अथ विंशः पटलः ।
वक्ष्ये वितानमादितः श्रीबीजसिद्धिसाधनम् ।
धर्मार्थकाममोक्षदमंहोवितानमोचनम् ॥ २०-१ ॥ वितानम् ।
लक्षत्रयं जले स्थितः पद्माक्षमालया जपेत् ।
तद्वज्जलाभिषेचितो मासत्रयाद् धनी भवेत् ॥ २०-२ ॥ प्राग्वत् ।
यो नियुतानि दिनादौ त्रीणि जपेच्छ्रियमिष्ट्वा ।
विष्णुगृहेऽपि च बिल्वे चित्रपदां श्रियमायात् ॥ २०-३ ॥ चित्रपदा ।
अपुरश्चर्ययाप्येष भजतां धनधान्यादीन् ।
नित्यमावहतीत्यस्माच्छ्रियो बीजमनुवक्त्रम् ॥ २०-४ ॥ वक्त्रम् ।
छन्दोऽस्य भवति श्रीस्तु मुनिः स्यान्मङ्कणो नाम्ना ।
देवता चापि लक्ष्मीः स्याज्जपध्यानार्चनैः सिध्येत् ॥ २०-५ ॥ इदमपि वक्त्रम् ।
अङ्गानि चास्य पञ्च स्युः स्वीयजातियुतान्यन्ते ।
महाश्रिये महाविद्युत्प्रभे! ठठ । श्रिये देवि! यजे स्वाहा । गौरी! महाबले! बन्ध! बन्ध ठठ । धृतिः स्वाहा । हुं महाकाये! पद्महस्ते! हुं फट् ।
अन्येऽन्यथा वदन्तीह
श्रिये ठठ । श्रीं फट् । श्रीं नमः । श्रिये प्रसीद नमः । श्रीः फट् ।
मार्गमेकं भजेदाभ्याम् ॥ २०-६ ॥ एतदपि वक्त्रम् ।
दीक्षां प्राप्य गुरोराप्तमन्त्रः श्रीसाधनाय तु ।
कृतनित्यक्रियः स्वीये पथ्यावक्त्रादिसंयमी ॥ २०-७ ॥ पथ्यावक्त्रम् ।
शुक्लमाल्याम्बरादिकः शस्ते देशे वसन् रम्ये ।
प्राङ्मुखोदङ्मुखोऽथवा विपरीतं तु यद् वर्ज्यम् ॥ २०-८ ॥ विपरीतपथ्यावक्त्रम् ।
रौक्ममैन्द्रमभिनवं मण्डपं हृद्गतं ध्यायेत् ।
हेमवप्रं तु परितश्चपलावक्त्रशोभाढ्यम् ॥ २०-९ ॥ चपलावक्त्रम् ।
दूतिकास्तु पुरोदिताः पद्माक्षविपुलाननाः ।
द्वारेष्वथ वलाकिनीमुखास्ताः पूजयेत् क्रमात् ॥ २०-१० ॥ विपुलावक्त्रम् ।
प्रदीपपालीकलशैस्तथा चैवाष्टमङ्गलैः ।
स्रग्दामशोभाविपुलैर्मण्डलं तदलं शुभम् ॥ २०-११ ॥ भकारविपुला ।
सिंहासनं तस्य मध्ये सुवर्णमणिभासुरम् ।
सिताम्बुजं केसराढ्यं विपुला कर्णिका परा ॥ २०-१२ ॥ रविपुला ।
तत्पद्मदिग्दलगतान् वासुदेवादिकान् यजेत् ।
प्रोक्तवर्णायुधधरानम्भोजविपुलेक्षणान् ॥ २०-१३ ॥ नविपुला ।
कोणच्छदस्थान् पूर्ववद् गजान् गुग्गुलुपूर्वकान् ।
चतुर्विषाणाढ्यान् सितान् विपुलाङ्गान् यजेत् ततः ॥ २०-१४ ॥
ते गुग्गुलुगुरण्डदमकशलयः ।
सौवर्णसौधकलशैः शिरस्युत्क्षिप्तपुष्कराः ।
सिञ्चन्ति तेऽमृतजलैर्विपुलानन्दनां तु माम् ॥ २०-१५ ॥ नविपुला ।
ततः श्रियं च जगतां मातरं पूर्ववद् धिया ।
समग्ररूपविभवां कर्णिकायां स्मरेदिमाम् ॥ २०-१६ ॥ प्राग्वत् ।
दोर्भिश्चतुर्भिस्तामूर्ध्वे पुण्डरीकद्वयीधराम् ।
वराभयाढ्यां वामादिविपुलां तेजसासमाम् ॥ २०-१७ ॥ इयमपि विपुला ।
नवपद्मान्तराभासां हेमाम्भोजनिभाननाम् ।
सितगन्धाम्बरां माल्यैर्युतां विपुलतेजसम् ॥ २०-१८ ॥ विपुला ।
सुवर्णवर्णामुत्तुङ्ग
चारुपी(न?वर) पयोधरयुगलाम् ।
शरदखिलेन्दुबिम्बकमलकोमलमुखीम्
अखिलभुवनजनवन्दितपङ्कजपदचतुरूर्ध्वाम् ॥ २०-१९ ॥ पदचतुरूर्ध्वा ।
करमिततनुमध्यां
विकसितकुवलयकमलाक्षीम् ।
अलिकुलरुचिरुचिरचिहुरभरबन्धां
स्मरति यदि निजहृ(ति?दि) स भवति गतसकलपीडः ॥ २०-२० ॥ आपीडः ।
निधियुगमथ लक्ष्म्याः
पदकमलमनुजलभवाह्वम् ।
अनवरतवमदलघुमणिवसुधारं
स्मरतु स निजवपुरलमधिकधननिचयपूर्णम् ॥ २०-२१ ॥ प्राग्वत् ।
ध्यायेद् यदि सकृदपि
लभ्यं धनमिह किमपि भवति ।
नित्यं यजति च जपहुतविधिपर इह
प्रत्यादिशदिव धनपतिमिव धनमधिगमयति ॥ २०-२२ ॥ प्रत्यापीडः ।
संसाधयति हि लक्ष्मीं
नग्नो न विशतु जलमपि निद्राम् ।
नेयादशुचिरवनितलशयनमथासौ
तैलार्द्रिततनुर्न चरति किमपि न मलचितदेहः ॥ २०-२३ ॥ प्रत्यापीड एव ।
तिलरसलवणप्रत्यक्षसेवां
वैकुण्ठं चापि वर्जयेत् ।
कमलमपि बिल्वं शीर्ष्णा
पदा च नसंस्पृशेत्सरसिजभवं बीजं नाद्यान्न भिनत्ति कुसुममञ्जरीम् ॥ २०-२४ ॥
[* मञ्जरी ।
नच्छिन्द्यात् तृणमपरं च धरां न लिखेद् वृथा
न च मुखे रजनीमनुलेपयेद् ।
पञ्चम्यामपि सप्तम्यां
भगदिने च लवणामलकाम्ललवलीः परिवर्जयेत् ॥ २०-२५ ॥ लवली ।
स्नातोऽनुपहतशुचिधवलाम्बरकुसुमगन्धधारी
प्रातर्लक्ष्मीपुष्पशिराः ।
भक्षः स्याद् वचनैः सर्वं जनम-
नुगृह्णन् हृदयङ्गमैः प्रीत्येवामृतधाराभिः ॥ २०-२६ ॥ अमृतधारा ।
भुजगतिथिशुक्रवारयोः ।
बिल्वफलसहितपायसभुग्
लभतेऽच्छपर्वणि कुलोद्गतां श्रियम् ॥ २०-२७ ॥ उद्गता ।
सघृतौदनेन च घृतेन
सितसरसिजैः सपायसैः ।
बैल्वपत्रफलसौरभकै-
रयुतैर्हुतैः स लभतेऽचिराच्छ्रियम् ॥ २०-२८ ॥ सौरभकम् ।
अभिषेचयेदथ जपेच्च
यजतु स च सूक्तकैः श्रियः ।
हुतविधिमपि पदशस्तनुतां
ललितां विभूतिमचिरेण सोऽनुश्रुते ॥ २०-२९ ॥ ललिता ।
नन्द्यावर्तकपुण्डरीककुब्जकपुष्पै-
रुदिते सवितरि यो जुहोति नित्यम् ।
जपति च दशशतकं
प्रचुपितबहुधनपशुभिः स सुखी स्यात् ॥ २०-३० ॥ उपस्थितप्रचुपितम् ।
चतुर्हस्तिविधानम् ।
युद्धाहालले नमो फ वा श्रीशे नमः (?) ।
ऋष्याद्यं च पुरोदितं समानमिह स्यात्
प्रतिवासरमपि वर्धमानभक्तिः ।
गलमितसलिलगतस्त्रिनियुतमनुमिह यः
प्रजपति धनमिह विपुलं लभतेऽसौ ॥ २०-३१ ॥ वर्धमानम् ।
श्रीरेखाविधानम् ।
हृद्ब्रह्माथ विषं मही जलं च सदीर्घं
नयनान्वितभृगुवर्णमन्ततोऽन्यैः ।
स्वाहान्तदशार्णको मनुः
श्रियमिह जनयति जपशुद्धविराड् यः ॥ २०-३२ ॥ शुद्धविराट् ।
ऋषिरस्य तु दक्ष इतीरितः
सा च विराट् कथिता ह्युपचित्रा ।
कमला कमलोदरवासिनी
दैवतमक्षरलक्षमुपास्या ॥ २०-३३ ॥ उपचित्रकम् ।
देव्यै नमः । पद्मिन्यै नमः । विष्णुपत्न्यै नमः । वरदायै नमः । कमलरूपायै नमः ।
पञ्चविधाङ्गमनूनि यथावत् क्रमपठितानि पुरेव विधानम् ।
नित्यमिमां तु भजेत् तु नरो यः श्रियमचिराल्लभते द्रुतमध्याम् ॥ २०-३४ ॥ द्रुतमध्या ।
आढ्यतमः स भवेदिह बिल्वैः सरसिरुहैरपि वायुतशो यः ।
षष्टिदिनानि ततो द्विगुणं वाप्यनलमुखे जुहुयाच्च जपेत् तम् ॥ २०-३५ ॥ प्राग्वत् ।
कमलां भजते दिनशो यो ध्यानपरो यजनेन च होमैः ।
उदितव्रतधारणनित्यो वेगवतीं स जहात्यधनार्तिम् ॥ २०-३६ ॥ वेगवती ।
शुक्लैः कुसुमैर्यथोपलब्धैर्नन्द्यावर्तसितोत्पलाम्बुजाद्यैः ।
नित्यं जुहुयात् सहस्रसङ्ख्यं स स्याद् भद्रविराडिवार्थनाथः ॥ २०-३७ ॥ भद्रविराट् ।
गुलदुग्धगव्यसितपद्मैर्बिल्वफलैः पयोन्नघृतमिश्रैः ।
जुहुयात् त्रिमासमरिसेनां केतुमतीं जयेदपि तथोर्वीम् ॥ २०-३८ ॥ केतुमती ।
कमलावासिन्यधिकारः ।
इह तन्त्रविशेषसमीरिता निगदिता मनवः खलु ये श्रियः ।
भजतां समकर्मफलोदयं ननु भवन्ति यथा हरिणप्लुतम् ॥ २०-३९ ॥ हरिणप्लुतम् ।
इति सरसिजवासिनीमनूनां निगदितमेकतरं तु साधयेद् यः ।
प्रथयति कुलमस्य तं च लक्ष्मीर्गृहगतकल्पलतेव पुष्पिताग्रा ॥ २०-४० ॥ पुष्पिताग्रा ।
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे चतुर्हस्त्यादिपटलो विंशति(तम)ः ॥ २० ॥