२५

अथ पञ्चविंशः पटलः ।

श्रोत्रं ते युगलं साक्षः श्वेतो लाङ्गलिसंस्थितः ।
काणर्पीर्श्वं सकर्णोऽग्निः साक्षी श्वेतश्च किं पदम् ॥ २५-१ ॥

स्वपिषीति भयं शब्दो मेऽन्ते स्यात् समुपस्थितम् ।

शडि यक्यं फयक्यं हाटन्मे भगवति यफ श ठठ ।

मन्त्रोऽयं वनदुर्गायाः स सप्तत्रिंशदक्षरः ॥ २५-२ ॥

अत्यारण्याह्वयोऽस्यर्षिरत्यनुष्टुप् च कीर्तिता ।
छन्दः स्याद् वनदुर्गैव देवता सकलेश्वरी ॥ २५-३ ॥

ऋतुयुगभोगिभिर्वसुरसैश्चतुरः क्रमशः
प्रमितनिजार्णकैस्तु रचयेत् पृथगङ्गमनून् ।
षडपि च जातिभिर्वपुषि तान् पृथगर्णगणान्
पुनरपि विन्यसेत् स्वहृदयादिषडङ्गमतः ॥ २५-४ ॥

द्विचरणसन्धयो दश गुदं भगपार्श्वयुगा-
न्युदरहृदौ स्तनौ गलमथांसयुगं भुजयोः ।
षडपि च सन्धयो वदनघोणदृशः श्रवणा-
विति ह पृथग् भ्रुवोश्च निदधातु च केऽर्णगणम् ॥ २५-५ ॥

गुरुवरदीक्षितो जपतु लक्षमसौ विधिवत्
तिलचरुगोघृतैरयुतमग्निमुखे जुहुयात् ।
प्रतिदिवसं यजेदपि जपेच्च गुरौ शिवयोः
स भवति भक्तिमान् यदि हरावपि सिद्धिमियात् ॥ २५-६ ॥

मन्त्रोद्धाराद्यधिकारः ।

अथ धृतौ-

ध्यायेदुद्यानं कुसुमितलतावेल्लितोन्मत्तभृङ्ग
नानापुष्पाढ्यैर्हिमगिरितटे कल्पवृक्षैरुपेतम् ।
तन्मध्ये पीठं नवमणिमयं सिंहपादं च दिव्यं
रक्तं त्रत्राब्जं स्मितवसुदलं कर्णिकाकेसराढ्यम् ॥ २५-७ ॥ कुसुमितलतावेल्लितम् ।

तत्र वज्रासनाख्यं तदासनस्वाख्यया यजेत् ।
प्रकृतिं त्रिगुणैर्बिम्बं मूर्तिभिः पङ्कजं तथा ॥ २५-८ ॥

किञ्जल्केष्वङ्गैर्वृतिरथ ततः शक्तिभिः स्याद् दलाग्रे-
ष्वार्याद्याश्चक्रं दरशरधनुःखेटखड्गान् दधत्यः ।
रक्तालेपाढ्याः करधृतगुणाश्चापरासृक्कपाला
रक्ताङ्ग्यः सर्वा बहिरथ वृती मातृभिर्लोकपालैः ॥ २५-९ ॥ प्राग्वत् ।

आर्या दुर्गा तथा भद्रा भद्रकाली तथाम्बिका ।
क्षेम्या च वेदगर्भा चाप्यष्टमी क्षेमकारिका ॥ २५-१० ॥

नमोन्तमेताः स्वाख्याभिरिष्ट्वाथावाहयेच्छिवाम् ।
तत्पद्मकर्णिकामध्ये चित्रे बेरेऽथ वा स्थले ॥ २५-११ ॥

जलजफलके शार्ङ्गं तर्जन्या वामतोऽन्यत्र चक्रं
त्वसिमपि शरं वा शूलं दोर्भिर्बिभ्रतीं चाङ्गलेखाम् ।
मरतकरुचिं सिंहस्थां देवीं रक्तगन्धाम्बराद्यैः
कटकमकुटैस्त्र्यक्षां हाराद्यैर्भूषितां नौमि दुर्गाम् ॥ २५-१२ ॥ अङ्गलेखा ।

एवं रूपां जयाद्यर्थी रक्षाभ्यर्थी च पूजयेत् ।
श्रीकामो राज्यकामो वा वक्ष्यमाणस्वरूपिणीम् ॥ २५-१३ ॥

कनकरुचिरां हेमाब्जासीनां शङ्खचक्रे दधाना-
मभयवरदां शुक्लाकल्पां तां दिव्यरूपां त्रिणेत्राम् ।
कनकमणिभिर्मुक्ताहाराद्यैर्भूषितां चारुमौलौ
धृतशशिकलां दुर्गां वन्देऽहं कन्यकाबृन्दमध्ये ॥ २५-१४ ॥ प्राग्वत् ।

अनयोर्मार्गयोरेकमाश्रित्याराधयेच्छिवाम् ।
प्राङ्कणादौ रवेर्बिम्बाद् द्वादशान्ताद् गृहादिषु ॥ २५-१५ ॥

मूलेनावाह्य चाप्यङ्गैरर्ध्याद्यैरुपचारकैः ।
बहिर्दिक्षु यजेदष्टौ शङ्खादीन्यायुधक्रमात् ॥ २५-१६ ॥

मातॄरष्टौ च लोकेशान् तेषामस्त्रावृतिं तथा ।
निर्माल्यधारिणीमैशे सिंहिकां चाभिपूजयेत् ॥ २५-१७ ॥

एवं सम्पूज्य होमान्तमशक्तौ मनसापि वा ।
जपन् ध्यायन् महादुर्गां सर्वान् कामानवाप्नुयात् ॥ २५-१८ ॥

पूजाधिकारः ।

अथ वा शत्रुसैन्यादिनिग्रहे परमेश्वरीम् ।

अतिधृतौ-

शङ्खं चर्म धनुः कपालमुसले मुष्टिं गदामङ्कुशं
चक्रं खड्गशरौ त्रिशूलकुलिशप्रासाग्निपाशान् भुजैः ।
त्र्यक्षां तां दधतीं स्मरेद् घननिभां व्याघ्राजिनात्ताम्बरां
सिंहस्थामहिभूषणां रिपुवधे शार्दूलविक्रीडिताम् ॥ २५-१९ ॥ शार्दूलविक्रीडितम् ।

अथवा-

सिंहस्थां कथितास्त्रषोडशभुजां विद्युत्प्रभाभीषणां
रक्ताकल्पभुजङ्गहारवलयां त्र्यक्षां कुमारीगणैः ।
सन्नद्धां विविधायुधैः परिवृतां दुर्गां तथा मातृभि-
र्ध्यायेत् तां कुपितां महासुरवधे शस्त्रास्त्रधारामुचम् ॥ २५-२० ॥

ध्यात्वैनां तु यजन् यथाभिलषितं यो वेदलक्षं जपे-
द्धुत्वा व्रीहितिलाज्यदुग्धचरुभिर्मन्त्रोऽस्य सिध्येत् ततः ।
उद्दिश्यापि जुहोति वा दशशतं येनायुतं वार्बुदं
लक्षं वापि समीहितं तदखिलं प्राप्नोति भक्तः स चेत् ॥ २५-२१ ॥

स्वैक्यं शूलकरां स्मरन् जपतु तां संस्पृश्य सर्वामयां-
स्तर्जन्या शमयेत् तु नाभिसलिले विन्देदभीष्टं जपेत् ।
राजीजर्तिलगव्यबिल्वसमिधां होमो ह्यपस्मारहृ-
च्छुङ्गोपेतवटैधसामपि हुताद् व्याधिग्रहादीन् हरेत् ॥ २५-२२ ॥

रविवारादिकं शस्तं सर्वेषां काम्यकर्मणाम् ।
नवन्या आ चतुर्दश्यां प्रारभेत् क्रूरकर्म यत् ॥ २५-२३ ॥

तीक्ष्णाज्यायुतहोमसाधितशरैस्त्रिंशद्भिरस्तैः पृथक्
शत्रूणां पृतना प्रयाति विलयं भीत्या दिशो विद्रुता ।

तद्वत् प्राक्पटलोदितेन विधिना संसाधिताः शर्कराः
शत्रूणां नवदुर्गयापि शिबिरं प्रोच्चाटयेयुर्ध्रुवम् ॥ २५-२४ ॥

उच्चाटोऽश्विदलैः स्वयं निपतितैर्हुत्वाङ्घ्रिपांसुप्लुतैः
स्तम्भस्तत्कुसुमैः समिद्भिरपि च स्यादर्धरात्रे मृतिः ।
तत्कॢप्तां प्रतिमां रिपोः सुनिहितप्राणां पुनः खण्डितां
हुत्वा कृष्णचतुर्दशीनिशि तथा काकारिरक्तार्दिताम् ॥ २५-२५ ॥

यद्वा नित्यसमिद्भिराज्यमिलितं हुत्वेभशान्तिर्भवेत्
तत्पुष्पैर्मधुरार्दितैस्तु करिणो वश्या भवन्ति ध्रुवम् ।
मत्तास्तच्छदनैश्च गव्यमसकृत्सम्मन्त्र्य तां मार्जयेद्
रक्षेत् पायसगव्यतण्डुलघृतैर्नित्याहुताद् वर्धयेत् ॥ २५-२६ ॥

छित्वा ब्रह्मतरोरूर्ध्वं त्यक्त्वाधोंशं तु पञ्चधा ।
तत्रैव भित्त्वा तुल्यांशं क्रमादाशासु पञ्चसु ॥ २५-२७ ॥

पातयित्वा तु पुण्यर्क्षे शङ्खं चक्रं च नन्दकम् ।
शार्ङ्गं गदां च कृत्वांशैः पञ्चगव्यघटेषु तान् ॥ २५-२८ ॥

संस्थाप्य कुण्डाद् बाह्ये तु यथा दिक्षु क्रमात् पृथक् ।
प्रतिकुण्डं सहस्रं तु हुत्वाज्यं गव्यमेव च ॥ २५-२९ ॥

प्रत्याहुत्येषु सम्पात्य स्पृष्ट्वा तावज्जपेन्मनुम् ।
निखनेद् ग्रामगेहादेः सर्वरक्षाकरं भवेत् ॥ २५-३० ॥

अथ कृतौ-

साध्याख्यार्णैर्विदर्भं लिखतु मनुममुं पत्रे रविदिने
चक्री मृत्पुत्तलीके हृदि निशि निहितं स्ष्टष्ट्वा जपतु तम् ।
सप्ताहं वा त्रिसन्ध्यं मदनपरवशामिष्टा सुवदना-
माकर्षेदेष पुंसामपि विधिरुदितस्तुल्यो वशकरः ॥ २५-३१ ॥ सुवदना ।

पद्मैर्हुत्वा नरेन्द्रं वशयति खलु विप्रं वा समधुरैः
कल्हारैर्वश्यमन्यं सलवणमधुना ग्रामं च नगरम् ।
जातीभिर्दूर्वयायुर्घृतमधुकमलैरर्थं च लभते
दध्ना पुष्टिं तु धान्यैरपि पशुपयसा धान्यानि च पशून् ॥ २५-३२ ॥ प्राग्वत् ।

प्राङ्गणेऽर्कवारके दिनेशमण्डलं लिखेद् रजोऽवभासि
तस्य मध्यतोऽम्बुजं वसुच्छदः सकेसरं सकर्णिकं च ।
द्वादशारकं षडश्रबाह्यतस्तु सङ्ङ्कृतिप्रसङ्ख्यनेमि
मातुलप्रभावृतं तु वत्सरात्मकं समानवृत्तमेव ॥ २५-३३ ॥ वृत्तम् ।

प्रोक्तमण्डलेऽनलं निधाय मुष्टिदर्भकैः परिस्तृतेऽथ
बाणखड्गवेष्टितेऽस्य पूर्वतस्तथा यजेच्छिवां जुहोतु ।
आज्यलाजपायसैरनित्यकैर्यथार्हकं सहस्रकं च
लोहिताङ्गपिण्डकैः समन्त्रकं बलिं क्षिपेद् बहिर्दिशासु ॥ २५-३४ ॥ प्राग्वत् ।

तावज्जपेत् कुमारीश्च ब्राह्मणान् भोजयेदपि ।
सम्पूज्य हेमवसनैर्दत्त्वाचार्याय दक्षिणाम् ॥ २५-३५ ॥

अभयं प्रार्थयेद् देवीमग्निं विप्रान् कुमारिकाः ।
ग्रहरोगादिशान्तिं वा यद् यदिष्टं तदाप्नुयात् ॥ २५-३६ ॥

रविवारं समारभ्य सप्ताहं पक्षमेव वा ।
हुत्वैवं विजयी राजा स्यादापब्भ्यो विमुच्यते ॥ २५-३७ ॥

एकाक्षान्तोऽम्बुमान् दीर्घः सानन्ता पृथिवी ततः ।
चण्डदूर्गापदान्ते यैर्हृदयान्तो बलैर्मनुः ॥ २५-३८ ॥

त्रैलोहीं सुविहितां तु वा कनकजां कृत्वा शुभा मुद्रिकाः
हुत्वाज्यं दशगुणं सहस्रमथ वा लक्षं तु सम्पातिताम् ।
तां गव्ये विनिहितां जपेदपि तथा सम्पूजितां धारयन्
दीर्घायुर्बहुधनो भवेदपि रणे मत्तेभविक्रीडितः ॥ २५-३९ ॥ मत्तेभविक्रीडितम् ।

हैमाद्यं कलशमहितं तु कमले भद्राह्वये पूरितं
तीर्थाद्भिः कुसुमगन्धहेममणिभिः सर्वैः फलैरौषधैः ।
अर्धास्ते दिनकरे सजागरजपो रात्रौ दिनेशोदये
तत्स्नानाद् विगतकल्मषो गतरुजः श्रीमान् स जीवेच्चिरम् ॥ २५-४० ॥ प्राग्वत् ।

प्रोक्तेऽस्मिंश्चाभिषेके यजति विधिवन्मुद्रिका साधने वा
देवीमावाह्य तस्मिन् सवृतिसहितां चेशकोणादिबाह्ये ।

क्षेत्रेशस्कन्दशास्तॄनपि गणपतिं कन्यकाश्चैव विप्रा-
निष्ट्वा भोज्यैश्च वस्त्रैः कनकमणिभिश्चित्रमालाक्षताद्यैः ॥ २५-४१ ॥ चित्रमाला ।

अथ प्रकृतौ-

उत्तानाम्रैः पयोक्तैर्ज्वरमुपशमयेच्चापमृत्युं गलूची-
र्हुत्वा बिल्वं समूलं शकलफलसमित्पल्लवैः स्यात् समृद्धिः ।
न्यग्रोधाश्वत्थनित्याखदिरकसमिधां चायुधैः सैन्यभङ्गः
शुक्रां ध्यायन् सुपीतां कनकसरसिजस्रग्धरां वारुणां ताम् ॥ २५-४२ ॥ स्रग्धरा ।

स्नात्वोपोष्यैकरात्रं तदयुतं तद्दशांशं शतं वा
हुत्वा रक्तान्नपिण्डैर्बलिमपि विकिरेन्निस्स्वपेच्चापि रात्रौ ।
ॐ । छित्वा तु संशयं देवि! सर्वज्ञे! सर्वसाक्षिणि! ।
सत्यं दर्शय मे स्वप्ने स्वयमागत्य चेप्सितम् ॥ २५-४३ ॥

नमः स्वप्नदुर्गायै ।

इत्थं सम्प्रार्थ्य देवीं शुभमपि परमं यत् त्रिकालानुबद्धं
पश्येत् स्वप्नेऽर्थजातं विधिरयमुदितः स्वप्नदुर्गाभिधेयः ।
न्यग्रोधाधो रजन्यामरुणवटसमिद्धोमतो मासमात्राद्
यक्षीं पश्येत् समृद्ध्यै नवकनकनिभां चिन्तयेच्चण्डिकां ताम् ॥ २५-४४ ॥

वश्याकृष्टौ च रक्तां ज्वलदनलनिभां मारणे पीतवर्णां
स्तम्भे द्वेषे च धूम्रामथ विषहरणे शुक्लवर्णां तु मुक्तौ ॥ २५-४५ ॥

अथ वा सर्वकृत्येषु श्यामां सवरदाभयाम् ।
सशङ्खचक्रां तिष्ठन्तीं महिषोपरि चिन्तयेत् ॥ २५-४६ ॥

दुर्गामन्त्रं जपेद् यस्तमिह बहुविधाः पीडयेयुर्भ्रमाद्या-
स्तच्छान्त्यै मातृकाब्जैः कमल(?)लिपिविधिना भद्रके न्यस्तकुम्भैः ।
युक्तैर्लिख्यौषधीभिः सहफलकुसुमैर्हेमरत्नाष्टगन्धै-
र्लिप्यर्णे शक्तिरुद्रैर्गगनसरसिजात् पूरितैश्चाभिषिञ्चेत् ॥ २५-४७ ॥

हुत्वा तैर्न्यासमन्त्रैर्धृततिलचरुभिर्गव्यलाजैस्तदाज्यं
गव्यं सम्पात्य रक्षां क्षिपति च कलशेष्वेषु तन्न्यासनद्धम् ।

आद्यैः क्षान्तैश्च सिञ्चेत् क्रमपरिपठितैरायुरारोग्यलक्ष्मी-
र्विन्देन्नश्यन्ति विघ्नग्रहगदविपदः साधयेदप्यभीष्टान् ॥ २५-४८ ॥

वनदुर्गाधिकारः ।

कालः खं साक्ष्यथोमज्जा स्यान्मर्दनिपदं मनुः ।
ठद्वयान्तोऽष्टवर्णोऽयं दुर्गाहृदयसञ्ज्ञितः ॥ २५-४९ ॥

ॐ महिषहिंसिके नमः । महिषशत्रो! शार्वि! हुं फट् ठठ । महिषं हेषय हेषय । हुं महिषं हन हन देवि! । हुं महिषसूदनि! फट् ।

अङ्गानीमानि पञ्च स्वैर्जातिभिः सह कल्पयेत् ।
ऋषिः स्याच्छाकवत्साख्यश्छन्दः प्रकृतिरुच्यते ॥ २५-५० ॥

दुर्गैव देवता स्वार्णलक्षाभ्यासेन सिध्यति ।
कृष्णाष्टम्यामुपोष्याथ नवम्यादि जपेदिमम् ॥ २५-५१ ॥

जलभवखेटके धनुरपि गदां दधतीं भुजैः शिवां
रथपदनन्दकौ शरमथाङ्कुशकमरुणाम्बरादिकाम् ।
मरकतरोचिषं त्रिणयनां मकुटादिविभूषितां स्मरे-
न्महिषशिरोगतां महिषमर्दनिकामखिलार्थसिद्धिदाम् ॥ २५-५२ ॥ सिद्धिदा ।

लब्ध्वा मन्त्रं गुरोः स्नातः शस्तदेशाश्रयाशनः ।
निर्वर्त्य सन्ध्यं पूजार्थं तद्गृहद्वारपान् यजेत् ॥ २५-५३ ॥

तद् यथा-दुर्गापरिवारेभ्यो नम इति सर्वतः । क्षेत्रपालाय नमः । चण्डिकायै नमः । अम्बिकायै नमः । वास्तुपुरुषाय नमः । इत्युभयतः । द्वारश्रियै नम इत्यूर्ध्वोदुम्बरे ।

नाराचमस्त्रं क्षिप्त्वान्तः प्रविश्यासीन आसने ।
कृतात्मशुद्धिर्न्यस्ताङ्गः स्वमूलाङ्गार्घ्यशोधितैः ॥ २५-५४ ॥

द्रव्यैर्गणेशं च गुरुं यजेदप्यासनादिकम् ।

ॐ सम्प्रकृतये नमः इत्यधो भूमेः । ॐ वं वज्रासनाय नम इति सिंहासनम् । ॐ अम् आर्यायै । ॐ ऋं प्रलयायै । ॐ ॠ महाप्रलयायै । ॐ एं सृष्ट्यै नम इति सिंहपादचतुष्टयम् ।

सत्त्वं रजस्तमः कन्दनालपद्मानि नामभिः ॥ २५-५५ ॥

सूर्यसोमाग्निबिम्बानि कहरीशान् दलादिकान् ।
अङ्गानि केसराग्रेषु दलाग्रेष्वथ मध्यतः ॥ २५-५६ ॥

प्रभां मायां जयां सूक्ष्मां विशुद्धां चापि नन्दिनीम् ।
सुप्रभां विजयां सर्वसिद्धिदां चाप्यनुक्रमात् ॥ २५-५७ ॥

दीर्घस्वरादिकं चेष्ट्वा,

ॐ वज्रनखदंष्ट्रायुधाय महासिंहाय नमः इति तत्कर्णिकोपरि ।

ततो यथोक्तरूपाढ्यां दुर्गामावाह्य मूलतः ।
शस्तोपचारैरभ्यर्च्य बहिरावरणान् यजेत् ॥ २५-५८ ॥

तद् यथा-दुर्गायै वरवर्णिन्यै आर्यायै कनकप्रभायै कृत्तिकायै अभयप्रदायै कनकायै सुरूपिण्यै ।

दीर्घस्वरादिकाश्चैता पीठबाह्ये नमोन्तकम् ।
व्युत्क्रमेणार्चयेद् द्वारकोणाशास्वायुधाष्टकम् ॥ २५-५९ ॥

याद्यष्टार्णादिकं चेष्ट्वा वीथ्यां विघ्नं सरस्वतीम् ।
मातॄर्गुरून् गुहं चैव दिक्ष्वथैशेषु सिंहिकाम् ॥ २५-६० ॥

निर्माल्यधारिणीः पूज्यास्ततो लोकाधिपाः क्रमात् ।
काल्याद्या द्वन्द्वशः पूज्या बाह्ये द्वारचतुष्टये ॥ २५-६१ ॥

कालीं करालीं वरदां मदिरां विन्ध्यवासिनीम् ।
सुप्रभां सिंहवक्त्रां चाप्यष्टमीं दैत्यमर्दिनीम् ॥ २५-६२ ॥

इष्ट्वैवं परिवारैः स्वैर्होमान्तमुपचारकैः ।
द्वादशान्ते हृदब्जे वा ततो देवीं विसर्जयेत् ॥ २५-६३ ॥

पूजाधिकारः ।

तिलघृतपायसैः सकलवश्यकरं कमलैः श्रियं जयं
विषसमिदूषणैः स्नपितराजिघृतैर्हवनादरेर्मृतिम् ।
द्विजकुसुमैर्लभेत कुलपुष्टिमनित्यकजेर्जयेदरीन्
घृतसितसर्षपैर्गदहरं सहितैर्हरितालिकाङ्कुरैः ॥ २५-६४ ॥ प्राग्वत् ।

दुर्गाहृदयाधिकारः ।

ज्वलपदवीप्सितादुपरि शूलिनि दुष्टपदे ग्रहान्वित-
स्तदनु च पारबाणमथोऽस्त्रगिति त्रिदशाक्षरो मनुः ।

ॐ शूलिनि! दुर्गे! हुं फट्! ॐ शूलिनि! वरदायै हुं फट् । ॐ शूलिनि! विन्ध्यवासिनि! हुं फट्! ॐ शूलिन्यसुरमर्दिनि! युद्धप्रिये! त्रासय त्रासय हुं फट् । ॐ शूलिनि ! देवसिद्धपूजिते! नन्दिनि! रक्ष रक्ष महायोगेश्वरि! हुं फट् ।

इति ह तदङ्गकैर्भवति दीर्घतमा मुनिरुत्तरा ककुप्
स्वयमथ शूलिनी यदधिदैवतमक्षरलक्षकं जपेत् ॥ २५-६५ ॥

गुरुमुखलब्धमनुर्नियताशनवाङ् नदीपतिसङ्गमे
त्वपरमुखेऽथ शिवेऽप्यथवा वनमञ्जरीसुरभौ गिरौ ।
जपतु यजेदपि तां हरिपीठगतेऽम्बुजेऽङ्गवृतिर्भवेद्
वसुदलशक्तिवृतिस्त्वथ हेतिवृतिर्दिशामधिपैर्वृतिः ॥ २५-६६ ॥ वनमञ्जरी ।

तत्र वज्रासनाख्य तदासनं स्वाख्यया यजेत् ।
प्रकृतिं त्रिगुणैर्बिम्बमूर्तिभिः पङ्कजं तथा ॥ २५-६७ ॥

ॐ दुर्गायै, ॐ वरदायै, ॐ विन्ध्यवासिन्यै, ॐ असुरमर्दिन्यै, ॐ युद्धप्रियायै, ॐ देवसिद्धपूजितायै, ॐ नन्दिन्यै, ॐ महायोगेश्वर्यै इत्यष्ट शक्तयः ।

अरिदरखड्गगदाशरकार्मुकशूलपाशकरां शिवां
शतमखनीलरुचिं मुकुटादिविभूषणैः समलङ्कृताम् ।
अयुगदृशं सुमुखीं मृगराजगतां लसत्कनकाम्बरां
स्मरतु जपादिषु तामथवा सचतुर्भुजां कनकप्रभाम् ॥ २५-६८ ॥ प्राग्वत् ।

देवीमेवंविधां ध्यात्वा हृदयाद् वार्कमण्डलात् ।
मूलेनावाह्य चाङ्गैः स्वैरुपचारैस्तु पूजयेत् ॥ २५-६९ ॥

देव्याश्चतुर्दिशं दूतीश्चतस्रः पीठगा यजेत् ।
पीतां शङ्खारिगदिनीमुद्यतैककरां जयाम् ॥ २५-७० ॥

पाशदण्डधरां याम्ये सस्फोटां विजयां सिताम् ।
सुभद्रां पश्चिमे श्यामां शङ्खाद्यष्टभुजान्विताम् ॥ २५-७१ ॥

शूलकात्यायनीं शुक्लां धृतकुम्भद्वयामृताम् ।
सिञ्चन्तीममृताम्भोभिर्देवीं कुम्भपरिच्युतैः ॥ २५-७२ ॥

निर्माल्यधारिणीमैशे सिंहिकां चाभिपूजयेत् ।

अथाकृतौ-

नित्यविधानतस्तु कुसुमैः सुगन्धवरधूपदीपचरुभि-
र्भक्तिभरावनम्रशिरसा प्रणम्य कुरुते स्म पूजनविधिम् ।
मद्रकगीतवाद्यमधुरैश्च नृत्तबलिभिः शिवाचरणयो-
र्यस्त्विह साधयेन्मनुमिमं न तस्य भुवनेऽस्ति वस्त्वसुलभम् ॥ २५-७३ ॥ मद्रकम् ।

पूजाधिकारः ।

उत्कृतिलक्षकं जपति चेज्जगत् स निखिलं वशे स्म कुरुते
यक्षपिशाचभूतभुजगानभीष्टमिह कारयेद् वचनतः ।
मत्तगजाश्वयोधबहुलं च सैन्यमपि वारयेद् युधि जयेद्
यत्र निधिर्निधानमवनौ स पश्यति सुखेन तच्च लभते ॥ २५-७४ ॥ प्राग्वत् ।

स्वैक्यतः शूलिनीं ध्यात्वा स्वस्थावेशो भवेज्जपात् ॥ २५-७५ ॥

विषग्रहामयादींश्च मोचयेद् दर्शनादपि ।
सिताम्बरे लिखेद् देवीं दुर्गां साष्टभुजायुधाम् ॥ २५-७६ ॥

वामनाभिर्जयाद्याभिर्युक्तां तां पूजयेज्जपेत् ।
शीघ्रं सिध्यति मन्त्रोऽयमथ बाणेऽर्चयेदिमाम् ॥ २५-७७ ॥

तद्द्वैवात् परसैन्यानामुच्चाटनकरं परम् ।
स्वैक्यं ध्यानादिना शत्रुं जयेत् सम्मोहयेदपि ॥ २५-७८ ॥

तिलराजीहुतात् सर्वान्मारयेच्चितिकानले ।
तज्जपितं सिताश्मकुपितः क्षिपेत् कपिवयांसि कालयति त-
ल्लब्धमनन खे पशुमयं निखातमपि सैन्यमार्गनिहितम् ।
वत्सरहोमतः समधुरैस्तिलैर्भवति शक्तिमान् दशशतैः
पिप्पलकेध्मकैस्तु वशयेज्जुहोत्यभिमतं लभेत् सघृतम् ॥ २५-७९ ॥ प्राग्वत् ।

यथेह वनदुर्गाया विनियोगोऽनुकीर्तितः ॥ २५-८० ॥

तुल्यो महिषमर्दिन्याः शूलिन्याश्चासु सम्मतः ।

शूलिन्यधिकारः ।

तारं दुर्गेद्वयं रक्त संवर्तोऽग्निठयुग्मकम् ॥ २५-८१ ॥

ऋषिः स्यान्नारदश्छन्दो गायत्रं देवता स्वयम् ।
खड्गदुर्गानिजार्णैः षडङ्गानि च यथाक्रमम् ॥ २५-८२ ॥

पुरारिगिरिसङ्ख्यैस्तैः सर्वेणाप्यस्त्रमन्त्रतः ।

अथ विकृतौ-

अवतु सशङ्खचक्रमसिना त्रिशूलमपि या दधच्छ्रूतिभुजै-
र्नवघननीलकान्तिररुणाथवा त्रिणनयना निसुम्भमथनी ।
कनकविभूषणा भगवती पिशङ्गवरमाल्यगन्धवसना
चटुलगतैर्यथाश्वललितमृगेन्द्रमधिरुह्य वो विच?यिनी ॥ २५-८३ ॥ अश्वललितम् ।

मनुमुपलभ्य देशिकमुखान्निजैक्यमभिचिन्त्य तां जपेत् त-
त्करितुरगाकुले युधि तथा भयेषु विषमेषु वादविषये ।
स भवति निर्भयश्च विजयो यजेदधिगतामिमां प्रतिदिनं
सितनवमीविशेषयजनाज्जपाच्च खचरोऽणिमादिगुणभाक् ॥ २५-८४ ॥ प्राग्वत् ।

तिलाज्यसर्षपैर्हुत्वा लक्षं विद्याधरो भवेत् ॥ २५-८५ ॥

मन्त्रितेष्वादिवेधेन पलायन्त्यरयो मृगाः ।
चोरव्याध्यादिभिश्चासौ जपन् ध्यायन् न पीड्यते ॥ २५-८६ ॥

निरावरणमेवैनां खड्गदुर्गां तु साधयेत् ॥ २५-८६� ॥

इत्थं प्रोक्ता दुर्गामन्त्राः सकलविषगददुरितभयशमना
यस्त्वेतेषामेकं वेष्टं विधियजनहवनमननजपपरः ।
संसाध्यादौ भक्त्या युक्तः प्रतिदिवसमपि भजति यदिह शिवां
मत्ताक्रीडा नित्यं लक्ष्मीः श्रयति खलु तमुपगतसुखविभवैः ॥ २५-८७ ॥ मत्ताक्रीडा ।

इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे पञ्चविंशः पटलः ॥ २५ ॥