अथ चतुर्विंशः पटलः ।
सकलभुवनसर्गस्थित्यपायप्रवृत्तिं शतधृतिहरिरुद्रास्तन्वते यां प्रविष्टाः ।
स्फुरति हि खलु विश्वं यामुपाश्रित्य मायां रजतमिव च शुक्तिं सास्तु दुर्गा श्रियै वः ॥ २४-१ ॥
जातवेदसपूर्वाणां पञ्चानां स्यादृचामृषिः ।
मरीचिः काश्यपश्च्छन्दस्त्रिष्टुब् दुर्गा च देवता ॥ २४-२ ॥
जातवेदाग्निरित्यन्ये दैवतं परिचक्षते ।
ऋक् तृतीयातिदुर्गाख्या छन्दस्तस्या विराड् भवेद् ॥ २४-३ ॥
ग्रहमुनिरसवारैर्नागलोकः स्ववर्णैः
षडपि च पृथगासां जातिभाजोऽङ्गमन्त्राः ।
वपुषि च भवसङ्ख्यान् विन्यसेन्मन्त्रवर्णां-
स्तदनु च धृतिसङ्ख्यैः स्वैः पदैश्चाङ्गषट्कम् ॥ २४-४ ॥
चरणयुगलगुल्फं जङ्घिका जानुरूरू स्मरगृहकटिकोष्ठं हृत् स्तनं पार्श्वपृष्ठम् ।
उपगलगलकांसं दोः प्रबाहुः प्रकोष्ठं मणितलमुखनासं कर्णदृङ्मस्तकं कम् ॥ २४-५ ॥
एतान्यक्षरस्थानानि ।
स्मृतमिह तु पदानां कं ललाटाक्षिकर्णं त्वधररसनकण्ठं वाहुहृन्नाभिदेशाः ।
कटिरपि मदनोरू जानुजङ्घाङ्घ्रयोऽमी श्रवणनयनयोर्द्वे स्थानमेकैकमन्यत् ॥ २४-६ ॥
स्वविहितकर्मपरो गुरोः परितोषणै-
रुदगयने विधिवत् स तेन तु दीक्षितः ।
मनुमुषलभ्य ततः कृतस्नपनादिको
भुवि सुविलिप्ततले लिखेदरविन्दकम् ॥ २४-७ ॥ अरविन्दकम्
चक्रपद्ममथ वा द्विकरं भुवि भद्रकं
पञ्चवर्णरजसा विलिखेदतिसुन्दरम् ।
साधकाह्वययुतां भुवनाधिपकर्णिकां
दौर्गबीजसहितैश्च षडश्रिभिरन्विताम् ॥ २४-८ ॥ सुन्दरम् ।
तत्र वज्रासनाख्यं तदासनं स्वाख्यया यजेत् ।
प्रकृतिं विगुणैर्बिम्बमूर्तिभिः पङ्कजं तथा ॥ २४-९ ॥
तत्पीठकोणगाः पूज्या धर्माद्याः शक्तिपङ्कजम् ।
गुणसूर्यादिकन्दाद्यैर्यजेदङ्गैस्तथा वृतिम् ॥ २४-१० ॥
जयायै विजयायै भद्रायै भद्रकाल्यै सुमुख्यै दुर्मुख्यै व्याघ्रमुख्यै सिंहमुख्यै दुर्गायै ।
यजेच्छक्तीर्दलाग्रस्था नवमीकर्णिकाश्रिताः ।
मन्त्रपादांश्च तानष्टौ पद्माद् बाह्ये यथोच्यते ॥ २४-११ ॥
माता मातात्मसा(?) वामे सङ्ख्यास्वार्णा भवन्ति हि ।
पादास्ते च पृथक् तत्त्वैर्युक्ता वह्नेश्च मूर्तिभिः ॥ २४-१२ ॥
तद्यथा-
ज्ञानकर्मेन्द्रियैर्भूतैः सप्तधातुषडूर्मिभिः ।
षट्कोशविषयप्राणैर्युक्ताः पादाः पृथक् क्रमात् ॥ २४-१३ ॥
जातवेदा हुताशश्चाप्यग्निर्वैश्वानरस्तथा ।
सप्तजिह्वो हुतवहो हुतवर्त्मा देवमुखः ॥ २४-१४ ॥
इति मूर्त्यष्टकम् ।
जातवेदादिपादान्ते चतुर्थ्यन्तैस्तु मूर्तिभिः(?) ।
ज्ञानेन्द्रियादिसंयुक्तं नमोन्तं तान् क्रमाद् यजेत् ॥ २४-१५ ॥
पदावरणबाह्यस्थाः स्ववर्णाद्यास्तु शक्तयः ।
रुद्रसङ्ख्याः प्रतिदिशं पूज्याः स्युर्जागतादिकाः ॥ २४-१६ ॥
जागता तपनी वेदगर्भा दहनरूपिणी ।
सेन्दुखण्डा सुम्भगन्त्री ततः ख्याता नभश्वरा ॥ २४-१७ ॥
वागीश्वरी मदवहा सोमरूपा मनोजवा ।
मरुद्वेगा तथा रात्रिस्तीव्रकोपा यशोवती ॥ २४-१८ ॥
तोयात्मिका च नित्या च दयावत्यपि हारिणी ।
तिरस्क्रिया वेदमाता ततश्च दमरप्रिया ॥ २४-१९ ॥
समाराध्या नन्दिनी च परा रिपुविमर्दिनी ।
षष्ठी च दण्डिनी तिग्मा दुर्गा गायत्त्रिसञ्ज्ञिता ॥ २४-२० ॥
निरवद्या विशालाक्षी श्वासोद्वाहा च वेदनी ।
वेदना वह्निगर्भा च सिंहवाहा च धुर्यया(?) ॥ २४-२१ ॥
दुर्विषह्या रिरंसा च तापहारिण्यथ स्मृता ।
त्यक्तदोषा निस्सपत्ना चेति मन्त्रार्णशक्तयः ॥ २४-२२ ॥
एताश्चैकैकशोऽनेकशक्तिभिः पृथगावृताः ।
पीठबाह्ये चतुर्दिक्षु पूज्याः स्वाख्यानमोन्तकम् ॥ २४-२३ ॥
पञ्चमावरणे मातॄर्दिक्षु याम्ये गणेश्वरम् ।
अथाष्ट्यां-
हेमनिभं त्रिणेत्रमरुणवसनकुसुमै-
र्भूषितमेकदन्तमिभवदनमुरुगलम् ।
पाशमथाङ्कुशं च दधतमपि फलरदे
नौमि शशाङ्कमौलिमृषभगजविलसितम् ॥ २४-२४ ॥ ऋषभगजविलसितम्
यजेदेशे गुरून् नाम्ना शुक्लान् शुक्लाम्बरादिकान् ॥ २४-२५ ॥
तारम्-
तामिमां रुद्रसम्भूतां दुर्गामावाहयाम्यहम् ।
यस्याः सिंहा रथे युक्ता व्याघ्राश्चैवानुयायिनः ॥ २४-२६ ॥
अभयं मेऽस्तु दुर्गा दुर्गरूपा दधातु तामिमां देवर्षिभिश्च पूजितां देवी दुर्गां शरणमहं प्रपद्ये नमः ।
एवमुच्चार्य मूलाङ्गैर्देवीमादित्यमण्डलात् ।
आवाह्य पूजयेत् पद्मे ध्यायन्नुक्तस्वरूपिणीम् ॥ २४-२७ ॥
शङ्खं खेटं चापं तर्जां सव्येऽन्यस्मिन् चक्रं खड्गम् ।
बाणं शूलं चाबिभ्राणां दोर्भित्र्त्यक्षां भास्वन्मौलिम् ॥ २४-२८ ॥
चन्द्रोत्तंसां सालङ्कारां रक्ताकल्पां सिंहारूढाम् ।
युद्धोन्नद्धैः कन्याबृन्दैर्युक्तां दुर्गां देवीं वन्दे ॥ २४-२९ ॥ युद्धोन्नद्धा ।
दुर्गायै कात्यायन्यै गौर्यै चण्डिकायै सुवर्णवर्णायै सर्वनिष्कलायै ।
अङ्गमन्त्रं पूर्वं यजेत् ।
अथ लोकाधिपान् स्वासु दिक्षु सम्पूज्य सायुधान् ।
निर्माल्यधारिणीमैशे सिंहिकामभिपूजयेत् ॥ २४-३० ॥
मुख्योपचारैस्ताभिष्ट्वा जपेल्लक्षचतुष्टयम् ।
व्रत्याशनो ब्रह्मचारी निशासु जुहुयादपि ॥ २४-३१ ॥
तिलशामीलसिद्धार्थक्षीरान्नसमिधश्चरुम् ।
पृथग् घृतं च जुहुयाद् भवभावमितं क्रमात् ॥ २४-३२ ॥
अशक्तौ मनसैवेष्ट्वा हुताद् द्विगुणितं जपेत् ।
ततः सिध्यति मन्त्रोऽयं विनियोगफलप्रदः ॥ २४-३३ ॥
मन्त्रपूजाद्यधिकारः ।
अरुणरुचिं धृतपाशवराङ्कुशां तु दुर्गां
हुतभुजि तामभिचिन्त्य जुहोति चन्दनार्द्रैः ।
वकुलभवैर्वैकचैः सुमनोभिरर्धमासात्
खलु वशयेत् सकलं नृपतिं च वाणिनीं वा ॥ २४-३४ ॥ वाणिनी ।
मधुरैर्लोणपुत्तल्या साध्याङ्घ्रिरजसा(सु?तु) यत् ।
तन्नक्षत्रागवह्नौ यद्धुतमाकर्षणं स्मृतम् ॥ २४-३५ ॥
अत्यष्टौ-
अरिदरगदाश्चाब्जं दोर्भिः क्रमाद् दधतीं स्थिता-
मरुणकमले तापिञ्छाभां विचित्रविभूषणाम् ।
कनकवसनां चन्द्रापीडां स्मरञ्जुहुयाज्जले ।
सलिलकुसुमैर्गन्धैर्विन्देदसौ हरिणीं श्रियम् ॥ २४-३६ ॥ हरिणी ।
स्फटिकधवलां शुक्लाकल्पां महौघजले स्थिता-
मभयवरदे चाबिभ्राणां सपाशमथाङ्कुशम् ।
मधुरमिलितैर्जुह्वद् वृष्टिं स्मरन् नवतण्डुलै-
र्जपतु च जले स्थित्वा नाभेर्मिते लभतेऽयुतम् ॥ २४-३७ ॥
अयोमुष्टिगदाहस्ता पीता पीताम्बरादिका ।
माहिषाक्तपुलाकाक्षैः स्तम्भयेत् संस्मृताहुतैः ॥ २४-३८ ॥
सशूलमुसला धूम्रा ह्येषा राजीघृताप्लुतैः ।
निम्बपत्रैः सकार्पासबीजैर्विद्वेषयेद्धुतात् ॥ २४-३९ ॥
सैव तर्जनिकाशूलहस्ता मरिचमाहिषैः ।
विषपत्रैश्च राजीभिर्होमादुच्चाटयेदरीन् ॥ २४-४० ॥
शूलहस्ताग्निसङ्काशा मरीचोन्मत्तराजिभिः ।
तीक्ष्णतैलान्वितैर्होमाद् दुर्गैषा मोहयेत् परान् ॥ २४-४१ ॥
असिगुणकरां कृष्णां ध्यायन्नरुष्करजार्दिता
रिपुहसमिधो हुत्वा शत्रून् नयेद् यमसादनम् ।
मरिचभसमिद्राजीराजीघृताप्लुतहिङ्गुभि-
र्विषतरुभवैः काष्ठैश्चैत्यैर्निशास्वरिमारणम् ॥ २४-४२ ॥
विषाक्षशितिमत्तजा महिषराजितैलोक्षिता
जुहोतु समिधः पृथग् दशशतं तु कालाष्टमीम् ।
प्रभृत्यपि दिनान्ततः परिलुठन् स पृथ्वीतले
विलापपरमो व्रजेद् यमपुरं तु पक्षादरिः ॥ २४-४३ ॥ पृथ्वी ।
प्रतीच्य कुसुमान्विते मरिचचूर्णमिश्रे जले
रिपोरुडुतरूद्भवां प्रतिकृतिं रुषा क्वाथयेत् ।
निशीथसमये हतामनुविलोमतः पुत्तलीं
सतीक्ष्णविषरूषितां जपतु तापयन् मारयेत् ॥ २४-४४ ॥
भागपुत्तलिकां शत्रोर्हिङ्गुसव्योषजीरकैः ।
अब्ध्यप्सु क्वाथयन् क्ष्वेलयष्ट्या सन्ताड्य मारयेत् ॥ २४-४५ ॥
दिगम्बरमधोमुखं रविरथाश्वबन्धाहिना
निगीर्णचरणं स्मरन् दहनवायुबिम्बे रिपुम् ।
जलं क्षिपतु तज्जपन् स न भवेत् तथार्द्राम्बरः
सतीक्ष्णघृतवद्धुतान्मरिचकैश्च तिष्ठन् क्रमात् ॥ २४-४६ ॥
दिनेशदिवसेऽङ्कणे लिखितचक्रपद्मे शिवां
यजेद् विभवसारतः स्वरुणमाल्यगन्धादिभिः ।
स्वयं च सितराजिभिश्चरुतिलाज्यगव्यान्नकै-
र्जुहोतु विकिरेद् बलिं त्वरुणतोयपिण्डान्वितम् ॥ २४-४७ ॥
सहस्रमयुतं तु वा प्रयुतमर्बुदं कार्यतो
जुहोत्वथ चतुष्पथे क्षिपतु सर्वमग्न्यादिकम् ।
गृहामयभयं हरेत् सकलदुःखशान्तिर्भवेत्
स साध्ययजनं हुतं सकलकामसम्पत्करम् ॥ २४-४८ ॥
पञ्चगव्यचरुं साज्यं हुत्वा सम्पातशेषितम् ।
सुसम्प्राश्यापमृत्युघ्नमारोग्यं स्याच्च पावनम् ॥ २४-४९ ॥
पलाशफलकातले मुनिविभक्तधावत्पुटे
स कर्म च तदाह्वयं लिखतु मध्यकोष्ठे पुनः ।
विदिक्षु भुवनाधिपान् भवपुटेषु मन्त्राक्षरान्
जपादिविधिना खनेद् यदि भवेत् स्वकीयाभिभूः ॥ २४-५० ॥
सिंहमेषधनुर्मासे सितज्ञेन्द्वर्कभूदिने ।
विशाखमूलविष्ण्वग्निप्राजापत्ययमर्क्षके ॥ २४-५१ ॥
कृत्वा नवोक्तकुण्डानि तेष्वाधायानलान् समम् ।
प्राच्यामिष्ट्वा महादुर्गां शङ्खादीन्यायुधान्यपि ॥ २४-५२ ॥
कुण्डोपान्तेषु सम्पूज्य त्रिशूलं मध्यतो यजेत् ।
आज्येनार्कसहस्रं तु सावित्र्या त्रिष्टुभा पृथक् ॥ २४-५३ ॥
हुत्वा सम्पातयेत् तेषु हेमताम्रादिहेतिषु ।
बलिं विकीर्य विप्रेन्द्रान् भोजयेच्च कुमारिकाः ॥ २४-५४ ॥
गुरुं च होतॄञ्जपितॄन् दक्षिणाभिश्च तोषयेत् ।
पुरग्रामगृहादीनां नवदिक्षु यथाक्रमम् ॥ २४-५५ ॥
तैरथ गव्यपात्रनिहितैर्भुवि समविहितै-
र्ग्रामपुरादिरक्षणविधिर्भवति हि सुचिरम् ।
तत्र तु वंशपत्रतिता इव जलकणिकाः
न स्थितिमवाप्नुवन्ति विपदः स्फुटपवनधुताः ॥ २४-५६ ॥ वंशपत्रपतिता ।
ब्रह्मतरुं विदार्य नवधा नवदिशि पतितै-
स्तैः सुकृतायुधैर्नवविधैर्निगदितविधिना ।
ग्रामपुरादिबाह्यानितैश्च तदवनविधिः
स्याज्जलधिगमार्द्रसिकतैर्विधिरपि च परः ॥ २४-५७ ॥
परशब्देन सिकताविधिरप्ययमेवेत्यर्थः ।
सितपाषाणकैश्चापि नवभिर्बिल्वसम्मितैः ।
संस्कृत्यायुधवद् दिक्षु क्षिपेद् रोगादिशान्तये ॥ २४-५८ ॥
वारे भानोर्गगनवसनो नन्ददुर्गाग्रहाणां
दिक्ष्वादद्यान्नवसु मनुना शर्करास्तावतीस्ताः ।
मध्ये रात्रौ विषतरुदले न्यस्य सम्पातहोमा-
न्मन्दाक्रान्ता दृषदि जपिताः सैन्यचाटाय शस्ताः ॥ २४-५९ ॥ मन्दाक्रान्ता ।
लक्ष्मीकामो मधुरमिलितं क्षीरिणां वै समिद्भिः
शालीव्रीहिप्रवरचरुभिः क्षीरबिल्वैः क्रमोक्तैः ।
अष्टौ तद्वच्छतमनुदिनं तत्प्रतिद्रव्यमग्नौ
हुत्वा विन्देत् सलिलकुसुमैस्तोयगेयांशुबिम्बे ॥ २४-६० ॥
नाभिदघ्नजले तिष्ठन् दुर्गां ध्यात्वार्थधारया ।
स्वात्मानमभिषिञ्चन्तीं सिक्त्वाद्भिः श्रियमाप्नुयात् ॥ २४-६१ ॥
आशास्वष्टास्वपि हुतवहान्मूर्तिभिश्चापि मध्ये
वह्निं प्राच्यां दिशि भगवतीं सम्यगावाह्य चेष्ट्वा ।
ध्यायन् हुत्वा शकलशतकं तेष्वथैकैकमग्ना-
वीतीः सर्वा हरति च भयं पाप्नुयाच्चैव कामान् ॥ २४-६२ ॥
भिन्ना खण्डैर्मधुरमिलितैर्वाम्रपर्णैश्च हुत्वा
रागक्षुद्रं हरति जुहुयात् पैप्पलैर्गोष्ठशान्त्यै ।
गोमूत्राक्तैर्ग्रहरिपुरुजो हन्त्यपामार्गजेध्मैः
पत्राग्राढ्यैरवति तु हुतात् साज्यमौदुम्बराणाम् ॥ २४-६३ ॥
मातङ्गानां वटफलहुतात् स्यान्मदः पल्लवैस्तै-
स्ते वश्याः स्युः सततमपि तान् मार्जयेत् पञ्चगव्यैः ।
धान्यैर्धान्यं सुलभमपि चाप्यन्नमन्नेन होमा-
ल्लक्ष्मीपुष्पैर्घृतमधुयुतैः प्राप्नुयाच्चापि लक्ष्मीम् ॥ २४-६४ ॥
सितासितारुणैः सूत्रैर्वेष्टिता गव्यरूषिताः ।
वटजाः समिधो हुत्वा रक्ताम्भोऽन्नबलिं क्षिपेत् ॥ २४-६५ ॥
सर्वं चतुष्पथे क्षिप्तं क्षुद्ररोगादिशान्तिकृत् ।
कृत्वा शत्रोर्गगनकपिलागोमयेनाथ देहं
त्वग्न्यालिप्तं जपतु तपनस्योदयादार्धरात्रात् ।
छित्वारण्ये सविषमथ तत्कापिलेनोदयान्तं
कृष्णाष्टम्यां यदिह जुहुयान्मृत्युमेत्यस्य शत्रुः ॥ २४-६६ ॥
आत्मरक्षार्थमात्मानं सनःपर्षदिति स्पृशेत् ॥ २४-६७ ॥
होमदानाभिषेकाद्यैरात्मा रक्ष्यो विशेषतः ।
त्रिकोणे कुण्डेऽग्नौ परनरमिते क्ष्वेलतरुजां
तनुं शत्रोस्तुल्यां मधुमलविचित्राङ्गसुभगाम् ।
अधोवक्त्रां बद्ध्वा शिखरिणि वने क्ष्वेलसमिधां
निशीथे साहस्रं कटु घृतसहस्रं च जुहुयात् ॥ २४-६८ ॥ शिखरिणी ।
चतुश्चत्वारिंशद्दिनपरिमितात् पूर्वमधवे-
ररिर्मृत्योर्वक्त्रं प्रविशति स चेज्जीवति यदा ।
क्षणाज्जातं वत्सं सलिलपरिधौतं त्वथ तु गो-
र्घृतासिक्तं हुत्वा प्रतिकृतिमपीत्थं स न भवेत् ॥ २४-६९ ॥
यावत् तद् भस्मसाद् भूयात् तावन्मन्त्रं जपेत् पुनः ॥ २४-७० ॥
अत्रात्मरक्षा कर्तव्या पञ्चगव्याभिषेकतः ।
विप्रेभ्यो गोशतं दद्यात् प्रायश्चित्तं तु तत्स्मृतम् ॥ २४-७१ ॥
भवेदुत्सादोऽरेर्विषशिखरिपञ्चाङ्गहवनात्
फलैः स्तम्भः पर्णैर्विषविलुलितैश्चाटनमरेः ।
तथा द्वेषः पुष्पैश्चरुतिलघृतैः शान्तिरुदिता
समन्त्रस्नानाद्यैर्विहितनिजरक्षो जपतु तम् ॥ २४-७२ ॥
ॐ । प्रसीदतां जातवेदा दुर्गा च वरदा मम ।
तयोः प्रासादात् सर्वत्र वाञ्छितं मम सिध्यतात् ॥ २४-७३ ॥
इत्युपस्थानमन्त्रः ।
अथापरः प्रकारोऽत्र त्रिष्टुभः कथ्यतेऽधुना ।
दैवतं जातवेदोऽग्निः प्राग्वच्छेषं विधीयते ॥ २४-७४ ॥
त्रिकालस्नायी स्यान्नियमितकथो द्वादशदिनं
पयो यावद् भिक्षां फलमपि यदिष्टं चरतु तत् ।
चरेच्चाग्नेयाख्यं व्रतमिह सहस्रं त्वथ जपे-
च्चरुं चैवाग्नेयं सघृतमिह निर्वाप्य जुहुयात् ॥ २४-७५ ॥
सहस्रं वा शतं विप्रान् भोजयेद् दश वान्ततः ।
देवमग्निं स्मरंस्तेभ्यो लब्धाशीर्घृतमुत्सृजेत् ॥ २४-७६ ॥
ॐ । प्रीयतां जातवेदोऽग्निः सफलं चास्तु मे व्रतम् ।
मन्त्रोऽयं फलतां शीघ्रं सिद्धिश्चैवास्तु शाश्वती ॥ २४-७७ ॥
इति व्रतं समापयेत् ।
उदन्वद्गामिन्यां विधिवदवगाह्याथ हृदये
स्मरन्नग्निं मन्त्रं जपतु च निमग्नो दशशतम् ।
भवेत् प्रायश्चित्तं सकलदुरितघ्नं दशदिनैः
श्रियं पश्येद् देवीं सितकमललक्षाज्यहवनात् ॥ २४-७८ ॥
धान्यैर्धान्यं भवेद्धुत्वा कुब्जैर्बिल्वैः श्रियं धनम् ।
गोमयाज्यमयीं जुह्वद् गुलिकां पशुमान् भवेत् ॥ २४-७९ ॥
सिद्धार्थमधुरैर्वश्यं तथा वटसमिच्छतैः ।
शमीसमिद्भिः शान्तिः स्यादन्नमौदुम्बरीहुतात् ॥ २४-८० ॥
क्षीरे सवर्णवत्सायाः शुक्लायाः पायसं पशोः ।
हुत्वा शेषाशनो मासैस्त्रिभिर्विन्देच्छ्रियं सुखी ॥ २४-८१ ॥
त्रिसन्ध्यं यद्वश्यं जपतु चिरमायुर्गदहरं
श्रियं रक्षां पुत्राञ् जयमपि च दैवात् स लभते ।
समृद्धान् सर्वार्थानपि स लभते मोक्षमथ चेत्
सहस्रं निष्कामो हृदयकमले ध्यानपरमः ॥ २४-८२ ॥
चोरादिभिर्न बाध्येत तं जपन् यदि गच्छति ।
अभ्यस्ताः शकर्राः क्षिप्ताश्चोरव्यालादिभञ्जनाः ॥ २४-८३ ॥
शुद्धो वाचा जपेन्मन्त्रमशुद्धो मनसा जपेत् ।
ध्यायन् दुर्गां तथा देवमग्निं चाभीष्टमाप्नुयात् ॥ २४-८४ ॥
इति खलु जातवेदसमनुश्रुतिसारतया
फलति हि वाञ्छितार्थमखिलं स्मरतोऽपि सदा ।
य इह जपादिभिर्भवति तं स भवेन्न चिरात्
त्रिभुवनसम्पदाख्यकमलामुखनत्कुटकम् ॥ २४-८५ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे त्रैष्टुभादिपञ्चदुर्गापटलश्चतुर्विंशः ॥ २४ ॥