२२

अथ द्वाविंशः पटलः ।

शङ्करेण विजयस्य तपोभिस्तोषितेन वरदेन वनान्ते ।
या किरातवपुषा सह गौरी स्वागता जयति सा त्वरिताख्या ॥ २२-१ ॥ स्वागता ।

तारं सार्धेन्दुकवचं सोष्ठश्चण्डोऽथ कच्छपः ।
हरान्तवानेकनेत्रः सर्गी संवर्तकाह्वयः ॥ २२-२ ॥

वामाक्षाग्न्याषढी शुक्लं सार्घि खं दण्ड्यथोष्ठगः(?) ।
क्रोधः फट् च दशार्णा स्यात् त्रोतला त्वरितापि च ॥ २२-३ ॥

ऋषिः किरातरुद्रोऽस्याः पङ्क्तिश्छन्दश्च देवता ।
पार्वती शबरीवेषा ध्येया लक्षेण सिद्धिदा ॥ २२-४ ॥

तारतः पुरमितं पुरतोऽस्त्राच्छक्तिबीजमुभयत्र यथा स्यात् ।
द्वादशार्णकलिता खलु सिद्धिं तूर्णम्मेव दिशति त्वरितातः ॥ २२-५ ॥

वर्मतः परमवागपि चास्त्रान् स्वार्णसप्तकयुगार्णविभागात् ।
स्यात् षडङ्गरचनापि च पूर्वः सोत्तरार्णकलितोऽत्र यथा स्यात् ॥ २२-६ ॥

अत्रेति सोष्ठचण्डे कूर्माभ्यां हृदयम्, कूर्मोक्तस्वरैकनेत्राभ्यां शिरः । यथोक्तैकनेत्रकोपाभ्यां शिखा । उक्तकोपोक्तभृगुभ्यां कवच, भृग्वाकाशाभ्यां यथोक्ताभ्यां नेत्रत्रयम् । उक्ताकाशसंवर्तकाभ्यामस्त्रम् । सर्वाअणि स्वजातियुक्तानीत्युपदेशः ।

दीक्षितोऽथ गुरुणोदितमन्त्रः साङ्गमूलमनुभिः स्नपिताङ्गः ।
विन्यसेत् तु करयोश्च तदङ्गैर्ज्येष्ठिकान्तमुभयोश्च तलेऽस्त्रम् ॥ २२-७ ॥

मूलेन व्यापकं विन्यस्य प्रणीतां बध्नीयात् ।

सम्मुखाश्लिष्टयोः पाण्योः साङ्गुष्ठे तर्जनी पृथक् ।
ऊर्ध्वं व्यवस्थिते कृत्वा वलिताग्रे च मध्यमे ॥ २२-८ ॥

मध्योपरिगतेऽनामे तदूर्ध्वस्थे कनिष्ठिके ।
निबध्य हवसंस्थानं प्रणीता स्यात् फणाकृतिः ॥ २२-९ ॥

मुद्रया स्पृशतु सर्वशरीरं स्वैक्यमर्पितधिया स्वभिषिक्तः ।
मुद्रया पुनरपि स्पृशतु स्वं देहमत्र परिधाय च वासः ॥ २२-१० ॥

त्वरिताविद्यायै विद्महे त्रोतलाविद्यायै धीमहि, तन्नस्तूर्णा प्रचोदयात् ।
अनया त्वरितागायत्र्या देवीं सन्तर्प्य परिवारांश्च स्वनामभिः,

यागभूमिमभिगम्य तु मौनी धौतपाणिचरणः शुभतोयैः ।
चोदिताचमनकृत् परितोऽस्मिन्नस्त्रवप्ररचनाकृतरक्षः ॥ २२-११ ॥

क्षेत्रपालमपि वास्तुपमिष्ट्वा स्वासने समुपविश्य तु मौनी ।
भूतशुद्धिमपि भावविशुद्धिं भावयेदखिलभूतहितार्थाम् ॥ २२-१२ ॥

करन्यासं कृत्वा बद्धमुद्रो न्यस्ताङ्गमन्त्रः स्वस्थाने स्वार्णान् मूर्ध्नि ललाटे कण्ठे हृन्नाभिगुह्योरुजानुजङ्घाङ्घ्रिषु विन्यसेत् ।
अथ स्वैक्येन देवीं ध्यायेत् । कृत्वात्मशुद्धिं पश्चाद् बाह्यपूजा कुर्याद्, ध्यानं च ।

श्यामलां भ्रमरबर्बरकेशीं गुञ्जदामचितहेमकिरीटाम् ।
शारदेन्दुवदनां त्रिदृशं तां तुङ्गपीवरकुचां तनुमध्याम् ॥ २२-१३ ॥

स्वंसचारुसुकुमारभुजस्रक्कन्दलीसुरुचिराङ्गुलिपाणिम् ।
सूरजानुचरणाम्बुजयुग्मां सर्वकान्तिसमवायसुरूपाम् ॥ २२-१४ ॥

विप्रराजवणिगन्त्यजनागैः कर्णबाहुकटिपादविभूषाः ।
बिभ्रतीं वनजमाल्यविशेषैर्भूषितां किसलयांशुकिनीं ताम् ॥ २२-१५ ॥

बर्हिपिञ्छवलयां च मयूरच्छत्रचामरयुगध्वजयुक्ताम् ।
चिन्तयन् शबरिकापरिवारां स्वैक्यतोऽर्चनविधावपि बाह्ये ॥ २२-१६ ॥

सकृदपि निगदितरूपाद्यां स्मरति ह यजति च गौरीं यः ।
स्वभिमतमिह यदसौ विन्देद् वरफलमिव पतितं वृन्तात् ॥ २२-१७ ॥ वृन्ता ।

अथ हिमगिरितटभुविचिन्त्यं सुरुचिरमुरुतरमुद्यानम् ।
स्थलमपि मणिमयमस्यान्तर्वसुहरिधृतरुचिरं पीठम् ॥ २२-१८ ॥

शक्तिमस्य मध्यतस्तु धारिणीं विद्रुमद्रवद्युतिं विचिन्तयेत् ।
पत्रजालशोभितं तदुत्थितं श्येनिकोद्गमोपमं च पङ्कजम् ॥ २२-१९ ॥ श्येनिका ।

सूर्यसोमवह्निमण्डलैः क्रमाद् ब्रह्मविष्णुरुद्रदैवतैश्च तैः ।
पत्रकेसरालिकर्णिकागतैः स्वाख्ययात्र पूजयेन्नमोन्तकम् ॥ २२-२० ॥

अथ जगत्यां-

ततोऽम्बराम्भोरुहचन्द्रपङ्कजे दलाग्रवंशस्थकलामृतस्रुतौ ।
चितिं लसत्तारकसक्रमद्युतिं सशक्तिपुष्पाञ्जलियोजितां स्मरेत् ॥ २२-२१ ॥ वंशस्थम् ।

सहाङ्गमूलं मनसा जपन् क्रमाद् यथोक्तरूपां त्वरितां विचिन्तयेत् ।
तथा समावाह्य पुरोऽर्चिताम्बुजे हृदा स्थिरीकृत्य तु सन्निधापयेत् ॥ २२-२२ ॥

शिरसा सन्निरुध्य मूलेन प्ररोप्यामृतीकृत्य कवचेनावकुण्ठ्य हृदयेनार्घ्यपाद्याचमनानि दत्त्वा,

यजेत् तदङ्गान्यरुणानि षट् क्रमात् सुरेन्द्रपत्रादिषु रूपतः स्त्रियः ।

धनेश्वरेशानदलद्वये त्विमे

गायत्र्यै नमः । प्रणीतायै नमः ।

तथाष्ट शक्तीस्तु दलाग्रगाः पुनः ॥ २२-२३ ॥

हुं रावायै खेचर्यै चण्डायै छेदिन्यै क्षेपण्यै स्त्रियै हुङ्कार्यै क्षेमकारिकायै ।

इमास्तु लोकाधिपवर्णवाहनास्तदायुधाः सप्त यजेदथाष्टमीम् ।
सुभीषणां शूलकपालधारिणीं सजानुहस्तोत्थितविग्रहां भुवम् ॥ २२-२४ ॥

ज्वलत्त्रिणेत्रोग्रमुखीं दिगम्बरां सभूतविघ्नारिभयार्तिनाशनीम् ।
इति स्मरेत् क्षेमकरीं स्वनामभिः सशक्तिबीजादिनमोन्तकैस्तु ताम् ॥ २२-२५ ॥

पुरस्तु फट्कारिणिकां धनुर्धरां रसस्य वामे गुलिकां च बिभ्रतीम् ।
सहेमवेत्रां विजयां जयां तथा सुभूषिते द्वारि बहिःस्थिते यजेत् ॥ २२-२६ ॥

किङ्कर! रक्ष त्वरिताज्ञां स्थितो भव फट् ।
अनेन कृष्णं किङ्करं बहिः सुमण्डितं दण्डधरं तु बर्बरम् ।

लकुलिने नमः । इति किङ्करस्य चेटं कान्तां तादृशमर्चयेत् ।

यजेच्च लोकाधिपतीन् स्वदिग्गतान्
निर्माल्यधारिण्यै चण्डायै नमः ।
अनेन चण्डामपि चेशदिग्गताम् ॥ २२-२७ ॥

सर्वान् स्वनामभिः नमोन्तकमभ्यर्च्य देवीं षोडशोपचारैः परिवारान् पञ्चोपचारैर्यथाविभवमर्चयेत् ।

विचित्ररक्ताम्बरगन्ध * * * * * पुष्पाक्षतमाल्यदर्पणैः ।
सधूपदीपैर्मधुमूलपायसैर्गुलान्नशुद्धान्ननवाज्यमोदकैः ॥ २२-२८ ॥

इष्ट्वा निवेद्य शीताम्बुताम्बूलाद्यं च भक्तितः ।
निवेद्यशेषमध्वाज्यतिलैः पुष्पैस्तथानले ॥ २२-२९ ॥

देवीमावाह्य जुहुयात् पञ्चविंशतिसङ्ख्यया ।
गायत्र्या चापि मूलेन नित्यमङ्गैर्दशांशतः ॥ २२-३० ॥

बलिं च तत्पार्षदकिङ्करान्तकं विकीर्य वह्नेः पुरतोऽन्नशेषतः ।
समाप्य तत्कर्म विसृज्य चानलं ततः समाचम्य जपेज्जपस्रजा ॥ २२-३१ ॥

शक्तिपटलोक्तमार्गेण चुलुकोदकेन पूजाजपादिकं देवीपादाम्बुजे निवेदयेत् ।

प्रणम्य नृत्तस्तुतिगीतवादितैर्यथोपपत्त्या परितोष्य पार्वतीम् ।
निरञ्जने गच्छ लयं ठयुग्मवत् समूलमुच्चार्य हृदि प्रवाहयेत् ॥ २२-३२ ॥

ध्यानादिना यस्त्वरितां तु नित्यशः शक्त्या यजेद् वा हृदयाम्बुजे धिया ।
तस्येन्द्रवंशानुगुणश्रियो यथा वंशेऽपि नित्याः स्युरशेषसम्पदः ॥ २२-३३ ॥ इन्द्रवंशा ।

धननित्यपूजाधिकारः ।

कुण्डे तु योनिप्रतिमे तु मान्त्रिके वह्नौ समावाह्य यथावदम्बिकाम् ।
सम्पूज्य हुत्वा मधुरैः समीहितान् लक्षेण कामानभिविन्दते फलान् ॥ २२-३४ ॥

धान्यैर्धनं कृष्णतिलैरभीप्सितं कुन्दैर्नवैश्चम्पकबिल्वपङ्कजैः ।
लक्ष्मीं च राज्यं लभते मधुप्लुतैर्हुत्वा मधूकैः कुसुमैः समीहितान् ॥ २२-३५ ॥

पुष्टिं च गोधूमयवैस्तथोत्पलैर्जम्बूसमिद्भिर्धनधान्यसम्पदः ।
सिद्धार्थकैरीतिहरं तु तण्डुलैरारोग्यमिष्टागमनं तथेक्षुभिः ॥ २२-३६ ॥

हुत्वा तु माषैरिह मूकतां रिपोरक्षैर्भ्रमः कोद्रवकैर्गदागमः ।
स्याच्छल्मलीभिः सविषैस्तु मारणं तां कृष्णवर्णां प्रविचिन्त्य भीषणाम् ॥ २२-३७ ॥

क्षोभः पुरस्यापि भवेत् सुमल्लिकैर्हुत्वा स्त्रियः पाटलकैरवाप्नुयात् ।
आम्रैस्तदायुः कुमुदैर्वशीकरं पुत्रानशोकैर्मधुराज्यमिश्रितैः ॥ २२-३८ ॥

होमविधिः ।

द्रुतमपीह न मन्त्रमुदीरयेद्धुतविधौ च (न?) तथैव जपादिके ।
न च बिलम्बितमिष्टमतः सदा द्रुतबिलम्बितमेव हि सिद्धिदम् ॥ २२-३९ ॥ द्रुतबिलम्बितम् ।

सितरजोरुचिते त्वथ मण्डले विकिरसम्मितयोनिनिभे क्रमात् ।
दशदिशालिखितत्वरिताक्षरे स्वभिनवान् कलशान् दश विन्यसेत् ॥ २२-४० ॥

हुरावादिभिरापूर्य कलशान् नवशक्तिभिः ।
क्रमेण दशमं मध्ये देव्या मूलेन पूरयेत् ॥ २२-४१ ॥

हिरण्यरत्नकुसुमफलगन्धकषायकैः ।
आपूर्य पनसाश्वत्थचूतबिल्वदलोत्तरान् ॥ २२-४२ ॥

सितसूक्ष्माम्बरच्छन्नान् माल्यपुष्पाद्यलङ्कृतान् ।
यथावदर्चयेत् सम्यक् त्वरिताशक्त्यधिष्ठितान् ॥ २२-४३ ॥

अथाग्नौ त्रिशतं मूलेन हुत्वा पृथक् पृथक् दशाहुतीरङ्गैर्नवशक्तिभिश्च दश दश हुत्वा तिलैश्चरुणा च,

समधिवास्य च शिष्यमुपोषितं निशि रवावुदिते कलशैः क्रमात् ।
तमभिषिच्य तु मान्त्रिकदीक्षया त्वरितया विधिवत् सह योजयेत् ॥ २२-४४ ॥

स गुरवे विनिवेद्य तु दक्षिणां निजशरीरधनैरपि तोषयेत् ।
अथ जपेद् गुणलक्षमिमं मनुं भवति सिद्धमनुः खलु शक्तिमान् ॥ २२-४५ ॥

दीक्षाधिकारः ।

वररागभवैर्धृतमानमिदं शुभताम्रमतो रजतं कनकम् ।
द्रुतमेकतया त्वथ तत्कृतया ग्रहतोटककृत् खलु मुद्रिकया ॥ २२-४६ ॥ तोटकम् ।

त्वरितया लक्षाज्यहोमजपसाधितया । अङ्गुल्या धृतयेति यावत् ।

धृतया तु तया खलु भूतगणानभिचारभयं भुजगान् सविषान् ।
अवलोकितयापि हरेत् स्ववशान् कुरुते च लुनाति निहन्ति च तान् ॥ २२-४७ ॥

सङ्ख्याशक्तेर्बहिः पद्मदशपत्रस्थिताक्षरैः ।
षट्चतुष्कोणगं लेख्यं चक्रं तच्चेष्टदं धृतम् ॥ २२-४८ ॥

प्राचीनोदीच्यतिग्मांशुरेखाः करककोष्ठके ।
रेखाग्रजम्भशूलाढ्ये चक्रे भूर्जादिकेऽर्पिते ॥ २२-४९ ॥

मध्ये सञ्ज्ञां तु कोणेषु तारं फट् दिक्षु मध्यतः ।
कोणे तारादिमन्त्राणां तत्फडन्तान् यथा तथा ॥ २२-५० ॥

संलिख्य तत्रोभयथा दिक्षु मूलाष्टकं भवेत् ।
विंशतिः प्रणवास्तस्मिन् भवन्ति श्रुतिकोणगाः ॥ २२-५१ ॥

सर्वकोष्ठेषु नामार्णान् क्रमादेकैकशो लिखेत् ।
जपहोमार्चितं चक्रं धृतं सर्वग्रहार्तिजित् ॥ २२-५२ ॥

त्रोतलाचक्रम् ।

अथवात्र चतुष्कोणप्रणवानां चतुष्टयात् ।
लेख्या पुरोवत् त्वरिता सञ्ज्ञार्णसहिता क्रमात् ॥ २२-५३ ॥

एतत् तु त्वरिताचक्रं ग्रहभूतनिवारणम् ।
दशार्णस्य मनोरस्य द्वितीयं च तृतीयकम् ॥ २२-५४ ॥

षष्ठं च वर्णमुद्धृत्य सिध्येन्मन्त्रस्त्रिकण्टकी ।
शिरोललाटास्यहृत्सु नाभिगुह्योरुजानुषु ॥ २२-५५ ॥

अङ्घ्रयोश्च त्वरितावर्णान् मुक्ततारान् नव न्यसेत् ।

शरदस्ररसैर्वसुनन्दपरैर्निजजातियुतस्त्वरिताक्षरकैः ।
षडपीह तदङ्गमनून् रचयेद् गुणलक्षजपेन तु सिद्धिमियात् ॥ २२-५६ ॥

चरणादसितामपि नाभितटादथ चागलकं नवयावकभाम् ।
शशिशुभ्रमुखीं च गलात् परतो धृतचन्द्रकलां जटिलां त्रिदृशम् ॥ २२-५७ ॥

उदरेवदनैरसितैर्भ्रकुटीकुटिलैर्भयदैः सितदंष्ट्ररदैः ।
अहिभूषणकैरपि वेदमितैर्वमदग्निशिखैः परितोऽपि युताम् ॥ २२-५८ ॥

सितशङ्खमरिं त्वथ दीपयुगं दधतीं च भुजैः सममूर्ध्वमधः ।
इति शैलसुतां तु निजैक्यगतामभिचिन्त्य जपादिकमिष्टकरम् ॥ २२-५९ ॥

स्वैक्यं त्रिकण्टकीं ध्यात्वा मुद्रां बद्ध्वा त्रिशूलिनीम् ।
जपन् वीक्ष्य ग्रहग्रस्तान् नश्यन्त्याविश्य ते क्षणात् ॥ २२-६० ॥

त्रिकण्ठकीरूपं रुद्रं स्वैक्यं ध्यात्वा ग्रहादीन् हरेदिति कचित् ।

अथ वास्य मनोर्मुनिवर्णमयं नवमार्णपुटं प्रजपेद् युवतीः ।
गुणलक्षमथो वशयेद् यदि तत् त्रिशतं शयने निशि कर्षणकम् ॥ २२-६१ ॥

एतदभिमन्त्रितपुष्पादिदानाद् वश्याः स्युः स्त्रियः ।
तृतीयपञ्चमार्णाभ्यां सम्पुटं षष्ठमक्षरम् ॥ २२-६२ ॥

स्वैक्यं जपंस्त्रोतलया स्मृत्वा हन्त्यखिलं विषम् ।
अथाखिलविधिच्छिद्रं पूरणं त्वरितामनोः ॥ २२-६३ ॥

ॐ सर्वरक्षाकरं ज्ञेयं त्वरितापञ्जरं यथा ।
हुंरावा मस्तके मेऽस्तु गलेऽस्तु मम खेचरी ॥ २२-६४ ॥

चण्डा च हृदये मेऽस्तु छेदिनी चोदरेऽस्तु मे ।
अस्तु मे क्षेपणी कट्यामूर्वोः स्त्रीसञ्ज्ञितास्तु मे ॥ २२-६५ ॥

जान्वोर्ममास्तु हुङ्कारी क्षेमकार्यस्तु जङ्घयोः ।
फट्कारी पादयोर्मेऽस्तु सर्वाङ्गेषु जयास्तु मे ॥ २२-६६ ॥

विजया सर्वतत्त्वेषु ममास्तु विजयावहा ।
एवमुच्चारयन् ध्यायंस्तत्तदङ्गं स्पृशाम्यहम् ॥ २२-६७ ॥

ॐ ब्रह्माणी पुरतो मेऽस्तु पृष्ठे माहेश्वरी मम ।
पार्श्वयोर्मेऽस्तु कौमारी वैष्णवी चोर्ध्वतोऽस्तु मे ॥ २२-६८ ॥

जले रक्षतु वाराही स्थलेन्द्राणी स्थितावतात् ।
सर्वतोऽस्तु स्थिता चर्चा चामुण्डा रक्षताच्च माम् ॥ २२-६९ ॥

पर्वताटविदुर्गादौ रक्षिणी मेऽस्तु चण्डिका ।
वज्रिणी पूर्वतोऽमेऽस्तु स्थिताग्नेयेऽस्तु शक्तिनी ॥ २२-७० ॥

दण्डिनी दक्षिणे मेऽस्तु खड्गिनी मेऽस्तु नैर्-ऋते ।
पाशिनी वारुणे मेऽस्तु वायव्ये ध्वजिनी स्थिता ॥ २२-७१ ॥

गदिनी मेऽतु कौबेरे तथैशानेऽस्तु शूलिनी ।
चाक्रण्यधोगता मेऽस्तु पद्मिन्यस्तु ममोर्ध्वगा ॥ २२-७२ ॥

लोकेशायुधरूपा मां सदा रक्षन्तु शक्तयः ।
मां पातु दिक्षु त्वरिता त्रोतला च विदिक्षु माम् ॥ २२-७३ ॥

ऊर्ध्वाधः पातु मां तूर्णा सदाव्यान्मां त्रिकण्ठकी ।
त्वरितापञ्जरस्थोऽहं विद्यया परिरक्षितः ॥ २२-७४ ॥

न कुतश्चिद् भयं मेऽस्ति ततोऽस्मान् पातु पार्वती ।
यदन्यरक्षा कर्तव्या पञ्जरस्य जपं तदा ॥ २२-७५ ॥

मांशब्दविषये योज्यस्त्वांशब्दः सर्वतो भवेत् ।

त्वरितापञ्जराधिकारः ।

अचिररुचिलताभां त्रोतलाख्यां स्मरति यदि सुजातां कुण्डलिन्याः ।
कमलपुटमुपेतां द्वादशान्ते स्रवदमृतरसार्द्रां मुक्तिमेयात् ॥ २२-७६ ॥ पुटः ।

पुनरपि गगनाब्जान्मूलपद्मं त्वरितमिव समेता ब्रह्मनाड्या ।
व्रजति च पुनरूर्ध्वं ज्योतिरार्द्रा दिशति सकलसिद्धीः संस्मृतैवम् ॥ २२-७७ ॥

जगति निखिलमन्त्राः साधकानां विदधति फलमिष्टं कालपाकात् ।
प्रदिशति खलु तूर्णा तुर्णमिष्टं यदिति भवति सार्थं नाम चास्याः ॥ २२-७८ ॥

जलोद्धतगतिं यथा त्रिपथगां विगाह्य दुरितं प्रयाति विलयम् ।
भवेच्च सुकृतैः सुखं च सुलभं तथा त्वरितया जनस्य भजतः ॥ २२-७९ ॥ जलोद्धतगतिः ।

अयं नोपदेश्यो मनुस्त्रोतलाया भुजङ्गप्रयातात्मने नास्तिकाय ।
प्रदेयः स्वभीष्टार्थदायापि राज्ञे सुपुत्राय वा श्रद्दधानाय नित्यम् ॥ २२-८० ॥ भुजङ्गप्रयातम् ।

इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे त्वरितापटलो द्वाविंशः ॥ २२ ॥