२१

अथ एकविंशः पटलः ।

जयति हि शिवशक्तिरैश्वरी निखिलगिरां जगतां च मातृका ।
न परमपरवक्त्रजन्मना नुतिवचसामपि यत् परं पदम् ॥ २१-१ ॥ अपरवक्त्रम् ।

प्रथमपटल एव शक्तिबीजं निगदितमाद्यमितीह विश्वरूपम् ।
सुरतरुलतिकेव पुष्पिताग्रा फलति हि यद्विततिः समस्तकामान् ॥ २१-२ ॥

ऋषिमपि चेश्वरमाहुर्गायत्र्याख्यं भवेदपिच्छन्दः ।
शक्तिः स्वयं हि दैवं तद्बीजं बिन्दुनादयुक्तं स्यात् ॥ २१-३ ॥

युतमिह गगनं स्वरैस्तु दीर्घः षडति च जातियुताः स्युरङ्गमन्त्राः ।
नयनमपि पुरोऽस्त्रमन्त्रतः स्यात् फडिति च दिक्षु निबन्धनं विदध्यात् ॥ २१-४ ॥

भवति हि भुवनाधिपाप्लुतान्ता त्रिभुवनमोहनिका तु शक्तिरेषा ।
हृदयकमलगापि नादहीना स्वरुणरुचिर्हृदयान्विता च लेखा ॥ २१-५ ॥

त्रिविधमिति ह शक्तिबीजमुक्तं प्रणवयुतं क्वचिदर्चने नमोन्तम् ।
हवनविधिषु चानलप्रियान्तं जपविषये खलु केवलं तु बीजम् ॥ २१-६ ॥

चिरतरमभिराद्धदेशिकेन्द्रस्तदभिमतप्रियकृच्च दीक्षितः सन् ।
स्वभिमतदिवसेऽथ पूर्वपक्षे शिवभवने सुमनोहरैकलिङ्गे ॥ २१-७ ॥

गजमुखमपि देशिकं स्वमिष्ट्वा सितभसितावरणत्रिपुण्ड्रधारी ।
व्रतमितविहिताशनस्तु मौनी शुचिवसनः शुचिदक्षिणाननस्थः ॥ २१-८ ॥

शिवमपि शिवया महोपचारैः सह परिवारगणं यथावदिष्ट्वा ।
चरुमपि विनिवेद्य दुग्धसिद्धं घृतगुलमिश्रितमग्नये च हुत्वा ॥ २१-९ ॥

प्रजपतु बहुलाष्टमीदिनाद्यादपरचतुर्दशिकान्तमर्कलक्षम् ।
द्रुतमपि न विलम्बितं प्रशस्तं स भवति तत्त्वदिनैस्तु सिद्धमन्त्रः ॥ २१-१० ॥

पुरश्चरणाधिकारः ।

स्फुटमथ कथयामि शक्तिपूजां विविधविधानविशेषसिद्धिहेतोः ।
स्नपिततनुरथाङ्गमूलमन्त्रैः स्वविहितसाध्यविधिं समाप्य मौनी ॥ २१-११ ॥

यजनगृहमुपैतु धौतपादः स विधिकृताचमनः पवित्रपाणिः ।
करधृतकुसुमार्घ्यकूर्चतोयैर्वलयगतां पुरतो यजेत्तु देवीम् ॥ २१-१२ ॥

दक्षिणवामद्वाःस्थे जया च विजया च रक्तपीताभे ।

तद्यथा-

वेत्रकरे वसनस्रक्स्वाभरणैर्भूषिते सुरूपाढ्ये ॥ २१-१३ ॥

तद्वदुपर्यथ गङ्गा यमुना च सितासितेऽब्जधारिण्यौ ।
द्वारश्रीरपि मध्ये स्वर्णाभा पद्मिनी सगजयुग्मा ॥ २१-१४ ॥

सम्पूज्यैताः पूर्वं नाराचास्त्राभिमन्त्रितं कृत्वा ।
निस्सार्य विघ्नसङ्घानन्तः प्रविशेद् यजेच्च वास्त्वीशम् ॥ २१-१५ ॥

स्वासनमिष्ट्वानन्तरमुपविष्टो भूतशुद्धिशुद्धात्मा ।
करयुगमथ शोधयेत् तदस्त्रादुभयकराङ्गुलिषूदिताङ्गमन्त्रात् ।
करतलयुगले न्यसेत् तदस्त्रं प्रणवयुतं क्रमशः कनिष्ठिकान्तम् ॥ २१-१६ ॥

शिरशि च नयनद्वये च वक्त्रे श्रवणयुगे हृदये च नाभिकट्योः ।
मदननिलयजानुजङ्घयोस्तच्चरणयुगेऽपि च विन्यसेत् तु मूलम् ॥ २१-१७ ॥

हृल्लेखायै गगनायै रक्तायै करालिकायै महोच्छुष्मायै । प्रणवादिनमोन्तं न्यसेत् ।

मूर्ध्नि मुखे हृदि गुह्ये पदयोरपि पञ्च मूर्तयो ह्येताः ॥ २१-१८ ॥

गायत्र्यै सावित्र्यै सरस्वत्यै ब्रह्मणे विष्णवे रुद्राय ।
कण्ठस्तनद्वयांसद्वयहृदयेषु न्यसेत् पुनस्त्वेताः ।
षण्मूर्तीः प्राग्वामे पश्चादङ्गेषु दक्षिणेषूक्ताः ॥ २१-१९ ॥

अलिकांसवामपार्श्वोदरदक्षिणपार्श्वांसपृष्ठहृदः ।
स्थानान्यथैषु नाम्ना ब्रह्माण्याद्यास्तु विन्यसेन्मातॄः ॥ २१-२० ॥

तदनु च हृदयादिकाङ्गषट्कं वपुषि निधाय पृथग् यथाप्रदेशम् ।
ज्वलदनलनिकाशमस्त्रवप्रं बहिरथ तर्जनिकाग्रतो विधेयम् ॥ २१-२१ ॥

एतत्पर्यन्तं पुष्पिताग्रा क्वचित् क्वचिदार्याचास्मिन् पटले ।

न्यासाधिकारः ।

गन्धपुष्पसर्षपाः कुशाग्रकेण
तथाक्षताश्च दूर्वया सुगन्धतोयम् ।
पूरयेत् तु शाक्तमर्घ्यमादरेण
यवान्वितं तु नामतोऽर्चयेत् तदुक्तम् ॥ २१-२२ ॥ यवमती ।

प्रोक्षयेत् समस्तकं तु कूर्चकेन तदाश्रयं च चन्दनादिवस्तुजातम् ।
वेदकोणरत्नमण्डपं तदेव विभावयेत् तु तत्र रत्नसिंहपीठम् ॥ २१-२३ ॥

शक्तिमस्य चाप्यधोऽरुणां यजेत् (तु) तथैव धर्मपूर्वकांस्तु पीठपादान् ।
तस्य मध्यतोऽरुणं सरोरुहं(च) चतुर्युगाधरच्छदं तदष्टपत्रम् ॥ २१-२४ ॥

तस्य षोडश स्वरास्तु केसराणि समण्डलत्रया विशालकर्णिका स्यात् ।
अष्ट शक्तयो भवन्ति केसरेषु जयादिकाः सुमङ्गला तु कर्णिकायाम् ॥ २१-२५ ॥

जयायै विजयायै अजितायै अपराजितायै नित्यायै विलासिन्यै शौण्ढ्यै अघोरायै सुमङ्गलायै । सर्वत्र प्रणवादिनमोन्तमर्चने समानम् ।

कोणपत्रगानि वै हृदादिकानि पुरस्तु नेत्रमस्य दिग्दलेषु चास्त्रम् ।
पूजयेद् बहिः क्रमेण दिग्विदिक्षु अनङ्गरूपिकादिकाः सुवेषदूतीः ॥ २१-२६ ॥

अनङ्गरूपायै अनङ्गमदनायै मदनातुरायै पवनवेगायै भुवनपालायै सर्वशिशिरायै अनङ्गदमनायै अनङ्गमेखलायै । प्रणवादिनमोन्तं पद्मबाह्ये पीठेऽर्चयेत् ।

ताः स्वर्णकलशदर्पणताम्बूलच्छत्रतालवृन्तशुकान् ।
चामरमाल्यकरण्डे बिभ्राणाश्चारुरूपरक्ताङ्ग्यः ॥ २१-२७ ॥

अथ भगवतीं शक्तिं वक्ष्यमाणरूपादिकां ध्यात्वावाह्यार्चयेत् ।

अरुणतरुणकमलदलचरणयुगनखमणिरुचिजितशशिरिह या (?) ।
उपरिचरणयुगलमुपरिनिखिलजगति निरुपमकृति न खलु निगदितुम् ॥ २१-२८ ॥

क्षमत इति जघनमपि तनुतदुदरमथ च कुचकलशभुजयुगल(लं) ।
गलमुत किमु मुखसरसिजमयुगनयनजितकुवलयमुरुचिहुरशिखा ॥ २१-२९ ॥
[शिखा नाम चूलिका ।

सकलभुवनभवननिलयसुरदिति(ज)दनुजमनुजभुजगवरयुवतीः ।
विलसदखिलविमलतुहिनकिरणकमलवदननयनचरणयुवतीः ॥ २१-३० ॥

गगनपवनदहनसलिलधरणितरणिमखपशशिन इति सृजति या ।
तदतिसुभगवपुषि न खलु विधिरपि गुणगणमिति ह निगदितुमलमलम् ॥ २१-३१ ॥
[षड्जा ।

विषममात्रावृत्ताधिकारः ।

अथ छन्दस्सु, उक्तायां-
ह्रीर्गीर्या श्रीः ॥ २१-३२ ॥ श्रीनाम वृत्तम् ।
अथात्युक्तायां-
वन्दे गौरीं शक्तिं देवीम् ॥ २१-३३ ॥ देवी नाम वृत्तम् ।
मध्यमायां-
या सूक्ष्मा चिन्नित्या
ध्येया या सा नारी ॥ २१-३४ ॥ नारी नाम वृत्तम् ।
प्रतिष्ठायां-
विश्वं लोकं यानुग्राह्यम् ।
स्रष्टुं पातुं चाभूत् कन्या ॥ २१-३५ ॥ कन्या नाम वृत्तम् ।
सुप्रतिष्ठतायां-
स्वेच्छामूर्तिं या धत्ते विश्वेशी ।
रूपातीतां तां रूपाढ्यां ध्यायेत् ॥ २१-३६ ॥ रूपाढ्या नाम वृत्तम् ।
अथ गायत्र्यां-
तेजोमयमूर्तिं बन्धूकनिभाङ्गीम् ।
दिव्याकृतिवेषां देवीं तनुमध्याम् ॥ २१-३७ ॥ तनुमध्या ।
रक्ताम्बरगन्धां रत्नोज्ज्वलमौलौ ।
सार्धेन्दुकलां तां दिव्याभरणाढ्याम् ॥ २१-३८ ॥
पाशाङ्कुशहस्तां साभीतिवराढ्याम् ।
द्व्याष्टाब्दवयस्कां लावण्यरसाब्धिम् ॥ २१-३९ ॥
विश्वैकजनित्रीं संसारतरित्रीम् ।
बीजात्मकतत्त्वां ध्यायेदिति शक्तिम् ॥ २१-४० ॥ प्राग्वत् ।

उष्णिहि-

खपङ्कजशशाङ्के परामृतरसार्द्रे ।
चितिं भगवतीं तां कुमारललिताङ्गीम् ॥ २१-४१ ॥ कुमारललिता ।

विभाव्य निजपाणौ स्थिते कुसुमपूरे ।
नियोज्य गगनाब्जाज्जपन् मनसि शक्तिम् ॥ २१-४२ ॥

यथोक्तवपुषं तां सपीठकमलेऽस्मिन् ।
निवेशयतु देवीं स्थिरां हृदयजापी ॥ २१-४३ ॥

आवाह्याथ स्थापनसान्निध्ये रोधनावकुण्ठाख्ये ।
तद्वत् प्ररोचनान्तं स्वाङ्गैर्मूलान्वितैः क्रमात् कुर्यात् ॥ २१-४४ ॥

ततस्तु-

हृदार्घ्यमपि पाद्यं तथाचनमस्त्रात् ।
प्रदेयमपि मूलाद् यथास्नपनमङ्गैः ॥ २१-४५ ॥

वराम्बरविभूषाः स्रजोऽपि च सुगन्धान् ।
सुधूपमपि दीपं ददातु निजमूलात् ॥ २१-४६ ॥

चरुं च विधिसिद्धं तथैव परमान्नम् ।
फलाद्यमुपदंशैः समोदकगुलाज्यम् ॥ २१-४७ ॥

निवेद्य तु समूलं तथाम्बु च सुगीतम् ।
सुगन्धिमुखवासं हृदा खलु निवेद्यम् ॥ २१-४८ ॥

पुरोक्तपरिवरान् यथावदुपपत्त्या ।
सगन्धकुसुमाद्यैर्यजेत् तु मनसा वा ॥ २१-४९ ॥ प्राग्वत् ।

अनुष्टभि-

पीठबहिष्कोणगतान् बालतनून् हस्तिमुखान् ।
माणवकक्रीडितकानीशदिशाद्यासु यजेत् ॥ २१-५० ॥ माणवकक्रीडितकम् ।

पाशकरान् साङ्कुशकांस्तानरुणस्रग्वसनान् ।
साम्रफलानेकरदान् स्वाभरणान् स्वर्णनिभान् ॥ २१-५१ ॥

गणाधिपाय गणाध्यक्षाय गणनाथाय गणेश्वराय । स्वबीजप्रणवादीनमोऽन्तं तानर्चयेत् ।

वीथिगतान् बाह्यवृतौ लोकपतीनिन्द्रमुखान् ।
सायुधकांस्तान् सगणान् स्वासु यजेद् दिक्षु सुरान् ॥ २१-५२ ॥

अथाग्निकार्यार्थमग्निशरणे-

इन्द्रदिशं प्राप्य ततो योनिनिभे कुण्डवरे ।
मान्त्रदिशा वह्निमुखे तत्र यजेच्चापि शिवाम् ॥ २१-५३ ॥

आज्यचरुक्षीरतिलैर्नित्यविधौ तज्जुहुयात् ।
काम्यकृते चान्यविधावुक्तदिशा स्याच्च हुतम् ॥ २१-५४ ॥ प्राग्वत् ।

अङ्गानां च दशांशं मूलाद्धुत्वाज्यशेषतः पूर्णाम् ।
भुवि बलिमथान्नशेषैर्विकिरेत् तत्पार्षदेभ्य इति नाम्ना ॥ २१-५५ ॥

ततः प्रक्षालितपाणिराचान्तस्त्रिसहस्रं सहस्रं वा नित्यं मूलं जपेत् ।

हेममयी जपमाला स्फाटिकजापि वरिष्ठा ।
मौक्तिकजा यदि सिद्धिं चित्रपदां लभतेऽसौ ॥ २१-५६ ॥ चित्रपदा ।

ततः प्रणम्य चुलुकोदकेन वक्ष्यमाणमन्त्रैर्देवीपदयोर्जपपूजादिकं निवेदयेत् ।

ॐ गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि! त्वत्प्रसादात् त्वयि स्थिता ॥ २१-५७ ॥

भक्तिहीनं क्रियाहीनं श्रद्धाहीनं च पूजिता ।
सर्वं तन्मेऽस्तु सम्पूर्णं तव देवि! प्रसादतः ॥ २१-५८ ॥

सर्वतत्त्वाधिपायै शक्त्यै नमः ।

अग्निगतामपि बिम्बे बिम्बगतां च खपद्मे ।
तां तु नियोज्य सुधार्द्रे सिध्यति हृत्कमले वा ॥ २१-५९ ॥

बाह्यपूजायामशक्तश्चेन्मनसैव हृदयाम्बुजे यजेत् ।

सामान्यशक्तिपूजाधिकारः ।

बन्धूकाभां हृल्लेखाख्यां विद्युन्मालालोलाभासम् ।
चन्द्रापीडां दिव्याकारां रक्ताकल्पां त्र्यक्षां वन्दे ॥ २१-६० ॥ विद्युन्माला ।

कल्पोद्याने रम्यच्छाये प्राग्वत् पीठे पद्मासीनाम् ।
दिव्याकारां द्व्यष्टाब्दाभां हृल्लेखां तां देवीं ध्यायेत् ॥ २१-६१ ॥

अङ्गान्यन्तः किञ्जल्काग्रे शक्तीरष्टौ पत्राग्रस्थाः ।
विघ्नाधीशं याम्ये रक्तं लोकाधीशान् स्वाशासंस्थान् ॥ २१-६२ ॥ पूजयेत् ।

एवंरूपां हृत्पद्मस्थां बौद्धद्रव्यैर्ध्यानेनेष्ट्वा ।
चातुर्लक्षं मन्त्राभ्यासाद्धृल्लेखाख्यः सिध्येन्मन्त्रः ॥ २१-६३ ॥

अपिच-

मध्येऽम्भोधेर्हेमाद्रीन्द्रे कल्पोद्याने रत्नाकीर्णे ।
रक्ताकल्पां त्र्यक्षां देवीं चन्द्रोत्तंसां हृद्यां वन्द ॥ २१-६४ ॥

हैमे पीठे रक्ताम्भोजे किञ्जल्काग्रे स्वाङ्गानीष्ट्वा ।
हृल्लेखाद्यास्तत्पत्रान्तः शक्तीर्द्व्यष्टौ पत्राग्रस्थाः ॥ २१-६५ ॥

कराल्यै विकराल्यै उमादेव्यै सरस्वत्यै दुर्गायै शच्यै मायायै लक्ष्म्यै श्रुत्यै स्मृत्यै धृत्यै श्रद्धायै मेधायै मत्यै कान्त्यै आर्यायै । पत्राग्रेषु द्वे द्वे शक्त्यौ प्रणवादिनमोऽन्तमर्चयेत् ।

वीथ्यां बाह्ये स्वाशास्वष्टौ ब्रह्माण्याद्यास्तासां बाह्ये ।
लोकाधीशाश्चास्त्राण्यन्ते पूज्यानि स्युः श्रीकामानाम् ॥ २१-६६ ॥

हृल्लेखापूजाधिकारः ।

यद्याकङ्क्षेद् भोगैश्वर्यं सप्तावारैर्लोकाधीशा ।
दिव्याकारा ज्याम्भोधौ कल्पोद्याने पीठाम्भोजे ॥ २१-६७ ॥

अङ्कान्यन्तर्हृल्लेखाद्या द्व्यष्टौ शक्तीः पत्राग्रस्थाः ।
मातॄरष्टौ द्वात्रिंशद् याः शक्तीश्चाथो लोकास्त्रेशान् ॥ २१-६८ ॥

पूजयेद् इति सम्बन्धः । कास्ताः शक्तयः यद् यथा- विद्यायै ह्रियै पुष्ट्यै प्रज्ञायै सिनीवाल्यै कुह्वै रुद्रवीर्यायै प्रभायै नन्दायै पोषण्यै ऋद्धिदायै शुभदायै कालरात्र्यै महारात्र्यै भद्रकाल्यै कपालिन्यै विकृत्यै दण्डिन्यै मुण्डिन्यै सेन्दुखण्डायै शिखण्डिन्यै निसुम्भमथनायै महिषासुरमर्दिन्यै इन्द्राण्यै रुद्राण्यै शङ्करार्धशरीरिण्यै नार्यै नारायण्यै शूलिन्यै पालिन्यै अम्बिकायै ह्रादिन्यै । एताः स्वनामानुगुणरूपादिकाः प्रणवादिनमोऽन्तमर्चनीयाः ।

पार्वत्येषा लोकाधीशा रक्ताकल्पा सिन्दूराभा ।
भास्वन्मौलिश्चन्द्रापीडा त्र्यक्षा ध्येया धम्मिल्लाढ्या ॥ २१-६८ ॥

नानारत्नैर्हैमैर्निष्कैर्मुक्ताहारैः केयूराद्यैः ।
क्रोडाबन्धं या बिभ्राणा काञ्चीं चग्र्यां मञ्जीराभ्याम् ॥ २१-६९ ॥

(चक्रं ? छत्रं) धवलं धत्ते दूत्येका शुक्लचामरे चान्ये ।
भृङ्गारदर्पणादीन् देव्याः पार्श्वे स्थिता दधत्योऽन्याः ॥ २१-७० ॥

एवं रूपां ध्यात्वा भुवनाधिपतिं तु पार्वतीं भक्त्या ।
प्रोक्तैः सप्तावरणैरिष्ट्वा मन्त्रं जपेत् कलालक्षम् ॥ २१-७१ ॥

भुवनाधिपतिपूजाधिकारः ।

अथ लिख्यते विधानं भुवनाधिपतिशक्तिहृद्यसञ्ज्ञानाम् ।
एकादशावरणकैः सामान्यं सर्वसिद्धिदं नॄणाम् ॥ २१-७२ ॥

आद्याङ्गैस्तु जयाद्या हृल्लेखाद्याथ मूर्तिभिः षड्भिः ।
सानङ्गरूपपूर्वा स्याद् विघ्नैर्मातृभिर्वृतिः षष्ठी ॥ २१-७३ ॥

षोडशशक्तिभिरन्या द्वात्रिंशच्छक्तिभिस्तथावरणम् ।
नवमं तु पिङ्गलाद्यं दशमं लोकाधिपैरथास्त्रैः स्यात् ॥ २१-७४ ॥

प्रागुक्ता एव दशावरणदेवतास्त्वत्र पिङ्गलाक्ष्यादिचतुष्षष्टिशक्तयो लिख्यन्ते-

पिङ्गलाक्षी विशालाक्षी समृद्धिर्वृद्धिरेव च ।
बुद्धिः स्वाहा स्वधा माया तथाभिख्या वसुन्धरा ॥ २१-७५ ॥

त्रिलोकधात्री गायत्री सावित्री त्रिदशेश्वरी ।
सुरूपा बहुरूपा च स्कन्दमाता शिवप्रिया ॥ २१-७६ ॥

अमला विमलाख्यान्या अरुणिश्चारुणापि च ।
प्रकृतिर्विकृतिः सृष्टिः स्थितिः सङ्ख्या च संहृतिः ॥ २१-७७ ॥

जगन्माता सती चैव हंसिनी मर्दिकाह्वया ।
वज्रिका देवमाता च भगवत्यपि देवकी ॥ २१-७८ ॥

पद्मासना च त्रिमुखी ततः सप्तमुखी स्मृता ।
देवासुरविमर्दिन्या लम्बोष्ठी लम्बकेशिनी ॥ २१-७९ ॥

ऊर्ध्वकेशी बहुलिङ्गा ततः ख्याता बहूदरी ।
रथरेखा शशिरेखा तद्वद् गगनवेगिका ॥ २१-८० ॥

वायुवेगानङ्गरूपा चानङ्गमदनाह्वया ।
तद्वद् भुवनपाल्याख्या ततश्चानङ्गमेखला ॥ २१-८१ ॥

मदनातुरसञ्ज्ञा चप्यनङ्गकुसुमाह्वया ।
विश्वरूपा भवेत् पश्चात् तथासुरभयङ्करी ॥ २१-८२ ॥

सुररक्षिणिकाक्षोभ्या सत्यवादा शुचिव्रता ।
वज्रवेगा च वरदा वागीशी चेति शक्तयः ॥ २१-८३ ॥

चतुःषष्टिरिमाः सर्वाः सर्वाश्चित्राम्बरस्रजः ।
स्वनामानुगुणाकाराश्चारुरूपा विभूषिताः ॥ २१-८४ ॥

ध्यात्वा नमोन्तं तारादि पूजयेदखिलावृतीः ।
हिमवच्छिखरोद्याने रक्तकल्पतरोरधः ॥ २१-८५ ॥

रत्नसिंहासनाम्भोजे पादपीठोपशोभिते ।
स्वासीनां पूजयेद् ध्यात्वा प्रोक्तरूपादिकामुकाम् ॥ २१-८६ ॥

अथ बृहत्याम्-

इति यजनविधिं बुद्ध्वा प्रतिदिवसमियं पूज्या ।
भुजगशिशुसृतां बुद्धिं सुदृढमृजुगतिं कृत्वा ॥ २१-८७ ॥ भुजगशिशुसृता ।

हृदयसरसिजेऽप्येवं यजतु सुमनसा शक्तिम् ।
बहिरपि च शुभैर्द्रव्यैर्विभवसमुचितैर्नित्यम् ॥ २१-८८ ॥

एकादशावरणपूजाधिकारः ।

अपि च-

अम्बिकां नवघनरुचिं सुन्दरीं तरुणवयसम् ।
भूषितां कनकमणिभिस्त्रीक्षणामरुणवसनाम् ॥ २१-८९ ॥ हलमुखी ।

शुक्तिकाशकलघटितां घण्टिकामपि च दधतीम् ।
अङ्गदैः कटकमकुटैर्भूषितामपि च भुजगैः ॥ २१-९० ॥ प्राग्वत् ।

अथवा,

शार्दूलचर्मवसनां भुजङ्गराजोपवीतिनीं सौम्याम् ।
उग्रां कापालशूले साभयवरदे च बिभ्रतिं ध्यायेत् ॥ २१-९१ ॥

चामरकलशच्छत्रैरन्यैरपि राजलक्षणैर्विधृतैः ।
दूतीभिश्चाभरणैः सप्तभिरुक्तैर्यजेत् समोपेताम् ॥ २१-९२ ॥

पङ्क्तौ-

आदौ षोडशलक्षमभ्यसेच्छक्तिं वा भुवनाधिपां पुरः ।
रक्ताब्जैर्मधुरान्वितैर्भवेद्धुत्वा शुद्धविराट् स साधकः ॥ २१-९३ ॥ शुद्धविराट् ।

क्रूरसौम्ययजनाधिकारः ।

अथ दीक्षाविधिरुच्यते-

रक्ताब्जं विलिखेत् तु भद्रकं मायाचक्रमथापि वा बुधः ।
शक्तिं तत्र यजेद् विधानतः सद्बीजाङ्कुशपाशकर्णिके ॥ २१-९४ ॥

ऐशान्यां दिशि पञ्चपत्रके त्वम्भोजे कलशांश्च तावतः ।
हैमादीन् विधिनाभिपूरयेद्धृल्लेखादिसपञ्चमूर्तिकम् ॥ २१-९५ ॥

गव्यैः पञ्चभिरेषु योजयेत् पञ्चाशत्प्रणवोदिताः कलाः ।
सक्षीरद्रुमचर्मवारिभिर्गन्धाम्भोमणिभिश्च पञ्चभिः ॥ २१-९६ ॥

अथवा,

पद्मेष्टच्छदने सकर्णिके कुम्भानां नवकं प्रपूरयेत् ।
आज्यक्षीरदधीक्षुजैः क्रमात् क्षीरित्वग्रसतीर्थवारिभिः ॥ २१-९७ ॥

लिप्यर्णौषधिरसमपि मध्यकलशे प्रक्षिपेत् ।

ब्रह्माणीप्रभृतीस्तु मातृकाः कुम्भेष्वष्टसु दिग्विदिक्क्रमात् ।
मूलाङ्गैः सह मध्यमेऽम्बिकामावाह्यावरणैः सहार्चयेत् ॥ २१-९८ ॥

पलाशक्वाथपूरितकलशद्वयं द्वारचतुष्टये पृथक् पृथक् विन्यस्य रक्षार्थं तेषु जयादिशक्तीरर्चयेत् ।

शैवोक्तं तु विधानमाश्रितो दीक्षायामधिवासनादिकम् ।
कुर्याद् वाप्यथ मन्त्रदीक्षया शक्त्यङ्गैरपि शक्तिबीजतः ॥ २१-९९ ॥

मधुरैस्त्रिभिः सहस्रं हुत्वा सम्पातशोधितं त्वाज्यम् ।
कलशेषु तेषु दत्त्वा तैरभिषिक्तं तु दीक्षयेच्छिष्यम् ॥ २१-१०० ॥

अश्वत्थखदिरजातीबिल्वसमिद्भिश्च सर्वधान्यतिलैः ।
चरुणाज्येन च हुत्वा बिम्बे चेष्ट्वाधिवासयेदेनम् ॥ २१-१०१ ॥

शिष्यं तं गुरुरधिवास्यैनं सुस्वप्नैर्निशि विदितोदर्कम् ।
मङ्गल्यैः सह पणवातोद्यैर्गीताद्यैरपि तनुताद् दीक्षाम् ॥ २१-१०२ ॥ पणवम् ।

एवं प्राप्य तु दीक्षां गुरोर्मुखात् प्राप्तशक्तिमन्त्रोऽसौ ।
ध्यानजपार्चनहोमैरिष्टान् संसाधयेन्नरः कामान् ॥ २१-१०३ ॥

शक्तिदीक्षाधिकारः ।

पूजितवह्नेस्तस्य हृदब्जे सावरणाङ्गां शक्तिमथेष्ट्वा ।
पङ्कजलक्षैर्बिल्वघृतान्नैरस्य हुतैः स्याद् रुक्मवती श्रीः ॥ २१-१०४ ॥ रुक्मवती ।

अष्टसहस्रं वाष्टशतं वा प्रत्यहमुक्तैर्द्रव्यविशेषैः ।
यज्जुहुयात् प्राक्च्छिष्टमथाज्यं बिल्वफलं च श्रीकरमद्यात् ॥ २१-१०५ ॥

समृद्धिविषये ध्यानमुच्यते-

पाशसरोजे चाङ्कुशशङ्खावादधतीं तां हेमनिकाशाम् ।
षण्मुखयुक्तां हृद्यथ वह्नौ पूजयतः स्याच्छ्रीः शरलक्षैः ॥ २१-१०६ ॥

पद्मोद्भवेऽन्ते श्रीशक्तिबीजमुक्तं नमोन्तकम् ।
जपन् जुह्वद् यथापूर्वं लभते धनसम्पदः ॥ २१-१०७ ॥

कल्पनगाधो हाटकपीठे स्वैक्यमुमाख्यां हाटकवर्णाम् ।
अङ्गनिविष्टस्कन्दशिशुं तां संस्मरतः स्याल्लक्षजपाच्छ्रीः ॥ २१-१०८ ॥

आदौ शङ्खनिधिः पाशशक्तिबीजाङ्कुशानि च ।
अन्ते पद्मनिधिश्चाग्नेर्जाया चैवं जपेच्छ्रियै ॥ २१-१०९ ॥

दीर्घजलस्थः सोऽथ सबिन्दुः शक्तियुतोऽस्मात् पर्वतशृङ्गे ।
लक्षजपाद्यैर्दीर्घमिहायुः प्राप्यमिह स्याद् दौर्वहुताद् वा ॥ २१-११० ॥

कुम्भपुटस्था कुम्भजलस्था भानुसहस्रं तज्जपहोमात् ।
हन्त्यपमृत्युं तज्जलसेकाच्छक्तिरशेषान् हन्ति च रोगान् ॥ २१-१११ ॥

आज्यसेचितामृता समिद्भिः कुम्भसम्पुटं जुहोतु लक्षम् ।
संहरेदकालमृत्युभीतिं या मयूरसारिणी जनानाम् ॥ २१-११२ ॥ मयूरसारिणी ।

हस्तसप्तमीषु सूर्यवारे सूर्यमूर्ध्वबाहुरीक्षमाणः ।
वत्सरं जपेद् दिनेशलक्षं यक्ष्मरोगकांश्च हन्ति कुष्ठम् ॥ २१-११३ ॥

कुम्भसम्पुटं चतुस्सहस्रं भस्म तज्जपेन हन्ति रोगान् ।
वातरोगहृत् तथैव तैलं पित्तहृद् घृतं कणाकफघ्नी ॥ २१-११४ ॥

पिप्पलीप्लिहां हरेच्च पथ्या कुक्षिरोगहृत् तथाखिलानि ।
औषधानि यानि तानि मन्त्री यद् ददाति तेन हन्ति रोगान् ॥ २१-११५ ॥

पञ्चविंशतिं जपेत् तु दुग्धं तत् पिबेत् स विन्दतेऽतिमेधाम् ।
अन्नमन्यदप्यनेन युक्तं भुक्तमायुषे श्रिये च भूयात् ॥ २१-११६ ॥

तण्डुलैर्दधिप्लुतैस्तु पुष्टिं कन्यकां मधुप्लुतैश्च लाजैः ।
विन्दते पशून् पयोघृताभ्यां चेज्जुहोतु साज्यमन्नमन्नम् ॥ २१-११७ ॥

पिप्पलैर्वशीकरोतु विप्रान् पङ्कजैर्नृपान् पलाशपुष्पैः ।
तत्स्त्रियं तु कैरवैर्विशोऽन्यांस्तैललोणकैर्हुतैस्तु लक्षैः ॥ २१-११८ ॥

संवनने मधुराक्तं सर्वं जुहुयाद् वदाम्यथाकृष्टौ ।
ओ(का?ङ्का)राद्यं राज्ञामन्येषां भौतिकादिमन्त्रः स्यात् ॥ २१-११९ ॥

रक्तहयारिसमिद्भिर्जुहुयाद् वटवृक्षमूलगो रात्रौ ।
लक्षत्रयं घृताक्तैर्मन्त्री पश्येत् तु यक्षिणीं वरदाम् ॥ २१-१२० ॥

सध्यानं शतलक्षं शक्त्यभ्यासाद् विशुद्धदेशान्नम् ।
लभतेऽष्टगुणैश्वर्यं दशकोट्या खेचरो भवेदमरः ॥ २१-१२१ ॥

अभ्युदयाधिकारः ।

शक्तिं रसपत्रसरोरुहे मध्ये च दलेषु बहिः स्वरान् ।
आलिख्य धृतं खलु योषितां कुर्यात् तनयं समुपस्थितम् ॥ २१-१२२ ॥ उपस्थितम् ।

मध्ये षडरस्य लिखेन्मनुं स्वाख्याद्वयमस्य तु रन्ध्रयोः ।
बाह्ये धरणीभवनं लिखेत् स्नेहं प्रकरोति धृतं द्वयोः ॥ २१-१२३ ॥

त्रिष्टुभि-

साख्यारिरूपं लिखितं कपाले षट्कोणगं मूलमपि श्मशाने ।
सन्तापयेत् तत् प्रजपन् निशायां स्यादिन्द्रवज्राभिहतो यथारिः ॥ २१-१२४ ॥ २१-इन्द्रवज्रा ।

राजीर्मनुष्यास्थियुताः सलोणा राजीघृताक्ता जुहुयात् तु पक्षम् ।
मूलेन साध्याह्वयकृत्ययुक्तं निर्मूलतः शत्रुरुपैति मृत्युम् ॥ २१-१२५ ॥

आजस्नुहिक्षीरसपादधूलीन् काकस्य पक्षान् जुहुयान्निशायाम् ।
मन्त्रं जपन् मारुतसम्पुटस्थमुच्चाटयेत् सप्तदिनैररातिम् ॥ २१-१२६ ॥

काकारिकाकच्छदनैस्तु जुह्वत् साजासृजा स्नुक्यपयसावसिक्तैः ।
स्थाण्वादिमूलेन तु सप्तरात्रं विद्वेषमाशु प्रकरोत्यरीणाम् ॥ २१-१२७ ॥

स्तम्भं च भूबीजपुटे प्रकुर्यादुत्सादनं चाग्निमरुत्पुटस्थम् ।
शान्तिं च पुष्टिं जलसम्पुटस्थं यच्छक्तिबीजं हवने च जप्ये ॥ २१-१२८ ॥

साख्यं तु बीजं वलयद्वयस्थं वाह्यस्वरोपेतकलादलाब्जम् ।
भूबीजपाशाङ्कुशमूलकोणं वश्यं धृतं चक्रमिदं त्रिलोक्याम् ॥ २१-१२९ ॥

षट्कोणशक्तौ निजनाम बाह्ये शक्त्या च पाशाङ्कुशकौ विदर्भौ ।
संवेष्ट्य वायोर्भवनं च बाह्ये वश्यं भवेन्नागदलं मुखस्थम् ॥ २१-१३० ॥

अथोच्यते खड्गविशेषसिद्धिरवाप्य यामूर्जितवीर्यशौर्यः ।
विजित्य शत्रून् विचरेच्च लोकानुपेन्द्रवज्रायुधतुल्यलक्ष्मीः ॥ २१-१३१ ॥ उपेन्द्रवज्रा ।

विशुद्धदेशे विजने वनादौ विधौ तदन्तःसलिलेऽवगाह्य ।
चतुर्दशीरात्रिमुपोष्य कृष्णां पिशङ्गमाल्याम्बरचन्दनाढ्यः ॥ २१-१३२ ॥

सरोजमालिख्य तु पञ्चचूर्णैनिधाय तस्मिन् कलशं यथावत् ।
सपञ्चरत्नाम्बरमाल्यगन्धं शिवां समावाह्य तु रौद्रसौम्याम् ॥ २१-१३३ ॥

यजेच्च रुद्रावरणैरुपेतां शिवां समूलाङ्गविधानयुक्त्या ।
सगन्धपुष्पाक्षतधूपदीपैश्चरुं निवेद्यात्र बलिं च दत्त्वा ॥ २१-१३४ ॥

धौतं विदोषं नरघातिनं प्रागगर्भरेखास्फुटितादिदोषम् ।
द्विजोपजातिव्यतिरिक्तखड्गं निधाय बिम्बे नृपजातिमिष्ट्वा ॥ २१-१३५ ॥ उपजातिः ।

क्षणेन शस्त्रेण हतं तु शूरं युवानमानीय मृतं सरक्तम् ।
आभूष्य रक्ताम्बरमाल्यगन्धैस्तं तस्य पाणौ विनिधाय खड्गम् ॥ २१-१३६ ॥

स्पृष्ट्वा जपन् मूलमनुं स यावत् सचेतनः खड्गधरः परेतः ।
उत्थातुमिच्छेदसिमस्य हस्तात् प्रसह्य गृह्णीत नदन् प्रहृष्टः ॥ २१-१३७ ॥

ततः शिवान्तैः परिवारमुख्यैरुद्वास्य तं खड्गवरं दधानः ।
स सार्वभौमोऽपि भवेद् यदीच्छेल्लोकेऽप्रधृष्यः खलु साधकेन्द्रः ॥ २१-१३८ ॥ उपजातयः ।

अनेनैव प्रकारेण शूलाङ्गुलीयाञ्जनादिसाधनमपि व्याख्यातम् ।

खड्गसाधनाधिकारः ।

आयतिभूततदात्मनिबन्धान् संशयितानखिलानपि चार्थान् ।
दोधकचित्तविकारकृतस्तान् वेदयितुं प्रवदेऽहमुपायम् ॥ २१-१३९ ॥ दोधकम् ।

एकदिनं समुपोष्य तु कृष्णां मातृतिथिं तनुतादुपाचारैः ।
एकशिवे महतीमपि पूजां षोडशपङ्करुहैः करवीरैः ॥ २१-१४० ॥

क्षीरचरुं विनिवेद्य घृताढ्यं वह्निमुखेऽपि जुहोति तिलाज्यम् ।
जातिसमित्कुसुमान्नफलानामष्टसहस्रमितं पृथगुक्तम् ॥ २१-१४१ ॥

दर्पणमप्यतिनिर्मलमेकं निर्वृणमत्र निधाय तु देवीम् ।
तत्र यजेच्च जपेदथ मूलं भानुसहस्रमितं मुकुरस्पृक ॥ २१-१४२ ॥

यावद् दर्पणविधिं साधयति, तावच्छाकभैक्षयावककृसरान्नं खादेत् । सिध्यति ।

अष्टम्यां वा सूर्यवारे कुमारीं स्नातां सम्यग् भूषितां भोजयित्वा ।
क्षीरान्नाज्यं तत्र पूर्वेद्युरेनां प्रेक्षाकृत्ये शालिनीं दर्पणादेः ॥ २१-१४३ ॥ शालिनी ।

शुद्धे देशे दर्भशय्याधिरूढां मन्त्रेणैनां चाधिवास्य ।
प्रातःस्नातामर्चितां सूपविष्टां प्रेक्षाकृत्ये योजयेद्दर्पणान्तः ॥ २१-१४४ ॥

रम्ये देशे गोमयेनोपलिप्ते पिष्टैः कृत्वा मण्डलं धूपदीपैः ।
रक्तैः पुष्पैर्दर्पणस्थां तु देवीमिष्ट्वा सर्वं तत्र पश्येत् कुमारी ॥ २१-१४५ ॥

तत्र सा कल्पवृक्षाधः सिंहासनस्थां प्रथमं देवीं दृष्ट्वा ततस्त्रिकालबद्धमभीष्टार्थं सर्वं पश्यति । अनेनैवाङ्गुष्ठादिषु प्रयोगो व्याख्यातः ।

दर्पणपूजाधिकारः ।

स्वैक्यं ध्यायेदथ वा सिंहवाहां रौद्रां कृष्णां सकपालत्रिशूलाम् ।
तोये वाब्धौ द्रुतवातोर्मिमाले न स्याद् भीतिर्विपिने वा रणे वा ॥ २१-१४६ ॥ वातोर्मिः ।

शक्तिः साक्षं सलिलं चाथ मज्जा खं वह्निस्थं नयनं सर्वशब्दः ।
शक्ति त्यक्त्वा चतुरोऽर्णान् पुरोक्तान् स्वाहान्तोऽसौ मनुरुक्तो विषघ्नः ॥ २१-१४७ ॥

स्वैक्यं शुक्लां धृतकुम्भत्रिशूलां शुक्लाकल्पां शशिमौलिं त्रिनेत्राम् ।
संसिञ्चन्तीममृतैः कुम्भसूतैर्ध्यात्वा हन्याद् गरलं मन्त्रजापी ॥ २१-१४८ ॥

यस्मिन् क्षेत्रे कुजवारेषु मृत्स्नां सप्तस्वद्यान्नवदिक्ष्वेष मन्त्री ।
तत् स्वीयं स्यान्नवमासात् पुरस्ताद् भौमाश्विन्यामपि मध्याह्नकाले ॥ २१-१४९ ॥

अमावास्यायां सप्तपञ्चाशद्धण्टिके कालेऽप्येवम् ।

हस्तादित्ये धृतिसङ्ख्येष्टकास्ता मन्त्री यावद् विलिखेद् यस्य सञ्ज्ञाम् ।
सोऽस्य स्निह्येत् तदभीष्टं च कुर्यात् सर्वान् मन्त्री वशयेत् स्पर्शनाद्यैः ॥ २१-१५० ॥

इष्ट्वा देवीं पटगां स्थण्डिले वा रम्ये देशे रसलक्षैर्निशीथे ।
मन्त्री पुष्पैः पृथगस्तैः सुगन्धैर्नित्यं देव्याः पदयोः स्याद्धनेशः ॥ २१-१५१ ॥

कर्णिकारलक्षहोमादपि प्राग्वत् फलम् ।

गन्धैः पुष्पैरपि धूपैश्च दीपैर्नैवेद्यैस्तामुपहारैर्निशायाम् ।
इष्ट्वाग्रे स्यात् प्रजपेदोदयात् तत् षड्भिर्मासैः स भवेद् वित्तनाथः ॥ २१-१५२ ॥

नित्यमर्धरात्रे पूजाजपाद्यैर्धनधान्यैश्वर्यवान् भवति ।

दष्टाख्यार्णैर्ग्रथितं शक्तिबीजं कुड्यादौ स्याल्लिखितं तद्विषघ्नम् ।
अभ्यस्यामुं लिखितं मार्जयेद् वा मन्त्रेणाम्भः परिषिञ्चेत् पिबेद् वा ॥ २१-१५३ ॥

भूर्जे पत्रे लिखितं मूलमङ्गैर्धान्यादौ तन्निहितं वर्धयेत् तत् ।
इष्ट्वा देवीं धनदं चापि तस्मिन् तेनालब्धं दशपुष्पं च धार्यम् ॥ २१-१५४ ॥

अन्योन्यसम्मुखौ हस्तौ सुश्लिष्टौ मुक्ततर्जनी ।
मध्यमाङ्गुष्ठसंयोगान्मुद्रैषा क्षोभणी स्मृता ॥ २१-१५५ ॥

श्लिष्टाङ्गुलितलौ हस्तौ प्रसार्याङ्गुष्ठतर्जनी ।
कनिष्ठानामिकामध्यासंश्लेषान्मोहनी भवेत् ॥ २१-१५६ ॥

तथैव श्लिष्टकरयोः प्रसार्योभयतर्जनी ।
मध्यमाङ्गुष्ठसंयोगपीडनाद् द्रावणी स्मृता ॥ २१-१५७ ॥

तद्वत् सुश्लिष्टकरयोस्तर्जनीद्वयपीडनात् ।
कर्षिणी स्यात् तथा मध्यातर्जाभ्यां ज्यैष्ठिकाद्वयम् ॥ २१-१५८ ॥

निपीड्य सान्निध्यकरी स्याच्छिष्टाङ्गुलि(विस?व)र्जनात् ।
अनामिके द्वे तर्जाभ्यामधः पाण्योर्निबध्य तु ॥ २१-१५९ ॥

उत्तनपाणितलयोर्मध्यमे सकनिष्ठिके ।
पार्श्वाभ्यां संहताग्रे ते ऋज्वायतमवस्थिते ॥ २१-१६० ॥

कृत्वाङ्गुष्ठाग्रयुग्मेन कनिष्ठामूलयोः स्पृशेत् ।
मुद्रेयं योनिसञ्ज्ञा स्याछाक्तेयी सर्वसिद्धिदा ॥ २१-१६१ ॥

मोहनी क्षोभणी योनिमुद्रा द्रावण्यपि क्रमात् ।
नृपसर्वस्त्रियां वश्ये नराणां च नियोजयेत् (?) ॥ २१-१६२ ॥

मुद्राधिकारः ।

गङ्गादीनामपि वरसरितां कूले वाब्धेर्गिरिवरशिखरे ।
उद्याने वा भ्रमरविलसिते कोट्यभ्यासाद् भवति मुनिसमः ॥ २१-१६३ ॥ भ्रमरविलसितम् ।

खेचारी स्यात् त्रिभुवनभवने पातालं वा व्रजति सुखमसौ ।
हेमाद्रौ वा वसति मनुजपाद् दीर्घायुष्मानतिबलतरुणः ॥ २१-१६४ ॥

वर्ण्यते किमिह शक्तिविद्यया साधकैरिति युतः सुनिश्चितम् ।
प्रार्थ्यते जगति सिद्धिरीप्सिता यादृशी निजमनोरथोद्धता ॥ २१-१६५ ॥ रथोद्धता ।

इत्यशेषभुवनैकमातरं विश्वतत्त्वनिखिलाध्वनायिकाम् ।
शक्तिमाश्रितवतां दृढं नृणां दुर्लभा न खलु सिद्धयोऽखिलाः ॥ २१-१६६ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे शक्तिपटल एकविंश(ति?)ः ॥ २१ ॥