अथ एकोनविंशः पटलः ।
अत्र गणवृत्तमात्रावृत्तच्छन्दोवृत्तानां लक्ष्यलक्षणोदाहरणभूताः श्लोका लिख्यन्ते ।
सा जयति जगत्यम्बा लक्ष्मीः करुणाकटाक्षपरिपतनात् ।
रक्षत्यभिमतविभवैर्या जनमार्या स्वपोष्यमिव ॥ १९-१ ॥ आर्या ।
धान्यानि गोहिरण्यं क्षेत्रं राज्यं च विभवतुरगगजान् ।
स्त्रीरत्नान्यपि पुष्यति यत्पदकमलस्मृतिर्लोके ॥ १९-२ ॥ प्राग्वत् ।
वान्तो वह्न्यारूढो योजितवामाक्षिबिन्दुनादाढ्यः ।
मनुरुदितः खलु लक्ष्म्या जपपथ्याशु सिद्ध्यै स्यात् ॥ १९-३ ॥ पथ्या ।
शक्त्याद्यन्तपुटस्थः श्रीहृत्सञ्ज्ञस्तु मन्त्रराजोऽयम् ।
ध्यानेन गुरुमुखाप्तः फलदो गाथासमोऽन्यस्मात् ॥ १९-४ ॥ पथ्यागाथा ।
विष्णुर्नाम मुनिः स्याच्छन्दस्तज्जागतं तथा दैवम् ।
लक्ष्मीर्हि भुवनवन्द्या कथितास्याङ्गानि वक्ष्यामि ॥ १९-५ ॥ प्राग्वत् ।
ॐ लक्ष्म्यै हृदयाय नमः । ॐ श्रियै शिरसे ठठ । ॐ देवजुष्टायै शिखायै वषट् । ॐ मायायै कवचाय हुम् । ॐ श्रीं हुं फट् अस्त्राय फट् । ॐ हं सः । अनेन दशदिग्बन्धः ।
दीक्षां प्राप्य तु विद्यां गृह्णीयात् फाल्गुने तु फल्गुन्याम् ।
इष्टेऽपि तिथिमुहूर्ते निजजन्मर्क्षादिपथ्येऽह्नि ॥ १९-६ ॥ मुखपथ्या ।
उत्तरपदसंस्थेऽर्के स्नातः सितगन्धमाल्यनववसनः ।
आर्यामपि गजवदनं देशिकमिष्ट्वा मनुं जपतु ॥ १९-७ ॥ इयमप्यार्या ।
प्राग् जपतु नदीतीरे बिल्वे च गिरौ मुकुन्दशिवगृहयोः ।
लक्षं पृथगथ कथितं ध्यानविधानेन तां यजतु ॥ १९-८ ॥
भूसरसिजमध्यस्थो मेरुः पृथुकर्णिकास्य भवति तथा ।
पर्यन्तकनकशिखरान् केसरजालान् विभावयतु ॥ १९-९ ॥
तस्य तु कमलस्यासौ संविश्य तु मध्यदेशमतिरुचिरम् ।
ऋज्वायततनुरचलः संयतचित्तः स्वयं भवति ॥ १९-१० ॥
पद्मं सहस्रपत्रं नाभेरर्वाक् तु मिहिरशतरुचिरम् ।
ध्यायेत् तारककर्णिकमत्र तदरुणं तु शक्त्यर्णम् ॥ १९-११ ॥
हृत्पद्मेऽष्टदलाढ्ये स्मरेत् तु माबीजमार्द्रकनकनिभम् ।
दशशतपत्त्रमथाब्जं भ्रूमध्ये शक्तिबीजमपि ॥ १९-१२ ॥
मूर्ध्न्यब्जे शतपत्त्रे सबिन्दुकुम्भं च टान्तमतिधवलम् ।
स्मरतु सुधाप्लववर्षावर्गाग् (?) वक्त्राम्बुजं तदपि ॥ १९-१३ ॥
प्रथमकमले तु शक्तिं घण्टास्वनतुलितरुचिररवमधुराम् ।
जपतु मनसैव हृदयगपङ्कजसौषुम्नमार्गान्तम् ॥ १९-१४ ॥ एते त्वार्याविशेषाः ।
हृत्पद्मे श्रीबीजं दीपनिभं शक्तिनादसम्भिन्नम् ।
उपरि ततोऽपि च पथ्यां प्राप्य सुषुम्नां व्रजेद् बिन्दुम् ॥ १९-१५ ॥ इयमपि पथ्या ।
भ्रूमध्यान्मूर्धाब्जं ब्रह्मपथे शक्तिनादसम्भिन्नाम् ।
गगनशशाङ्कसरोजं तां गमयेच्चेतनां लक्ष्मीम् ॥ १९-१६ ॥
चैतन्यात्मानन्दां ब्रह्मपथाधो हृदब्जमानीताम् ।
परमसुधामृतपूरैः प्लावितमूर्तिं हृदि ध्यायेत् ॥ १९-१७ ॥
पौनःपुन्येनैनां मूलगशक्तिं सुधापथं नीत्वा ।
हृदयमथापि च नीतामूर्ध्वगतिं हृद्गतां नित्याम् ॥ १९-१८ ॥
इत्थं प्रोक्ते योगे निष्कलसञ्ज्ञे यदि स्थिरं चित्तम् ।
जपति च तन्मनसा चेत् पश्यति सर्वं स सर्वज्ञः ॥ १९-१९ ॥
शास्त्राण्यस्याभान्ति च धान्यधनैश्वर्यसम्पदोऽपि स्युः ।
वशयति चाखिललोकं श्रीहृदयस्यैवमभ्यासात् ॥ १९-२० ॥
अत्र हि सकलध्यानं वक्ष्ये बहिरन्तरङ्गयजनयुतम् ।
गन्धादिबाह्यविभवैर्मानससिद्धैस्तु तैरपि च ॥ १९-२१ ॥ आर्येयम् ।
क्षीराम्भोधेर्मध्यस्थमण्डपं पद्मवनपरिस्तीर्णम् ।
मुखविपुलार्थास्रावैर्निधिभिर्ध्यायेच्च हैरण्यम् ॥ १९-२२ ॥ मुखविपुला ।
वैदूर्यसञ्चिततलं चारुचतुर्द्वारतोरणोपेतम् ।
यं शोभयन्ति दूत्योऽपि रुचिरवदना जघनविपुलाः ॥ १९-२३ ॥ जघनविपुला ।
मौक्तिकमरतकमणिभिः स्तम्भाश्चित्रा वितानकानि तथा ।
कोणानि तस्य चत्वारि स्फटिकमणिभित्तिरत्नपर्यन्तम् ॥ १९-२४ ॥ अपरा जघनविपुला ।
सौगन्धिकचलवनगन्धपारिजातादिपुष्परेणुवहाः ।
वान्ति स्म मन्दमलयाद्रिमारुताः सुखमहाविपुलाः ॥ १९-२५ ॥ महाविपुला ।
घनसारकालसारैर्हिमाम्बुकाश्मीरचन्दनोपहितैः ।
पङ्कैः परिमलितान्ता धूपैश्च दिशोऽत्र मुखचपलाः ॥ १९-२६ ॥ मुखचपला ।
अथ मण्डपस्य मध्ये स्मरेत् तु माहेन्द्रमण्डलं दिव्यम् ।
तन्मध्ये पीठपद्मं यथा स्वभाभिर्महाचपला ॥ १९-२७ ॥ महाचपला ।
मधुरं वीणारणितं सानकपणवा नदन्ति चाप्यस्मिन् ।
पथ्या गीतिरजस्रं समतालमिताक्षरं मृदङ्गमपि ॥ १९-२८ ॥ पथ्यागीतिः ।
श्रुतिमधुरा विपुला गीतिः किन्नरजा तथैव मधुपानाम् ।
कलकण्ठकोकिलानां स्वनेन सहितं विभाव्यते यत्र ॥ १९-२९ ॥ विपुलागीतिः ।
शक्तिं शेषमथावनिपीठे पद्मं च संस्मरतु ।
अनलरवीन्द्वधिपतयो विधिविष्णुशिवोपगीतार्थाः ॥ १९-३० ॥ उपगीतिः ।
पद्माष्टपत्रशक्तीः कान्तिः पुष्टिद्युतिधृतिकीर्तिमतीः (?) ।
तुष्टिश्च शान्तिरासामार्था गीताः स्वनामतो हृदयात् ॥ १९-३१ ॥ आर्यागीतिः ।
प्राच्यां तु वासुदेवः पत्रे सङ्कर्षणोऽथ याम्ये भवति ।
वारुण्यां प्रद्युम्नो ह्यनिरुद्धाख्यश्च वित्तनाथेऽभिहितः ॥ १९-३२ ॥
ते शङ्खचक्रहस्ताः पीताम्बरदिव्यमाल्यगन्धाभरणाः ।
नीलसितारुणपिङ्गाः प्रभया श्रीवत्सवक्षसः कौस्तुभिनः ॥ १९-३३ ॥
ऐरावतोऽथ कुमुदो वामनसञ्ज्ञोऽथ सार्वभौमोऽपि गजः ।
कोणदलेषु सिताङ्गाः सामृतकलशाश्च ते चतुर्दन्तयुताः ॥ १९-३४ ॥
ऋद्धिः सरस्वती स्यात् स्वस्तिः प्रीतिः क्षमा रतिः सिद्धिरुची ।
दूत्योऽष्टदिक्षु कथिता माल्याम्बरगन्धभूषणव्यजनकराः ॥ १९-३५ ॥
अथ भुवनेशान् क्रमशः सायुधपरिवारवाहनान् शक्रमुखान् ।
पञ्चम्यां यजतु वृतौ प्रागेवाङ्गानि केसराग्रेषु यजेत् ॥ १९-३६ ॥
द्वारे वलाकिनीं प्राग् दूतीं वनमालिकाह्वयां याम्यगताम् ।
पश्चाद् बिभीषिकाख्यामुत्तरतः शाङ्करी यजेद् द्वारि तथा ॥ १९-३७ ॥
खड्गं च वेत्रयष्टिं तत्र दधत्यस्तु वामनास्ताः सुदृशः ।
स्वाभरणालङ्काराः श्यामलशुक्लातिशोणमधुपिङ्गरुचः ॥ १९-३८ ॥
धर्मार्थकाममोक्षाः कोणचतुष्केषु दिव्यमाल्याभरणाः ।
ध्येयाः पुरुषाकाराः सर्वे स्वार्थाभिरूपगुणवेषधराः ॥ १९-३९ ॥
आवाहयेदथैनां खाम्बुरुहेन्दोः श्रियं प्रभाजालमयीम् ।
हृदये वा बहिरब्जे
ॐ एह्येहि देवि! कमले! जगन्मातर्जगत्पतेः ।
वक्षःस्थलादिहैव त्वं भक्तस्य मम वृद्धये ॥ १९-४० ॥
गृहाण पूजां प्रकृतां यथाविभवभाविताम् ।
मन्त्रेणानेन सम्पुटं विधिना ॥ १९-४१ ॥
मूलाङ्गपूरितार्घ्यस्तेनात्मस्थानसाधनावोक्षणतः ।
शोध्यं स्यात् प्लुतमन्त्रैश्चेद् बेरं पुष्पशोभनतः स्नापनतः ॥ १९-४२ ॥
हृदयेनार्घ्यं दद्यात् पाद्याचमनमस्त्रतोऽङ्गमनुमूलजपात् ।
स्नानं वसनाभरणे गन्धादीन् पञ्च चापि हृन्मूलयुतम् ॥ १९-४३ ॥
घृतपायसं तु ससितं नैवेद्यं शुद्धमोदनं घृतमिलितम् ।
स्वादुफलैरुपदंशैर्घृतसिद्धैर्मोदकैस्तथा मधुररसैः ॥ १९-४४ ॥
शीतलमम्बु सगन्धं दत्त्वा हस्तावसेकतो मुखवासम् ।
जुहुयाच्चाग्नौ विधिवद्धुत्वाग्निमुखं तथाङ्गमूलाज्यहुतैः ॥ १९-४५ ॥
जात्युत्पलानि तुलसी वासन्ती मल्लिका च कुब्जाख्यसहाः ।
नन्द्यावर्तकदमनकमरुवकमालूरनागपुन्नागशीफाः ॥ १९-४६ ॥
वन्यानि वा सुगन्धैर्युक्त्या पुष्पाणि यानि शुक्लानि तथा ।
त्यक्त्वा द्रोणं लक्ष्म्याः प्रीत्यै प्रभवति चेत्थमार्यागीतिः ॥ १९-४७ ॥
[एता आर्यागीतयः ।
अजमजरममरमेकं भक्त्या विष्णुं प्रणम्य तु श्रीविषयाम् ।
आर्यागीतां तनुयादिति पथ्यामर्चनां चतुर्वर्गाप्त्यै ॥ १९-४८ ॥
[पथ्यार्यागीतिः ।
श्रियमाप्तुमिच्छुरिह चेत् स साधको जपतु सततमपि मनसि मनुम् ।
विपुलां त्यजन् विषयसङ्गतिं धिया भाजनं भवति कमलायाः ॥ १९-४९ ॥
[विपुलार्यागीतिः ।
सितवस्त्रपुष्पगन्धस्तु नित्यहोमी च मन्त्रजपयजनपरः ।
धर्मेण योऽर्थवान् सत्यधीर्भवेत् पदमखिलविभवसम्प्राप्तेः ॥ १९-५० ॥
[विपुलाचपलार्यागीतिः ॥
इति गणवृत्ताधिकारः ।
स्त्रीणामपि चैष सिध्यति क्षिप्रं भक्तिविशेषसेवया ।
राज्ञां जयदोऽरिघातनैर्वैतालीयकुलानि तोषयेत् ॥ १९-५१ ॥ वैतालीयम् ।
धवलाम्बरगन्धभूषितः कृतपुण्याहविशेषमङ्गले ।
भवने कृतविप्रभोजने सितमब्जं विलिखेत् सपीठकम् ॥ १९-५२ ॥
कमले विनिधाय पावकं चतुरश्रेऽप्यथ वाग्निकुण्डके ।
प्रकृताग्निमुखेऽथ तद्धृदि श्रियमावाह्य जुहोतु साधनैः ॥ १९-५३ ॥ प्राग्वत् ।
श्रीसूक्तजपं च तत्र कुर्युरौपच्छन्दसिकीं द्विजा विशिष्टाः ।
वेदांश्चतुरस्तथा जपेयुः सर्वे तेऽत्र कमण्डलुं दधानाः ॥ १९-५४ ॥ औपच्छन्दसिकम् ।
बिल्वैः कमलैश्च शुक्लपुष्पैर्लाजैः साक्षतगन्धधूपदीपैः ।
सम्पूज्य तु पावकं च लक्ष्मीमौपच्छन्दसिकं लभेत् सर्वम् ॥ १९-५५ ॥ प्राग्वत् ।
बिल्वफलैर्वा सितपद्मैरर्थार्थी जुहुयाद् घृतमिश्रैः ।
आपातलिकामपि लक्ष्मीं चिरतरमात्मकुले निदधाति ॥ १९-५६ ॥ आपातलिका ।
कुमुदोत्पलकुब्जकैर्हुतं वस्त्रलाभमधिकं तनोति तत् ।
परमान्नहुतेन सर्पिषा प्राच्यवृत्तिमभियान्ति तं श्रियः ॥ १९-५७ ॥ प्राच्यवृत्तिः ।
पलाशसमिधां हुताद् भवेदतिमेधा कुसुमैश्च तद्भवैः ।
घृतेन सह दौर्वहोमतश्चिरमायुस्तदुदीच्यवृत्तिकम् ॥ १९-५८ ॥ उदीच्यवृत्तिः ।
हविष्यभुगथार्धवत्सरं जपेत् प्रतिदिनं श्रियं यजन् ।
स राज्यपदवीमियाच्छ्रियं व्रजेन्न यदि चारुहासिनीम् ॥ १९-५९ ॥ चारुहासिनी ।
धवलतण्डुलैः क्षीरमिश्रितैर्घृअतमधुप्लुतैः स्यात् तथान्नवान् ।
भगदिने सरलपुष्पहोमतः श्रियमुपैति भुवनेऽपरान्तिकाम् ॥ १९-६० ॥ अपरान्तिका ।
क्रुद्धस्य पुरो जपतु स्वैक्यं ध्यायन् शान्तिं व्रजतीहासौ ।
राज्ञस्तु पुरः प्रजपन् मन्त्रं मात्रासमकं सुहृदं कुर्यात् ॥ १९-६१ ॥ मात्रासमकम् ।
वीक्ष्य जपेद् यं वशयति तं तं हि वानवासिकमपि मृगयूथम् ।
यदि दुस्स्वप्नं हरति हि काल्यं स्नानजपाद्यैश्चरति च बिल्वम् ॥ १९-६२ ॥ वानवासिकम् ।
दौस्थ्यं हरति तथा विश्लोकं दुर्नयकलहकृतानपि दोषान् ।
पीडामपि महतीं रिपुजातां होमः सितकमलाज्यसमेतः ॥ १९-६३ ॥ विश्लोकः ।
यदि वाञ्छति नृपसममैश्वर्यं राज्यं स्वयमिह परिपा(तुपो ? तुं वा) ।
तद्दशशतदिनजपहोमाभ्यां राज्यं श्रियमपि लभते चित्राम् ॥ १९-६४ ॥ चित्रा ।
षट्त्रिंशच्च शतत्रययुक्तं बिल्वैधांसि फलानि दलानि ।
जुहुयाद् वा विभवैरुपचित्रां त्रैषवणं महतीं श्रियमेयात् ॥ १९-६५ ॥ उपचित्रा ।
तत्कालेषु घृतान्नहुतं स्यात् सक्षीरं द्विजभोजनयुक्तम् ।
उपचित्रापचितिर्निशि कार्या वाञ्छति चेन्नृपतित्वमुपैति ॥ १९-६६ ॥ प्राग्वत् ।
विधिना पूरितकलशं स्पृष्ट्वा मन्त्रं जपतु च तद्गतलक्ष्मीम् ।
इष्ट्वा क्षोणीपतिरभिषिक्तः पादाकुलकं भूमिमुपेयात् ॥ १९-६७ ॥ पादाकुलकम् ।
दत्त्वा द्रविणपशूनपि होत्रे भूषणवसनैर्वाहनधान्यैः ।
अभिमतदनैरपि विप्रांस्तानिष्ट्वा नचिरात् साधयतीष्टम् ॥ १९-६८ ॥ प्राग्वत् ।
क्षीरोदतनये! राज्ञः प्रसीदाम्बाभिकाङ्क्षितम् ।
श्रीकुम्भेनाभिषिक्तोऽसौ श्रीमान् भूयाच्छतं समाः ॥ १९-६९ ॥
इति देवीं विज्ञापयेत् ।
अथ शुभनवगृहविलिखितसरसिजविनिहितनवघटजलमितनवमणिः ।
सवसनपरिमलकुसुमकमभियज कृतमनुजपहुतमुदयति सवितरि ॥ १९-७० ॥ गीत्यार्या ।
नृपवरमपि परमपि नरमभिगुणपरहितसुरवरगुरुनुतिरतिमिह ।
स्नपनकपरमिति यदि कृतमथ खलु चलधृतिमपि भुवि जयमुपगमयति ॥ १९-७१ ॥
[चलधृतिरित्यन्ये ।
शालिदूर्वाबिल्वपद्मोत्पलदशपुष्पतिलमाषकुशचतुःक्षीरवृक्षाक्षतान् प्रक्षिप्य ब्रह्मकूर्चं मुक्ताजालैरलङ्कृत्यात्मानं च शुक्लाम्बराद्यैः कलशे श्रियमावाह्यायुतमष्टोत्तरसहस्रं वा मूलं जपित्वा विष्णोर्महतीं पूजां कृत्वा देवीदेवौ सहितावभिष्टौति ।
जयजय नखमुखविदलितदितिसुत! जयजय विमथितजलनिधिवरभवे! ।
जयजय धृतजलभवरथचरणक! जयजय सरसिजदृशि कृतनिलयने ! ॥ १९-७२ ॥ चूलिका ।
प्रणमत मधुभिदमशरणशरणदमनुपममतिगुणमगणितगुणमिह ।
विश्वात्मानं यन्तं सन्तः पश्यन्त्यन्तः स्वात्मज्योतिः ॥ १९-७३ ॥ सौम्या ।
लक्ष्मीं देवीं पद्मावासां क्षीराम्भोधेर्जातां वन्दे ।
अभिनवसरसिजदलरुचिपदयुगमिह तव भगवति! भवतु च मम हृदि ॥ १९-७४ ॥ प्राग्वत् ।
इति नुतिमन्ते कृत्वा धनानि गुरवे च विभवतो दत्त्वा ।
स्वाभिमतमैश्वर्याद्यं प्रभवति नचिरादसङ्ख्यातम् ॥ १९-७५ ॥
अथ चतुरश्रे गेहे चारुचतुर्द्वारतोरणोपेते ।
फलकुसुमाद्यैश्चित्रे हुतविधिरिह सर्वशान्तिकरः ॥ १९-७६ ॥
स्वस्तिश्रीसूक्ताभ्यां जपेच्चतुर्दिक्षु धवलकमलसमैः ।
जुहुयाद् बिल्वैः सघृतैर्मध्यमदिवसेऽर्धरात्रेऽपि ॥ १९-७७ ॥
घृतमपि तद्दशभागं हरये हुत्वा तु भोजयेद् विप्रान् ।
जलतर्पणमपि कुर्यात् प्रतिदिवसं मासमात्रमितम् ॥ १९-७८ ॥
स भवति सुभगः श्रीमाञ्छमिताखिललोकविप्लवाबाधः ।
कुसुममनेनालब्धं गन्धं वा यस्य दीयते वशयेत् ॥ १९-७९ ॥
अमृतगते त्वथ वायौ सुप्तजनस्यानिलं पिबेत् सजपः ।
वशयति च स्वललाटे दहनपुरे शक्तिबीजमरुणाभम् ॥ १९-८० ॥
सहदेवीं परिशुद्धाद् देशात् सङ्गृह्य मन्त्रितां बहुशः ।
शिरसि भुजे वा कलयेद् रणवादवनेषु विजयमीयात् ॥ १९-८१ ॥
सितपक्षे पञ्चम्यामेकादश्यां तथासिते ललनाम् ।
वशयेत् सजपमुपेत्य नृपमपि पुरुषं तथान्यजनम् ॥ १९-८२ ॥
लिखतु सरोजं गन्धैः शाक्तैः क्रमशोऽष्टषोडशच्छदनम् ।
रागदलं बहिरस्माद् वितानसङ्ख्यच्छदं ततोऽपि बहिः ॥ १९-८३ ॥
[आर्याविशेषाः ।
गणच्छन्दोमात्राच्छन्दोवृत्ताधिकारः ।
अथानुष्टभि ।
कर्णिकागतं लिखेत रक्ष्यमष्ट तद्दलेषु ।
साधिवह्निनेत्रदण्डमन्तिमं समानमेव ॥ १९-८४ ॥ समानी ।
षोडशच्छदेष्वथास्य मूलमन्त्रमालिखेत् ।
रागसङ्ख्यपत्रकेषु पाशमङ्कुशं क्रमेण ॥ १९-८५ ॥ प्राग्वत् ।
मातृकाक्षराण्यथोऽष्टवर्णकामशक्तिभिश्च ।
माजपार्णतारकांश्च तद्बहिः क्रमाल्लिखेत् ॥ १९-८६ ॥
तद्धिरण्यताम्रनालवेष्टितं गुलीकृतं तु ।
पद्मपट्टतन्तुना च हेमवेष्टितं क्रियेत् ॥ १९-८७ ॥ प्राग्वत् ।
सरोजमण्डलेऽथ तां विचिन्त्य पूजितां धिया ।
श्रियं सहैव विष्णुना प्रमाणबुद्धिरुद्वहेत् ॥ १९-८८ ॥ प्रमाणी ।
लक्ष्मीकरमायुष्करमेतज्जयचक्रं त्विह ।
रक्षाधनसम्पत्क्षितिपुत्रादिवितानं खलु ॥ १९-८९ ॥ वितानम् ।
निखिलारातिजयार्थं गुणकोणेऽनलकुण्डे ।
मणिचित्रे सविताने श्रियमावाह्य तु कृष्णाम् ॥ १९-९० ॥ मणिचित्रा ।
शरखड्गादिभिरस्त्रैर्बहिरास्तीर्य तु वह्नौ ।
जुहुयादक्षसमिद्भिर्नवराजीघृतसेकम् ॥ १९-९१ ॥ प्राग्वत् ।
रूषितोऽरिं प्रतितिष्ठन् रिपुसञ्ज्ञापुटसंस्थम् ।
मनुमुच्चार्य हनाभ्यां कवचास्त्राग्नियुवत्या ॥ १९-९२ ॥ प्राग्वत् ।
अपिपिष्टायुधपक्वैः परमान्नेन च हुत्वा ।
विजयेदिन्द्र इवारीनपि मासात् किमुताब्दात् ॥ १९-९२ ॥ प्राग्वत् ।
इति ह श्रीहृदयाख्यः कथितः कल्पकवृक्षः ।
त्रिजगत्सारमणिर्वा भजतां चिन्तितदोहः ॥ १९-९३ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे श्रीहृदयाख्य एकोनविंशः पटलः ॥ १९ ॥