३०-१२२ ॥
पुरं सागरुकर्पूरं धूपं दद्याद् विशेषतः ।
घृतदीपान् निवेद्यं च यथाशक्ति प्रयोजयेत् ॥ ३०-१२३ ॥
न्यग्रोधौदुम्बराश्वत्थप्लक्षाणां तु समिच्छतैः ।
पलाशदूर्वासिद्धार्थतिलाज्यघृतपायसैः ॥ ३०-१२४ ॥
पृथगष्टोत्तरशतं निशासु जुहुयात् क्रमात् ।
प्रतिकुम्भमघोरास्त्रं जपित्वाष्टौ सहस्रकम् ॥ ३०-१२५ ॥
कूर्चेण तत्कुम्भजलैः सेनाधीशादिकान् स्वकान् ।
शस्त्राणि च गजाश्वादीन् सेचयेच्चाशिषो वदेत् ॥ ३०-१२६ ॥
स्वसैन्यरक्षणं च स्याद् विजयेच्च परान् रणे ।
स्वसेनारक्षणम् ।
न क्ष्वेलपीडा न च भोगिभीतिर्न क्षुद्ररोगारिजलाग्निबाधा ।
न प्रेतभूताद्युपसर्गदुःखं नेष्टैरघोरास्त्रविदो वियोगः ॥ ३०-१२७� ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे त्रिंशः पटलः ॥ ३० ॥