अथ त्रयोविंशः पटलः ।
पुरस्तारशक्ती च वाङ्नित्यशब्दौ भुजः साक्षिमांसः सझण्टी द्विमेषः ।
विषातिद्रवे चापि शक्तिश्च वाग्जं ठयुग्मं च नित्या त्रिपञ्चार्णकोक्ता ॥ २२-१ ॥
विना वाग्भवं स्यैः क्रमात् क्रूरखारी भवार्णैः समस्तेन चाङ्गानि षट् स्युः ।
यथा जातियोगात् तदस्त्रान्तमेवं पुनर्वाग्भवेन त्वथाङ्गानि कुर्यात् ॥ २२-२ ॥
ऋषिः कामदेवोऽतिशक्वर्यपीष्टा मनोश्छन्द उक्ता तु नित्यासिधाना ।
भवेत् क्लिन्नपूर्वा स्वयं देवतोमा फलं लोकवश्यं च लक्ष्मीकरं तत् ॥ २२-३ ॥
गुरोः प्राप्य दीक्षां तु लब्धप्रसादो मनुं साधकोऽसौ जपेत् प्राग् विधाय ।
तथात्मादिशुद्धिं त्वथो माधवाब्धेः स्मरेदन्तरीपं तु मध्ये त्रिकोणम् ॥ २२-४ ॥
लसत्कल्पवृक्षैश्च हृद्यं तु तस्मिन् समुद्यद्दिनेशं तथैन्द्र्यां च पश्चात् ।
स्फुरत्पूर्णचन्द्रं सनक्षत्रमालं नभः प्रावृषेण्यैर्घनैः कापि रम्यम् ॥ २२-५ ॥
स्फुरत्कुड्मलाढ्यैर्गुलुच्छप्रवालैः पिशङ्गैरशोकैश्च शोकापहं तत् ।
कलैः कोकिलानां तथा षट्पदानां विरावैः सुरम्यं च हेमस्थलान्तम् ॥ २२-६ ॥
ततस्तस्य पद्मे स्फुरत्पद्मरागं यजेद्धेमपीठं त्रिकोणं सपद्मम् ।
ॐ ऐं क्लीं योनिपद्मपीठाय नमः । इति तत्पीठमभ्यर्च्य, ॐ आं द्रावण्यै, ॐ ईम् आह्लादकारिण्यै, ॐ खं क्षोभण्यै
इतीष्ट्वाग्निवारशिकोणेष्वथास्मिन्
ॐ ऐं मदद्रवायै । ॐ औं रोद्र्यै । ॐ अः मदनातुरायै । ॐ ऐं क्लीं योनिशक्तये ।
नमोन्तं दिशास्वत्र मध्ये च पूज्याः ॥ २२-७ ॥
ततो द्वादशान्ते चितिं सूक्ष्मरूपां स्मरन् शक्तिमाद्यां सुधार्द्रां तु नित्याम् ।
समावाहयेत् तां तु तद्योगपीठे यजेच्चोपचारैरिहोक्तस्वरूपाम् ॥ २२-८ ॥
बन्धुजीवारुणां रक्तगन्धाम्बरां दिव्यरत्नोज्ज्वलैर्भूषणैर्भूषिताम् ।
पीनतुङ्गस्तनीं षोडशाब्दाकृतिं हारिधम्मिल्लकां स्रग्विणीं त्रीक्षणाम् ॥ २२-९ ॥ स्रग्विणी ।
पूर्णचन्द्राननां चन्द्रमौलिं शिवां षड्भुजां बिभ्रतीं पाशमप्यङ्कुशम् ।
पारिजातस्पृशं दक्षिणे सव्यतः सत्कपालामृतां वादयद्वल्लकीम् ॥ २२-१० ॥
सर्वतः सुन्दरीं द्राङ् मदाघूर्णितां चिन्तयन् पार्वतीमर्चयेत् साधकः ।
हेमबेरेऽपि वा चारुचित्रेऽथ वा द्रव्यसम्पन्न चेत् स्वैक्यतो वा धिया ॥ २२-११ ॥
अथ पूर्वादिमध्यान्तं नव शक्तीरर्चयेत् । इं नित्यायै । ईं सुभद्रायै । उं मङ्गलायै । ऊं नरवीरिण्यै । एं सुभगायै । ऐं दुर्गायै । ॐ मनोन्मन्यै । औं मदद्रवायै । अं काममन्दिरायै ।
दीक्ष शक्तीरिमाश्चारुरूपारुणा रक्तगन्धाम्बरा भूषिताङ्ग्यः स्थिताः ।
वादयन्तीः समं वल्लकीश्चिन्तयन् साह्वयैः पूजयेन्मन्मथाघूर्णिताः ॥ २२-१२ ॥
ॐ अम् अनङ्गाय । ॐ स्मराय । ॐ मन्मथाय । ॐ कामाय । ॐ कुसुमायुधाय ।
रक्तगन्धाम्बरांश्चारुवेषाकृतीन् पुष्पचापं शरं पाशमप्यङ्कुशम् ।
बिभ्रतश्चेषुधी पञ्च कामानिमान् दिक्षु चैवाग्रतो बाह्यतः पूजयेत् ॥ २२-१३ ॥
सर्वे लकुलीकामस्वाख्या नमोन्तमिति यावत् (?) । जं रत्यै नमः । जां विरत्यै नमः । जिं प्रीत्यै नमः । जीं विप्रीत्यै नमः । जुं मत्यै नमः । जूं दुर्मत्यै । जों धृत्यै । जौं विधृत्यै । जं कृष्ट्यै । जः पुष्ट्यै नमः ।
कामानां पार्श्वयोर्द्वे द्वे दशैताः क्रमशोऽर्चयेत् ।
वीणाकराश्च गायन्त्यो रक्ता रक्ताम्बरादिकाः ॥ २२-१४ ॥
तद्बहिर्लोकपान् सास्त्रवाहादिकान् स्वावकाशस्थितान् पूजयेत् स्वाख्यया ।
पायसं सैक्षवं क्षौद्रसर्पिःप्लुतं मोदकैरन्वितं भवेत् ॥ २२-१५ ॥
नालिकेराम्बु च स्वादु पानीयकं हस्तसेकं तथा साङ्गताम्बूलकम् ।
स्यात् प्रदेयं ततो नृत्तगीतादिभिः स्तोत्रवन्मङ्गलैस्तोषयेत् पार्वतीम् ॥ २२-१६ ॥
पूजाधिकारः ।
अनुलोमतोऽपि च विलोमगतैर्लिपिवर्णकैः सह मनुं जपतः ।
बशमेतिं विश्वभुवनं त्वचिरात् प्रमिताक्षरापि च भवेत् कविता ॥ २२-१७ ॥ प्रमिताक्षरा ।
अथ योनिकुण्डहुतभुग्वदनः स्वभिपूजितां भगवतीं य इमाम् ।
अभिचिन्त्य रक्तकमलैर्मधुना स्नपितैर्जुहोति स भवेद्धनदः ॥ २२-१८ ॥
मधुना मधूककुसुमैर्जुहुयान्नियुतं महद्धनमसौ लभते ।
सघृतान्नदुग्धमधुनान्नवरं पशुमान् भवेत् सघृतदुग्धहुतात् ॥ २२-१९ ॥
मधुसिक्तरक्तकुसुमैः सकलान् वशयेदपि त्रिमधुरैर्नृपतिम् ।
अवलोक्य यां जपति यं च मिथः स्वनुरागितं च मिथुनं हि भवेत् ॥ २२-२० ॥
नित्यक्लिन्नाख्यां साधयेच्चापि नित्यं ध्यायञ् श्रद्धावान् वै जपेद् यः ।
त्रिंशत्पञ्चाशत्षष्टिलक्षाणि कोटीर्भौमाद्याः सिद्धीर्वैश्वदेवीश्च विन्देत् ॥ २२-२१ ॥ वैश्वदेवी ।
नित्यक्लिन्नाधिकारः ।
सक्ष्माक्षो बाहुर्ने च पाशाङ्कुशाभ्यां नित्यार्णे कालोदद्रवे शक्तिबीजम् ।
हृल्लेखाद्येयं द्वादशार्णा हि नित्या वज्रप्रस्तारी नामधेया हि विद्या ॥ २२-२२ ॥
आह्लदिनि क्लिन्ने नित्यक्लेदिनि नित्ये मदद्रव्ये
अङ्गान्येवं षट् स्वाख्यया जातिभिः स्युः कामश्चर्षिः स्याज्जागतं छन्द उक्तम् ।
सर्वज्ञा शक्तिर्दैवतं भानुलक्षैरभ्यस्तैः सिध्येत् तत् फलं सर्वकामाः ॥ २२-२३ ॥
दीक्षां चाचार्यात् प्राप्य मन्त्रं यथावच्छुद्धात्मस्थानद्रव्यमन्त्रः स्वशक्त्या ।
रक्ताम्भोराशिं तुङ्गकल्लोलमालं ध्यायेच्चाप्यस्मिन् नावमुत्तुङ्गशृङ्गाम् ॥ २२-२४ ॥
नौमध्ये हैमं मण्डपं योनिकल्पं मुक्ताजालाढ्यं माल्यदामाभिरामम् ।
तन्मध्ये पीठे तादृगब्जं च रक्तं ध्यायेद् रामाश्रं कर्णिकां वाग्भवां ताम् ॥ २२-२५ ॥
तस्यामासीनां दिव्यरूपां तु देवीं बन्धूकारक्तां षड्भुजां सत्रिणेत्राम् ।
नानारत्नाढ्यैर्भूषणैर्भूषिताङ्गीं संरक्ताकल्पां पीनतुङ्गस्तनीं ताम् ॥ २२-२६ ॥
करकलिताङ्कुशामपि सपाशां घृतशरकार्मुकामृतकपालाम् ।
स्मरतु च बीजपूरफलपाणिं शशिनवमालिनीं शशिमुखीं ताम् ॥ २२-२७ ॥ नवमालिनी ।
एवंरूपां ध्यात्वावाह्य स्थापनसान्निध्यसन्निरोधप्ररोचनानि शक्तिबीजेन कृत्वा
सरसिजकेसरेषु च तदङ्गैस्तरुणदलाग्रकेष्वरुणशक्ती ।
हृल्लेखायै क्लेदिन्यै नन्दायै क्षोभण्यै मदनातुरायै निरञ्जनायै रागवत्यै मदनावत्यै शेखरिण्यै द्रावण्यै वेगवत्यै कामाय ।
बहिरिह चाष्टमातृवृतिमिष्ट्वा यजतु दिशां पतीन् निजदिगन्ते ॥ २२-२८ ॥
इह परिवारकैस्तु सहितां यः प्रतिदिनमर्चयन् सदुपचारैः ।
जपति सहस्रकं दिशि दिनादौ भवति कुबेरवज्जगति धन्यः ॥ २२-२९ ॥
अथातिजगत्यां-
ध्यायेद्वा त्रिभुवनमोहनीं तु वज्रप्रस्तारां जपति विधानतोऽभिषिक्तः ।
तं लक्ष्मीः स्वयमुपयाति नैकसपत् कल्याणी स्वजनमनः प्रहर्षिणी या ॥ २२-३० ॥ प्रहर्षिणी ।
व्याघातैर्मधुमिलितैर्दिशासहस्रैर्हुत्वादौ फलति मनुस्ततो यथेष्टम् ।
लक्षं तैर्यदि जुहुयात् स लोककान्तो लक्ष्मीवान् मुदितमनाश्चिराय जीवेत् ॥ २२-३१ ॥
क्षैरेय्या घृतयुतया महासमृद्धिं रक्ताब्जैर्मधुनि तथोत्पलैरभीष्टम् ।
यद्विन्देत् सलवणतण्डुलैः स्त्रियः स्युर्मध्वक्तैरखिलजना वशेऽस्य लाजैः ॥ २२-३२ ॥
वज्रप्रस्तारिण्यधिकारः ।
हृल्लेखा तदुपरि नित्यकामबीजं नेभान्तस्तदनु च भद्रपीठयुग्मम् ।
रुद्रार्णा भवति हि मोहिनी तु विद्या ऋष्याद्यं फलमपि पूर्ववत् समस्तम् ॥ २२-३३ ॥
ध्याने त्वल्पतो विशेषः ।
गन्धाद्यैररुणतरैर्विभूषिताङ्गीं रक्ताभामभयकपालपाशहस्ताम् ।
ध्यायेत् तां कर(तल ?)कलिताङ्कुशां त्रिणेत्रां धम्मिल्ले धृतशकलेन्दुपारिजाताम् ॥ २२-३४ ॥
लक्षाणां त्रितयमिमां जपेत् पुरस्तात् तावद्भिर्मधुलुलितैर्मधूकपुष्पैः ।
हुत्वादौ भवति जगत्प्रियो यशस्वी लक्ष्मीवान् सुभगतनुः सुखी च नित्यम् ॥ २२-३५ ॥
मन्त्रेण स्नपनमपीष्टमात्मनो वा गन्धं वा सलिलमथाञ्जनादिकं वा ।
दुःस्वप्नं हरति करोति रोगशान्तिं सौभाग्यं जनयति जन्यतां च वश्यम् ॥ २२-३६ ॥
[मोहनी ।
धृताङ्कुशां वरदकपालपाशिनीं कपर्दिनीं त्रिदृशमपीन्दुशेखराम् ।
जपारुणां मणिवसनादिभूषितां निजैक्यतः स्मररुचिरां वशीकरम् ॥ २२-३७ ॥ रुचिरा ।
अथवा,
तदम्बुधौ स्मरभवनारुणाम्बुजे स्मरेदिमामभिनवकुङ्कुमद्युतिम् ।
कपालतः प्रसृतसुधाप्रदायिनीं करद्वयां जपतु जगद्वशीकरीम् ॥ २२-३८ ॥
तत्र ह्रस्वस्मरबीजैः पञ्चवक्त्राण्यात्मनः सङ्कल्प्य दीर्घैरङ्गानि नामयुक्तं स्मरबीजं स्वैक्यतो जपन् विश्वं वशयतीत्युपदेशः ।
यदाख्यया स्वयमधिरुह्य तन्मयो लिपिं क्रमाद् ग्रथितनिजार्णमन्मथाम् ।
जपेत् स्वयं वपुषि करे च विन्यसेद् वशीकरं भवति निबद्धमुद्रया ॥ २२-३९ ॥
साध्याख्यायुक्तां क्षोभणीमुद्रां बद्ध्वा जपन् वशयतीत्युपदेशः ।
इत्थं नित्यां ध्यानजपाद्यैरिह नित्यं संसेवन्ते भक्तिभरानम्रधियो ये ।
तेषामग्रे मत्तमयूरा इव नृत्तं कामाः स्वैरं कुर्युरभीष्टार्थमनोज्ञाः ॥ २२-४० ॥ मत्तमयूरा ।
नित्यात्र्यक्षर्ये(का)क्षराधिकारः ।
लिप्यर्णादिर्मन्मथबीजं भुवनेशी मेष क्ष्वेलं सर्गि च (?) नित्यामनुरुक्तः ।
पञ्चार्णोऽयं विश्वजनक्षोभणकारी जाती स्वार्णैर्मानसजप्योऽङ्गविधिः स्यात् ॥ २२-४१ ॥
कामोऽस्यर्षिः सिद्धिलिपिर्दैवतमुक्ता पङ्क्तिश्छन्दो लक्षजपात् सिध्यति मन्त्रः ।
क्षीराज्याभ्यां क्षौद्रयुतं चापि दशांशं हुत्वा लक्ष्मीस्तस्य वशे तिष्ठति नित्यम् ॥ २२-४२ ॥
स्वैक्यं रक्तां लेखनिकापुस्तकपाणिं रक्ताकल्पां चोपरिपाशाङ्कुशहस्ताम् ।
चन्द्रोत्तंसां चारुकपर्दामयुगाक्षीं ध्यायेद् देवीं पीवरयुग्मस्तनकुम्भाम् ॥ २२-४३ ॥
मूलाधारात् कुण्डलिनीपङ्कजलिङ्गं भित्त्वोदीर्णा पङ्कजतन्तुद्युतिसूक्ष्मा ।
या पश्यन्तीमध्यमवैखर्याभिधाना प्रोता यस्यां मौक्तिककल्पा लिपिवर्णाः ॥ २२-४४ ॥
तां भ्रूमध्ये बिन्दुविभेदान्तरमार्गाज्ज्योतिर्लेखां सूक्ष्मरुचिं व्योमनि यान्तीम् ।
ध्यायन् देवीं पद्मशशाङ्कामृततोयैर्नित्याक्लिन्नां तन्मनसा स्याज्जपनिष्ठः ॥ २२-४५ ॥
पश्यञ् शृण्वन् स्पर्शरतिर्घ्रेयपरो वाप्यश्नन् गच्छन् यः प्रलपन् कर्म च कुर्वन् ।
ध्यायन्नेवं मानसजप्याभिरतिः स्यादस्याज्ञायां तिष्ठति विश्वं किमुतान्यत् ॥ २२-४६ ॥
भोगैश्वर्यं वाञ्छति चेत् तत् खलु विन्देद् वागैश्वर्यं वाप्यथ वाचस्पतितुल्यम् ।
योगैश्वर्यं चाष्टगुणं स्यादणिमाद्यं नानैश्वर्यं नेच्छति चेन्मोक्षमपीयात् ॥ २२-४७ ॥
मातृकामालिन्यधिकारः ।
शक्तिः स्वान्तोऽनुग्रहवान् सूक्ष्मयुतोऽग्निः कण्ठी वह्निर्वह्निगतोऽत्रिः स्वयमत्रिः ।
साक्षो वाली तेऽन्तगयोगेश्वरिशब्दो वर्मास्त्रान्ते ठाविति गौरीमनुरुक्तः ॥ २२-४८ ॥
अष्टिश्छन्दस्तावदिमेऽर्णाः खलु मन्त्रे स्वाद्यर्णाभ्यां जातियुताङ्गान्यपि षट् स्युः ।
गौरी देवी दैवतमुक्तास्य मुनिः स्याद् वामो देवः सिध्यति लक्षत्रयजापात् ॥ २२-४९ ॥
अथ शक्वर्यां-
दीक्षामाचार्यान्मनुमपि समवाप्यादौ मूलाङ्गैः स्नात्वा शिवभवनमसम्बाधम् ।
सम्प्राप्यार्घ्याद्यैः शिवमपि च शिवामिष्ट्वा लब्धानुज्ञोऽस्मान्मनुयजनमथातिष्ठेत् ॥ २२-५० ॥
[असम्बाधा ।
पूजागृहद्वाराद् बहिः क्षेत्रपालमुभयतो जयाविजये चोपरि द्वारश्रियं द्वारान्तर्वास्तुपुरुषं च स्वनाम्ना नमोन्तमभ्यर्च्यान्तः प्रविश्य स्वासने आसीनो मौनी नियमितमरुता शुद्धिं कृत्वा, भूतानां तदनु कृतकरन्यासो विन्यस्ताङ्गोऽङ्गैः सकलनिजवपुश्चार्घ्यं त्वापूर्य, इभास्यं वरुणदिशि गुरुणैशे पूजयेत् । तद् यथा- गं गणपतये नम इति गणपतिं, गुं गुरुभ्यो नमः परमगुरुभ्यो नमः । ॐ परमेष्ठिगुरुभ्यो नमः । पूर्वाचार्येभ्यो नमः । पूर्वसिद्धेभ्यो नमः । योगिनीभ्यो नमः । योगिनीभ्य इत्यभ्यर्च्य, मध्ये कल्पकवृक्षाय नमः । तस्याधो रत्नसिंहासनाय नमः । इम् आधारशक्तये नमः । उं कूर्माय । अम् अनन्तासनाय । ऋं धर्माय । ॠ ज्ञानाय । प्। ८९) ऌ वैराग्याय । ॡ ऐश्वर्याय । कं कन्दाय । नं नालाय । हां पद्माय । सं केसरेभ्यः । हं कर्णिकायै क्षं पत्रेभ्यः । इति नेमान्तमभ्यर्च्य, ॐ सां प्रभायै । ॐ सीं ज्ञानायै । ॐ सूं वाचे । ॐ सें वागीश्वर्यै । ॐ सैं ज्वालिन्यै । ॐ सों वामायै । ॐ सौं ज्येष्ठायै । ॐ सं रौद्र्यै । ॐ सः (गौं?) गौरीमूर्तये । इति दलाग्रेष्वष्टशक्तीर्नवमीं कर्णिकायामभ्यर्च्य मूलेन देवीं ध्यात्वावाहयेत् ।
अचिररुचिरुचिं प्रभामयविग्रहां
सकलशशिमुखीं त्रिलोचनसुन्दरीम् ।
अभयवरकरां धृताङ्कुशपाशिनीं
विधृतशशिकलां स्मरेदपराजिताम् ॥ २२-५१ ॥ अपराजिता ।
दिक्ष्वङ्गानि विदिक्ष्वस्त्रं विन्यस्य नयनं पुरः ।
केसराग्रेषु दिक्ष्वेता वेदशक्तीर्दलाग्रग्राः ॥ २२-५२ ॥
स्वां(?) सुभगायै । स्वीं(?) ललितायै । सूं कामिन्यै । सें काममालिन्यै । तथा कोणदलाग्रेष्वनङ्गरूपादिशक्त्यष्टकं द्वन्द्वशोऽर्चयेत् । अनङ्गरूपायै अनायै । मदनातुरायै पवनवेगायै । भुवनपालिन्यै सर्वशिशिरायै । अनङ्गमदनङ्गमदनायै अनङ्गमेखलायै ।
बहिरिह वृतिगा भवन्ति हि मातरस्तदनु दिगधिपाः पुरन्दरपूर्वकाः ।
स्वगणपरिवृताः सहायुधवाहना वृतिषु पृथगिमान् यजेन्निजनामभिः ॥ २२-५३ ॥
सुभगायै नमः इत्यैशान्यां निर्माल्यधारिणीमर्चयेत् । (लुपजाशैहि?सुभगायै) विद्महे । काममालिन्यै धीमहि । तन्नो गौरी प्रचोदयात् । इत्यनया गौरीगायत्त्र्या शक्तिबीजेन चोपचारैरर्चयेत् ।
कुसुमपरिमलैः सुगन्धिविलेपनैरगरुपुरधृतैः सुधूपकदीपकैः ।
मधुररसभरैः फलैरपि मोदकैर्यजतु भगवतीं तथा घृतपायसैः ॥ २२-५४ ॥
नवकनकनिभां श्रियै धृतपङ्कजामभयवरकरां निधिद्वयसेविताम् ।
स्मरतु समुकुरां धृताञ्जनतूलिकां कनकहरिधृते सरोजवंरासने ॥ २२-५५ ॥
वसुभुजविधृतैररिदरकुलिशैर्गुणमपि धनुषा शरमसिफलके ।
सममिह दधतीं दितिसुतमथनीं प्रहरणकलितां स्मररिपुविजये ॥ २२-५६ ॥ प्रहरणकलिता ।
वसुदलकमले सुनिहितकलशे सविधिकविभवं यज गिरितनयाम् ।
दशशतदशकं कृतजपहवनैः स्नपयतु नृपत्तिं स भवति विजयी ॥ २२-५७ ॥
जपहुतयजनैरनुदिनमिहं यो भजति हि गिरिजां त्रिभुवनवरदाम् ।
स भवति भुवने बहुधनपशुमान् क्षितिगृहतनयैश्चिरमपि रमते ॥ २२-५८ ॥
हुतवहवदने यदि शिवदयितां घृतमधुपयसा नवसितकमलैः ।
पयसि च चरुणा प्रयजति नचिराद् दशदशशतकं स भवति धनवान् ॥ २२-५९ ॥
अश्वत्थजाश्च वटजा द्विजराजवश्ये
त्वौदुम्बरीः खदिरजाः समिधः सहस्रम् ।
विट्शूद्रयोर्लवणतण्डुलकैः स्त्रियो वा
काले वसन्ततिलके मधुरैर्जुहोतु ॥ २२-६० ॥ वसन्ततिलकम् ।
स्वाद्वक्तरक्तकुसुमैर्वशयेत् समस्तं नन्द्यादिवर्तहवनाल्लभते तनूजान् ।
रक्तोत्पलैरपि च वेतसजाभिरिष्टां वृष्टिं पशूंश्च पयसाथ तिलैश्च सर्वम् ॥ २२-६१ ॥
क्षुद्रेष्वरुष्करविभीतकतीक्ष्णतैलैर्बिल्वाज्यपायसतिलैरपि राज्यलक्ष्मीम् ।
दूर्वापयस्तिलघृतैर्हवनात् तथायुर्नीरोगतां च लभते स्म जलाभिषेकात् ॥ २२-६२ ॥
वामोरुवह्निपुरसम्पुटमध्यशक्तौ साध्याह्वयं विलिखितं निशया निशायाम् ।
मन्त्रं विधाय जपतस्तु करेण रामा वामेन सा समभियात्यपरेण चान्या( म्?) ॥ २२-६३ ॥
सिंहोन्नतं समधिरुह्य रथं घनाभां शङ्खारिचापशरवज्रगदात्रिशूलम् ।
खड्गं च चर्म दहनं दधतीं त्रिणेत्रां स्वैक्यं स्मरञ् जपतु भीतिषु निर्भयः स्यात् ॥ २२-६४ ॥
[वसन्ततिलकमेव, सिम्होन्नतमित्यन्ये ।
ताम्बूलिकालिखितनामबहिष्ठशक्तेः पाशाङ्कुशावृतिरसाश्रिगताङ्गषट्के ।
स्यात् स्वस्तिकं निशि जपेल्लिपिशक्तिपाशान् दीपेऽङ्कुशं च तपनादुपयात्यभीष्टम् ॥ २२-६५ ॥
शक्तिस्थिराह्वयचतुर्दिशि वेदबीजैः शक्तिस्मराङ्कुशलिपिक्रमपाशवृत्ते ।
प्राङ्भिश्च पिष्टमयपुत्तलिके सजीवे लेख्यं प्रभज्य मधुरेष्वदतो वशे स्यात् ॥ २२-६६ ॥
गौरीविधानाधिकारः ।
अथ महाशक्तिरुच्यते-
शक्ति नमो ब्रह्मशब्दो राजश्रीपूजितेति च ।
षागभूमिटेगशे विगशेध (?) गौरि गान्धारि त्रिभुवनशङ्करि सर्वलोकवशङ्करि सर्वस्त्रीपुरुषवशङ्करि सुदुहे वाक् वाक्कामाय ठठ ।
अजोऽस्यर्षिरतिनिचृच्छन्दो गौरी (च) देवता ॥ २२-६७ ॥
मनुदिग्वसुवस्वाशारुद्रसङ्ख्यैर्निजाक्षरैः ।
अङ्गानि षड् भवन्त्यस्याः सिध्येत् प्रागयुतं जपात् ॥ २२-६८ ॥
अतिशक्वर्याम्-
अमृतजलनिधिपुलिनभुवि कमले विविधसुरतरुकुसुमचयसुरभौ ।
अरुणमणिरुचिममृतकिरणमुखीं वरचिहुरभरकलितशशिशकलाम् ॥ २२-६९ ॥
[शशिकला, चन्द्रावर्तेत्यन्ये ।
धृतपाशाङ्कुशां गौरीं रक्ताकल्पां त्रिलोचनाम् ।
पीनोत्तुङ्गस्तनीं दिव्यरूपामावाह्य पूजयेत् ॥ २२-७० ॥
अङ्गैर्मातृभिराशेशैरायुधैश्च वृतित्रये ।
उपचारैः स्वबीजाभ्यां नित्यमिष्ट्वा शतं जपेत् ॥ २२-७१ ॥
मधुरमिलितचरुसितकमलयुतं मनुहुतभुजिहुतमिह विभवकरम् ।
जपदशशतमुषसि यदि स कुरुते स्रजमलिततिरिव तमनुसरति मा ॥ २२-७२ ॥
[माला, स्रगित्यन्ये ।
मधुराक्तैस्तु जुहुयात् सलोणतिलतण्डुलैः ।
वशयेत् पुरुषान् सर्वान् स्त्रियश्चाभीष्टमश्नुते ॥ २२-७३ ॥
प्रतिदिनमुदयति गलमितसलिले सवितरि भगवति नियमितमनसा ।
प्रयजतु जपरतिरगपतितनयां श्रियमुपगमयति मणिगुणनिकरैः ॥ २२-७४ ॥
[मणिगुणनिकरः ।
वादित्रावस्थितां देवीं ध्यात्वाराध्य शतं जपेत् ।
पूर्वाह्णे यं समुद्दिश्य स स वश्योऽस्य जायते ॥ २२-७५ ॥
वर्णादर्वाक् साध्यनाम कर्मयुक्तं प्रयोजयेत् ।
वश्यकर्मणि जप्यादौ सद्यः सिद्धिः प्रजायते ॥ २२-७६ ॥
इति निजमनुभेदान्मूर्तिभेदैरुपास्या
स्फुरति जगति गौरीशक्तिरेकैव नित्या ।
दिशति च फलमिष्टं मातृकामालिनीयं
निखिलदुरितशान्तिं कुर्वती पार्वती वः ॥ २२-७७ ॥ मालिनी ।
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे नित्यादिपटलस्त्रयोविंशः ॥ २३ ॥