अथ अष्टाविंशः पटलः ।
शिवमादौ नमस्कृत्य शिवमन्त्रं षडक्षरम् ।
वक्ष्ये पञ्चाक्षरं चान्यान् शिवमन्त्रांश्च कृत्स्नशः ॥ २८-१ ॥
तारं मेषं विषं सर्गि शिवायेति षडक्षरः ।
तारहीनः स एवायं मन्त्रः पञ्चाक्षरः स्मृतः ॥ २८-२ ॥
विप्रादिभिस्त्रयीयोग्यैः सेव्यो मन्त्रः षडक्षरः ।
स्त्रीशुद्राद्यैस्तथा वेद्यो मन्त्रः पञ्चाक्षरो भवेत् ॥ २८-३ ॥
अस्यैव प्रणवस्थाने प्रासादं विनियोजयेत् ।
मुख्यः षडक्षरोऽयं स्यात् सर्वेषां भुक्तिमुक्तिदः ॥ २८-४ ॥
अत्र वातुले शिवज्ञानविद्यायां-
वेदाद्यन्तं विष्णुयुक्त बिन्दुनादसमन्वितम् ।
तद्बीजं शक्तिपञ्चम्या दीर्घमन्त्रे नियोजयेत् ॥ २८-५ ॥
तारेण सम्पुटीकृत्य न्यासेषु च जपादिषु ।
विप्राद्यैरेष सेव्यः स्यात् स्त्रीशूद्राद्यैरतारकम् ॥ २८-६ ॥ इति ।
खं सानुग्रहसर्गीशं प्रासादं स्यात् सबिन्दुकम् ।
शिवमन्त्रोऽप्ययं विश्वसृष्टिस्थित्यादिकारणम् ॥ २८-७ ॥
त्रिविधानामपि ह्येषामृषिं छन्दोऽपि दैवतम् ।
न्यासाद्यं विनियोगांश्च समानं गुरवो विदुः ॥ २८-८ ॥
अत्र कालोत्तरे-
नादाख्यं यत् परं बीजं सर्वभूतेष्ववस्थितम् ।
मुक्तिदं परमं दिव्यं सर्वसिद्धिप्रदायकम् ॥ २८-९ ॥
सान्तं सर्वगतं शून्यं मात्राद्वादशकस्थितम् ।
हस्ता ब्रह्मसमाख्याता दीर्घा ह्यङ्गानि षण्मुख! ॥ २८-१० ॥
अपिच-
षष्ठं त्रयोदशान्तं च पञ्चमे विनियोजयेत् ।
शिवं तं तु विजानीयान्मन्त्रमूर्तं सदाशिवम् ॥ २८-११ ॥ इति ।
तस्माद् दीर्घैः स्वरैस्तेन प्रासादस्याङ्गकल्पना ।
तत्राप्यस्त्रान्तमेव स्याद्ध्रस्वैर्ब्रह्माणि पञ्च हि ॥ २८-१२ ॥
सप्रासादषडर्णस्य हृदाद्यैः स्वाक्षरैः सह ।
बिन्द्वन्तैर्हृदयादीनि स्वस्वजात्या भवन्ति हि ॥ २८-१३ ॥
सर्वेषामपि चैतेषां वामदेवो भवेदृषिः ।
पङ्क्तिश्छन्दः शिवो दैवं सामान्येन प्रकल्पितम् ॥ २८-१४ ॥
शिवतत्त्वं हि तारस्य प्रासादस्य सशक्तिकम् ।
पञ्चभूतादिभूतानि तन्मात्राणीन्द्रियाणि च ॥ २८-१५ ॥
मनो बुद्धिरहङ्कारः पुरुषः प्रकृतिस्तथा ।
रागो विद्या कला कालो नियतिस्त्वथ मायया ॥ २८-१६ ॥
शुद्धविद्येश्वरौ तद्वत् सादेशः शक्तिरित्यपि ।
सप्तैव पञ्चकान्येषु पञ्चार्णेषु स्थितानि हि ॥ २८-१७ ॥
उक्ताद् विलोमतः पञ्चत्रिंशत्तत्त्वस्थितिः स्मृता ।
ईशानपुरुषाघोरवामसद्यास्तु नादयः ॥ २८-१८ ॥
बुभुक्षूणां मुमुक्षूणां सद्योजातादयः क्रमात् ।
शुक्लं पीतं तथा कृष्णं धूम्रं हेमं तथारुणम् ॥ २८-१९ ॥
वर्णानि षण्णां वर्णानां विज्ञेयानि यथाक्रमम् ।
गायत्रं चैव गायत्रमनुष्टुप् त्रिष्टुभौ तथा ॥ २८-२० ॥
बृहती च विराडुक्ता छन्दासि च यथाक्रमम् ।
ब्रह्मेन्द्ररुद्रहरयो ब्रह्मा स्कन्दश्च देवताः ॥ २८-२१ ॥
हृदये चैव पूर्वादिवक्त्रेषु स्थानमीरितम् ।
पाण्योर्मुखेषु देहे च वर्णानि क्रमशो न्यसेत् ॥ २८-२२ ॥
अङ्गमन्त्राणि च पुनर्हृदाद्यङ्गेषु विन्यसेत् ।
स्यात् ब्रह्मचारिणां सृष्टिः स्थितिः स्याद् गृहमेधिनाम् ॥ २८-२३ ॥
वनस्थानां मुमुक्षूणां संहारन्यास ईरितः ।
दक्षिणाङ्गुष्ठमारभ्य न्यसेद् वामकरस्य तु ॥ २८-२४ ॥
अङ्गुष्ठान्तं तदा सृष्टिर्विपरीतस्तु संहृतिः ।
अङ्गुष्ठादिकनिष्ठान्तं मन्त्रवर्णास्तु हस्तयोः ॥ २८-२५ ॥
विन्यस्य स्थितयेऽङ्गानां मन्त्राण्यपि तथा न्यसेत् ।
तारं प्रासादसंयुक्तं विन्यस्य तलयोस्ततः ॥ २८-२६ ॥
मन्त्राक्षराण्यङ्गुलीषु चाङ्गान्यस्त्रं तलद्वये ।
ततस्तु हृदये तारं प्रासादमपि विन्यसेत् ॥ २८-२७ ॥
प्राग् दक्षिणोदक्पाश्चात्यमुखेषूर्ध्वमुखेऽपि च ।
न्यासः षडक्षरस्य स्यात् तथा पञ्चाक्षरस्य तु ॥ २८-२८ ॥
विना तलं च हृदयमङ्गुलीष्वासनेषु च ।
नकारादींस्तु पञ्चार्णान् न्यसेदङ्गानि पूर्ववत् ॥ २८-२९ ॥
ताराद्यन्तपुटं स्वार्णं न्यसेदङ्गुलिपर्वसु ।
आद्यन्तपर्वणोस्तारं मध्ये मन्त्राक्षरं न्यसेत् ॥ २८-३० ॥
स्त्रीशूद्राणां विना तारं स्वार्णाङ्गैर्न्यास ईरितः ।
व्यापकं चैव मूलेन न्यसेदामस्तकाङ्घ्रिकम् ॥ २८-३१ ॥
देहे मूर्धास्यकण्ठेषु हृद्गुह्याङ्घ्रिषु च न्यसेत् ।
सृष्टौ विलोमात् संहारे स्थितौ हृदयगुह्ययोः ॥ २८-३२ ॥
पादशीर्षास्यकण्ठेषु षड्वर्णानथ पञ्च चेत् ।
न्यसेत् कण्ठं विनान्येषु स्थानेष्वर्णान् यथाक्रमम् ॥ २८-३३ ॥
हृदयादिषडङ्गानि स्वस्थानेषु स्वजातिभिः ।
अस्त्रान्तमेवं विन्यस्य दिशाबन्धनमाचरेत् ॥ २८-३४ ॥
विघ्नेशो मातरो दुर्गा क्षेत्रेशश्च स्वनामभिः ।
छोटिकाभिर्नमोन्ताभिर्नियोज्या दिशि दिक्क्रमात् ॥ २८-३५ ॥
स्ववर्णलक्षजापेन दशांशतिलहोमतः ।
शिवार्चया च भक्त्यास्य पुरश्चर्या प्रसिध्यति ॥ २८-३६ ॥
पुरश्चर्यां विनाप्येष भक्तस्य यजतः शिवम् ।
जपहोमातिशयतः सदाभ्यासाच्च सिध्यति ॥ २८-३७ ॥
पूजादौ च जपादौ च प्राणायामत्रयन्त्रयम् ।
चत्वारिंशत्समावृत्तिः पञ्चार्णस्य तु मानसी ॥ २८-३८ ॥
प्राणायामोऽपि वर्णानां द्विद्विह्रासक्रमात् स्मृतः ।
सबिन्दुनादं प्रासादं शतकृत्वो धिया जपेत् ॥ २८-३९ ॥
एकार्णानां तथान्येषां निर्दिष्टः प्राणसंयमः ।
बीजं चाष्टोत्तरशतं तज्जपान्ते जपेदपि ॥ २८-४० ॥
नद्यां शिवालये तीर्थे पर्वतेऽग्नेश्च सन्निधौ ।
गुरुसूर्येन्दुदीपानां साहस्रफलदो जपः ॥ २८-४१ ॥
अपिच-
एकस्त्वेकगुणो गेहे गोष्ठे दशगुणो जपः ।
नद्यां शतगुणः शम्भोः सहस्रगुणितोऽग्रतः ॥ २८-४२ ॥
स्वयम्भुलिङ्गसान्निध्ये जपो लक्षगुणः स्मृतः ।
देवह्रदेषु तीर्थेषु पर्वताग्रेऽम्बुधेस्तटे ॥ २८-४३ ॥
पुण्यक्षेत्राश्रमाद्येषु जपः कोटिगुणो भवेत् ।
प्राग्याम्याप्योत्तराशास्यो जपेद् वश्याभिचारयोः ॥ २८-४४ ॥
पौष्टिके शान्तिके मुक्त्यै प्राङ्मुखो वाप्युदङ्मुखः ।
अङ्गुलीभिश्च रेखाभिः पुत्रजीवैः प्रवालकैः ॥ २८-४५ ॥
स्फाटिकैश्चैव पद्माक्षैः सौवर्णैरथ मौक्तिकैः ।
कुशानां ग्रन्थिभिश्चाथ रुद्राक्षैश्च यथाक्रमम् ॥ २८-४६ ॥
एकैकस्माद् दशगुणं जपन् फलमवाप्नुयात् ।
अङ्गुष्ठेनाक्षसूत्रस्य कर्षणं मोक्षदं स्मृतम् ॥ २८-४७ ॥
शत्रुनाशाय तर्जन्या श्रियै मध्यमया स्मृतम् ।
अनामया कनीयस्या शान्तिके पौष्टिके स्मृतम् ॥ २८-४८ ॥
साङ्गुष्ठमेव सर्वाभिः कर्षणं सर्वकामदम् ।
मन्त्रसाधनाधिकारः ।
शिवस्य पूजां निर्वर्त्य ततः कुर्वन् जपादिकम् ॥ २८-४९ ॥
मन्त्रं संसाधयेत् सिद्ध्यै विनियोगांस्तत परम् ।
स्नात्वा सन्ध्यां समाप्यादौ यागागार गतः शुचिः ॥ २८-५० ॥
मौनी सूर्यं समाराध्य समाचम्योपविश्य तु ।
आत्मशुद्धिं विधायाथ भस्मदिग्धस्त्रि पुण्ड्रधृक् ॥ २८-५१ ॥
तिलकी चन्दनेनाथ पुष्पारोपितमस्तकः ।
सामान्यार्घ्योक्षितद्वारस्तेन विघ्नं सरस्वतीम् ॥ २८-५२ ॥
गङ्गां च यमुनां नन्दिमहाकालौ यजेत् क्रमात् ।
ऊर्ध्वोदुम्बरके शाखामध्ये दक्षिणवामतः ॥ २८-५३ ॥
मूले द्वारश्रियं चोर्ध्वे पार्ष्णिघातत्रयेण तु ।
भौमांस्तालैरान्तरिक्षाञ् छोटिकाभिर्दिविस्थितान् ॥ २८-५४ ॥
विघ्नान् निवार्य स्वास्त्रेण नाराचास्त्र त् प्रसूनकम् ।
अन्तः क्षिप्त्वा विशेदन्तर्वामशाखामुपाश्रितः ॥ २८-५५ ॥
देहल्या ज्वलदस्त्रेण कुसुमं विनिधाय तु ।
स्वाख्यया ब्रह्मवास्त्वीशौ स्वं चानन्तासनं यजेत् ॥ २८-५६ ॥
मौनी तस्मिन् निविष्टोऽथ सकलीकृतविग्रहः ।
हृत्पद्मे स्वे शिवज्योतिर्भ्रूमध्ये तु धिया ततः ॥ २८-५७ ॥
नाभिकुण्डानले हुत्वा हविर्भिर्द्वादशान्तजैः ।
सति लिङ्गे तु सामान्यमर्घ्यं दत्त्वाभिपूज्य तु ॥ २८-५८ ॥
निर्माल्यमपनीयास्त्रादुपचारोक्तमार्गतः ।
सङ्क्षाल्याशून्यशिरसं शिवमावाह्य पूजयेत् ॥ २८-५९ ॥
आधारशक्तिं विन्यस्य शुक्लां कूर्मशिलोपरि ।
अनन्तं चासनीभूतं धर्मादीन् मण्डलानि च ॥ २८-६० ॥
पद्मं च शक्तीर्वामादीः शिवमूर्तिं च मध्यतः ।
ध्यायेत् प्रासादबीजोक्तां मूर्तिं विद्यामयीं विभोः ॥ २८-६१ ॥
पञ्चब्रह्मोक्तवक्त्रं दशभुजमथवा वेदबाहुं त्रिणेत्रं-
दुर्धूरार्धेन्दुगङ्गाफणिगणविलसत्सत्कपर्दं दधानम् ।
खट्वाङ्गं शूलशक्ती वरदभयहरं दक्षिणैर्दोर्भिरन्यै-
र्नागं रुद्राक्षमालां डमरुकसहितं चोत्पलं बीजपूरम् ॥ २८-६२ ॥
धवलवपुषमब्जे सन्निविष्टं त्रिणेत्रं वरदमभयमेणं चापि टङ्कं दधानम् ।
युगभुजमहिगङ्गाचन्द्रचञ्चत्कपर्दं भुजगवलयहारं कृत्तिवस्त्रं प्रपद्ये ॥ २८-६३ ॥
प्रासादपञ्चषट्सप्तवस्वर्णमनुपूजने ।
मूर्तिद्वयमिदं प्रोक्तं तयोरेकां समाश्रयेत् ॥ २८-६४ ॥
पञ्चवक्त्रो दशभुजो दशार्णस्य सदाशिवः ।
शक्त्या वामाङ्कगतया मनोन्मन्या समन्वितः ॥ २८-६५ ॥
ध्यात्वा पूज्यः शिवो लिङ्गे निष्कले सकलेऽथ वा ।
स्थिरे वा चललिङ्गे वा क्षणिके वाप्यभावतः ॥ २८-६६ ॥
कानि तानि क्षणिकानि ।
सैकतं मार्तिकं पैष्टं चान्नजं फलजं तथा ।
गन्धजं नावनीतं च गोमयं चाष्टमं स्मृतम् ॥ २८-६७ ॥
यथोपपत्त्या क्षणिकं लिङ्गं कृत्वा सवेदिकम् ।
तस्मिन्नावाह्य चेष्ट्वेशं निरपेक्षं विसर्जयेत् ॥ २८-६८ ॥
उद्वासितशिवे लिङ्गे चण्डमिष्ट्वा विसृज्य तु ।
क्षणिकं पीठसहितमगाधाम्भसि निक्षिपेत् ॥ २८-६९ ॥
मनसा हृदयाम्भोजे वह्नौ वा सूर्यमण्डले ।
जले वा स्थण्डिले वापि यथायोगं यथारुचि ॥ २८-७० ॥
एवं मूर्तिं समावाह्य विद्यादेहं च तद्गतम् ।
ब्रह्मभिः पञ्चवेदाष्टत्रयोदशफलाष्टकैः ॥ २८-७१ ॥
ईशानपुरुषाघोरवामदेवैः क्रमोदितैः ।
सद्योजातेन शक्त्यन्तो विद्यादेहो धरादिकः ॥ २८-७२ ॥
शिवमूर्तीश्च शक्त्यन्ताः शुद्धविद्यान्तमासनम् ।
ध्यात्वैवमासनं मूर्तिं विद्यादेहं च साधकः ॥ २८-७३ ॥
यथोपचारपटले प्रोक्तमावाहयेच्छिवम् ।
स्थापनं सन्निरोधं चाप्यवकुण्ठं प्ररोचनम् ॥ २८-७४ ॥
अमृतीकरणं च स्यादुपचारोक्तमार्गतः ।
अङ्गानि ब्रह्मवक्त्राणि तारहृद्बीजनामभिः ॥ २८-७५ ॥
नमः स्वाहा स्वधा वौषड् वषडित्यस्य मस्तके ।
पुष्पाञ्जलिं समायोज्य ध्यात्वा देवं सदाशिवम् ॥ २८-७६ ॥
भोगाङ्गानि तदङ्गेभ्यो दीपेभ्य इव दीपकाः ।
समानीयानलेशानरक्षोवायुदलेष्वथ ॥ २८-७७ ॥
विन्यस्य नेत्रं पुरुतः शिवास्त्रं दिग्दलेष्वथ ।
पूजयेत् तु शिवाङ्गानि वराभयकराणि तु ॥ २८-७८ ॥
तत्रास्त्रं ज्वलनप्रख्यं स्त्रीरूपं च चतुर्भुजम् ।
ध्यात्वैवमेकावरणप्रासादे संयजेच्छिवम् ॥ २८-७९ ॥
एकावरणाधिकारः ।
पञ्चाक्षरादिमन्त्राणां पञ्चावरणसंवृतः ।
पूजनीयः शिवो नित्यं भोगमोक्षफलेच्छुभिः ॥ २८-८० ॥
तत्राप्यङ्गैर्ब्रह्मभिश्च प्रथमावरणं स्मृतम् ।
द्वितीयं चाष्टविद्येशैर्नन्दीशाद्यैस्तृतीयकम् ॥ २८-८१ ॥
चतुर्थमपि लोकेशैस्तदस्त्रैः पञ्चमा वृतिः ।
तद्यथा-
अङ्गैश्च ब्रह्मभिश्चाद्यं प्रोक्तमावरणं हि तत् ॥ २८-८२ ॥
विद्येश्वरान् यजेदष्टौ पीठप्रान्तेऽम्बुजाद् बहिः ।
अनन्तसूक्ष्मौ च शिवोत्तमश्च स्यादेकनेत्रश्च शिखण्डिसञ्ज्ञः ।
श्रीकण्ठनामा च ततस्त्रिमूर्तिरथैकरुद्रोऽपि च दिग्विदिक्स्थाः ॥ २८-८३ ॥
ऐन्द्राद्यमाग्नेयादिकं चेति यावत् ।
प्राच्यां नन्दिमहाकालौ याम्ये भृङ्गिविनायकौ ॥ २८-८४ ॥
पश्चिमे तु वृषस्कन्दौ देवीपण्डौ तथोत्तरे ।
द्वारावरणस्तृतीयः ।
इन्द्राद्यैर्दशलोकेशैश्चतुर्थावरणं स्मृतम् ॥ २८-८५ ॥
इन्द्राय सुराधिपतये सायुधवाहनपरिवाराय रुद्रपार्षदे नमः । तत्पार्षदेभ्यो नमः इत्यादि ।
स्थिरलिङ्गं यदा पूज्यं तत्र लोकाधिपावृतौ ।
इन्द्रात् प्राच्यां तु वृषभं शयानं नामतो यजेत् ॥ २८-८६ ॥
यमात् पश्चिमतो विघ्नं वीरभद्रं च पश्चिमे ।
मातरः स्युस्तयोर्मध्य सप्त पूज्याः स्वनामभिः ॥ २८-८७ ॥
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराह्यैन्द्री तु चामुण्डीत्यथासामग्रतः पुनः ॥ २८-८८ ॥
मातृभ्यो नमः । सर्वमातृभ्यो नमः । सर्वमातृगणेभ्यो नमः इत्यभ्यर्च्य,
निर्-ऋतेर्दक्षिणे शास्ता तत्पुत्रश्चाथ सत्यकः ।
प्रभा देवी दक्षिणतो दुर्गा वायोस्तु पूर्वतः ॥ २८-८९ ॥
धनदात् पश्चिमे स्कन्दश्चण्डेशश्चैव गोचरे ।
क्षेत्रपाल च चण्डात् प्राक् तानिष्ट्वास्त्रावृतिं यजेत् ॥ २८-९० ॥
वृषाद्याः क्षेत्रपालान्ताः पूज्या लिङ्गं स्थिरं यदा ।
न चले स्थण्डिले पूज्याः पूज्या वेत्यपरे जगुः ॥ २८-९१ ॥
वज्रं शक्तिं तथा दण्डं खड्गं पाशाङ्कुशौ गदाम् ।
त्रिशूलं पद्ममित्यस्त्रैः पञ्चमी तु वृतिर्भवेत् ॥ २८-९२ ॥
इत्थं सपञ्चावरणमिष्ट्वा शम्भु तथानले ।
घृतेनान्नेन च तिलैर्हुत्वान्नेन बलिं क्षिपेत् ॥ २८-९३ ॥
यथा-
रुद्राश्चाप्यथ मातरोऽपि च गणा यक्षाश्च पूर्वादिगाः
शर्वाद्या ग्रहदैत्यराक्षसवरा नागाश्च मध्ये ततः ।
नक्षत्राणि तदन्तरालविदिशास्वीशादिका राशयो
विश्वे क्षेत्रपतिः प्रदक्षिणवशाद् दुर्गा च तेभ्यः क्षिपेत् ॥ २८-९४ ॥
द्वितीयमण्डले चापि शक्राद्या दश लोकपाः ।
तेभ्यश्च तद्बहिः क्षेप्यो मन्त्रेणानेन वै बलिः ॥ २८-९५ ॥
ॐ वायसादिभ्यः समयभेदिभ्यः ठ ठ ।
बलिमन्त्रंस्तु संहृत्य प्राङ्कणे कृतमण्डले ।
ये रुद्रा रौद्रकर्माणो रौद्रस्थाननिवासिनः ॥ २८-९६ ॥
सौम्याश्चैव तु ये केचित् सौम्यस्थाननिवासिनः ।
मातरो रौद्ररूपाश्च गणानामधिपाश्च ये ॥ २८-९७ ॥
सर्वे सुप्रीतमनसः प्रतिगृह्णन्त्विमं बलिम् ।
सिद्धिं यच्छन्तु मे क्षिप्रं भयेभ्यः पान्तु मां सदा ॥ २८-९८ ॥
ताभ्यस्तेभ्यो नम इति बलिं निक्षिप्य,
ततोऽद्भिः पाणिपादं तु प्रक्षाल्याचम्य वाग्यतः ।
प्रदक्षिणनमस्कारस्तुतिभिस्तं प्रसाद्य तु ॥ २८-९९ ॥
निवेदितान्नं निर्माल्यं सति चण्डे निवेदयेत् ।
तत् क्षिपेत् सलिलेऽग्नौ वा शिल्पिकर्मकरादयः ॥ २८-१०० ॥
दास्यो वापि तदश्नीयुस्तदन्ये चेत् पतन्ति ते ।
यथोपचारमार्गेण चक्रवर्त्युपचारतः ॥ २८-१०१ ॥
गीतनृत्तादिविभवैर्मनसा चाभिनन्दितम् ।
तदग्रे तु जपेन्मन्त्रं जपपूजादिकं ततः ॥ २८-१०२ ॥
मन्त्रैर्गुह्यातिगुह्याद्यैर्देवपादे समर्पयेत् ।
यथा-
गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ॥ २८-१०३ ॥
।
यत्किञ्चित् कर्म हे देव! सदा सुकृतदुष्कृतम् ॥ २८-१०४ ॥
तन्मे शिवपदस्थस्य हुं क्षं क्षपय शङ्कर! ।
शिवो दाता शिवो भोक्ता शिवः सर्वमिदं जगत् ॥ २८-१०५ ॥
शिवो यजति सर्वत्र यः शिवः सोऽहमेव हि ।
साङ्गमूलाङ्गमित्येभिरर्पयेच्चुलुकाम्बुभिः ॥ २८-१०६ ॥
अथास्य सिद्धमन्त्रस्य विनियोगा भवन्ति हि ।
मन्त्रः प्रच्यवते वीर्याद् विनियोगं विना यतः ॥ २८-१०७ ॥
एकादशजपात् स्नानप्रोक्षणान्नोदकादिकम् ।
आयुरारोग्यदं नॄणामघदोषापहं च तत् ॥ २८-१०८ ॥
दूर्वातिलाज्यच्छिन्नानां लक्षहोमोऽपमृत्युजित् ।
सर्वरोगग्रहक्लेशहरमायुर्विवर्धनम् ॥ २८-१०९ ॥
पर्वताग्रे महानद्यां जपाच्चायुरवाप्नुयात् ।
आदित्याभिमुखो लक्षं जपंश्चाष्टोत्तरं शतम् ॥ २८-११० ॥
जुह्वत् साज्यांस्तिलान् रोगान् जयेच्चायुश्च विन्दति ।
शनैश्चरदिनेऽश्वत्थमालभ्यापि जपेत् तथा ॥ २८-१११ ॥
अष्टोत्तरशतालब्धमौषधं वा लजं पिबेत् ।
औदरैर्मुच्यते रोगैर्विषमप्यमृतं भवेत् ॥ २८-११२ ॥
आदित्याभिमुखः स्थित्वा नाभिदघ्ने जले जपेत् ।
सहस्रं वा शतं नित्यमायुरारोग्यवर्धनम् ॥ २८-११३ ॥
नद्यम्भःपूरितं कुम्भं यथावदयुतं जपेत् ।
स्पृष्ट्वाभिषेकस्तेन स्याद् ग्रहरोगापमृत्युजित् ॥ २८-११४ ॥
स्वबीजसम्पुटं कुक्षौ न्यस्तं शूलादिनाशनम् ।
ब्राह्मीं घृतरसं वापि चन्द्रसूर्योपरागयोः ॥ २८-११५ ॥
आमोक्षाज्जपितं पीत्वा प्रज्ञास्रुतधरो भवेत् ।
आर्द्राकृष्णचतुर्दश्यां तथा कृष्णाष्टमीषु वा ॥ २८-११६ ॥
ग्रहणे विष्वयनयोर्मासं प्राक् समुपोषितः ।
पूजयेद् भस्मदिग्धाङ्गः शिवं शक्त्या जपेदपि ॥ २८-११७ ॥
पलं श्वेतवचाचूर्णं कपिलाज्यं चतुष्पलम् ।
मन्त्रेणायुतमालब्धं पीत्वा सर्वज्ञतामियात् ॥ २८-११८ ॥
पौर्णमास्यां यदा माघसङ्क्रान्तिः सा सरस्वती ।
प्राक् त्रिरात्रोषितस्तस्यां शिवमिष्ट्वा यथाविधि ॥ २८-११९ ॥
जपेद् रात्रावनशनो भस्मदिग्धो नदीतटे ।
प्रातः स्नानादिकं कृत्वा गव्याज्यं भस्ममिश्रितम् ॥ २८-१२० ॥
पलाशपत्रगं स्पृष्ट्वा जपित्वाष्टसहस्रकम् ।
पीत्वा तत्पञ्चगव्यं वा ज्ञानं प्रज्ञां च विन्दति ॥ २८-१२१ ॥
हंसवागीश्वरीबीजैः सम्पुटं तु षडक्षरम् ।
लक्षत्रयं जपेद् ध्यात्वा सर्वज्ञो नचिराद् भवेत् ॥ २८-१२२ ॥
एवं षडक्षरं मन्त्री हंसवागीश्वरीयुतम् ।
व्रत्यादेशाशनो भक्त्या लक्षाणां दशकानि तु ॥ २८-१२३ ॥
जपेत् क्रमेणाणिमादीन् प्राप्य विद्याधरो भवेत् ।
बिल्वच्छायागतो नित्यमयुतं प्रजपेच्छुचिः ॥ २८-१२४ ॥
तत्फलं जुहुयात् साज्यमष्टोत्तरसहस्रकम् ।
अलक्ष्मीमपकृष्याथ मासेन धनवान् भवेत् ॥ २८-१२५ ॥
मासौ मासांश्च षड्वाब्दं य एवं जुहुयाज्जपन् ।
सम्पूजयन् शिवं भक्त्या श्रिया स धनदो भवेत् ॥ २८-१२६ ॥
पलाशकुसुमैः पुत्रः स्याद्धुतैस्तत्समिद्धुतात् ।
उत्पातशत्रुबाधानां सद्यः शान्तिर्भविष्यति ॥ २८-१२७ ॥
ग्रहपीडासु हुत्वाष्टसहस्रमयुतं जपेत् ।
साध्यैस्तिलैर्भवेच्छान्तिर्दुःस्वप्नेऽष्टशतं हुतात् ॥ २८-१२८ ॥
ग्रहणे लिङ्गमभ्यर्च्य ध्यात्वेष्टमयुतं जपेत् ।
लभते तद्भवाम् शान्तिं तथा वायुतहोमतः ॥ २८-१२९ ॥
सर्वत्र लिङ्गमभ्यर्च्य कुर्यात् कर्माणि सन्निधौ ।
आभिचारकशान्तिः स्यात् त्रिसन्ध्य जपहोमतः ॥ २८-१३० ॥
तच्च प्रतिसृतं कर्म शत्रुमेवाभिगच्छति ।
विषरक्तसमासिक्तैः स्याद् विद्वेषो विभीतकैः ॥ २८-१३१ ॥
तीक्ष्णतैलहुताल्लक्षान्म्रियते ह्यमरोऽप्यरिः ।
वामोरुलिखितं नाम मन्त्रर्णान्तरितं क्रमात् ॥ २८-१३२ ॥
निशया निशि वामेन तलेनाच्छाद्य तज्जपेत् ।
आकर्षयेत् स्त्रियं ध्यायन् पाशाकर्षणविह्वलाम् ॥ २८-१३३ ॥
अनेनैव प्रयोगेण पुंसां चाकर्षणं स्मृतम् ।
चतुर्दशीषु कृष्णासु षट्सु तीरे पयोनिधेः ॥ २८-१३४ ॥
सैकतं लिङ्गमभ्यर्च्य निराहारोऽयुतं जपेत् ।
षट्स्वेवापरसन्ध्यासु सप्तम्यामथ मण्डले ॥ २८-१३५ ॥
पद्ममध्येऽभिपूज्येशं तस्य दक्षिणतो यजेत् ।
वीरभद्रं च विघ्नेशं जपापुष्पैस्तु मातृभिः ॥ २८-१३६ ॥
जपापुष्पायुतं चाग्नौ जुहुयाच्च तदग्रतः ।
ततः स मातृभिर्विघ्नं वीरभद्रं च पश्यति ॥ २८-१३७ ॥
ततोऽभीष्टं वरं लब्ध्वा मोदते देववच्चिरम् ।
बाणपुष्पायुतैर्हुत्वा युद्धे विजयमाप्नुयात् ॥ २८-१३८ ॥
यद्वर्णपुष्पैर्जुहुयात् तद्वर्णं लभतेऽम्बरे ।
पञ्चगव्यं चरुं प्राश्नन् पञ्चलक्षं जपेन्मनुम् ॥ २८-१३९ ॥
पातकेभ्यश्च पापेभ्यो मुच्यते नात्र संशयः ।
पर्वताग्रं समारुह्य त्रिःस्नायी व्रत्यभोजनः ॥ २८-१४० ॥
यमैः सनियमैर्युक्तः कोटिसङ्ख्यं षडक्षरम् ।
जपेद्यः पूजयेल्लिङ्गं मौनव्रतधरः शुचिः ॥ २८-१४१ ॥
सोऽनेनैव शरीरेण खेचरः कामरूपधृक् ।
अणिमादिगुणैश्वर्यं लब्ध्वा सिद्धैश्च सामरैः ॥ २८-१४२ ॥
वन्द्यमानो गणेशैश्च पूज्यमानः स सर्ववित् ।
सर्वलोकाभिगामी स्यात् सर्वान् देवांश्च पश्यति ॥ २८-१४३ ॥
कोटित्रयं जपेदेवं यस्त्वसौ साधकोत्तमः ।
प्रत्यक्षतामियात् तस्य सहाम्बः परमेश्वरः ॥ २८-१४४ ॥
बहुनात्र किमुक्तेन साम्बस्येशस्य तुष्टये ।
नैतेषां शिवमन्त्राणामन्यो मन्त्रोऽस्ति कश्चन ॥ २८-१४५ ॥
स्ववर्णाश्रमधर्माणामाचाराणां च पालकः ।
दीक्षितो गुरुणा मन्त्रं स साधयितुमर्हति ॥ २८-१४६ ॥
विभीतककरञ्जार्कस्नुहिच्छायां न संश्रयेत् ।
पलण्डुलशुनालाबुगृञ्जनानि तुषोदकम् ॥ २८-१४७ ॥
मत्स्यमांसानि मद्यं च ककुभाण्डं तथालुपम् ।
कांस्याशनं च शार्ङ्गाष्टं नालीशाकं सिलिन्ध्रकम् ॥ २८-१४८ ॥
यातयामं गतरसं पूतिपर्युषितादिकम् ।
अस्नानाद्यशुचिस्पृष्टं शावसूतकभोजनम् ॥ २८-१४९ ॥
गणान्नं गणिकान्न च क्षत्रविट्शूद्रभोजनम् ।
प्रतिलोमानुलोमानामन्नानि च विवर्जयेत् ॥ २८-१५० ॥
अदृष्ट्वा चाप्यसम्पूज्य लिङ्गं नाद्यान्न वा पिबेत् ।
गोगुर्वागमवेदानां शिवभक्तद्विजन्मनाम् ॥ २८-१५१ ॥
सच्छात्राणां च देवानां निन्दां दूरेण वर्जयेत् ।
इष्टापूर्तं यथाशक्ति कुर्वन् नित्यं जितेन्द्रियः ॥ २८-१५२ ॥
यथोक्तं फलमाप्नोति मन्त्रैरेभिंस्तु मानवः ।
विनियोगाधिकारः ।
तारं प्रासादबीजं च शिवायेति नमोन्तकम् ॥ २८-१५३ ॥
शिवस्य मूलमन्त्रोऽयं सप्तवर्णोऽखिलार्थदः ।
प्रासादोक्ताङ्गबीजान्ते शिकाराद्यक्षराणि तु ॥ २८-१५४ ॥
संयोज्य जातियुक्तानि तस्याङ्गानि भवन्ति हि ।
सानुस्वारं तु खं नेत्रमन्त्रोऽपि स्यात् सजातिकः ॥ २८-१५५ ॥
दधीचश्चैव गायत्रमृषिश्छन्दश्च दैवतम् ।
शिवश्च साधनाद्यं च विनियोगश्च पूर्ववत् ॥ २८-१५६ ॥
सतारः शक्तिबीजादिः प्रोक्तो मन्त्रः षडक्षरः ।
शैवाष्टाक्षर उद्दिष्टो धर्मकामार्थमोक्षदः ॥ २८-१५७ ॥
प्रासादादिस्वषड्वर्णैः प्रासादोक्ताङ्गपूर्वकैः ।
स्वस्वजातिसमायुक्तैरस्याप्यङ्गानि षड् वि(दः?दुः) ॥ २८-१५८ ॥
ऋषिः शिलादो बृहती छन्दो दैवं शिवः स्वयम् ।
अस्यापि साधनाद्यं तु विनियोगाश्च पूर्ववत् ॥ २८-१५९ ॥
शैवाष्टाक्षराधिकारः ।
अस्यैवाष्टाक्षरस्यान्ते चिन्मन्त्रं योजयेद् यदा ।
मन्त्रो दशाक्षरः शैवः कल्पवृक्ष इवेष्टदः ॥ २८-१६० ॥
सबिन्दुखं भृगुः सर्गी चिन्मन्त्रोऽयं हि कीर्तितः ।
अष्टाक्षरोक्तान्यङ्गानि षडस्यापि भवन्ति हि ॥ २८-१६१ ॥
सनत्कुमारः पङ्क्तिश्च पार्वतीसहितः शिवः ।
ऋष्याद्याः साधनाद्याश्च विनियोगाः पुरोदिताः ॥ २८-१६२ ॥
षण्मन्त्राणामपि ह्येषां सामान्यं देशिकां विदुः ।
षडेते हि महामन्त्राः मूलमन्त्राः शिवस्य हि ॥ २८-१६३ ॥
नैषामसाध्यं कोऽप्यस्ति पुरुषार्थो हि वाञ्छितः ।
इतीमे समासात् समालोक्य कल्पांस्तथा शैवमन्त्राः षडेव प्रधानाः ।
तथा सारभूताः श्रुतीनां कृतीनां हितायोपदिष्टाः समस्ता विशिष्टाः ॥ २८-१६४ �॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे अष्टाविंशः पटलः ॥ २८ ॥