अथ षड्विंशः पटलः ।
ताराम्भसी सुधाशब्दः सोष्टोऽग्निरथ ठद्वयम् ।
कथितो वसुधारायां मूलमन्त्रः स्वराक्षरः ॥ २६-१ ॥
साग्निहोत्रोऽम्बकोऽथ स्यात् ततो वाली हरान्तगः ।
श्रीकरीति त्रयो वर्णा धनधान्यपदे ततः ॥ २६-२ ॥
पृथक् करिपदोपेते वह्नेर्जाया च कीर्तिता ।
मन्त्रोऽयं वसुधारायाः साध्यसञ्ज्ञस्तु सिद्धिदः ॥ २६-३ ॥
पूर्वोऽत्र मूलमन्त्रः स्यात् सप्तार्णस्तेन पूजयेत् ।
द्वितीयं साधयेन्मन्त्रं जपहोमक्रियादिभिः ॥ २६-४ ॥
ऋषिर्बुद्धमुनिश्छन्दश्चोष्णिगप्यतिशक्वरी ।
देवता वसुधाराख्या लक्ष्मीर्विश्वाभिपूजिता ॥ २६-५ ॥
ॐ वसुधार! ठठ हृदयम् । ॐ श्रीः वसु ठठ उपहृदयम् । ॐ वसुश्रिये ठठ उपहृदयस्योपहृदयम् । ॐ वसु ठठ ललाटे । ॐ वसुश्रिये ठठ शिरसि । ॐ वसु स्वाहा वषट् शिखायाम् । ॐ वसुस्वाहा वौषट ।
अशेषाङ्गकवचम् । ॐ वसु स्वाहा फट् अस्त्रम् ।
जपेत् तु पूर्वसेवार्थं साध्यमन्त्रं त्रिलक्षकम् ।
सन्ध्यासु चार्धरात्रे च जपपूजाविधिः स्मृतः ॥ २६-६ ॥
विशुद्धदेहः शुद्धात्मा मौनी शुद्धाम्बरादिकः ।
चन्दनेनार्धरात्रे तु बिम्बमालिप्य वर्तुलम् ॥ २६-७ ॥
पञ्चबुद्धान् प्रणम्यादौ बोधिसत्त्वाष्टकं तथा ।
अक्षोभ्यवैरोचनकौ रत्नसम्भवमेव च ॥ २६-८ ॥
अमिताघं तथामोघसिद्धिं तारादिनामभिः ।
पद्मपाणिश्च मैत्रात्मा गगनादिगजाह्वयः ॥ २६-९ ॥
समन्तभद्रसञ्ज्ञश्च तथा यक्षाधिपाह्वयः ।
ततः स्यान्मञ्जुघोषाख्यस्तथा विष्कम्भकाह्वयः ॥ २६-१० ॥
त्राम्बीजोत्थं हिरण्याद्रिं ध्यायेदतिमनोहरम् ।
तस्योपरि तथारामं कल्पवृक्षैरलङ्कृतम् ॥ २६-११ ॥
तन्मध्ये मणिभिर्दिव्यैश्चितं हैमस्थलं स्मरेत् ।
तत्र यङ्कारजं पद्मं स्मृत्वा तत्र स्थितः स्वयम् ॥ २६-१२ ॥
ॐ स्वभावशुद्धाः सर्वसमाः । सर्वशुद्धोऽहम्
इति मूर्धादिपादान्तं त्रिवारं विन्यसेत् सुधीः ।
मैत्रीं सुधीषु सर्वेषु करुणां दुःखितेषु च ॥ २६-१३ ॥
पुण्यशीलेषु सन्तोषमुपेक्षां पापकर्मसु ।
भावयेत् प्राणिवर्गेषु सदा सन्तुष्टमानसः ॥ २६-१४ ॥
ॐ हुं त्राम् आं खं हुं-
अङ्गुष्ठादितलान्तं तु त्रिवारं विन्यसेदिति ।
ॐ सर्वतथागतानां सर्वसिद्धयः सम्पद्यन्ताम् । सर्वतथागताश्चाधितिष्ठन्ताम् ।
नाभिहृन्मस्तकेष्वेतैः क्रमात् कुर्यात् त्रिरञ्जलिम् ॥ २६-१५ ॥
ॐ वसुधारे! अभितिष्ठस्व माम् ।
अनेनाञ्जलिना मूर्ध्नि न्यस्तेनैनां प्रणम्य तु ।
ॐ समये! सौम्ये! समयङ्करि! महासमये! नमः ठठ ।
बद्ध्वा समयमुद्रां तामूर्ध्वमुत्क्षिप्य दर्शयेत् ॥ २६-१६ ॥
तथैव वज्रमुद्रां च दर्शयेत् साध्यविद्यया ।
ततो हिरण्यपात्रादौ गन्धपुष्पाम्बुपूरिते ॥ २६-१७ ॥
मूलं विन्यस्य सम्पूज्य स्वशिरः प्रोक्षयेत् तु तैः ।
पूजाद्रव्यं तथा स्थानमवोक्ष्यार्घ्यजलैस्तथा ॥ २६-१८ ॥
अधः कल्पतरोर्ध्यात्वा रत्नसिंहासनाम्बुजे ।
ॐ श्रिये, श्रीकरि! धनकरि! धान्यकरि! एह्येह्यागच्छ भगवति वसुधारे! ठठ ।
अनेनावाहयेद् देवीं वक्ष्यमाणस्वरूपिणीम् ॥ २६-१९ ॥
अथ सकृतौ-
हेमनिभां पीवरकुचकलशां चन्द्रमुखीमलिकुलरुचिकेशीं
कञ्चुलिकाङ्गीं कुवलयनयनां चारुभुजां तनुतरवरमध्याम् ।
हेमकिरीटां कनकमणिमयैराभरणैः शुचिनिवसनगन्धै-
रञ्चितमाल्यैरधिगतवपुषं कान्तिमतीं प्रणमत वसुधाराम् ॥ २६-२० ॥
[कान्तिमती, तन्वीति केचित् ।
तिष्ठन्तीं विनिधायाङ्घ्रिं वसुवर्षिघटीमुखे ।
आकुञ्चिताङ्घ्रिजानुस्थवामपाणिस्थडाडिमाम् ॥ २६-२१ ॥
रत्नवर्षिघटीगर्भमुत्पलं चापरे करे ।
स्यन्दमानार्थधाराढ्यनालनिर्गतवल्लरीम् ॥ २६-२२ ॥
इत्थं ध्यात्वा तु तां देवीं मूलेनावाह्य मण्डले ।
मूलमन्त्रेण चार्घ्याद्यैरुपचारैर्यजेत् क्रमात् ॥ २६-२३ ॥
अमिताभाह्वयं बुद्धं कल्पवृक्षमधोम्बुजे ।
पीतवर्णं ध्याननिष्ठं शिखिनं मुण्डितं स्मरेत् ॥ २६-२४ ॥
तत्पार्श्वगं तथा शुक्लं भास्वराब्जे कपर्दिनम् ।
साङ्गाजिनोत्तरीयाढ्यं पद्मे लोकेश्वर स्मरेत् ॥ २६-२५ ॥
वामपार्श्वे वज्रपाणि श्याम वज्रधरं तथा ।
किरीटादिविभूषाढ्यं पद्मे नाभिस्थपाणिनम् ॥ २६-२६ ॥
ॐ सं ठठ । ॐ धां ठठ । ॐ रं ठठ । ॐ वसुधे! ठठ । ॐ वसुन्धरि! ठठ । ॐ वसुमति! श्रिये ठठ । ॐ वसुधारि! ठठ ।
दिग्विदिक्ष्वभिपूज्यैतास्तत्पङ्कजदलाग्रगाः ।
मध्ये मूलेन देवीं तां तत्पार्श्वे श्रीमहाश्रियौ ॥ २६-२७ ॥
श्रीरूपे पङ्कजे पुज्ये वसुवर्षिघटीकरे ।
ॐ चक्ररत्नाय नमः । ॐ मणिरत्नाय नमः । ॐ असिरत्नाय नमः । ॐ अश्वरत्नाय नमः । ॐ स्त्रीरत्नाय नमः । ॐ पुरुषरत्नाय नमः । ॐ गजरत्नाय नमः ।
सप्तैतान्यपि रत्नानि पद्मस्थान्यग्रतो यजेत् ॥ २६-२८ ॥
तेषामुभयतो यक्षनागराजाभिधानकान् ।
ऊर्ध्वतो देवपुत्रांश्च प्रणतान् सेवयागतान् ॥ २६-२९ ॥
इत्थं सपरिवारां तां यजेद् गन्धादिभिः क्रमात् ।
मुद्राभिर्वक्ष्यमाणाभिर्वसुधाभिरनुक्रमात् ॥ २६-३० ॥
अन्तःस्थाङ्गुष्ठयुग्मा तु मुद्रा समयसञ्ज्ञिता ।
तस्यास्तर्जादिमोक्षेण तिस्रः पुष्पादिसञ्ज्ञिताः ॥ २६-३१ ॥
कनिष्ठानखमारोप्य ज्येष्ठाग्रं वज्रलक्षणम् ।
मुक्तशेषाङ्गुलिः प्रोक्ता दीपमुद्रेति देशिकैः ॥ २६-३२ ॥
बद्ध्वाञ्जलिं तु पात्राभं पार्श्वस्थाङ्गुष्ठयोगतः ।
नैवेद्यमुद्राथ मिथो निर्गताग्राङ्गुलिर्भवेत् ॥ २६-३३ ॥
सामान्यमुद्रा सर्वत्र प्रणामविषये स्मृता ।
तृतीयपर्वमध्याभ्यां तर्जाभ्यां कुञ्चितं स्पृशेत् ॥ २६-३४ ॥
किञ्चिद् विनिर्गताङ्गुष्ठमुद्रा वाहनसञ्ज्ञिता ।
अर्धरात्रे जपेन्मन्त्रं साध्यं पञ्चदशाक्षरम् ॥ २६-३५ ॥
मूलेन सप्तवर्णेन पूजयेत् तां यथाविधि ।
मासाच्च वित्तं लभते षण्मासाद् धनदो भवेत् ॥ २६-३६ ॥
प्राह्णे नित्यं जपेन्मन्त्रं निशीथे जुहुयात् तिलैः ।
राजानं वशयेदिष्टमर्थं तस्माल्लभेत् च ॥ २६-३७ ॥
सिद्धार्थैरथवा हुत्वा शुभ्रैर्भूपो वशे भवेत् ।
ह्रस्वश्रीर्वायुरोष्ठस्थो दीर्घमाद्यन्ततः करी ॥ २६-३८ ॥
ढणचषि ढान्यचषि पुष्पिकरि ऋद्धिकरि अविघ्नकरि सर्वकरि ठठ ।
द्वात्रिंशदर्णो मन्त्रोऽयं प्राग्वदङ्गादिकं स्मृतम् ।
प्राग्वत् पूजाजपध्यानैर्वसुधारेष्टदा भवेत् ॥ २६-३९ ॥
अथान्यः साध्यमन्त्रस्य पूर्वोक्तस्योच्यते विधिः ।
क्षीरोदहेमपुलिने कल्पकोद्यानमण्डिते ॥ २६-४० ॥
हेमपक्षिमृगाकीर्णे चिन्तयेत् स्वर्णमण्डपम् ।
दशयोजनविस्तारं शतयोजनमायतम् ॥ २६-४१ ॥
मण्डपं तदुपेन्द्रेण देव्यर्थं निर्मितं धिया ।
स्तम्भैर्दिव्यैर्मणिमयैरष्टोत्तरसहस्रकैः ॥ २६-४२ ॥
युक्तं वैडूर्यसोपानं स्फाटिकान्तरकुट्टिमम् ।
पद्मिनीशतसङ्कीर्णं दिव्योद्यानैश्च शोभितम् ॥ २६-४३ ॥
तोरणच्छत्रकलशप्रदीपाङ्कुरचामरैः ।
शङ्खस्फटिकचक्राङ्कध्वजदर्पणमण्डितम् ॥ २६-४४ ॥
अन्यैश्च मङ्गलैर्युक्तं मुक्तादामावलम्बितम् ।
तन्मध्यदेशे ध्यात्वाथ रत्नसिंहासनं पुनः ॥ २६-४५ ॥
तस्योपरि महत् पद्मं सहस्रदलशोभितम् ।
तत्कर्णिकास्थितां देवीं वसुधारां विचिन्तयेत् ॥ २६-४६ ॥
तद्यथा-
कल्पतरुमूले रत्नहरिपीठे श्रीमदरुणाब्जे नैकशतपत्रे
सुस्थितपदाब्जां श्याममणिवर्णां तुङ्गकुचकुम्भां चारुमुखचन्द्राम् ।
हारमणिमालाहेममकुटाद्यैराभरणमुख्यैर्भूषिततनुं तां
चित्रवसनाढ्यां साभयदवामां डाडिमकपाणिं नौमि वसुधाराम् ॥ २६-४७ ॥ २६-मणिमाला ।
देवीमेवंविधां ध्यात्वा तस्या दक्षिणपार्श्वगम् ।
मुक्तामाणिक्यधाराढ्यघटीहस्तं धनेश्वरम् ॥ २६-४८ ॥
वामतश्चामराग्र्येण हेमदण्डेन सन्ततम् ।
वीजयन्तीं समृद्धिं च दिव्यरूपां विचिन्तयेत् ॥ २६-४९ ॥
ॐ धर्माय नमः । ॐ बुद्धाय नमः । ॐ सह्याय नमः । ॐ सागरनिर्घोषाय नमः । ॐ वज्ररक्षाय नमः । ॐ तरुणिने नमः । ॐ आर्यावलोकेश्वराय नमः । ॐ प्रज्ञाय नमः । ॐ सरस्वत्यै नमः । ॐ सर्वबोधिसत्त्वेभ्यो नमः ।
एतान् सिंहासनस्याधो दशदिक्षु यजेत् क्रमात् ।
षडङ्गमन्त्रैः प्रागुक्तैर्विन्यस्याशां च बन्धयेत् ॥ २६-५० ॥
एवं सपरिवारां तामभिपूज्य यथाविधि ।
मौनी शुचिर्जपेन्मन्त्रं सत्यमेव वदेत् सदा ॥ २६-५१ ॥
विशेषेणास्य मन्त्रस्य सत्योक्त्या लभते फलम् ।
जपाद् दशांशं जुहुयात् पद्मैराज्यविमिश्रितैः ॥ २६-५२ ॥
ततः श्रीमान् भवेन्मन्त्री नित्याभ्यासार्चनाहुतैः ।
पूर्वोदिताभिर्मुद्राभिर्मन्त्रैः पूर्वोदितैः क्रमात् ॥ २६-५३ ॥
अर्धरात्रे तथा प्रातः श्रियं विन्देद् यजन् जपन् ।
बिल्वच्छायोषितो बिल्वसमिद्भिर्वाथ तत्फलैः ॥ २६-५४ ॥
नित्यं हुत्वाष्टसाहस्रं षण्मासाद् राज्यभाग् भवेत् ।
पक्षं पयोव्रतो नित्यं प्रातः सन्तर्प्य यो जपेत् ॥ २६-५५ ॥
अर्धरात्रे च तां ध्यायन् धनधान्यपतिर्भवेत् ।
प्रातरष्टौ सहस्रं च सन्तर्प्यं सलिलैः शुभैः ॥ २६-५६ ॥
मासेन तु समृद्धिः स्याद् वशयेच्च जगत्त्रयम् ।
ध्यायन् सम्पूजयेन्नित्यं जपन् सन्तर्पयन्नपि ॥ २६-५७ ॥
महतीं श्रियमाप्नोति वर्षमात्रान्न संशयः ।
दूर्वाभिरायुरारोग्यं पद्मैर्बिल्वैः श्रियं धनम् ॥ २६-५८ ॥
जुह्वदाप्नोति वस्त्राणि नवाज्यैराज्यसम्प्लुतम् ।
चन्दनेनार्धरात्रे तु समालिप्य तु मण्डलम् ॥ २६-५९ ॥
पुष्पैर्विकीर्य विविधैस्तस्मिन्नावाह्य पूजयेत् ।
घृतदीपशतं दत्त्वा गन्धाद्यैरर्चयेत् क्रमात् ॥ २६-६० ॥
अर्धरात्रं समारभ्य यावत् स्यादरुणोदयः ।
जपेत् सजागरो मन्त्रं वसुधारामनुस्मरन् ॥ २६-६१ ॥
ततस्तु हेमधाराग्रे नरस्थूला पतिष्यति ।
अष्टोत्तरसहस्रं तु नाभिदघ्नजले स्थितः ॥ २६-६२ ॥
जपन् सप्तदिनाद् वृष्टिं लभते पुष्टिवर्धिनीम् ।
पञ्चप्रादेशमात्रे तु पटे देवीं यथाविधि ॥ २६-६३ ॥
संलिख्य तूक्तरूपाढ्यां पूजयेत् सिद्धिभाग् भवेत् ।
प्रातश्चैवार्धरात्रे च चन्दनालिप्तमण्डले ॥ २६-६४ ॥
सम्पूज्यैनां जपन् जुह्वद् यथोक्तं फलमश्नुते ।
वसुधाराधिकारः ।
तारं च हृदयं नाभिर्दोर्मध्यं सलिलं ततः ॥ २६-६५ ॥
त्वक्स्थो षढि भौतिकाण्ड्ये मीनोऽरण्यैर्धरार्णकौ(?) ।
उमाकान्तः सदृक् चाथ धरेर्णौ ठद्वयं मनुः ॥ २६-६६ ॥
अत्यष्टिवर्णस्तारादिरयं भूहृदयाह्वयः ।
रामवेदानलगुणवदेसङ्ख्यैः स्ववर्णकैः ॥ २६-६७ ॥
अङ्गानि रचयेत् पञ्च जातिभाञ्जि यथाक्रमम् ।
ऋषिर्वराहश्छन्दोऽपि निचृद् भूमिश्च देवता ॥ २६-६८ ॥
लक्षं पुरस्क्रिया होमो दशांशं पायसाज्ययोः ।
सिध्येन्मन्त्रस्त्वयं नित्यपूजाविधिरथोच्यते ॥ २६-६९ ॥
मेरौ कल्पतरोर्मूले हेमभूरत्नपीठके ।
ध्यात्वा सिताम्बुजं तस्मिन् देवीमावाह्य पूजयेत् ॥ २६-७० ॥
तद्यथा-
आधारशक्तिं कूर्मं चाध्यनन्तासनमेव च ।
धर्मादिकान् गुणान् सूर्यसोमाग्न्यधिपमण्डलैः ॥ २६-७१ ॥
तत्कर्णिकायां भूबीजमिष्ट्वा तद्बिम्बतारकम् ।
मूलेनावाहयेत् तस्मिन् धरणीं दिव्यरूपिणीम् ॥ २६-७२ ॥
अथाभिकृतौ-
श्यामलवर्णां कोमलमूर्तिं कुवलयचलदृशमभिनववयसं
हेमकिरीटां स्वाभरणाढ्यां करधृतकमलककुवलययुगलान् ।
क्रौञ्चपदालीं चित्रपटान्तस्तरलितसुरसरिदुपमितवसनां
पिञ्जरगन्धस्रक्परिबर्हां प्रणमत भुवमिह मुररिपुदयिताम् ॥ २६-७३ ॥ क्रौञ्चपदा ।
ध्यात्वैवं धरणीं देवीमुपचारैर्यजेत् क्रमात् ।
अङ्गैश्च वासुदेवाद्यैर्दिक्षु पद्मदलाग्रगैः ॥ २६-७४ ॥
जलाग्निमरुदाकाशान् कोणपत्रेष्वनुक्रमात् ।
श्वेतरक्तासितस्वच्छवर्णान् प्रोक्ततनून् यजेत् ॥ २६-७५ ॥
देव्याः पार्श्वगता दूतीश्चतस्रः कोणगा यजेत् ।
चामरं मुकुरं चैव रत्नभूषासमुद्गकम् ॥ २६-७६ ॥
ताम्बूलककरङ्कं च वहन्तीर्हेमसन्निभाः ।
कुलशैलान् समुद्रांश्च नदीवृक्षौषधीरपि ॥ २६-७७ ॥
दीपांश्च नामधेयैः स्वैः प्रणवादिनमोन्तकैः ।
तद्बाह्ये लोकपालांश्च सगणायुधवाहनान् ॥ २६-७८ ॥
तद्बाह्ये दिग्गजानष्टौ यजेदैरावतादिकान् ।
इत्थं सपरिवारां तामुपचारैर्यथोदितैः ॥ २६-७९ ॥
सम्पूज्य दधिशाल्यन्नं सघृतं सोपदंशकम् ।
निवेद्य सपूपफलं दध्यन्नं वा सुसंस्कृतम् ॥ २६-८० ॥
वह्नावपि सामावाह्य कुण्डे वा स्थण्डिले शुभे ।
साज्येन चरुणा नित्यं हुत्वा देवीं प्रवाहयेत् ॥ २६-८१ ॥
कामयेद् वसुधां तु यां शुचिना भृगुवाररवेरुदयाहृततन्मृदा
मिश्रितं जुहुयात् पयस्त्वथवा घृतपायसमष्टसहस्रमितं तथा ।
आत्मसाद् भवतीह भूर्नचिरान्नवसस्यविमि(श्रित?श्र) सरोजकुमुद्वती
स्वादुसिक्तनवोत्पलैर्हवनेन धनान्यपि राज्यपदं लभते नृपः ॥ २६-८२ ॥ कुमुद्वती ।
होमान्तेऽनेन विकिरेद् बलिं मन्त्रार्णसङ्ख्यया ।
विशेषाद् विष्णुभक्तस्य मन्त्रोऽयं सर्वकामधुक् ॥ २६-८३ ॥
भूहृदयाधिकारः ।
श्रीकामशक्तिबीजात्मा त्रिवर्णस्त्रिपुटामनुः
स्वबीजैर्वीप्सितैः कुर्यात् षडङ्गानि यथाक्रमम् ॥ २६-८४ ॥
सागरोदरहेमभूपुलिने सुरपादपमूलगपीठसरोरुहे
वेदसङ्ख्यदले स्थितां त्रिदृशं नवहेमरुचिं मकुटादिविभूषिताम् ।
षड्भुजां धृतपुण्डरीकयुगां सहपाशमथाङ्कुशपुष्पधनुश्शरान्
बिभ्रतीमरुणाम्बरादियुतां प्रणमामि जगन्नमितां भुवनेश्वरीम् ॥ २६-८५ ॥ प्राग्वत् ।
स्वाङ्गावृतिः स्यात् प्रथमा केसरेषूत्तरादिषु ।
दलाग्रेषु च दूत्यस्ता रचिताञ्जलिका यजेत् ॥ २६-८६ ॥
घृणिन्यै । सूर्यायै । आदित्यायै । प्रभावत्यै ।
इत्याराध्याथ तां देवीं निवेद्यान्तं यजेत् क्रमात् ।
भानुलक्षं जपेन्मन्त्रं श्रीमान् स वशयेज्जगत् ॥ २६-८७ ॥
बिल्वपत्रफलाद्यैस्तु मिश्रैर्हुत्वा धनी भवेत् ।
सापामार्गास्थिचूर्णैस्तु मधुरैर्वशयेज्जगत् ॥ २६-८८ ॥
अथ श्रीशक्तिकामानां बीजेशीं कथिताम्बुजे ।
प्रोक्तरूपादिकां देवीमासीनां पूजयेच्छ्रियै ॥ २६-८९ ॥
अङ्गावृतिः स्यात् प्रथमा पद्मवाह्ये षडश्रिपु ।
हरिलक्ष्मीशगिरिजाः स्मरं चैव रतिं यजेत् ॥ २६-९० ॥
पद्माद्यैरष्टनिधिभिस्तद्बाह्ये चाष्टमातृभिः ।
योषिद्रूपैश्च लोकेशैर्यजेत् परिवृतां क्रमात् ॥ २६-९१ ॥
श्रीकरं यजनं चैतद् विशेषात् सर्ववश्यदम् ।
त्रीण्येतान्येव बीजानि कलायां योजयेत् क्रमात् ॥ २६-९२ ॥
बिन्दौ व्योम्नि समायोज्य ध्यायन् सिन्दूरलोहितम् ।
त्रैलोक्यं वशयेन्मन्त्री जपध्यानरतः सदा ॥ २६-९३ ॥
बिल्वसम्यर्कसमिधो जपापुष्पाणि च क्रमात् ।
जुहुयान्मधुराक्तानि जगद्वश्याय च श्रियै ॥ २६-९४ ॥
त्रिपुटाधिकारः ।
तारमोष्ठं च खं साक्षं पार्श्वं रक्तं च मेश्वरी ।
ठद्वयान्तो दशार्णोऽयमुमामन्त्रस्तु वश्यदः ॥ २६-९५ ॥
अयुतं प्रजपेदादौ दशांशाज्यं जुहोतु च ।
उत्कृतौ-
अश्वरूढां देवीं त्र्यक्षां लसदरुणमणिरुचिनिभां भुजङ्गविजृम्भितं
पाशं क्षिप्त्वा साध्यां वद्ध्वा स्मरशरशतविवशतनुं निजैक्यगतामुमाम् ।
आकर्षन्तीं रक्ताकल्पामपि सुरुचिरकनकमयीं करेण तु यष्टिका-
माधून्वानां ध्यात्वा देवीमपर इव हि मनसिशयो जपन् वशयेज्जनम् ॥ २६-९६ ॥
[भुजङ्गविजृम्भितम् ।
मधुरत्रयसंयुक्तं रक्तपुष्पैर्जुहोति चेत् ॥ २६-९७ ॥
स्ववशे कुरुते सर्वमाकृष्टिर्लवणाद् भवेत् ।
यत्राङ्गकल्पना नोक्ता तत्र शक्त्याङ्गकल्पना ॥ २६-९८ ॥
शस्ता स्याच्छक्तिमन्त्राणामृष्याद्यं च पुरोदितम् ।
आकृष्टिशक्त्यधिकारः ।
हृन्नाभिर्भुजमध्यं च पत्यर्णौ च महेश्वरि ॥ २६-९९ ॥
शब्दः स्यादथ केशान्तौ मेषौ पूर्णेऽथ ठद्वयम् ।
तारादिरेष धृत्यर्णो मन्त्रोऽन्नाधिपसञ्ज्ञितः ॥ २६-१०० ॥
वर्णसाहस्रजप्येन सिध्येद्धोमाद् दशांशतः ।
नृत्यन्तं कनकसदसि मृडमविरतमगदुहितरमनुपश्यन्ती-
मन्नाद्यं विविधरसवदभिमतधनममलवसनमपि विप्रेभ्यः ।
यच्छन्तीं रुचिरवपुषमरुणवसनकुसुमरुचिरशुभवेषाढ्यां
ध्यात्वोमां यजति जपति यदि धन पीतरखिलदुरितमपवाह्य स्यात् ॥ २६-१०१ ॥
[अपवाहकम् ।
प्राह्णे नित्यं जपेन्मन्त्रं शुचिरष्टोत्तरं शतम् ॥ २६-१०२ ॥
सहस्रं वाचिरेणैव सोऽन्नाद्यधनवान् भवेत् ।
अन्नपूर्णाधिकारः ।
हृदयसहितदेवियुग्मं महादेवि देवादिदेवीत्यथो सर्वशब्दो भवे-
ज्जनमुखपदयोः रयकारोऽस्तु मध्ये विषं दीर्घकालात्मपञ्चान्तकश्चाषढीः ।
शशिशकलयुतं कुरुद्वन्द्वकं वह्निजाया च देव्यास्त्रयस्त्रिंशदर्णो मनु-
र्वशयति हि जगद् यथा चण्डवृष्टिप्रयातोऽखिल ध्यानजप्यादिभिः श्रीकरः ॥ २६-१०३ ॥
[चण्डवृष्टिप्रयाताख्यो दण्डकः ।
रसवेदशरैश्चर्षिबाणर्तुपरिसङ्ख्यया ॥ २६-१०४ ॥
स्वार्णैरस्त्रान्तमङ्गानि कृत्वोमां वश्यकर्मणि ।
पाशाङ्कुशाम्बुजद्वन्द्वकरां रक्तां त्रिलोचनाम् ॥ २६-१०५ ॥
ललिताङ्गीं स्मरेद् वाथ श्रियै लक्ष्मीस्वरूपिणीम् ।
स्नात्वाष्टोत्तरसाहस्रं जपेन्नद्यां पुरस्क्रिया ॥ २६-१०६ ॥
स्यात् सप्तकृत्वः सलिलमभिमन्त्र्य शिवां स्मरेत् ।
मुख प्रक्षालयेन्नित्यमेतत् सर्वानुरञ्जकम् ॥ २६-१०७ ॥
प्राग्वन्मन्त्रिततैलेन गन्धैर्वा कुङ्कुमादिभिः ।
मुखमालिप्य यान् पश्येत् सर्वानेव वशं नयेत् ॥ २६-१०८ ॥
तत्स्पृष्टकुसुमं मालां गन्धं वश्यांय धारयेत् ।
ग्रामराजकुलादीनां प्रवेशेऽपि जपेदिमम् ॥ २६-१०९ ॥
इष्टार्थं साधयेत् सद्यः स्त्रीपुंसोश्च समो विधिः ।
यन्नामयुक्तं मन्त्रेण जपापुष्पैर्मधुप्लुतैः ॥ २६-११० ॥
जुहोत्यष्टोत्तरशतं सहस्रं वापि वश्यकृत् ।
जपेद् वा नामसंयुक्तं यस्य तं तं वशं नयेत् ॥ २६-१११ ॥
प्रातः स्नात्वां तु पञ्चम्यां सैकतस्थण्डिले श्रियम्
कृताञ्जलिभवैः पुष्पैरष्टोत्तरसहस्रकैः ॥ २६-११२ ॥
यजेद् गन्धादिभिर्विन्देद्धेमवस्त्रादिकं धनम् ।
देवीमन्त्राधिकारः ।
हृदयं भगवत्यन्ते मातङ्गेश्वरिशब्दयुक् ॥ २६-११३ ॥
सर्वशब्दो जनयुतो मनोहरिपदं ततः ।
मुखरागिणि सर्वाद्यं सर्वराजवशङ्करि ॥ २६-११४ ॥
सर्वस्त्रीपुरुषान्ते च सर्वदुष्टमृगं ततः ।
सर्वसत्त्वस्य चाप्यन्ते वशङ्करियुतं पृथक् ॥ २६-११५ ॥
अमुकं वशशब्दान्ते मानयेति च ठद्वयम् ।
उद्धृत्य रथवर्णोऽयं मातङ्गीमनुरीरितः ॥ २६-११६ ॥
महाकालीपरिचरा देवी मातङ्गिका स्मृता ।
अपिच-
नमोन्ते कर्णवर्णः स्यादेकनेत्रे द्वयं दृशा ॥ २६-११७ ॥
सोमेश्वरस्थः श्वेतोऽथ चण्डान्ते मांसमक्षियुक् ।
मातङ्गीसर्वशब्दान्ते वशीकरिणि ठद्वयम् ॥ २६-११८ ॥
मन्त्रोऽयमपि मातङ्ग्या भवेदुच्छिष्टसञ्ज्ञितः ।
द्वयोर्ध्यानं समानं स्याद् विनियोगो वशीकरः ॥ २६-११९ ॥
मरतकमणिकोमलश्यामलाङ्गीं सुकेशालकां कुन्दमन्दस्मितास्याम्बुजां
कुवलयदलनीलनेत्रात्पलां पक्वबिम्बाधरां पीनतुङ्गस्तनीं सुन्दरीम् ।
किसलयमृदुपाणिपादां विनीलाम्बरां (शुक्लां ?) शङ्खभूषोल्लसच्चारुदिव्याकृतिं
प्रणमत कलगीतवीणास्वनाकृष्टविश्वामराद्यां तु मातङ्गिकां भूतये ॥ २६-१२० ॥ प्राग्वत् ।
ध्यात्वा देवीं तु मातङ्गीं प्रथमं सन्ध्ययोर्जपेत् ।
निशास्वयुतजापेन सिद्धमन्त्रो भविष्यति ॥ २६-१२१ ॥
सर्वानपि वशे कुर्यात् स्त्रीपुंसोश्च समो विधिः ।
रात्रौ भुक्त्वा द्वितीयेन ध्यात्वोच्छिष्टान्धसा बलिम् ॥ २६-१२२ ॥
मन्त्रेण जपितं दद्याद् वशयेत् सकलं जगत् ।
राजद्वारे समायां वा यं यं वीक्ष्य जपन् व्रजेत् ॥ २६-१२३ ॥
स स वश्यो भवेत् सद्यो दत्त्वा पुष्पादिकं तथा ।
लाणं त्रिमधुरैः पिष्ट्वा कृत्वा साध्यस्व पुतलीम् ॥ २६-१२४ ॥
जुह्वदष्टोत्तरशतं तथा तं वशयेज्जनम् ।
शालिपिष्टप्रतिकृतिं खादेत् सम्मन्त्र्य विद्यया ॥ २६-१२५ ॥
वशयेत् सप्तदिवसैः पादमारभ्य दक्षिणम् ।
काकं कृष्णचतुर्दश्यां रात्रौ भित्त्वास्य मध्यतः ॥ २६-१२६ ॥
क्षिप्त्वा तु लवणं बद्ध्वा कृष्णसूत्रेण वेष्टितम् ।
दग्ध्वा चितानलेऽभ्यस्तं सहस्रं यत्र दीयते ॥ २६-१२७ ॥
स स दास इवास्येष्टं कुर्यान्मन्त्रप्रभावतः ।
यद्वान्नौषधगन्धाद्यं यः स्वैर्मन्त्रेण दीयते ॥ २६-१२८ ॥
त तां वा वशयेत् सद्यो नात्र कार्या विचारणा । [शक्तयः
इति ह निगदिता यथा मुख्यशो मुख्यतन्त्रोदिताः शक्तिविद्यास्त्विमा या महा सकलदुरितदोषदौर्गत्यदौर्भाग्यरोगग्रहक्ष्वेलपीडात्ययाध्यादिदुःखापहाः ।
सुकृतविभवकाममोक्षार्थिनां प्रार्थितार्थाप्तये कामदोहाः सदा कामधेनूपमा
मृतिजननतरङ्गपूर्णार्णघूर्णद्भवाम्भोधिसन्तारनावो जयन्तीह सौख्यप्रदाः ॥ २६-१२९ ॥ अर्णः ।
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे वसुधारादिपटलः षड्विंशः ॥ २६ ॥