२७

अथ सप्तविंशः पटलः ।

पुरतारकं व्योमदीर्घादिबि दुप्लुतं शक्तिबीजं च शुक्लं ससर्गम् ।
समुद्धृत्य सूर्यायनत्यन्तकुक्त्वा भवेन्मूलमन्त्रस्तु सौरो नवार्णः ॥ २७-१ ॥

ॐ अं ब्रह्मतेजो ज्वल हृदयाय नमः । ॐ अं विष्णुतेजो(प्र?)ज्वल अर्काय शिरसे स्वाहा । ॐ अं रुद्रतेजो भूर्भुवः सुवरों ज्वालिनि शिखायै वषट् । ॐ अं महेश्वरतेजः शूलिनि हुं कवचाय हुम् । ॐ अं सत्यसदा
शिवतेजः कपर्दिनि अस्त्राय फट् । ॐ हं शिवतेजः शक्तिनेत्रत्रयाय वौषट् ।

अङ्गानीमानि सूर्यस्य स्वास्त्रशुद्वे करद्वये ।
ज्येष्ठाद्यङ्गुलिषु न्यस्य क्रमादस्त्रं तलद्वये ॥ २७-२ ॥

शीर्षास्यहृदुपस्थेषु पदयोर्दिक्षु च क्रमात् ।
तान्यङ्गान्येव विन्यस्य हृदयादिषु च क्रमात् ॥ २७-३ ॥

पूजाजपादिकं कुर्यात् सिद्धिमिष्टां स विन्दति ।
अस्यर्षिः शुष्किकश्छन्दो जगती देवता रविः ॥ २७-४ ॥

समुद्रगायां नद्यां तं पर्वताग्रेऽथ वा यजेत् ।
यथावद्वर्णलक्षं तु पुरश्चर्याविधौ जपेत् ॥ २७-५ ॥

तद्दशांशेन बैल्वैश्च पालाशौदुम्बरैरपि ।
एधोभिः पैप्पलैश्चाज्यदधिमध्वभिघारितैः ॥ २७-६ ॥

विधिवज्जुहुयाच्छक्त्या ब्राह्मणानपि भोजयेत् ।
अथैवं सिद्धमन्त्रस्य विनियोगा भवन्ति हि ॥ २७-७ ॥

ब्राह्मणादींस्तु पालाशैः पिप्पलोदुम्बरैः क्रमात् ।
अपामार्गैस्तु वशयेदेधोभिः शूद्रवत् स्त्रियः ॥ २७-८ ॥

सर्वान् वर्णान् वशे कुर्यादपामार्गैर्वृतप्लुतैः ।
नद्यां समुद्रगामिन्यामूर्ध्वबाहुर्जले स्थितः ॥ २७-९ ॥

नाभिदघ्नेऽष्टसाहस्रं जपन् नित्यं धनी भवेत् ।
मण्डले सवितुर्विष्णुं हेमवर्णं चतुर्भुजम् ॥ २७-१० ॥

शङ्खचक्राम्बुजगदाहस्तं ध्यायन् जपेदपि ।
सर्वान् कामानवाप्नोति मुक्तिमप्यतिदुर्लभाम् ॥ २७-११ ॥

अनेनैव समुद्दिष्टं यद् तत् स्यादभिवाञ्छितम् ।
मन्त्रेणानेन लभते जपध्यानहुतादिभिः ॥ २७-१२ ॥

अस्य मन्त्रस्य चान्येषां सामान्येनार्चनाविधिः ।
कथ्यते सूर्यमन्त्राणां यथावदिह सङ्ग्रहात् ॥ २७-१३ ॥

तद्यथा-

ॐ । तेजन्वितं तथा सूर्यमादित्यं तिग्गतेजसम् ।
वैकुण्ठं चैव तारादिं पृथक् पृथगुदीर्य तु ॥ २७-१४ ॥

आवाहयामीत्युक्ताः स्युर्मन्त्रास्त्वावाहने रवेः ।
ॐ । भूर्भुवः सुवः सूर्यादिः स्थापनामन्त्र ईरितः ॥ २७-१५ ॥

महाबलाय स्वाहेति दद्यादर्घ्यं यथाविधि ।
हृदयेन तथा पाद्यं दद्यादाचमनीयकम् ॥ २७-१६ ॥

मूलेन स्नापयेद् देवं सौरैः सूक्तैश्च शक्तितः ।
मूलेन वस्त्राभरणं कवचैनोपवीतकम् ॥ २७-१७ ॥

पाद्याचामौ यथापूर्वं स्वाहान्तं प्रणवादिकम् ।
गन्धं खषोत्कायेत्यस्य स्वाहान्तं पुष्पमप्यथ ॥ २७-१८ ॥

सहस्रकिरणायेति धूपं च शिरसा रवेः ।
शिखया दीपमप्यन्य नैवेद्यममृतात्मने ॥ २७-१९ ॥

जपित्वा सूर्यगायत्रीमुपचारैस्तथार्चयेत् ।

ॐ पिङ्गलाय नमः ।

अन्तः प्रविश्योपविश्य कृत्वा तु प्राणसंयमम् ॥ २७-२० ॥

अस्त्रशुद्धकरोऽङ्गानि हृदयादीनि विन्यसेत् ।
आत्मानं भास्करं ध्यायन् यथोक्तार्घ्यं तु पूरयेत् ॥ २७-२१ ॥

साष्टाङ्गं विन्यसेत् तत्र मूलाङ्गान्यर्चयेदपि ।
तत्प्रोक्षितात्मस्थानार्च्चाद्रव्यचक्रः कुशैस्ततः ॥ २७-२३ ॥

गं गणपतये नमः । ॐ गुं गुरुभ्यो नमः ।

इति दक्षिणतो विघ्नं गुरुं चोत्तरतो यजेत् ।
तं प्रभूतासनं पीठं तारवर्गादिपूर्वकम् ॥ २७-२३ ॥

स्वनाम्नाभ्यर्च्य तत्पादांश्चतुरोऽथ हरीन् यजेत् ।
विमलं सारमाराध्यं सुखं परमपूर्वकम् ॥ २७-२४ ॥

तारबिन्द्वन्तवर्गादियुक्ताख्याभिर्नमोन्तकम् ।
तथैव परमात्मानं सूर्यपद्मासनं तथा ॥ २७-२५ ॥

दीप्तां सूक्ष्मां जयां भद्रां बिभ्रतीं विमलामपि ।
अमोघां विद्युतां चाष्टदिग्दलेषु क्रमाद् यजेत् ॥ २७-२६ ॥

सप्तमस्य द्वितीयं तु स्वरैर्दीर्घैर्विभेदितम् ।
सबिन्दुमादौ शक्तीनां नमश्चान्ते नियोजयेत् ॥ २७-२७ ॥

नवमीं कर्णिकायां च तारादिं सर्वतोमुखीम् ।
इष्ट्वाथ प्रस्फुरन्मुद्रां दर्शयेदथ भास्करम् ॥ २७-२८ ॥

वृत्तस्वतेजोबिम्बस्थं श्वेतपद्मोपरि स्थितम् ।
प्रोक्तमूर्तिधरं देवं सञ्चिन्त्य स्थिरधीर्हृदा ॥ २७-२९ ॥

पुष्पैरञ्जलिमापूर्य खषोत्कं मूलसंयुतम् ।
उच्चार्य द्वादशान्ताब्जात् तदावाहनमुद्रया ॥ २७-३० ॥

आवाह्य स्थापयेत् पद्मे स्थापन्या सुसमाहितः ।
सन्निधान्या सन्निधाप्य रुद्ध्वा तन्निष्ठुराख्यया ॥ २७-३१ ॥

धेन्वा प्ररोच्याथार्घ्यादीन् दत्त्वा चैव खषोत्किना ।
साङ्गमूलेन चाराध्य पद्मं बिम्बं च दर्शयेत् ॥ २७-३२ ॥

स्नानवस्त्रोपवीतादि दत्त्वाङ्गानि यजेत् क्रमात् ।
हृदयादीनि वह्नीशरक्षोवायुदलेष्वथ ॥ २७-३३ ॥

मध्ये नेत्रं ततश्चास्त्रं दिग्दलेषु सजातिभिः ।
वरदाम्भोजहस्ताः स्युर्हृदयाद्याः सुभूषिताः ॥ २७-३४ ॥

रक्ताभाः स्मेरवदनास्तदस्त्रं योषिदाकृति ।
विद्युत्पुञ्जनिभं रौद्रमुग्रदंष्ट्रं विचिन्तयेत् ॥ २७-३५ ॥

धेनुमुद्रां हृदादीनां दर्शयेद् गोवृषं दृशः ।
त्रासनीमपि चास्त्रस्य पुनर्गन्धादिभिर्ययेत् ॥ २७-३६ ॥

प्रागादिदिक्षु सोमं च बुधं चैव बृहस्पतिम् ।
पूजयेद् भार्गवं चाग्निरक्षोवाय्वीशदिग्गतान् ॥ २७-३७ ॥

अङ्गारकं शनैश्चारं राहुं केतुमिति ग्रहान् ।
तारादिस्वाह्वयाद्यर्णैर्बिन्द्वन्तैरथ नामभिः ॥ २७-३८ ॥

शुक्लोऽरुणः कांस्यनिभः पीतः श्वेतश्तथा सितः ।
कृष्णोऽङ्गारनिभो धूम्रः सोमाद्याः स्युर्नव ग्रहाः ॥ २७-३९ ॥

द्विभुजास्ते च वामोरुस्थिततद्वरपाणयः ।
साक्षमालाभयकरा दक्षिणे सुविभूषिताः ॥ २७-४० ॥

वन्दन्या तु प्ररोच्यैतान् गन्धाद्यैरथ भास्करम् ।
निवेद्यान्तं तु सम्पूज्य ग्रहांश्चैव यथाक्रमम् ॥ २७-४१ ॥

पद्माख्यां बिम्बमुद्रां च दर्शयित्वाभिनन्दयेत् ।
यथाशक्ति जपित्वाथ दत्त्वार्घ्यं तु विसर्जयेत् ॥ २७-४२ ॥

संहृत्य मुद्रया मन्त्रान् साङ्गं देवं ग्रहानपि ।
हृदये द्वादशान्ते वा सूर्यबिम्बे नियोजयेत् ॥ २७-४३ ॥

तन्निर्माल्यादिकं सर्वं तेजश्चण्डाय दापयेत् ।
तारवर्गादिपूर्वेण स्वनाम्नैवैशगोचरे ॥ २७-४४ ॥

स्वाख्याभिस्तु चतुर्थ्या च सर्वेषां स्यान्नमोन्तकम् ।
षण्मुद्राः सूर्यपूजायां दर्शनीयास्तु ता यथा ॥ २७-४५ ॥

पद्माकारावाभिमुख्येन पाणी मध्येङ्गुष्ठौ शायितौ कर्णिकावत् ।
पद्माख्येयं सैव संलग्नमध्या स्पृष्टाङ्गुष्ठा बिम्बसञ्ज्ञा तु मुद्रा ॥ २७-४६ ॥

प्राग्वत् पाण्योर्लग्नयोरङ्गुलीनामग्रेऽङ्गुष्ठोच्चालनान्निष्ठुरा स्यात् ।
बद्ध्वा मुष्टिं दक्षिणामास्फुरन्त्यौ मुक्त्वा तर्जामध्यमे गोवृषाख्या ॥ २७-४७ ॥

अन्योन्यग्रथितसमाङ्गुलीकपाण्योस्तर्जाग्रद्वयसमवेतमध्यमाग्रे ।
व्यत्यस्तेऽप्यथ तदनामिके कनिष्ठायुक्ताग्रे भवति हि धेनुसञ्ज्ञमुद्रा ॥ २७-४८ ॥

बद्ध्वा दक्षिणहस्तेन मुष्टिमुत्सृज्य तर्जनीम् ।
तर्जन्या वामतल(सं)ताडनात् त्रासनी भवेत् ॥ २७-४९ ॥

प्रयोजनतिलकाधिकारः ।

तारं सान्तं बिन्दुयुतं कान्तं बिन्दुसमन्वितम् ।
द्वितीयस्य द्वितीयं च षोत्कायेति समुद्धरेत् ॥ २७-५० ॥

मन्त्रोऽयं कथितः साङ्गो भास्करस्य षडक्षरः ।
याज्ञवल्क्योऽस्य ऋषिः स्याद् गायत्री छन्द एव च ॥ २७-५१ ॥

देवता सविता साक्षात् प्राग्वत् पूजादिकं स्मृतम् ।
विनियोगस्तु पूर्वोक्ततुल्योऽस्यापि विधीयते ॥ २७-५२ ॥

विशेषः स्वार्णलक्षं तु पुरश्चर्याविधौ जपेत् ।
तद्दशांशं हुतं प्राग्वत् कृत्वा सिद्धमनुर्भवेत् ॥ २७-५३ ॥

अणिमादिगुणावाप्तिर्जपस्यातिशये भवेत् ।

षडक्षराधिकारः ।

सषष्ठानुग्रहो दण्डी वह्निजो लकुलीश्वरः ॥ २७-५४ ॥

सङ्ग्रामविजयाख्योऽयं सूर्यमन्त्रोऽखिलार्थदः ।
स्वयं दीर्घस्वरैर्युक्तः षडङ्गान्यस्त्रमन्त्रतः ॥ २७-५५ ॥

अङ्गुष्ठादिकनिष्ठान्तं स्वार्णान्यङ्गानि च न्यसेत् ।
षष्ठं तु तलयोर्मूलं जपन् हस्तद्वयेन तु ॥ २७-५६ ॥

विन्यस्य व्यापकं चाथ मूर्धास्यहृदयेष्वपि ।
गुह्ये चरणयोर्मूलमङ्गानि हृदयादिषु ॥ २७-५७ ॥

विन्यस्य तु यथाकल्पं स्नात्वा नित्यमुपासयेत् ।
सम्पूजयेद् रविं प्राग्वन्मण्डले वार्कमण्डले ॥ २७-५८ ॥

अर्घ्याद्यं तु निवेद्यान्तमर्चयित्वा जुहोतु च ।
त्र्यायन् सूर्यं जपेल्लक्ष प्राग्वद्धुत्वा प्रसिध्यति ॥ २७-५९ ॥

अथ वक्ष्येऽरुणं ध्यायेद्धेमाभं शान्तिके श्रियै ।
पीतं संस्तम्भने कृष्णं क्षुद्रे शुक्लं च मुक्तये ॥ २७-६० ॥

अपिङ्गलं च विजये पद्महस्तं रविं स्मरेत् ।
जपहोमादिना प्राग्वत् सर्वान् कामानवाप्नुयात् ॥ २७-६१ ॥

सङ्ग्रामविजयाधिकारः ।

सत्वक् सङ्ग्रामविजयो मन्त्रो मार्ताण्डभैरवः ।
दीर्घस्वरैः स्वैरङ्गानि ह्रस्वैः स्वैः पञ्चमूर्तयः ॥ २७-६२ ॥

सूर्यश्च भास्करो भानू रविश्चाथ दिवाकरः ।
पञ्चैता मूर्तयस्तस्य मार्ताण्डस्य भवन्ति हि ॥ २७-६३ ॥

सर्वत्र बिम्बपुटितो मन्त्रोऽयं सर्वसिद्धिदः ।
पार्श्वात् तृतीयो वह्निस्थः साक्षी बिम्बं हि बिन्दुमत् ॥ २७-६४ ॥

अङ्गुष्ठादिकनिष्ठान्तं पञ्चमूर्तीस्तु विन्यसेत् ।
मध्यादिकं कनिष्ठान्तमङ्गमन्त्राणि च न्यसेत् ॥ २७-६५ ॥

मूलेन व्यापकं चापि मूर्धादिचरणान्तकम् ।
मूर्तौ शीर्षास्यहृद्गुह्यपादेषु क्रमशो न्यसेत् ॥ २७-६६ ॥

स्वावकाशेष्वथाङ्गानि विन्यस्य रविवत् स्वयम् ।
प्राग्वत् पीठे विभूत्यादिमण्डलाब्जे स्मरन् यजेत् ॥ २७-६७ ॥

शक्तीर्दीप्तादिकाश्चापि पुनर्दूतीचतुष्टयम् ।
उषां प्रभां च सन्ध्यां च प्रज्ञा दिक्पत्रगा यजेत् ॥ २७-६८ ॥

स्वाख्याद्यर्णैः सदीर्घेन्दुखण्डैरिष्ट्वा ततो रविम् ।
आवाहयेत् ततः पद्मे वक्ष्यमाणाकृतिं स्मरन् ॥ २७-६९ ॥

सिन्दूरारुणमष्टबाहुमरुणैराकल्पकैर्भासुरं
वामाङ्कार्धनिवेशितस्वदयितं त्र्यक्षैश्चतुर्भिमुखैः ।
सत्पाशाङ्कुशमक्षसूत्रममलं युक्तं कपालं क्रमात्
खट्वाङ्गं जलजं दधानमथ तच्चक्रं च शक्तिं स्मरेत् ॥ २७-७० ॥

एव ध्यात्वा समावाह्य सम्पूज्य विधिवद् रबिम् ।
उपचारैर्यथापूर्वं शक्त्या शक्त्यनुरूपतः ॥ २७-७१ ॥

चतुर्लक्षं जपेन्मूलं पुरश्चरणसिद्धये ।
अर्घ्यं च विधिवद् देयं गोमयालिप्तमण्डले ॥ २७-७२ ॥

शुद्धदेशे नदीतीरे देवागारेऽथ वा गृहे ।
प्राङ्कणे गोमयालिप्ते हस्तवृत्ते तु मण्डले ॥ २७-७३ ॥

न्यस्ताङ्गः सूर्यमावाह्य सम्पूज्य च यथाविधि ।
प्रस्थपूर्णं तु सौवर्णं ताम्रं वा चषकं शुभम् ॥ २७-७४ ॥

धूपितं सादितं दर्भेष्वाष्टाव्या?पूर्य वारिभिः ।
रक्तचन्दनकाश्मीररोचनानन्दनाक्षतैः ॥ २७-७५ ॥

कर्पूरागरुदर्भैश्च श्यामावानि?लसर्षपैः ।
वेणुबीजयवाशालीजपाबन्धूकडाडिमैः ॥ २७-७६ ॥

संरक्तकरवीरैश्च मिश्रयित्वा तदम्भसि ।
सबिम्बमूलसाङ्गैश्च विन्यस्य द्वादशान्ततः ॥ २७-७७ ॥

सहंसचेतनं गन्धपुष्पधूपार्चितं पुनः ।
धेन्वामृतीकृतं शस्त्ररक्षितं चावकुण्ठितम् ॥ २७-७८ ॥

कवचेनाब्जबिम्बाभ्यां मुद्राभ्यां सम्प्ररोच्य तु ।
उद्यन्तमुदितं वाथ पश्यन् मार्तण्डमण्डलम् ॥ २७-७९ ॥

तस्मिन् यथोक्तविधिना ध्यात्वा भानुं त्रयीमयम् ।
सम्पूज्य विधिनोद्दिष्टैरुपचारैस्तु मानसैः ॥ २७-८० ॥

जपित्वाथ नमस्कृत्य जानुभ्यामवनौ स्थितः ।
हस्ताभ्यामर्घ्यपात्रं तं गृहीत्वानासमुद्धृतम् ॥ २७-८१ ॥

ध्यात्वा परामृतं तं च भानुमूर्तेस्तु मूर्धनि ।
दद्यादर्घ्यं तु मूलेन साङ्गेन तु नमोन्तकम् ॥ २७-८२ ॥

ततस्तदमृताप्लावसमाह्लादितविग्रहम् ।
ध्यायेद् देवं तु बिम्बस्थं मूर्तिमन्त्रांश्च मण्डले ॥ २७-८३ ॥

संयोज्याथ क्षमस्वेति विसृज्याङ्घ्रिकरं पुनः ।
प्रक्षाल्याचम्य देवार्चाभवनान्तः प्रविश्य तु ॥ २७-८४ ॥

हैरण्ये वाथ ताम्रे वा पद्मे प्रादेशसम्मिते ।
आवाह्य पूजयेत् सूर्यं द्रव्यैः स्वविभवार्जितैः ॥ २७-८५ ॥

धर्मार्थकाममोक्षाणां यद्यदिष्टं तदाप्नुयात् ।
जपेच्च नित्यमयुतं सहस्रं शतमेव वा ॥ २७-८६ ॥

पूजाहोमनमस्कारजपातिशयभक्तितः ।
अणिमादिगुणावाप्तिरचिरेणास्य जायत ॥ २७-८७ ॥

नृमांसतैलव्याघाततिलैर्लक्षं जुहोति चेत् ।
अविज्ञातं निधिं गूढं लभतेऽस्य प्रभावतः ॥ २७-८८ ॥

गोघृतव्रीहिबिल्वाज्यैर्हुतैश्च लभते निधिम् ।
पद्मकिञ्जल्कगन्धाश्मकृकवाकुशिखाः समाः ॥ २७-८९ ॥

गजलण्डोद्गतं छत्रं तन्मदोऽलक्तसारकम्(?) ।
मृतचीरं सितार्कस्य तूलवर्तीकृतं समम् ॥ २७-९० ॥

नृकस्थनग्तैलेन वर्तिकां दीपयोन्निशि ।
यत्र स्यान्निधिसन्देहस्तत्रोच्चैर्दीपदर्शनात् ॥ २७-९१ ॥

अधोज्वालागता वर्ती निधानं दर्शयेत् स्फुटम् ।

मार्ताण्डभैरवाधिकारः ।

शिवोत्तमस्तु सघ्राण उमाकान्तो दृशान्तभाक् ॥ २७-९२ ॥

सवामश्रवणं शुक्लं साक्षिरक्तश्च मारुतः ।
अनन्तः सूक्ष्मयुक्तोऽत्रिः सत्वक्सर्गस्तथाषढी ॥ २७-९३ ॥

याजुषोऽष्टाक्षरः सोरस्तारादिः सर्वसिद्धिदः ।
छन्दोऽस्य देवी गायत्री देवभागस्तथा मुनिः ॥ २७-९४ ॥

दैवतं सविता देवो धमेकामार्थमोक्षदः ।

ब्रह्मतेजोज्वालामणि हुं फट् ठठ । विष्णुतेजोज्वालामणि हुं फट् ठठ । रुद्रतेजोज्वालामणि हुं फट् ठठ । महेश्वरतेजोज्वालामणि हुं फट् ठठ । सत्यतेजोज्वालामणि हुं फट् ठठ ।

शिरोभ्रूमध्यवक्त्रेषु हृन्नाभिस्मरजानुषु ॥ २७-९५ ॥

पादयोश्चापि मात्रार्णान् बुभुक्षुः सृष्टये न्यसेत् ।
मुमुक्षोर्विपरीतोऽस्मान्न्यासः संहारसञ्ज्ञितः ॥ २७-९६ ॥

अथ प्रातर्द्विजः स्नात्वा कृतसान्ध्यविधिः स्थितः ।
नाभिदघ्नोदके ध्यायन् सूर्यं न्यस्ताङ्गविग्रहः ॥ २७-९७ ॥

अष्टकृत्वोऽष्टकृत्वस्तु जपित्वाञ्जलिना जलम् ।
अभिषिञ्चेत् स्वमूर्धानं नित्यमष्टोत्तरं शतम् ॥ २७-९८ ॥

श्रियं प्राप्नोति नचिराद् धनधान्यसुखास्पदम् ।
पुरश्चर्यां विनाप्येष पूजाहोमजपादिभिः ॥ २७-९९ ॥

फलत्येव द्विजातीनां स्ववर्णाश्रमधर्मिणाम् ।
योऽष्टलक्षं जपन् मन्त्रं नाभिदघ्ने जले स्थितः ॥ २७-१०० ॥

पूजाजपार्घ्यहोमाद्यैर्यद्यदिष्टं स साधयेत् ।
कुण्डे वा स्थण्डिले चाग्निमाधायावाह्य भास्करम् ॥ २७-१०१ ॥

वैदिकाग्निमुखादूर्ध्वं पालाशैराज्यसेचितैः ।
एधोभिरष्टसाहस्रैर्हुत्वा स्याद् ब्रह्मवर्चसम् ॥ २७-१०२ ॥

औदुम्बरैः स्यादन्नाद्यं बैल्वैर्लक्ष्मीस्तथाम्बुजैः ।
दधिमध्वाज्यसिक्ताभिर्दूर्वाभिर्हुतमायुषे ॥ २७-१०३ ॥

आज्याक्तलाजैः कन्यायै तिलाज्यैः पापशान्तये ।
श्वेतारुणहरिद्राभकृष्णसूत्राभिवेष्टितैः ॥ २७-१०४ ॥

खादिरैस्तु क्रमाद् वर्णान् वशयेद् ब्राह्मणादिकान् ।
तत्तद्वर्णैस्तु कुसुमैर्वासांसि लभते हुतैः ॥ २७-१०५ ॥

शुचावनालये देशे सुलिप्ते चाथ वर्तुले ।
बिम्बे नवघटे भानुं सम्यगावाह्य पूजयेत् ॥ २७-१०६ ॥

अष्टोत्तरशतं साज्यं पायसं जुहुयादपि ।
जपेदष्टसहस्रं च द्वादशाहं घटं स्पृशन् ॥ २७-१०७ ॥

भोजयित्वा द्विजान् भक्त्या वृष्टिमिष्टां स विन्दति ।
तिस्रो रात्रीरुपोष्याथ रविं सम्पूज्य शक्तितः ॥ २७-१०८ ॥

पायस जुहुयादष्टसहस्रं घृतमिश्रितम् ।
भोजयित्वा द्विजान् भक्त्या पायसाज्येन शक्तितः ॥ २७-१०९ ॥

द्वादशाह तु वा पक्षं मासं मासत्रयं तु वा ।
ततः पत्नीमृतुस्नातां हुतशेषं तु वाशयेत् ॥ २७-११० ॥

मन्त्रेणाष्टशतालब्धं ततः पुत्रं स विन्दति ।
कलशे पूर्ववद् भानुमावाह्याभ्यर्च्य भक्तितः ॥ २७-१११ ॥

सगन्धरत्नकनकवस्त्रमाल्याद्यलङ्कृते ।
जपित्वा जुहुयादष्टसहस्रं तेन सेकतः ॥ २७-११२ ॥

ग्रहापमृत्युरोगादेः शान्तिः सद्योऽस्य जायते ।
पयोव्रतो जपेद् वर्षं वर्षे वर्षाण्यथापि यः ॥ २७-११३ ॥

खेचरत्वादयस्तस्य गुणाः सिध्यन्त्ययत्नतः ।
सावित्री यो यथोद्दिष्टां जपन् सम्पूजयेद् रविम् ॥ २७-११४ ॥

नित्योक्तमार्गहोमाद्यैः सर्वान् कामानवाप्नुयात् ।
उद्यन्नुद्येति पूर्वायां छन्दोऽनुष्टुब् भवेदृचः ॥ २७-११५ ॥

ऋषिश्च देवता प्राग्वद् विनियोगाश्च पूर्ववत् ।

इत्थं यथावदुदितैरिह सूर्यमन्त्रैर्नासाध्यमस्ति खलु वस्तु जगत्त्रयेऽपि ।
यस्मादतः सवितरि प्रणिधाय भक्तिं सिद्धिं प्रसिद्धिविभवा च लभेत मुक्तिम् ॥ २७-११६ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे सूर्यपटलः सप्तविंशः ॥ २७ ॥