२९

अथैकोनत्रिंशः पटलः ।

वामदोर्मध्यमः साघी सदण्डस्तारपूर्वकः ।
ससर्गश्च भृगुस्त्र्यर्णः प्रोक्तो मृत्युञ्जयो मनुः ॥ २९-१ ॥

ऋषिः कहोलश्च्छन्दोऽस्य दैवी गायत्रमुच्यते ।
विनियोगो मृत्युजये दैवं मृत्युञ्जयः शिवः ॥ २९-२ ॥

बिन्द्वन्तावस्य मध्यान्त्यौ षडङ्गान्यायतैः स्वरैः ।
बीजानि त्रीणि करयोर्ज्येष्ठाद्यङ्गुलिपर्वसु ॥ २९-३ ॥

कनिष्ठादिषु चाङ्गानि तलयोरस्त्रमन्त्रतः ।
पादादिकं तु गुह्यान्तं प्रथमार्णं तु विन्यसेत् ॥ २९-४ ॥

गुह्यादिकं तु कण्ठान्तं द्वितीयं बीजमप्यथ ।
तृतीयमपि कण्ठादिमूर्धान्तं विनिधाय तु ॥ २९-५ ॥

हृदादिस्वावकाशेषु षडङ्गान्यपि विन्यसेत् ।
लक्षत्रयं पुरश्चर्याजपस्तस्माद् दशांशतः ॥ २९-६ ॥

छिन्नाः क्षीराज्यमध्वाक्ता जुहोति चतुरङ्गुलाः ।
ध्यायन् मृत्युञ्जयं स्वैक्यं यजंश्चित्रादिके जपेत् ॥ २९-७ ॥

पायात् पाण्डरपुण्डरीकपटयोरूर्ध्वाधरोत्फुल्लयोर्मध्ये
सम्पुटचन्द्रमण्डलगतो वोऽष्टाब्दबालाकृतिः ।
स्वासीनः शरमौक्तिकाक्षिवलये शूलं दधत् षड्भुजो
दक्षेऽन्यत्र सुधाकपालकलशौ मुद्रां च मृत्युञ्जयः ॥ २९-८ ॥

अपिच-

श्वेताकल्पो लसन्मुक्ताहारिहारविभूषणः ।
त्रिणेत्रो धृतबालेन्दुर्जटामकुटभूषणः ॥ २९-९ ॥

ऊर्ध्वाधश्चन्द्रबिम्बस्थकलाजालामृताम्बुभिः ।
श्च्योतत्सुधाम्बुधाराभिः प्लाव्यमानः समन्ततः ॥ २९-१० ॥

कर्णिकास्यान्तबीजं स्यात् तयोर्मध्येन्दुबिम्बयोः ।
चिन्तयेद् वारुणं बीजं तस्माच्च्योतत्सुधाम्बुभिः ॥ २९-११ ॥

प्लाव्यमानं स्मरन् स्वैक्यं मृत्युञ्जयशिवं स्मरेत् ।
प्रणवं पद्मयोर्नाले द्वितीयार्णं दलानि च ॥ २९-१२ ॥

अनुलोमविलोमस्य मनोर्मध्ये स्वनाम च ।
प्रयोजनं चाप्युच्चार्य जपेदिष्टार्थसिद्धये ॥ २९-१३ ॥

तथैव होमे स्वाहान्तं हुत्वेष्टं लभते फलम् ।
छिन्नाभिर्मधुराक्ताभिर्हुत्वा मृत्युं निवर्तयेत् ॥ २९-१४ ॥

दूर्वाभिरायुषे तद्वदारोग्यं पायसेन च ।
काष्मर्यसमिधा होमः सर्वरोगहरो भवेत् ॥ २९-१५ ॥

तिलाज्यपायसच्छिन्नाहोमान्नश्यत्युपद्रवः ।
पायसक्षीरसिद्धार्थहवनाज्जयमाप्नुयात् ॥ २९-१६ ॥

स्तम्भनं बुसराजीभिर्द्वेषं निम्बसमिद्दलैः ।
वैभीतकैस्तथोच्चाटं मारणं विषवृक्षजैः ॥ २९-१७ ॥

राजीतैलविषोन्मिश्रैः क्षुद्रेषु हवनं मतम् ।
क्षीराज्यमधुसिक्तं स्यात् शान्तिकेष्वपि पौष्टिके ॥ २९-१८ ॥

वश्याय लोणमधुरैः श्रियै कमलपायसैः ।
जुहुयात् कोटिजाप्येन सर्वान् कामानवाप्नुयात् ॥ २९-१९ ॥

पूजां च कुर्याच्छैवोक्तक्रमात् प्रोक्तशिवासने ।
स्वाङ्गैर्द्वारेशलोकेशैरस्त्रैश्चावरणैः क्रमात् ॥ २९-२० ॥

चित्रादिमूर्तौ हृदये सूर्यबिम्बेऽथ वा जले ।
उपचारैर्यथाशक्ति यजंस्तत्सिद्धिमश्नुते ॥ २९-२१ ॥

भृगुखं शुक्लमग्निस्थं ततो ज्वलनमृत्युभिः ।
नाशनायाग्निजायान्तो मन्वर्णो मनुरुद्धृतः ॥ २९-२२ ॥

मृत्युजित्सञ्ज्ञितोऽस्यापि ऋष्याद्यं पूर्वचोदितम् ।
दक्षिणास्यो जपेदेनं सन्ध्ययोर्मृत्युशान्तये ॥ २९-२३ ॥

कथितत्र्यर्णमन्त्रादिमिमं सप्तदशाक्षरम् ।
जपेत् तु साधनाद्यं च विनियोगश्च पूर्ववत् ॥ २९-२४ ॥

ध्यानं च पूर्ववत् तत्र विशेषस्तूपदिश्यते ।
धवलकमलचन्द्रद्वन्द्वमध्योपविष्टं हरिणपरशुपाणिं साक्षमालाकपालम् ।
अमृतकिरणचूडं पाण्डराकल्पवर्णं स्रवदमृतजलार्द्रं नौमि मृत्युञ्जयेशम् ॥ २९-२५ ॥

मृत्युञ्जयाधिकारः ।

मन्त्रस्त्रैयम्बकः श्रौतो मृतसञ्जीवनं स्मृतम् ॥ २९-२६ ॥

ऋषिर्वसिष्ठो भगवान् भार्गवश्चेति केचन ।
छन्दोऽनुष्टुब् देवता स्याद् रुद्रस्त्रैयम्बपूर्वकः ॥ २९-२७ ॥

षडङ्गानि स्वयं रामवेदाष्टनवपञ्चकैः ।
त्रिभिश्चापि निजैर्वर्णैः पादाङ्गुल्यग्रसन्धिषु ॥ २९-२८ ॥

पादसन्धिद्वये जान्वोर्गुह्ये मूले तथोदरे ।
पृष्ठे च हृदये कण्ठे बाह्वोः सन्ध्यङ्गुलीष्वपि ॥ २९-२९ ॥

वक्त्रघ्राणाक्षिकर्णभ्रूयुगलेष्वपि मूर्धनि ।
द्वात्रिंशद्वर्णविन्यासं बिन्द्वन्तं पृथगाचरेत् ॥ २९-३० ॥

शिरोभ्रूनेत्रवदनकण्ठहृन्नाभिषु क्रमात् ।
गुह्योरुजानुपादेषु पदान्येकादश न्यसेत् ॥ २९-३१ ॥

ध्यानं च-

आसीनः पुण्डरीके दधदमृतमयं पूर्णकुम्भं निजाङ्के
पाणिभ्यां पुस्तकाक्षस्रजमपि सुधया पूर्णकुम्भौ सिताङ्गम् ।
कुम्भाभ्यां सौधवर्षैर्धृतशशिशकले मूर्ध्नि सिञ्चन् कपर्दी
शुक्लाकल्पोऽष्टबाहुः प्रहसितवदनो रक्षतात् त्र्यम्बको वः ॥ २९-३२ ॥

अथाष्टावरणा पूजा कर्तव्या त्र्यम्बकस्य तु ।
शिवासने तु शैवोक्ते निजाङ्गैः प्रथमावृतिः ॥ २९-३३ ॥

क्ष्मावह्नियजमानार्कजलवाय्विन्दुपुष्करैः ।
अष्टाभिर्मूर्तिभिः शम्भोर्द्वितीयावरणं स्मृतम् ॥ २९-३४ ॥

तृतीयाद्यास्तु षष्ठ्यन्ता वृतयोऽष्टाभिरष्टभिः ।
अष्टाभिश्चाष्टभिर्ज्ञेया रमारात्र्यादिशक्तिभिः ॥ २९-३५ ॥

कास्ता द्वात्रिंशच्छक्तयः-

रमा रात्रिः प्रभा ज्योत्स्ना पूर्णोषा पूरणी सुधा ।
तृतीयावरणे चाथ विश्वा विद्युच्च पाण्डरा ॥ २९-३६ ॥

प्रह्वा सारा च सन्ध्या च शिवा चैव निशाष्टमी ।

चतुर्थावरणे-

आर्द्रा प्रज्ञा परा मेधा कान्तिः शान्तिर्धृतिः स्मृतिः ॥ २९-३७ ॥

इत्यष्टौ शक्तयः प्रोक्ताः पञ्चमावरणस्य तु ।
परोमा पावनी पद्मा शान्ता मोघा जयामला ॥ २९-३८ ॥

शक्तयोऽष्टाविति प्रोक्ताः ष(ष्ट्या?ष्ठा)वरणगोचराः ।
इन्द्राद्यैर्दशलोकेशैः सप्तमी तु वृतिर्भवेत् ॥ २९-३९ ॥

अष्टमी च हि वज्राद्यैः कर्णिकायां शिवः स्वयम् ।
किञ्जल्कमध्येष्वङ्गानि केसराग्रेऽष्टमूर्तयः ॥ २९-४० ॥

दलगा मूलमध्याग्रतदग्रेषु च शक्तयः ।
एभिरावरणैः शम्भु(मु?रु)पहारोदितक्रमात् ॥ २९-४१ ॥

पूज्यः स्याद्धृदये चित्रे लिङ्गे वा स्फाटिके शुभे ।
कलशेऽप्येवमावाह्य सम्पूज्य विधिवच्छिवम् ॥ २९-४२ ॥

सामय्या दीक्षितं विप्रं शिष्यं तेनाभिषिच्य तु ।
तस्मै मन्त्रं जलोपेतं दद्यात् सोऽपि च साधयेत् ॥ २९-४३ ॥

नित्यं सम्पूजयेच्छम्भुं व्रत्याशी विजितेन्द्रियः ।
ब्रह्मचर्यपरः पूर्वं जपेल्लक्षमनन्यधीः ॥ २९-४४ ॥

बैल्वाः पालाशखदिरन्यग्रोधसमिधस्तिलाः ।
सिद्धार्थपायसक्षीरदधिदूर्वाः पृथक् क्रमात् ॥ २९-४५ ॥

दश द्रव्याणि तैरग्नावष्टोत्तरसहस्रकम् ।
आवाहितशिवे हुत्वा शक्त्या विप्रांस्तु भोजयेत् ॥ २९-४६ ॥

अयुतं वेदविदुषां सहस्रं शतमेव वा ।
गुरुं चाराधयेच्छक्त्या हिरण्यवसनादिभिः ॥ २९-४७ ॥

ततः सिद्धोऽस्य मन्त्रोऽयं सर्वकामप्रदो भवेत् ।
येन शुक्रः पुरा देवैर्निहतान् युधि दानवान् ॥ २९-४८ ॥

मन्त्रेण जीवयामास कचमङ्गिरसः सुतम् ।
येन वज्रास्थिदेहोऽभूद् दधीचो मनुनामुना ॥ २९-४९ ॥

तेन त्रैयम्बकेनास्ति नासाध्यं भुवनत्रये ।
बिल्वानामयुतैर्लक्ष्मीं पलाशैर्ब्रह्मवर्चसम् ॥ २९-५० ॥

एधोभिः खादिरैः पुष्टिं धनधान्यं वटोद्भवैः ।
अथ मृत्युञ्जयं चाघक्षयं कृष्णतिलैर्हुतैः ॥ २९-५१ ॥

शत्रुक्षयं च सिद्धार्थैः पायसेनायुषे श्रिये ।
क्षीरेण क्षुद्ररोगादिशान्तिर्लक्ष्मीकरं तथा ॥ २९-५२ ॥

दूर्वाभिरायुरारोग्यं दध्ना चान्नेन सम्पदम् ।
प्रतिमासं जन्मदिने दूर्वाभिः पायसेन च ॥ २९-५३ ॥

विंशतिं च शतं हुत्वा दीर्घमायुरवाप्नुयात् ।
काष्मर्यैः पायसेनायुः स्यात् सर्वत्र घृतं प्लुतम् ॥ २९-५४ ॥

नाभिदघ्नजले स्थित्वा प्रत्यहं चायुषे जपेत् ।
सप्ताभिमन्त्रितं नित्यमन्नं क्षीरं तथौषधम् ॥ २९-५५ ॥

त्रिसन्ध्यं सलिलं च स्यात् पीतमायुर्विवर्धनम् ।
पायसं वाथ दध्नान्नं हुतं पर्वसु पुष्टिदम् ॥ २९-५६ ॥

कन्यां तु लभते लाजैर्लाजैः कन्यास्य दीयते ।
न्यग्रोधपिप्पलप्लक्षैः क्रमादौदुम्बरैरपि ॥ २९-५७ ॥

ब्राह्मणाद्यान् वशे कुर्यात् क्षीराज्यम्मधुसेचितैः ।
तिलसिद्धार्थदूर्वान्नैरार्द्रायामायुषे हुतैः ॥ २९-५८ ॥

जन्मर्क्षे जुहुयादाज्यं कृसरं गुलपायसम् ।
शेषेण भोजयेद् विप्रान् वशयेद् देवतामपि ॥ २९-५९ ॥

सा चास्येष्टं बरं दद्यात् किं पुनर्मानवो भुवि ।
शमीसमिद्भिरार्द्रायां सहस्रं पायसेन वा ॥ २९-६० ॥

हुत्वा तद्भस्मना फाले त्रिपुण्ड्रं सर्ववश्यदम् ।
पायसारग्वधैर्हुत्वा निशायां वशयेद् ध्रुवम् ॥ २९-६१ ॥

तद्वत् कृष्णचतुर्दश्यां हुत्वापामार्गपायसैः ।
तद्भस्मपुण्ड्रं शिरसि क्षिप्तं तु वशयेत् स्त्रियम् ॥ २९-६२ ॥

तैलार्द्रखादिरैर्द्वेषमुच्चाटं च विभीतकैः ।
वेतसैर्लभते वृष्टिं मारयेद् विषवृक्षजैः ॥ २९-६३ ॥

नामाङ्कितैस्तु सर्वत्र समिद्भिः क्षुद्रकर्मसु ।
जुहुयान्नामकर्माढ्यं मन्त्रान्ते विनियोजयेत् ॥ २९-६४ ॥

सिद्धार्थैः शर्कराभिर्वा जपितैस्त्रिसहस्रकम् ।
गृहग्रामपुरादीनां रक्षायै दिक्षु निक्षिपेत् ॥ २९-६५ ॥

रज्वालु(?)पक्वकृतया त्वैकाहद्वैहिकालिकम् ।
दिनसङ्ख्याग्रथितया हस्ते बद्ध्वा ज्वरं हरेत् ॥ २९-६६ ॥

जन्मर्क्षेष्वपि सङ्क्रान्त्यां कलशं विधिपूरितम् ।
साधितं जपहोमाभ्यां सिक्तं स्यादायुषे श्रिये ॥ २९-६७ ॥

तथा तेनाभिषिक्ता स्त्री वन्ध्या सूते सुतं शुभम् ।
आयुरारोग्यविजयश्रीसौभाग्यप्रदो हि सः ॥ २९-६८ ॥

कृष्णपक्षे चतुर्दश्यामार्द्रायां वाष्टमे तिथौ ।
अविशेषोदितदिने प्रयोगोऽनेन सिद्धिदः ॥ २९-६९ ॥

नद्यां समुद्रगामिन्यां शाकमूलफलाशनः ।
जपेदेकादिलक्षाणि स विन्देदणिमादिकान् ॥ २९-७० ॥

व्रत्याशनस्तु निष्कामः पर्वताग्रे यजञ् शिवम् ।
लक्षत्रयं जपित्वा तु मुच्यते भवबन्धनात् ॥ २९-७१ ॥

बहुनात्र किमुक्तेन भजतां मनुनामुना ।
धर्मार्थकाममोक्षेषु दुर्लभो नास्ति कश्चन ॥ २९-७२ ॥

त्रैयम्बकाधिकारः ।

गायत्र्यनुष्टुभौ त्रिष्टुप् त्रयं चैकत्वमागतम् ।
त्रिमन्त्रः शतवर्णोऽयं सूर्यरुद्राग्निदैवतः ॥ २९-७३ ॥

विश्वामित्रो वसिष्ठश्च मारीचः काश्यपः स्वयम् ।
ऋषयोऽमी यथापूर्वं छन्दस्तत् त्रितयं स्मृतम् ॥ २९-७४ ॥

स्वयमेव षडङ्गानि जातियुक्तैर्निजाक्षरैः ।
तत्रातिजगतीरुद्रविकाराष्टिप्रसङ्ख्यया ॥ २९-७५ ॥

द्वाविंशत्या तथा कृत्या षडङ्गानि यथाक्रमम् ।
लक्षमस्य पुरश्चर्या शक्त्या हुत्वाज्यपायसम् ॥ २९-७६ ॥

द्विजांश्च भोजयेच्छक्त्या सिद्धमन्त्रस्ततो भवेत् ।
गायत्र्याद्यं शान्तिकादौ पौष्टिकेऽनुष्टुबादिकम् ॥ २९-७७ ॥

गायत्र्याद्यं सौरपीठे तत्त्र्यम्बकादिके ।
दुर्गापीठे त्रैष्टुभाद्यं वह्निपीठेऽथ वा यजेत् ॥ २९-७८ ॥

सूर्यस्त्रैयम्बकश्चाद्ये दुर्गा वा ध्येयदेवता ।
अङ्गैर्वृतिः स्यात् प्रथमा प्रह्लादिन्यादिशक्तिभिः ॥ २९-७९ ॥

वृतित्रयं च वृतयश्चतस्रस्तु रमादिभिः ।
जागताद्यादिरेकाथ लोकेशैर्दशमी वृतिः ॥ २९-८० ॥

दूर्वाच्छिन्नाघृतैरायुर्लक्ष्मीं पद्मोत्पलैर्हुतैः ।
बिल्वैः श्रियं तिलैः शान्तिं पापरोगेति(?) विद्विषाम् ॥ २९-८१ ॥

प्रातर्नित्यं जपेद् भक्त्या सर्वान् कामानवाप्नुयात् ।
गायत्रियादिमन्त्राणां ये ये कल्पाः पुरोदिताः ॥ २९-८२ ॥

तेषूक्ता यऽस्य सामान्याः प्रयोगबहुविस्तराः ।

शताक्षराधिकारः ।

तारं नमो नाभिगकारकुम्भौ ते दक्षिणामूर्तिपदं चतुर्थ्या ।
मह्यं च मेधां प्रयुतं च यच्छ वह्निप्रियेत्याकृतिवर्णमन्त्रः ॥ २९-८३ ॥

अत्रिश्चान्तिकमक्षियुक् चरणस्यान्तः सदीर्घो विषं
षष्ठान्तं त्वथ रेफिवामचरणं ये तुभ्यमित्यक्षरैः ।
हतपूसणिहालिणे ध्यानै धातृणि षटांशज नमोरुद्राय शम्भवे ।
द्वात्रिंशद्गणिताक्षरो मनुरयं स्याद् दक्षिणामूर्तये
तारान्तादिनिरुद्धशक्तिसहितः षट्त्रिंशदर्णो भवेत् ॥ २९-८४ ॥

ऋषिः शुकोऽनयोर्ज्ञेयो ब्रह्माद्यस्येति केचन ॥ २९-८५ ॥

छन्दोगायत्रमाद्यस्य परस्यानुष्टुबुच्यते ।
देवता दक्षिणामूर्तिः सर्वज्ञत्वं द्वयोः फलम् ॥ २९-८६ ॥

स्वार्णैः षड्भिस्तथा षड्भिर्द्वाभ्यां द्वाभ्यां त्रिभिस्तथा ।
द्वाभ्यामपि षडङ्गानि प्रथमस्य स्वजातिभिः ॥ २९-८७ ॥

ऋत्विग्वि(?)वसुमातङ्गभूतरामनिजाक्षरैः ।
अस्त्रान्तं जातियुक्तानि द्वितीयेऽङ्गानि कल्पयेत् ॥ २९-८८ ॥

अङ्गुष्ठादितलान्तं तान्यङ्गानि करयोर्न्यसेत् ।
व्यापकं चापि मूलेन ततो देहेऽक्षराण्यपि ॥ २९-८९ ॥

यथा-

शिरोललाटभ्रूमध्यदृक्छ्रोत्रघ्राणयुग्मयोः ।
मुखे गले च भुजयोर्हृदि नाभौ च गुह्यके ॥ २९-९० ॥

ऊर्ध्वोश्च जङ्घयोः पद्भ्यामर्णद्वाविंशतिं न्यसेत् ।
शिरोललाटदृक्श्रोत्रनासागण्डद्वये मुखे ॥ २९-९१ ॥

सन्ध्यष्टकेषु भुजयोर्गलहृन्नाभिषु क्रमात् ।
कट्यां गुह्ये चोरुजान्वोर्नलकाङ्गुलिसन्धिषु ॥ २९-९२ ॥

द्वात्रिंशदक्षरन्यासं कृत्वाथ व्यापकं पुनः ।
कृत्वा तु तारशक्तिभ्यां षडङ्गान्यपि विन्यसेत् ॥ २९-९३ ॥

द्वितीयस्य-

वेदन्यग्राधमूले मुनिभिरभिवृतं गाढपर्यङ्कबद्धं
शुक्लाकल्पं त्रिणेत्रं भसितसितरुचिं व्याघ्रचर्माम्बराढ्यम् ।
व्याख्यामुद्रां च टङ्कं हरिणमृजुभुजे जानुरूढे कुसुम्भं
बिभ्राणां जाटजूटाहितशशिशकलं दक्षिणामूर्तिमीडे ॥ २९-९४ ॥

इदं ध्यानं द्वितीयानुष्टुभः ।

अन्वासीनं मुनीन्द्रैः कनकपटमधोबद्धपर्यङ्कबद्धं
व्याख्यार्थं भूतिगौरं चलदमरनदीचन्द्रचञ्चत्कपर्दम् ।
त्र्यक्षं रुद्राक्षमालोत्पलकलितकरं जानुरूढैकबाहुं
कृत्तिं चित्रां वसानं प्रणमत सततं दक्षिणामूर्तिमीशम् ॥ २९-९५ ॥

ततः सुरसरित्प्रख्यः सरस्वत्यास्तटे स्थितः ।
व्रत्याशनो जपेल्लक्षमेकलिङ्गे शिवालये ॥ २९-९६ ॥

दक्षिणामूर्तिमाश्रित्य भस्मोद्धूलितविग्रहः ।
जुहुयात् तद्दशांशेन क्षीराज्यस्नपितांस्तिलान् ॥ २९-९७ ॥

भित्तौ पटे वा चित्रस्थं यजेद् देवं शिवासने ।
एकावरणमार्गेण शिष्यैस्तु मुनिभिर्वृतम् ॥ २९-९८ ॥

मुख्योपचारैरर्घ्याद्यैर्मनसा वाप्यसम्भवे ।
जपेत् प्रतिदिनं मन्त्रमष्टोत्तरसहस्रकम् ॥ २९-९९ ॥

अश्रुतान्यपि शास्त्राणि व्याकरोति करोति च ।
जपध्यानातिशयतः सर्वज्ञो जायते स्फुटम् ॥ २९-१०० ॥

मृत्युञ्जयं शिवमुपास्य जयन्ति मृत्युं सञ्जीवनं मनुमुपास्य जयन्ति कालम् ।
मन्त्रेण दक्षिणशिवं यजतां मुखाब्जे सारस्वतं वहति धाम सरस्वतीव ॥ २९-१०१ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे एकोनत्रिंशः पटलः ॥ २९ ॥